अद्रव्यपरिच्छेदः

अद्रव्यपरिच्छेदः

*अद्रव्यलक्षणविभागनिरूपणम्*

अथाद्रव्यम् । सम्योगरहितमद्रव्यम् । तत्र च त्रिगुणे सदृश- विसदृशरूपोऽवस्थासन्तानः, कालेऽपि क्षणलवनिमेषत्वादिपरार्धपर्यन्तः, बुद्धौ प्रत्यक्षत्वानुमितित्व श्रौतत्वादिरूपः, शुद्धसत्त्वेऽपि केचित् त्रिगुणसमा इत्यनन्तप्रकारो यथाप्रमाणमनुसन्धेयः । एतदपेक्षया च वरदविष्णु-मिश्रैरुक्तम् – *गुणाश्चानन्ताः* इति । तेषाञ्च अनन्तवैषम्यस्य विविच्य निर्देष्टुमशक्यत्वात् शक्याम्शस्य च द्रव्यनिरूपणेनैव निरूपितप्रायत्वात् तथाऽतिरिक्तनिरूपणस्य च लोकव्यवहारादृष्टाद्युपयोगाभावात् अन्यानि स्फुटपरिगणनीयानि अद्रव्याणि निरूप्यन्ते । तानि – सत्त्वरजस्तमाम्सि, शब्दादयः पञ्च, सम्योगः, शक्तिः, इति दशैव । एवम् विधेष्वेव अद्रव्येषु गुरुत्वद्रवत्वस्नेहसम्स्कारसङ्ख्यापरिमाणपृथक्त्वविभागपरत्वापरत्वकर्मसामान्यसादृश्यविशेषसमवायाभाववैशिष्ट्यादीनाम् यथासम्भवमन्तर्भावः । एष्वपि केषाञ्चिदनन्तर्भावः सयूथ्यसम्मतस्तत्रतत्र वक्ष्यते । सयूथ्याङ्गीकृतैः कैश्चित्सह एकत्वादयस्तत्त्वमुक्ताकलापे अद्रव्यभेदा अस्माभिरुक्ताः ॥

 

*सत्त्वरजस्तमसाम् अद्रव्यत्वनिरूपणम्*

तत्र प्रकाशसुखलाघवादिनिदानमतीन्द्रियम् शक्त्यतिरिक्तमद्रव्यम् सत्त्वम् । तत् द्विधा – शुद्धमशुद्धम् चेति । रजस्तमश्शून्यद्रव्यवृत्ति सत्त्वम् शुद्धसत्त्वम्, तत् नित्यविभूतौ । रजस्तमस्सहवृत्ति सत्त्वमशुद्धसत्त्वम्, तत् त्रिगुणे । सत्त्वलक्षण एव लोभप्रवृत्त्यादिनिदानम्, प्रमादमोहादिनिदानम्, इति विशेषणविनिमयेन रजस्तमसोर्लक्षणे । त्रीण्यप्येतानि यावत्प्रकृति-व्याप्तानि अनित्यानि नित्यसन्तानानि । तानि प्रळयदशायामत्यन्त-समानि, सृष्ट्यादौ विषमाणि, क्रमात् सृष्टिस्थितिसम्हारोपयुक्तानि । ईश्वर-सङ्कल्पादिसहकारिभेदात् परस्पराभिभवोद्भवसहकारित्वादिमन्त्येतानि । तत्तददृष्टोपष्टब्धपुरुषभेदादुद्भवसमत्वादिभावात् । यथोक्तम् भगवता पराशरेण – *वस्त्वेकमेव* इत्यादि, *तदेव प्रीतये भूत्वा* इत्यादि च । भगवद्गीतायाम् तद्भाष्ये च एतद्विशदमनुसन्धेयम् । सात्त्विकराजस-तामसकार्यगतिकर्माहारदानादिविभागोऽपि तत्रैव प्रपञ्चेन द्रष्टव्यः ।

 

*सत्त्वादीनाम् गुणत्वस्य

श्रीभाग्यकारसम्मतिनिरूपणम्*

एषाञ्च अद्रव्यत्वम् शारीरकभाष्ये व्यक्तम् – *रचनानुपपत्तेश्च* इत्यादि सूत्रे *चकारादन्वयस्य अनैकान्त्यम् समुच्चिनोति* इत्युपक्रम्य *यतः सत्त्वादयो द्रव्यधर्माः, न तु द्रव्यस्वरूपम् । सत्त्वादयो हि पृथिव्यादि-गतलघुत्वप्रकाशादिहेतुभूतास्तत्स्वभावविशेषा एव । न तु मृद्धिरण्या-दिवत् द्रव्यतया कार्यान्विता उपलभ्यन्ते । गुणा इत्येव च सत्त्वादीनाम् प्रसिद्धिः* इति । तथा दीपे च – *चकारात् सत्त्वादीनाम् द्रव्यगुणत्वेन शौक्ल्यादेरिव उपादानकारणत्वासम्भवम् समुच्चिनोति । सत्त्वादयो हि कार्यगतलाघवादिहेतवः कारणभूतपृथिव्यादिगतास्तत्स्वभावविशेषाः*  इति । यत्तु *द्रव्यम् षड्विम्शतिविधम् – सत्त्वरजस्तमाम्सि* इत्यादिना सत्त्वरजस्तमसाम् द्रव्यत्वमुक्तम् वरदविष्णुमिश्रैः तत्साङ्ख्याधिकरण-सूत्रभाष्यादिविरोधाच्चासङ्गतम् ॥

 

*शब्दस्य लक्षणविभागयोर्निरूपणम्

शब्दोऽस्मदादिश्रोत्रग्राह्यः पञ्चभूतवर्ती । स द्विधा – वर्णात्मकोऽवर्णा-त्मकश्चेति । अकचटतपयादिप्रकाराभावसमुदायशून्यो वर्णात्मकः । स एव देवमनुष्यादिताळ्वादिव्यङ्गयः । तस्यैव पूर्वोक्तवाचकत्वादिविचारः । स च क्षकारेण सह एकपञ्चाशत्प्रकारः । मातृकापाठे लळयोरभेदात् क्वचित् पञ्चाशत्प्रकारतैवोच्यते । यरलादेरेव भेदभिन्नः क्यक्रादिः । सन्ध्यक्षराणाम् ह्रस्वाः सन्तीत्येव । प्रयुज्यन्ते प्राकृतादिभाषासु, निवघ्नन्ति च मातृकायाम् द्रमिडादयः । सम्स्कृते वाचकत्वाभावात् मातृकाबहिष्कारः । एवमेषामेव यथाकथञ्चित् त्रिषष्टिवर्णता मोक्षधर्मादौ गीयते । परमव्योम्नि च सहस्राक्षरत्वाम्नानम् तु तत्रैव वर्णान्तर-सद्भावेन वा, तेषामेव वर्णानाम् सन्दर्भसम्योगादिविशेषेण सहस्राक्षरत्वा-युताक्षरत्वादिभेदेनोपपत्तेर्वा । अकचटतपयादिसमस्तप्रकाराभावसमुदाय-वानवर्णात्मकः । स च बादित्रवारिधरमारुतविभागादिव्यङ्गयः ।

*शब्दस्य श्रोत्रेन्द्रियग्राह्यत्वप्रकारनिरूपणम्*

द्विविधोऽपि श्रोत्रदेशसन्निहित एव मारुतव्यङ्गय इति पक्षे नभो-निष्ठस्यैव तस्य ग्राह्यत्वम् वादित्रादिस्थित एव गृह्यते इति पक्षे पञ्च-भूतवर्तिनोऽपि ग्राह्यत्वमुपपद्यते । तत्र दूरस्थशब्दग्रहणे श्रोत्रव्यापृतिरेव वरदनारायणभट्टारकैरुक्ता –

* दूरे शब्दः समीपे च प्राच्याञ्चेत्यादिदर्शनात् ।

गत्वा श्रोत्रेन्द्रियम् तत्रतत्र शब्दग्रहक्षमम् ॥

आगता दूरतः शब्दमाला श्रोत्रेण गृह्यते ।

समवायाद्यदि तदैवम् न गृह्येत दूरजा ॥

शब्दमान्द्यादिभिर्दूरोत्थत्वादिग्रहसम्भवे ।

अपि प्राच्याम् प्रतीच्याञ्चेत्येवम् न ग्रहसम्भवः ॥* इति ।

*शब्दविषये नानापक्षाणाम् निरूपणम्*

*शब्दस्य आकाशेन सह उत्पत्तिनिरूपणम्*

सचायम् शब्द आकाशेन सहोत्पद्यते, तद्विलये च विलीयते । वाय्वादीनामपि आकाशभागत्वात् न भूतान्तरोत्पत्तिविनाशयोरस्योत्पत्ति-विनाशौ । यद्वा आकाशनिष्ठस्याकाशेन सहोत्पत्तिविनाशौ वाय्वादिनिष्ठ-स्यापि तत्तद्भूतैस्सहेति ।

अत्यन्ततीव्रताद्यापन्नेषु शब्देषु विरुद्धधर्मविरुद्धप्रत्यभिज्ञानात् स्थिरत्वम् ।

*वेणुरन्ध्रविभेदेन भेदः षड्जादिसञ्ज्ञितः ।

अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः ॥* इत्यादिभिः षड्जादीनाम् तीव्रत्वादिभेदानाम् व्यञ्जकवायुधर्मत्वम् श्रूयते । अत एव आकल्पवर्तिनाम् सर्वगकाराणामेकत्वम्, एवमन्येषामपि । यत्तु श्रीविष्णु-चित्तैरुक्तम् – *श्रोत्रमपि इतरेन्द्रियविषयवत् शब्दत्वगत्वमृदुत्वपरुषत्व-मन्दत्वमध्यमत्वाद्यनन्तविशेषात्मकवस्तुग्राहकम्* इति, तदपि निर्विशेष-वस्तुग्रहणनिराकरणाभिप्रायम् । उपनिषत्व्याख्याने *त्वमेव प्रत्यक्षम् ब्रह्मासि* इत्यत्र वायोर्व्यञ्जकत्वस्यैव अभिधानात् ।

*नमस्ते वायो त्वमेव प्रत्यक्षम्* ब्रह्मासि । त्वामेव प्रत्यक्षम् ब्रह्मवदिष्यामि* इति श्रुतिवशात्, *वेणुरन्ध्र इत्युपबृम्हणवशात्, कल्पनालाघवाच्च व्यञ्जकत्वेन परैरभिमतो वायुविशेष एव तत्तद्द्रव्यविशेषघट्टनसम्स्कारवशोत्पन्नतत्तच्छब्दगुणविशिष्ट उपलभ्यत इति भावयन्ति ।

*शब्दविषये सिद्धान्तपक्षस्य निरूपणम्*

*वर्णानाम् स्फोटाद्युपादानकत्वनिरासनिरूपणम्*

वर्णानाम् स्फोटाधुपादानकत्वञ्च आगमाध्यक्षविरुद्धम् । स्फोटेच नास्मदाद्यध्यक्षम् प्रमाणम् । योगिप्रत्यक्षम् तु सन्दिग्धम् । न च आगमः ॥ कल्पकास्तु अन्यथा सिद्धाः । प्रत्येकसमुदायादिविकल्पा वाचकत्व इव स्फोटाभिव्यक्तावपि समाः । कल्पनम् तु भवतामधिकम् । एतेन वाक्यस्फोटोऽपि स्फुटितः । शब्दादर्थम् प्रतीम इत्यपि न निरम्शैक्यविषयकमेकवचनम् । विपरीतोपलम्भात् । ब्रह्मण एव स्फोट-शब्दवाच्यत्वे न नो विरोधः । अध्यासादयस्तु अद्वैतमतवत् दूष्याः । शाब्दस्मृतिः स्फोटाभावेऽपि सिध्यति । न च तैः सर्वम् समञ्जसम् वाच्यम्, न च पाणिन्यादिभिस्तथोक्तम्, इतरे तु नीरन्ध्रकायासिनोऽना-दरणीयाः । उक्तञ्च भट्टपराशरपादैः –

* प्राक्प्रयोगानुसारेण प्रकृतिप्रत्ययस्वरान् ।

प्रकल्प्य वैयाकरणैर्युत्पाद्या पदपद्धतिः ॥* इति ॥

सत्त्वादिगुणोक्तनयाच्च शब्दानामद्रव्यत्वसिद्धिः ॥

*शब्दस्य अद्रव्यत्वव्यङ्ग्यत्वविषये विचारः*

*शब्दस्य अद्रव्यत्वमेवेति निरूपणम्*

ननु शब्दस्य अद्रव्यत्वव्यङ्ग्यत्वे सिद्धान्तयितुम् न शक्यम्; द्रव्यत्वकार्यत्वादेः श्रुत्यादिसिद्धत्वात् । तथा हि *यद्वेदादौ स्वरः प्रोक्तः* इत्यादिभिर्वर्णानाम् वर्णान्तरोपादानत्वमुच्यते । न च अद्रव्यस्योपादा-नत्वम्, । निमित्तत्वमात्रविवक्षायाम् उपादानप्रकृतिलीनादिस्वारस्यभङ्गः – निमित्तस्य प्रकृतिलयस्थानत्वाभावात् । न चायमुपचारः; बाधाभावात्, भाष्यकारवचनविरोधाच्च । तथा च वेदार्थसङ्ग्रहे – *वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य* इत्युपक्रम्य *सर्वस्य वेदजातस्य प्रकृतिः प्रणवः । प्रणवस्य च प्रकृतिः अकारः । प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्रणवोऽपि अकारविकारः स्वप्रकृतौ अकारे लीनः । तस्य  प्रणवप्रकृतिभूताकारस्य यः परो वाच्यः स एव महेश्वर इति । सर्व-वाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतो नारायणो यः महेश्वर इत्यर्थः* इत्युक्त्वा, *अकारो वै सर्वा वाक्* इतिचोपादाय *वाचकजातस्याकारप्रकृतित्वम् वाच्यजातस्य ब्रह्मप्रकृतित्वञ्च सुस्पष्टम्* इत्युक्तम् । तथा श्रीमद्गीताभाष्ये – *अक्षराणामकारोऽस्मि* – अक्षराणाम् मध्ये *अकारो वै सर्वा वाक्* इति श्रुतिप्रसिद्धः सर्ववर्णानाम् प्रकृतिः अकारोऽहम्* इति । तथा परिणामित्वञ्च शब्दस्योक्तम् भाष्ये – *प्राकृतप्रळये स्रष्टुः प्रजापोभूताद्यहङ्कारपरिणामशब्दस्य च विनष्टत्वात्* इति । तथा दीपेऽपि – *अव्याकृतपरिणामशब्दमयेषु वेदेषु* इत्यादि । तथा *यस्य वेदाः शरीरम्* इत्यादिभिरपि द्रव्यत्वम् सिद्धम् । द्रव्य-स्यैव हि शरीरत्वम् शरीरलक्षणसिद्धम् । आत्मसिद्धावपि – *दृश्यन्ते गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्तो धर्म्यतिवर्तिनश्च । अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः । स खलु शङ्खमुखादे-र्दवीयसोऽपि दृशाम् नोदनविशेषेण लोष्टादिरिव यावद्वेगमभिप्रतिष्ठते, स्पर्शरहितोऽपि* इत्यारभ्य *शब्दस्य नभोगुणत्वप्रतिक्षेपो वायवीयत्वमुच्चारणानन्तरभावित्वम् व्यञ्जकपक्षदूषणानि च विशदमुपपादितानि* इति । एवम् स्थिते वर्णानामुपादानत्वादिर्यथार्थ एवेति वा, काल्पनिक इति वा, दृष्टिविधिरिति वा, औपचारिक इति वा निर्वाहः स्यात् । तत्र न प्रथमः – वर्णनित्यत्ववादिनाम् मते उपादानो-पादेयभावाभावात् । नैयायिकमते तु असमवायित्वाद्यभ्युपगमात्, सद-नारम्भाच्च । भगवद्यामुनमुनिपक्षेऽपि वायोरेव वर्णोपादानत्वात्, भाष्य-कारैरपि अहङ्कारपरिणामत्वमात्राभिधानात्, अव्यक्तपरिणामबचनवदा-रम्भपर्यायाभ्युपगमज्ञापकाभावात्, वचनेषु च वर्णानामनियतोपादा-नत्वोपादेयत्वदर्शनात्, विरुद्धोपादानोपादेयभावदर्शनात्, सिद्धे च विकल्पायोगात् । गोमयवृश्चिकादिनये च गौरवात्, भेदादृष्टेश्च । उपादानावच्छेदकतया उपादानत्वमिति चेन्न; तथात्वेऽपि मृत्पिण्डगतपिण्डत्वादिवदनुपादानत्वम्, विशिष्टस्य उपादानत्वेऽपि विशेषणानाम् विशिष्टत्वाभावेन तदभावात् । रूपवत्त्वाभिधानञ्चात्यन्त- दुस्स्थम्; तेज:प्रभृतिष्वेव रूपोत्पत्तेः, घटादिवत् चाक्षुषत्वप्रसङ्गात्, स्पर्शवत्त्वादिप्रसङ्गाच्च, सर्वत्रोपलभ्यमानस्य स्थानविशेषानुपपत्तेश्च ।

नापि द्वितीयः – स हि सर्वस्य वा? प्रपञ्चस्य वा? वर्णानामेव वा? नाद्यौ, स्ववचनविरोधादिभिः शून्याद्वैतादिमतभङ्गात् । नेतर: – आगमिकत्वा-विशेषेण प्रकृत्यादावपि प्रसङ्गात् । अनुपपत्तेश्च सर्वत्र सूहत्वात्, आगमिकस्य उपपत्तिबाध्यत्वाभावात्, तत्प्रामाण्यस्य च स्थितत्वात्, अनुपलम्भस्य च अयोग्ये बाधकत्वाभावात्, अन्यथाऽति-प्रसङ्गाच्च ।

अस्तु तर्हि तृतीयः पक्षः । तथा हि – केषुचित् ग्रन्थेषु प्रणवाम्श-भूताकारोकारादिविकारत्वम् वर्णानामुच्यते, केषुचित् हृल्लेखाम्श-भूताकारादिविकारत्वम् । तथा च प्रक्रियान्तरेण श्रुतिः – *भूरित्येव ऋग्वेदादजायत । भुव इति यजुर्वेदात् । सुवरिति सामवेदात् । तानि शुक्रियाण्यभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्त । अकार उकार मकार इति । तानेकधा समभरत्तदेतदोमिति* इति । स्मृतिश्च – *अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयान्निरदुहत् द्भूर्भुवः स्वरितीतिच* इति ।

तथा सर्वमन्त्राणाम् प्रणवबीजत्वम् साधारण-मुक्त्वा प्रतिमन्त्रम् बीजाक्षराणि च कल्पैरुच्यन्ते । तथा प्रळये *मन्त्रम् सञ्छाद्य रक्षति*इति । छन्दाम्सि च वर्ण्यन्ते, तथा तत्तदक्षराणाम् सितरक्तपीतकृष्णादयो रूपविशेषाश्चाभिधीयन्ते । एकस्यै-वाक्षरस्य विनियोगभेदेन मन्त्रभेदेन रूपभेदः प्रकीर्त्यते । एवम् नियता-नियतस्थानविशेषादयोऽपि । न च परमार्थतो रूपस्थानादिभेदो वर्णानाम्, किम् तु तादृशानुसन्धानेन अदृष्टविशेषो भवतीत्येतदेवाभिप्रेतम् – यन्त्र-वृत्तान्तवत् । अन्यथा व्याकुलोपादानोपादेयभावरूपस्थानाद्युपदेशेन तेषामप्रामाण्यप्रसङ्गः । अतो दृष्टिविधानमेवात्रोचितमिति ।

अयमपि पक्षो विलक्षितः, तथा हि –ओमित्येतदक्षरमुद्गीथमुपासीत* इत्यादिवत् प्रणवम् सर्वाक्षरोपादानमुपासीतेत्येवमादिरूपेण विधिर्न दृश्यते । किम्  तु तत्त्वोपदेशवचनव्यक्तिः । तथापि दृष्टिविधित्वे ब्रह्मणो जगत् कारणत्वा-दावपि प्रसङ्गात् तत्त्वतर्कप्रतिपादकभाष्यकारवचसि च दृष्टिविधित्वम् दूरापेतम् । अकारावच्छिन्नाकाशाम्शे वर्णोत्पत्तिरित्यादि-कुशकाशावलम्बेन प्रकृतिविकृतिभाव इति चेत् – तर्हि तद्विशिष्टस्य प्रकृतित्वम् तस्मिन्नुपचरितम् स्यात्, दृष्टिविधिश्च गतः । अस्त्वेव-मेवात्रेति चेत् – तर्हि वाचकजातप्रकृतिभूताकारस्य वाच्यजातप्रकृतिभूत-परमात्मवाचकत्वभिधानमयुक्तम् अतः प्रशम्सापरतया तत्तत्कार्य-शक्त्यादियोगेन वा प्रकृतिविकृतिभावरूपविशेषादिव्यपदेश औपचारिको गुणत्रयादौ लोहितशुक्लकृष्णादिव्यपदेशवत् ।

इत्येवम् स्थिते पञ्चमः पक्ष उच्यते – क्वचिद्याथार्थ्यम्, क्वचिद्भ्रान्तिः, क्वचिद्दृष्टिविधिः, क्वचिदुपचारश्चेति । अबाधिते प्रथमः । बाधिते निर्मूले च द्वितीयः । ध्यानविधौ प्रायशस्तृतीयः । बाधिते समूले सम्बन्धशालिनि चतुर्थ इति ।

*शब्दः द्रव्यमिति पूर्वपक्षिसमर्थनम्*

ननु एवमपि न कश्चित् सिद्धान्तः, तथाहि – शब्दो द्रव्यम्? अद्रव्यम् वा? द्रव्यत्वे च किम् कस्योपादानम्? रूपादिसम्बन्धश्च कीदृशः? अद्रव्यत्वे तु कथमुपादानत्वरूपसम्बन्धादिः? इति । अत्रोच्यते -सयूथ्यमतभेदेन द्रव्यम्, अद्रव्यञ्च शब्दः । द्रव्यत्वपक्षेऽपि वायवीयो-ऽवायवीयश्चेति । अवायवीयत्वेऽपि दीपादिधर्मभूतप्रभावत् भेर्यादिधर्मभूतः प्रहारप्रकाश्य इत्येकः पक्षः । व्यजनेन पवनवत् प्रहारेण जातः प्रसरती-त्यपरः । पक्षद्वये चायञ्च स्पर्शरहितः – *स्पर्शरहितोऽपि* इति वचनात् । वायवीयत्वेऽपि अनुपलम्भात् स्पर्शाभावः । भेरीशब्द इत्यादिव्यवहार-स्वारस्यात् प्रथमः पक्षः । तरङ्गमारुतादिवत् तथाव्यवहारोपपत्तौ अन्वयव्यतिरेकात् तदानीमेव उत्पत्तिरित्यपरः । व्यञ्जकस्य कारकस्य वा वायोरागमनावश्यम्भावात् तद्व्यङ्ग्यस्य तदुत्पाद्यस्य वा शब्दान्तरस्याभ्युपगमे गौरवात् वाय्वन्तरादृष्टव्यञ्जकत्वादिशक्ति-कल्पनवत् शब्दत्वमेव श्रावणत्वनिबन्धनम् वायोरस्त्विति वायवीयत्व-मिच्छतामभिमानः । तत्र च उपादानादिवादा दृष्टिविध्यादय एव । अवायवीयद्रव्यत्वे तु यथोपदेशम् कल्पभेदेन अण्डभेदेन वा उपादाना-नियमः । तत एव रूपस्थानाद्यनियमोऽपि । अनुपलम्भस्तु रूपादीनाम-योग्यत्वात् । अनुपलम्भबाधिताम्शे वा दृष्टिविधित्वादिस्वीकारः ॥

 

*शब्दस्य अद्रव्यत्वसाधनम्*

अथाद्रव्यत्वपक्ष उच्यते । तत्र तावत् सत्त्वरजस्तमसामद्रव्यत्वाय भाष्यकारोक्ता युक्तयः शब्दस्यापि समानाः । अव्याकृताहङ्कारपरिणाम-व्यपदेशोऽपि आगन्तुकधर्मत्वाभिप्रायेण घटते । आत्मसिद्धिवचनम् तु परमतेन एकदेशिमतेन वा घटते । भट्टपराशरपादैः वाक्यनिरूपणे शब्दस्य गगनगुणत्वमेवाभिहितम् – *गगनगुणशब्दादिस्वरूपस्थितीः प्रवर्तयता भगवतैव योग्यार्थैदमर्थ्येन वाक्यप्रवाहस्य पूर्वमेवोपात्तत्वात्* इति । *यस्य वेदाः शरीरम्* इत्यादि तु देवताविशेषविषयत्वेनोपपन्नम् । एवमेव उपादानरूपस्थानादिव्यवहारोऽपि । एवम् *तस्य प्रकृति-लीनस्य* इत्याद्युपपन्नम् भवति । तत्तद्देवताक्षरेषु तत्तदुपादानत्वादि-व्यवहारः उपचारदृष्टिविध्यादिना तत्प्रयोगानुकूलमुपपाद्यः । अनियतो-पादानत्वादिकम् तु तत्त्वेष्वेव अनियतोपादानत्ववदागमतदाभासयोः प्रामाण्याप्रामाण्याभ्याम् निर्वाह्यम् । आगमेषु न्यायतो नेयम् । एतेन अकारहकारविवादो निरस्तः । तत्र च न विरोध इत्येके । तथा हि -अकार एव पूर्वतया परतया वा स्थित्वा षोडशवर्णमुपलक्षयति स एव उपादानम् । अत एव च अचाम् हलाञ्च मध्ये द्व्यात्मकस्य तस्य पाठः । अनुभवसिद्धञ्च प्रथमषोडशयोर्विपर्यस्तसम्हितायाम् हत्वम् । यथेकारादीनाम् यत्वादिकमिति । उक्तञ्चैतल्लक्ष्मीतन्त्रे । अत एव *अ इति ब्रह्म* इति षोडशकशिरस्क एव अकार आम्नायते । अन्ये तु एवम् मन्यन्ते – न तावत् प्रणवे तस्य श्रवणमस्ति । नापि अःकारो वै सर्वा वाक् इत्याम्नातम् । नापि ओकारादेशः सविभक्तिकतया घटते । विष्णुरेव सर्वकारणमिति प्रमाणनिर्णीतम् । तस्य प्रथम एव वाचकतया प्रसिद्धः । यद्यपि क्वचित् प्रमाणभूते तन्त्रे हकारपरिग्रहोऽप्यस्ति तथापि तस्य परमात्माक्षरत्वमभ्युपगम्येति मन्तव्यम् । प्रणवात् सर्वोत्पत्ति-प्रकारस्तदम्शद्वारेति श्रुत्यादिभिरनुसन्धेयः । तत्र त्रिवेदीप्रसङ्गे मकार-पर्यन्तनिरूपणम् । अथर्वादिविवक्षायाम् तु  नादशिरस्त्वम् । तदेव-मकारगार्हपत्यगायत्रीप्रथमपादऋग्वेदस्वर्लोकादिप्रकारेण अवान्तरगर्भ-भेदोऽनुसन्धेयः । अकारात् प्रणवोत्पत्तिः कथम्? इति चेत् – अकार-वाच्यात् परमात्मनः प्रणवाधिष्ठातृदेवताया वा तदम्शदेवतादीनाम् वा उत्पत्तेरिति सुस्थम् । तदेवमद्रव्यत्वपक्ष एव शब्दस्य श्लाघ्यः । एवञ्च सति श्रोत्रवृत्तिर्वा, व्यञ्जकवाय्वागमनम् वा, शब्दवद्भेर्याद्यवयवागमनम् वा, शब्दवद्वाय्वागमनमेव वा, यथाप्रतीति भाव्यमिति ॥

*स्पर्शस्यशीतोष्णानुभयात्मकतया

त्रिविधत्वनिरूपणम्*

अस्मदादिस्पर्शनेन्द्रियग्राह्यविजातीयव्यावृत्ताद्रव्यम् स्पर्शः । स त्रिविधः – शीतोष्णानुभयात्मकभेदात् । अप्सु शीतः । तेजस्युष्णः । क्षितिपवनयोरनुष्णाशीतः । भूतान्तरसम्सर्गात् सर्वत्र स्पर्शसङ्कराव-भासः । न तत्त्वतः – तथाऽन्वयव्यतिरेकात् । एवम् क्वचित् स्पर्शान-वभासोऽपि । तत एव च त्वचा रत्नालोकाद्यग्रहणम् । तदुक्तमन्वया-धिकरणे भेदाभेदविरोधनिदर्शने विवरणकारैः – *यथा शीतम् न कदा-चिदप्युष्णम्, वाय्वौष्ण्यम् तु तत्स्थाग्नेः न तु तत्त्वाकारात् । पाकजो हि गुणः पाकादपैतीति हि तत्त्वविदः । वह्निरूपानुपलम्भस्तुल्यरूपाभिभवात्, तत्स्पर्शोपलम्भस्तु अन्यस्पर्शानभिभवादित्युपलब्धिव्यवस्थाप्यम्* इति । अनुष्णाशीतोऽपि स्पर्श एव न तु शीतोष्णविरहमात्रम्, आकाशादावपि तथोपलम्भप्रसङ्गात्, वायुपृथिव्योः स्पर्शवत्त्वस्य श्रुत्यादिसिद्धत्वाच्च । न च स्पर्शसामान्यम् तदिति वाच्यम्; निर्विशेषसामान्याभावात् । अनुपलब्धशीतोष्णविशेषम् तदेवेत्यपि न वाच्यम्; अत्यन्तानुपलब्धस्य विशेषस्य कल्पकाभावात् , आगमाभावाच्च । केचित्तु सजातोयवृद्धि-हेतुत्वस्य सामान्यतो दर्शनात् शीतस्य वातवृद्धिहेतुत्वात् वातोऽपि शीत इति वर्णयन्ति । तदसत्; रसादिसाम्ये प्रभावादिवैषम्यवत् अत्रापि स्वभाववैचित्र्योपपत्तेः; विपक्षे बाधकाभावात् । नच वायोः शैत्यानुपलम्भ-प्रसङ्गो बाधकः हिमाद्यनुपहितदशायामातपाद्युपहितदशायाञ्च प्रसङ्ग-स्येष्टत्वात् । हिमाद्युपहितदशायाम् तु शीतोपलम्भस्य औपाधिकतया अन्यथासिद्धत्वात् । अन्यथा उष्णानुपलम्भप्रसङ्गादुष्णस्य कल्प्यत्वात् किम् तत्रानुग्राह्यम् ? इति चेत् – उष्णारम्भकत्वम् । नहि अनुष्णमुष्णद्रव्योपादानमस्ति उष्णस्य च तेजसो वायुरुपादानमिति । तदेवमनुष्णाशीतो वायुः पृथिवी च ॥

*पाकजापाकजतया स्पर्शस्य द्विविधत्वनिरूपणम्*

स्पर्शः पुनर्द्विधा – पाकजोऽपाकजश्चेति । पृथिव्याम् पूर्वः, इत्तरेषु त्रिषु परः । तत्र अमृतगरळकपिकच्छूतूलोपलगोब्राह्मणचण्डाळादिस्पर्शविशेषाः अपाकजभेदाः । अनुष्णशीतस्पर्शवत्त्वमात्रेण प्रथममद्गद्भ्यः पृथिव्यु-त्पत्तिः । परस्तात् पाकभेदाद्भेदोऽन्वयव्यतिरेकादिसिद्धः मृदुकठिनभावा-दयोऽपि स्पर्शविशेषा एव, स्पर्शनेनैव तदुपलब्धेः । चक्षुषा तु तदविना-भूतरूपादिग्रहणद्वारा स्पर्शमात्रस्येव तेषामपि यथायथमनुमानमेव । करकादिकाठिन्यम् पृथिवीयोगात् । मृदुपवनादिव्यवहारो वेगमान्द्यादिना । केचित्तु तेषाम् सम्योगविशेषत्वमातिष्ठन्ते । गोब्राह्मणचण्डाळादिषु कथम् स्पर्शभेद इति चेत् – तदधीनशुद्ध्यशुद्ध्यादिभेदात् । जातिभेदादेव तदुपपत्तिरिति चेत् – जातिभेद एव कुतः? मातापितृसम्बन्धप्रकारभेदादिति चेन्न; मानसब्राह्मणादिषु तदभावात् । यद्वा धर्माधर्मतारतम्याधीनसत्त्व-रजस्तारतम्यात् शक्तितारतम्याद्वा शुद्ध्यादिसिद्धिरिति न स्पर्शभेदास्ते । अपाकजस्पर्शेषु तु तारतम्यम् सम्सर्गादिभेदात् । पवनसलिलयोरपि पाकजस्पर्शः किम् न स्यात्? इति चेत् – औष्ण्यशान्तौ स्पर्शान्तरस्य पाकजस्य पृथिवीवत् अननुवृत्तेः । औष्ण्यमेव हि तर्हि पाकजम् तत्र स्यादिति चेन्न; वायुशैत्यवत् औपचारिकत्वोपपत्तेरिति । एवम् पृथिव्या-मपि शीतोष्णस्पर्शोपलम्भ औपाधिकः – उपाधिसन्निधि मन्तरेण कदाचि-दप्यनुपलम्भात् । पाकजत्वे तु पश्चादपि रूपादिवदनुवृत्तिः स्यात् । निर्मृष्टेऽपि सलिले निर्वाणेऽपि शिखिनि पार्थिवेषु शीतोष्णस्पर्शावुपलभ्येते इति चेत्; सूक्ष्मसम्श्रयणात् क्षणान्तरे तु तावतोऽपि निवृत्तेरिति ॥

*रूपनिरूपणम्*

अस्मदादिचक्षुरिन्द्रियैकग्राह्यविसजातीयव्यावृत्तमद्रव्यम् रूपम् । तच्च सितरक्तकृष्णपीतभेदम् । सिताद्रिप्रतिपत्तिव्यवहारास्तल्लक्षणानि । तत्र सलिलकळधौतशङ्खशुक्तिशशाङ्कादीनाम् रूपविशेषाः सितभेदाः । हुतवहजपादाडिमबन्धुजीवविद्रुमपद्मरागादीनाम् रक्तभेदाः । काञ्चन-काञ्चनारहरिताळहरिद्रादीनाम् पीतभेदाः । मरतकमधुकरजलधर-तिमिरतमालदूर्वादीनाम् कृष्णभेदाः । पीतरूपमपि रक्तावान्तरभेदम् केचिदिच्छन्ति; रोहितशुक्लकृष्णानामेव तेजोऽबन्नेषु श्रवणात् । प्रकारान्तरेण रूपम् द्विधा भास्वरमभास्वरञ्चेति । तेजोगतम् भास्वरम्, क्षितिसलिलगतमभास्वरम् । तेजसि रूपम् रक्तभास्वरम्, सलिले तु शुक्लमभास्वरम्, पृथिव्याम् बहुविधमभास्वरम् । अत्रापि सम्सर्गात् अनियतभासादि । चित्रम् नाम पञ्चमम् रूपमिति वैशेषिकादयः, तदसत्; एषामेव एकसङ्घातवर्तिनाम् समुदायविशेषतस्तत्प्रतीतिव्यवहारयोरुपपत्तेः । नानावर्णचूर्णपुञ्जीरञ्जितस्थलादिविलक्षणप्रतीत्यभावात् । अवय-विरूपारम्भकतया भवद्भिस्तेपामेव अभ्युपगतत्वात् । अवयव्यभ्यु-पगमेऽपि नानारूपाश्रयत्वस्य प्रतीति व्यवस्थाप्यत्वात् । सम्योगत-दभावादिवत् भागभेदस्य उपलभ्यमानस्य नियामकत्वात् । व्याप्यवृत्तिरूपान्तरजातीयरूपारम्भकतया बाधे तु गुणत्वादिमात्रेण सम्योगादावपि प्रसज्यते । एवमेव चित्ररसगन्धानामपि निर्वाहः ॥

*रसनिरूपणम्*

अस्मदादिजिह्वैकग्राह्यविसजातीयेतरो रसः । स षोढा –मधुराम्ललवणतिक्तोष्णकषायभेदात् । एषाम् लक्षणम् पूर्ववत् । तत्र इक्षुक्षीरगुडादिरसा मधुरभेदाः । चूतचिञ्चामलकादिरसा अम्लभेदाः । सैन्धवलवणाब्विकारादिरसा लवणभेदाः । किम्पाकनिम्बादिरसा-स्तिक्तभेदाः । शुण्ठीमरीचिसर्षपादिरसा उष्णभेदाः । हरीतकीविभीतक-चूताङ्कुरादिरसाः कषायभेदाः । तिक्तावान्तरभेद एवोष्णादिरिति केषाञ्चित्प्रतिभासः । आयुर्वेदितश्च एते विशदमनुसन्धेयाः ।

*गन्धनिरूपणम्*

अस्मदादिघ्राणग्राह्यविसजातीयेतरो गन्धः । स च द्विविधः – सुरभिः असुरभिश्चेति । तयोरपि लक्षणादिकम् पूर्ववत् । पटीरमृगमदघुसृण-चम्पकादिगन्धाः सुरभिभेदाः । पूतिविस्रादिगन्धा असुरभिभेदाः । अयञ्च गन्धः पृथिव्येकवृत्तिः । अयो दहतीतिवत् सलिलपवनादिषु चम्पकपाटलादिसम्सर्गात् तदुपलम्भः । तत्तत्सम्सर्गाधीनत्वस्य अन्वयव्यतिरेकसिद्धत्वात् । स्यादेतत्, पञ्चीकरणादेव पञ्चभूतेषु  स्पर्शादिसङ्करः प्रागेव सिद्धः । ततश्चेदानीम् व्यञ्जकविशेषवशात् क्वचित्क्वचित् गुणो व्यक्तरूप उपलभ्यताम् मृगजलादिवदिति चेत् – अस्त्वेवम् । किमेतावता भूतान्तरेषु गुणानाम् स्वाधारसम्सर्गमन्तरेण वृत्तिरुपपादिता? सम्सर्गस्तु प्राक्तनः इदानीन्तनो वा इति विचार्यम् । तत्र यथायथम् द्वयमपि । पूर्वस्य आगमसिद्धत्वात् पाटलादिसम्सर्गस्य चेदानीमध्यक्षसिद्धत्वात् ॥

*औपनिषदानाम् पाकजगुणप्रक्रियानिरूपणम्*

अथौपनिषदानाम् पाकजगुणप्रक्रिया । उत्पत्तिदशायाम् कृष्णरूपा पृथिवी *यत्कृष्णम् तदन्नस्य* इति श्रुतिस्वारस्यात्, भाष्यकारैश्च आकाश-नैल्यस्य पञ्चीकरणलभ्यपृथिव्यम्शनिबन्धनत्वाभिधानात्, पञ्चीकरणात् प्राक्च पाकजत्वायोगात् । प्रथममेव विशेषयोगिनी कथम् सा जातेति-चेत् – सलिलदहनरूपस्पर्शविशेषावालोक्य सन्तोष्टव्यम् । अस्त्वेवम् प्रथमम् कृष्णा पृथिवी, स्पर्शरसगन्धास्तदानीम् तत्र किम्प्रकाराः? उच्यते – स्पर्शस्तावत् वायाविव अनुष्णाशीतमात्रः तद्वदेवापाकजश्च । विषामृत-दुस्स्पर्शादिस्पर्शविशेषा एव पाकाधीनाः । अनुष्णाशीतमात्रम् हि सर्वेष्वपि पार्थिवेषूपलभ्यते । अतस्तावन्मात्रस्य स्वाभाविकत्वमुचितम् । रसोऽपि मधुर एव प्राथमिकः – विशेषादर्शने कारणभूतजलगतमाधुर्या-नुविधानस्योचितत्वात् । स्वर्शवत् अस्यापि प्राचुर्योपलम्भात् । महापृथिवी सर्वा प्रायशो मधुरैव ह्युपलभ्यते । आम्ललवणादयः क्वाचित्का रसविशेषाः पाकाधीनाः । तथा मधुरविशेषा अपि अन्वयव्यतिरेकाविशेषात् । गन्धोऽपि सुरभिरेव प्राथमिकः । अस्यैव महापृथिव्याम् पूर्ववत् प्राचुर्यात् । पूतिविस्र प्रभृतयोऽसुरभि-विशेषाश्च पूर्ववत् पाकाधीनाः । एवम् अनुष्णाशीतकृष्णमधुरसुरभि-स्वभावा प्रथमम् पृथिव्युत्पन्ना । अतः पाकभेदेनानुष्णाशीतस्यैव भेदैर्दुष्परिमर्शादिस्पर्शैः कृष्णभेदैश्च मरतकहरिततमालकुवलयादिरूपैः अकृष्णैश्च सितरक्तादिभिः, मधुरभेदैश्च इक्षुक्षीरगुडादिरसैः अमधुरै-श्चाम्ललवणादिभिः, सुरभिभेदैश्च चम्पकमृगमदादिगन्धैः, असुरभिभिश्च पूतिविस्रादिभिः सम्बध्यते । अस्याञ्च गन्धरसरूपस्पर्शशब्दाः क्वचित् सहैव उत्पद्यन्ते, सहैव च विनश्यन्ति । क्वचिच्च अन्यतमानुवृत्तिः, अन्यतमनिवृत्तिश्च । यथोपलम्भम् पाकवैषम्यस्याङ्गीकर्तव्यत्वात् । अत्र च एकेनाग्निसम्योगे सम्योगेन पूर्वसमुदायनिवृत्तिः अन्येनोत्तरसमुदायो-त्पत्तिरित्येके । एकेनैव पूर्वनिवृत्तिरुत्तरोत्पत्तिरपीति वयम् वदामः । यथा एकयैव सामग्रया उत्पत्स्यमानप्रागभावमात्रभेदभिन्नयाऽनेककार्योत्पत्ति-र्निव्यूढा तद्वत् प्रध्वम्समानतत्तत्स्वरूपसहकारिभेदभिन्नयाऽनेकप्रध्वम्सो-ऽप्युपपन्नः । उभयविध प्रागभावादिभेदभिन्नया च तथैव पूर्वसमुदाय-निवृत्तिरुत्तरसमुदायोत्पत्तिश्चोपपन्ना । निवृत्तेश्च उत्तररूपमात्रतया अस्माभिरभ्युपगमात् परमार्थतो न कार्यद्वैविध्यमस्ति प्रतियोगि-भेदभेदतो व्यपदेशभेद एव केवलम् । यत्तु प्राकट्यनिरासप्रसङ्गेन भट्टपराशरपादैरुक्तम् – *न खलु पूर्वरूपविनाशिकैव व्यक्तिरुत्तरोत्पादिका – पाकलक्षणाग्निसम्योगानाम् भिन्नत्वात्* इति, तत् परमतानुसारेणेति मन्यामहे – एकस्यैव अनेककार्यहेतुत्वोपपादनादिति । पाकावान्तरभेदाच्च गन्धाद्यवान्तरभेदसिद्धिः । पाके च पीलुपिठरपाकभेदात् विप्रतिपद्यन्ते तत्र नोभयमप्यस्माकम् – परमाण्ववयविनोरभावात् । अतः सम्हितावस्थायाम् पाको विभक्तावस्थायाम् वा इति चिन्ता परिशिष्यते । तत्र यथासम्भवमुभयमपि । प्रथमम् तावत् घटादीनामशिथिलानामेव पाकभेदेन रूपभेदोपलम्भात् उपलम्भस्तावद्वैशेषिकाणामपि समः । किन्तु अवयविरूपादीनाम् यावदाधारभावित्वनियमाभ्युपगमात् अवयवविशेष-गुणैरवयविविशेषगुणारम्भनियमाभ्युपगमाञ्च पूर्वावयविनः परमाणु-पर्यन्तो नाशः व्द्यणुकादिक्रमेण पुनरन्यस्यादृष्टवशादारम्भ इति कल्पितम् । द्वितीयमपि दहनसन्निकर्षमात्रेण विलयविशरणादीनामेव मधूच्छिष्टानाम् पाक उपलम्भादिति । एतेन एकदेशपाकोऽप्युपपन्न इत्युक्तम् भवति ॥

*सम्योगनिरूपणम्*

सम्युक्तप्रत्ययनिमित्तम् सम्योगः । स च स्वरूपमात्रस्वरूपो- नैरन्तर्यमात्रस्वरूपो वा इति केचित् । तत्र न स्वरूपमात्रम्; स्वरूपयोः सतोरेव पूर्वोत्तरकालयोः सम्युक्तप्रत्ययाभावात् । नापि, द्वितीयः; भावान्तराभाववादिनम् प्रत्यविवादादेव । सोऽपि हि आसन्नदेशसम्योग एव हि अस्मन्मते स्यात् । देशेनापि नैरन्तर्यमेव स्यादिति चेन्न; तत्रापि उक्तविकल्पानतिक्रमात् । तत्रापि हि स्वरूपातिरिक्तस्य नैरन्तर्यस्य भिन्नदेशविशेषसम्योगाभावरूपतया सिद्ध एव सम्योगः । अस्य च स्वाभावसादेश्यमुपलभ्यमानमम्शभेदप्रयुक्ततया न विरोधावहम् । निरवयवेष्वपि सम्योगहेतुरौपधिकोम्ऽशः । न च उपाधावप्येवमित्य-नवस्था; ज्ञप्तौ उपाधिसम्श्लेषमात्रातिरिक्तानपेक्षणात् । उत्पत्तौ अन्ये-नावच्छेदेऽपि बीजाङ्करानवस्थावददोषात् । यद्वा निरवयवेष्व भिदुरतया पृथङ्निर्देशायोग्यत्वात् स्वाभाविकोम्ऽशभेदो भवतु भेदव्यप-देशहेतुत्वाभावात् । एतावदेकानेकत्वम् प्रमाणबलात् दुरपह्नवमभ्युपगतम् वा भवतु । यद्वा यन्निरवयवम् तत् नैयायिकाद्यभिमतजातिवत् सर्वत्र सम्योगिनि सम्पूर्णम् वर्तताम् । तदेतत् सूत्रकारैरेव आशङ्कय परिहतम् – *कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा* इत्यादिना । तत्र च दीपः – *सकलेतरविसजातीयम् श्रत्येकसमधिगम्यम् सर्वशक्तियुक्तम् ब्रह्म निरवयवमपि कार्यञ्च भवत्यनन्तञ्च भवतीति परिमितशक्तिवस्तुचोद्यम् न तत्र प्रसज्यते । यथा जातिवादिनो जातिरेव अमूर्ता खण्डमुण्डादिषु अत्यन्तविलक्षणेष्वनन्तेष्वपि परिसमाप्यैव वर्तते न तत्र इतरवस्तुचोद्य-मिति जगत्कारणत्वम् सम्भवति* इति । तत्रैवाधिकरणे  *स्वपक्ष-दोषाच्च* इति सूत्रे – *प्रधानादिकारणपक्षे दोषाच्च ब्रह्मैव कारणम् । तत्रैव लौकिकवस्तुविसजातीयत्वेन प्रधानादेरुक्तदोषा नैव प्रसज्येरन्* इत्युक्तम् । एतेन प्रधानपरमाणुवासनासम्विद्ब्रह्मप्रभृतीनाम् निरम्शा-नामेव यथाभागपरिणामावरणानावरणानेकविषययोगादिरुपपद्यते इत्युप-रम्यते । तद्वदेव सम्योगस्य सम्योगिनो वा पूर्णस्य नानेकसम्बन्धो-ऽनुपपन्नः । क्षणिकपरमाणुवादिनाऽपि पुञ्जदशायामेकस्य परमाणो-रम्शभेदमन्तरेण अनेकनैरन्तर्यमभ्युपगतम् । विज्ञानवादिनामेकस्या-नेकाकारत्वम् । माध्यमिकस्य तु सम्योगे को विशेषप्रद्वेषः? इदमेव शून्यत्वद्वारम् वस्त्विति चेन्न; शूयत्वसदसत्त्वयोरुक्तौ विरोधात् । द्विष्ठम् न किञ्चित् दृष्टमिति चेन्न; अस्यैव दृष्टत्वात् । न चान्यस्य तथात्वादर्शनात् अन्यस्यापि तथात्वाभावः; प्रत्येकम् प्रतिनियता-साधारणस्वभावानाम् भङ्गप्रसङ्गादिति ।

स चायम् सम्योगो द्विधा -कार्योऽकार्यश्चेति । पूर्वः परिमितानाम् परिमितापरिमितानाञ्च । उभय-प्रेरणात् अन्यतरप्रेरणाद्वा यथा मेषयोः स्थाणुश्येनयोर्वा । सम्योगजमपि सम्योगम् वैशेषिका वर्णयन्ति । तदसत्; अवयव्यभावात् । अवयव-सम्योग एव हि सङ्घातस्य सम्योगः । उपलम्भोऽपि इदानीमेकदेशेन सम्युक्तमित्येव । अस्तु वा अवयवि; तथाऽपि येन हेतुना यदैवावयवः सम्युज्यते, तेनैव तदैव अवयव्यपि सम्युज्यताम्; नहि हस्तपुस्तक-सम्योगानन्तर्यम् देवदत्तपुस्तक-सम्योगस्योपलभ्यते । हस्तस्पन्देनैव कारणकारणवर्तित्वात् असमवायितामापन्नेन देवदत्तपुस्तकसम्योगस्याप्युत्पत्तिरुपपद्यते । हस्तस्पन्दे च तदवच्छिन्नशरीरस्यापि स्पन्दसिद्धेस्ततो वा तत्सम्योगः कर्मणोऽपि सम्योगादिवत् यथोपलम्भम् स्वाभावसादेश्यमङ्गीकर्तव्यम् । यदा च अन्यानीतपुस्तकेन देवदत्तहस्तः सम्युज्यते तदा देवदत्तेनापि कथम् न युज्येत? हस्तस्य तस्य च निष्पन्दत्वाविशेषात् ।  आभिमुख्यस्यापि उभयोरविशेषात् । एतेन विभागजविभागोऽपि निराकृतः । विभागञ्च अन्तर्भावयिष्यामः । अकार्यस्तु सम्योगो निरन्तरयोर्निष्प-न्दयोद्रव्ययोः । स नास्तीति वैशेषिकादयः । विभवो मिथस्सम्युक्ता निरन्तरद्रव्यत्वात् सम्प्रतिपन्नवत् । असम्युक्तत्वे सान्तरत्वप्रसङ्गः । यश्च विभूनाम् नैरन्तर्यमात्रमिच्छेत् तेनापि तत्रायमपरिहार्यः । अस्मन्मते नैरन्तर्यस्य समासन्नदेशसम्योग-रूपत्वात्, गुणादिषु तु निरन्तरत्वबुद्ध्यभावात् । न च हेत्वभावात् सम्योगाभाव इति वाच्यम्; ज्ञापकस्योक्तत्वात् । कारणस्य निवृत्तौ कार्य-मात्रस्य निवृत्तिरिति ईश्वरज्ञानचिकीर्षाप्रयत्नेषु भवद्भिरेव प्रतिपादनात् विभूनामपि स्वकार्यजननादेरीश्वरानुप्रवेशनिबन्धनत्वात् । भवद्भिरेव प्रतिपादनात् विभूनामपि औपनिषदश्चायमर्थः । तथा च श्रुतयः – *सर्वव्यापी च भगवान्* *अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणः स्थितः* इत्यादिकाः । न च *बहिश्च* इति वचनात् ईश्वरज्ञानव्यति-रिक्तानाम् सर्वेषामपि अविभुत्वमिति वाच्यम्; बाह्यदेशवत्स्वेव बहिर्व्यपदेशेऽपि मुख्यान्वयत्वात् । अन्यथा ईश्वरधर्मभूतज्ञानस्या-प्यविभुत्व प्रसङ्ग इति । अनुमानान्तराणि च – विगीतम् विभुद्रव्यम् विभुद्रव्यसम्योगवत् द्रव्यत्वात् घटवत् । न च व्याप्तिबलात् स्वेन सम्योगप्रसङ्गः; विभुद्रव्याणामनेकत्वात् स्वेतरविभु-द्रव्यसम्योगेन साध्यसिद्ध्युपपत्तेः । तथा विगीतम् ईश्वरसम्युक्तम् – द्रव्यत्वात् घटवत्, ईश्वरो वा कालादिसम्युक्तः द्रव्यत्वात् घटवत् । नच कालसम्योगे कालविकार्यत्व प्रसङ्गः । तस्यापि तदधीनविकारत्वात्  *कालम् स पचते तत्र न कालस्तत्र वै प्रभुः* इत्यादिविशेषवचनाञ्चेति ।

यत्तु भट्टपराशरपादैर्मनोऽणुत्वसमर्थनदशायामजसम्योगो निरस्तः – तदपि *युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्* *आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावः अभावश्च मनसो लिङ्गम् इत्यक्षपादकणभक्षसूत्रोपादात पादपप्रसङ्गेन तत्तसिद्धान्तसम्स्कारोन्मेषवशादिति मन्यामहे । आ एव हि तत्र कालस्वरूपाप्रत्यक्षत्वमप्युक्तम् । यत्तु तत्र *न च अजसम्योग-मन्तरेण किञ्चिदनुपपन्नम्* इत्युक्तम्, यच्च *स्तम्भादेर्विभुसम्योगे किम् मानम्? न प्रत्यक्षम् – प्रत्यक्षाप्रत्यक्षसम्योगत्वात् । न च अनु-मानम् – मूर्तद्वयाश्रयनियमादिति चेत्* इत्यत्र  *परत्वापरत्वशरीर-गतितद्विकारोर्ध्वज्वलनादीनाम् सम्भवार्थम् विभुसम्योगावश्यम्भावात्* इति – तत्र पूर्वमेव दत्तमुतरम् । यथा च मूर्तगतविकारविशेषसिद्ध्यर्थम् विभुसम्योग उक्तः, तथैव कालादिगतविकारसिद्ध्यर्थमपि ईश्वरसम्योगो-ऽवश्याभ्युपेत्यः । अन्यथा ईश्वरशरीरत्वमपि कालादेर्न स्यादिति ॥

*शक्तिनिरूपणम्*

अथ शक्तिः । सर्वकारणानाम् कारणत्वनिर्वाहकः कश्चित् अद्रव्यविशेषः शक्तिः । तर्कागमाभ्याम् तत्सिद्धेः । प्रतिबन्धकमणिमन्त्रादि-सन्निधौ स्वरूपसहकारिवैकल्याभावेऽपि यदुपरोधात् दहनो नदहति सा हि अतीन्द्रिय शक्तिः । अयस्कान्त-दुन्दुभिस्वनादिवृत्तिः । तेषु चैषा विशदमवगम्यते । प्रतिबन्धकाभाव-पर्यवसायिनाम् शक्तितद्धर्मनाशतदु-त्पत्त्यनुत्पत्त्यादिप्रसङ्गानामन्तत आगमेन प्रतिहतिरिति ।

ननु अस्तु तत्सिद्धिः, तथाऽपि सा प्रतिबन्धकेन नाश्यते वा, तद्धर्मो वा नाश्यते, विरोधिनोः शक्त्यन्तरधर्मान्तरयोर्वा उत्पत्तिः अविशिष्टाऽपि वा कार्यम् न करोति इति पञ्चसु पक्षेषु कोऽभ्युपगम्यते? इति सौहार्दैन पृच्छाम इति चेत् – अस्त्वेषामन्यतमः । तर्हि पुनश्शक्त्युत्पादानियत-कारणत्वप्रसङ्ग-परिहारः कथमिति चेत् – इत्थम् । प्रतिबन्धकाभाव-सहितात् वह्रिस्वरूपात् तदुत्पत्तिः अप्रतिबद्धा शक्तिर्वा कार्यकरी इत्यादि-भवन्निर्वाहस्यैव शक्तौ सुवचत्वात् । सा तर्हि किमर्थम् कल्प्यते ? इति न च वाच्यम्; दत्तोत्तरत्वात् ।

ननु शक्तिः शक्ता वा? नवा? पूर्वत्र – शक्तियोगात् शक्तौ सा च शक्ति-स्तथेत्यनवस्था, उत्तरत्र – तस्याः कारणत्वम् न स्यात् अशक्तत्वात्, अन्यथासिकताभ्योऽपि तैलमुत्पद्येत शिलाशकलादिभ्यश्च अङ्कुरादिक-मिति चेन्न; शक्त्यन्तराभावेऽपि कारणानाम् कार्यानुगुण्यरूपतया तस्याः सिद्धत्वात् ।

अन्यथा उष्णत्वम् उष्णम्? नवा? पूर्वत्र – अनवस्था, उत्तरत्र – कार्यम् न जनयेत् शीतवत् इत्यादि प्रसङ्गस्यापि दुर्वारत्वात् । उक्तञ्चैतत् भगवता पराशरेण –

*शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।

यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ।

भवन्ति तपताम् श्रेष्ठ! पावकस्य यथोष्णता ।* इत्यादि ।

प्रमाणसिद्धस्वभावा न कथञ्चिदपि परित्यागमर्हन्तीत्यर्थः । एवमहि-र्बुध्न्यसम्हितायामपि – शक्तयः सर्वभावानामचिन्त्या अपृथक्स्थिताः* इत्यादि । एवम् सर्वत्रानुसन्धेयम् ।

*शक्तिविषये इतरपक्षनिरूपणम्*

इतरे तु एवम् वदन्ति – सर्वकारणानाम् सन्निधिमात्रोपकारिणी शक्तिः । तामन्तरेण निस्सारमखिलम्; अशक्तत्वात् तथाऽन्वयव्यतिरेकात् । अत एव सा विशेषणतया स्फुरन्त्यपि वस्तुतः प्रधानभूता । सर्वत्रैका- कल्पनालाघवात् । तदक्तम् – *एकैव तु परा शक्तिर्ज्ञानानन्दक्रियामयी* इति । निर्विकारा; तत्सम्बन्धिगत्वात् विकाराणाम् । न शक्त्यन्तर-पेक्षते; शक्तत्वादनवस्थानाच्च । अपर्यनुर्याज्यवैभवा चेयम्; अघटित-घटकतया धर्मिग्राहकसिद्धेः । एकत्वादेव देशकालापरिच्छिन्ना । तदुक्तम् – *व्यापिका तु परा शक्तिर्व्याप्यम् विश्वमिदञ्जगत्* इति । सर्वाकारो-ल्लासिनीत्वात् वस्तुपरिच्छेदरहिता । अचिच्छक्तिरूपेण सकला । निष्कृष्टचिच्छक्तिरूपेण निष्कला । ताम् कार्यकारणरूपप्रपञ्चकञ्चुकिताम् प्रपञ्चप्रलयवतीमेव तत्परतो भावयेदिति ।

तदन्ये न मन्यन्ते । तथाहि – न तावत् प्रधानभूता; तद्विशिष्टस्यैव तत्त्वात् । अत एव नोपादानत्वादिकमप्यस्याः । प्रागुत्तरावधिव्यतिरिक्त-परिणामस्तु नेष्यत एव । नापि सर्वत्रैका; प्रतिवस्तुनियततयैव तत्सिद्धेः । नापि सर्वत्र नित्या; अनित्येषु नित्यत्वे प्रमाणाभावात् । नाप्यनादिः; कारणैः सहैवस्वरूपलाभात् । नाप्यपर्यनयोज्यवैभवा; प्रतिनियत-विषयत्वात् । एवम् तु वस्तुपरिच्छेदवत्त्वमपि सिद्धम् । ननु ब्रह्मशक्तिरेव सर्वेषाम् शक्तिः तविषयतया शक्तत्वम् नियतविषयत्वञ्चान्येषामस्तु, किम् सर्वत्र शक्ति-भेदाभ्युपगमेन? इति चेन्न; प्रत्येकम् शक्त्याश्रयत्वव्यपदेश-स्वारस्यास्याबाधात् । यद्यपि ब्रह्मशक्तिस्तु न शक्त्यन्तरवत् , तथाऽपि तच्छक्ति-रित्येव सिद्धेः । तत्प्रधानत्वसमत्ववचनान्यपि विवक्षया घटन्ते । अधिकत्ववचनानि तु न सन्त्येव । यामळादितन्त्रम् तु पाशुपताधि-करणेनैव निराकृतम् । सम्विदद्वैत दूषणानि च सर्वाणि अत्राप्य-नुसन्धेयानि ।

इयम् च द्रव्येष्वेव वर्तते अद्रव्येष्वपि वा इति सयूथ्यवादः आत्म-सिद्धौ भगवद्यामुनमुनिवचनम् – *सर्वद्रव्येषु तत्कार्यसमधिगम्यस्तत्प्रति-योगिशक्त्याख्यो गुणः साधारणः* इति । अत्र सर्वद्रव्येष्वित्यस्य द्रव्येष्वेवेत्यवधारणम् केचिदिच्छन्ति । सर्वेषु द्रव्येष्वस्त्येवेत्यन्ये । उक्तञ्च वरदविष्णुमिश्रैः – *शक्तेर्गुणत्वेऽपि गुणकर्मणोस्तत्सम्भवः* इति । पूर्वस्मिन् पक्षे द्रव्यगतयैव शक्त्या समानाधिकरणयारूपरसादीनाम् शक्तत्वम्, इतरस्मिन्स्तु पक्षे रूपादिष्वपि शक्तिरस्ति । एवन् द्रव्यमाने रूपादिष्वपीति वृत्तिस्तावत् यथाकथञ्चिदस्तु, शक्तिमात्रन् सान्प्रदायि-कमिति स्थितम् । भाष्यकारैरपि शक्तिः शरीरनिरूपणेऽभिहिता – *अग्न्यादेः शक्तिप्रतिबन्धात् औष्ण्याद्यनुदयः ।* इति ।

ननु *स्वशक्त्या वस्तु वस्तुताम्* इत्यत्र शक्तिशब्दः सहकार्य-र्थतया स्थापितो भाष्यकारैः यथा – *स्वशक्त्या स्वकर्मणैव देवादिवस्तु-ताप्राप्तिः इति । तथा – *अघस्य विनाशकरणमुत्पन्नायास्तच्छक्ते-विनाशकरणम्, शक्तिरपि परमपुरुषाप्रीतिरेव* इत्युक्तम् । तथा भगवता पराशरेणापि –

*विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा ।

अविद्याकर्मसञ्ज्ञाऽन्या तृतीया शक्तिरिष्यते ॥

यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप ! सर्वगा ।

समस्ताः शक्तयश्चैता नृप ! यत्र प्रतिष्ठिताः ॥

तद्विश्वरूपवैरूप्यम् रूपमन्यद्धरेमहत् ।

परस्य ब्रह्मणः शक्तिस्तथेदमखिलम् जगत् ॥*

इत्यादिषु शक्तिशब्दो हि अपृथक्सिद्धविशेषणमात्रे प्रयुक्तः । तथा वेदार्थ-सङ्ग्रहे *शक्तयः सर्वभावानामचिन्त्य* इत्यस्य व्याख्याने – *अतो- विचित्रानन्तशक्तियुक्तम् ब्रह्मेत्यर्थः* इत्युक्त्वा तदाह –

*जगदेतन्महाश्चर्यम् रूपम् यस्य महात्मनः ।

तेनाश्चर्यपरेणाहम् भवता कृष्ण ! सङ्गतः ॥* इति । इत्युदाहृतम् ।

तत्र च शक्तिशब्दार्थतया *जगदेतन्महाश्चर्यम् रूपम् यस्य इत्युक्त्या नातिरिक्ता शक्तिरिष्यते इत्यवगम्यते । स्यादेवम्, नैतावता शक्तिलक्षण-धर्मविशेषस्य अनभिमतत्वसिद्धिः; मणिमन्त्रादिप्रतिबन्धार्हतया दाहादि-कार्यहेतु भूतायाः शक्तेः साक्षादुक्तत्वात् । गौण्या लक्षणया वा वृत्त्या तत्रतत्र शक्तिशब्दप्रयोगास्तु न तद्वस्तूनाम् शक्तिरूपत्वप्रतिपादनपराः । कर्मणाम् जीवशक्तित्वव्यपदेशः परमपुरुषप्रीत्यप्रीत्योः कर्मशक्तित्व-व्यपदेशश्च तत्तदधीनोत्पत्तित्वेन तत्तत्पारतन्त्र्यमात्रात् । अत एव क्षेत्रज्ञा-विद्यादीनाम् जगतश्च परब्रह्मशक्तित्वव्यपदेशोऽपि, निरतिशयशक्ति मूलत्वा-द्वा अत्र विष्णोः शक्तित्वव्यपदेशस्तु शक्तिशक्तिमतोरभेदोपचारात् । यत्तु *विचित्रानन्तशक्तियुक्तम्* इत्यत्र *जगदेतन्महाश्चर्यम्*इति वचनोदा-हरणम् तत्र विचित्रजगत्स्रष्टृतया विचित्रशक्तियुक्ततोपपादनार्थम् । अतो न कश्चिद्विरोध इति अतःशक्तिर्नाम धर्मविशेषः सिद्धः ॥

*गुरुत्वनिरूपणम्*

स्वतःपतनहेतुस्वभावो गुरुत्वम् । तच्च सलिलपृथिवीगतम् । पतनकल्प्यम् । तोलनादिदशायाम् स्पार्शनप्रत्यक्षमपीति केचित् । तोलनादेश्च सहकारित्वात् पर्यन्तोर्ध्वभागस्पर्शे तदनुपलम्भो न दोषः । अन्यथा मातापितृसम्बन्धग्रहणसापेक्षे ब्राह्मणत्वादौ अप्रत्यक्षत्वा-पातादिति । अन्ये तु आहुः – नारित पृथिवीसलिलस्वरूपातिरिक्तम् गुरुत्वम् । स्वरूपादेवाप्रतिबद्धात् तयोः पतनसिद्धिः । स्वभावादेव हि  अधिकगुरुत्वस्यापि पतनहेतुत्वम् । स च स्वभावः स्वरूपस्यैवास्तु लाघवात् । पतनतारतम्यपलादिनियमोऽप्यवयवाधिक्यन्यूनतानिबन्धनः । तदनुगुणतयैव हि पलादिनियमम् स्मर्तारोऽपि निबध्नन्ति । उक्तञ्च  न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे – *अधःपतनस्वभावात्मगुरुत्वम् ।  तदभावो लघुत्वम्* इति । यदि च पतनात् किञ्चित् स्वरूपातिरिक्तम् कल्प्यते तर्हि ऊर्ध्वज्वलनतिर्यक्पतनाभ्याम् दहनपवनयोरपि द्वयमपि स्यात् । स्वभावात् अदृष्टात् ईश्वरसङ्कल्पात् शक्तिविशेषाद्वा तत्सिद्धि-रिति चेत्; तर्हि अत्रापि तथा स्यात् – अविशेषात् । एतदभिप्रायेण तत्रैवोक्तम् – त्रिविधम् गुरुत्वम् – ऊर्ध्वतिर्यगधोभेदेन । वाय्वग्निजलानि तिर्यगूर्ध्वा-धोगुरूणि* इति । भूतद्वयनिष्ठत्वम् तेषामनुपपन्नमिति चेत्  भवदभि-मतस्य वा कथमुपपद्यते? स्वभावादिति चेत् – तुल्यम् । यथा च ऊर्ध्वजjvaलनस्य एकभूतावान्तरव्यक्तिषु बह्वीषु वृत्तिः, तथात्रापीति भाव्यम् । सलिलमेव च अस्माकमवस्थान्तरापन्नम् पृथिवीत्यतोऽपि न दोषः । तोलनादावपि प्रत्यक्षत आक्रमणमुपलभ्यते, यथा वाय्वादिभिर-भिघातादिः । तावतैव तत्रापि च गुरुत्वव्यवहारः । उपलभ्यते चैतत् बलवता पुरुषेणाक्रम्यमाणेऽतिगुरुत्वप्रत्ययात्, तस्मिन्नेव च मन्दमाक्रामति मान्द्यव्यवहारात् । अतोऽनुमानतः प्रत्यक्षतो वा न भवदभिमतगुरुत्वसिद्धिः । अस्तु तर्हि सलिलपृथिवीसाधारण उपलभ्यमानो रसादिरेव पतनहेतुरिति चेन्न; तत्र अनुविधानात् पतनतारतम्यस्य, वैपरीत्योपलम्भाच्च । किम् तर्हि वस्तुतो गुरुत्वम्? श्रूयताम् । शक्त्यनभ्युपगमपक्षे विलक्षणम् स्वरूपमेव । तदभ्युप-गमपक्षे तद्विशेष एव; सर्वत्र हेतुत्वनिर्वाहकतया अभ्युपगतायास्तस्या एवात्रापि स्वीकर्तुमुचितत्वादिति । यत्तु साङ्ख्यैस्तमःकार्यतया पृथिवीजलयोः पतनहेतुर्गुरुत्वलक्षणोगुणविशेषोऽभ्युपगम्यते – तैस्तेजः पवनयोरूर्ध्वतिर्यग्गमनहेतुतया सत्त्वकार्यो लघुत्वलक्षणो गुणविशेषो-भ्युपगन्तव्यः । किम् तु हेतुना येन पृथिव्यादिषु गुरुत्वलघुत्वयो-र्नियमम् वदसि, अनेनैव हेतुनापतनादिकार्यनियमोऽस्तु; मध्ये गुणान्तरकल्पनम् गुरुतरम् । अतो गुरुत्वगुणकल्पनम् गुरुत्व-पराहतमिति ॥

*द्रवत्वस्य अतिरिक्तत्वविचारनिरूपणम्*

द्रवत्वप्रत्ययविषयो द्रवत्वम् । तच्च स्यन्दननिदानम् । न जल-मात्रवृत्ति; पार्थिवतैजसेष्वपि क्षीरकाञ्चनादिद्रव्येषु तदुपलम्भात् । द्विधा चेदम् – साम्सिद्धिक पाकजभेदात् । सलिले साम्सिद्धिकम् । पृथिवी-तेजसोः पाकजमिति । यद्वा सलिल एव द्रवत्वम् । काञ्चनादिद्रव्येषु सलिलनिष्ठमेव तदुपलभ्यते । पञ्चभूतमयत्वात् सर्वेषाम् कदाचित्त-दम्शोद्भवसिद्धेः । तदिदम् मृगसलिलवृत्तान्ते भगवता भाष्यकारेण दर्शितम् । तथाऽप्येतत् न जलत्वमात्रम्; तस्य करकाद्यवस्थायाम् काठिन्योपलम्भात् । अन्ये तु आहुः – सलिलनिष्ठमेव द्रवत्वमिति यदुक्तम् तत्साधूक्तम् । सलिलत्वमात्रातिरिक्तमिति कुतः सिद्धम्? स्यन्दनहेतुतया तत्कल्पनमितिचेत्; तदपि तत एव किम् न स्यात्? अग्निरुष्ण इत्यादिवत् द्रवम् जलमिति विशेषणतया स्फुरणादतिरिक्तत्वमिति चेत्; अस्त्वेवमतिरेकः । तथाऽपि जलत्वपर्यवसितसम्स्थानविशेषोऽयमिति यथोपलम्भमङ्गीक्रियताम् यथा काठिन्यम् । स्पर्शविशेषः काठिन्यमिति चेत्; अत्रापि तथाऽस्तु – अविशेषात् । न च केवलम् स्पर्शविशेषः काठिन्यम्, सम्योगविशेषसापेक्षः पृथिवीत्वैकार्थसमवायी स्पर्शविशेषः  द्रवत्वम् तु निम्नोन्नतिलेशरहितसम्योगविशेषः । उक्तञ्च न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे – *विरळसम्योगप्रयुक्तस्पर्शो मृदुः । निर्विरळ-सम्योगप्रयुक्तस्पर्शः कठिनः* इति । निम्नोन्नतिलेशरहितसम्योग एव किन्निबन्धनः? इति चेत् – जलत्वनिबन्धन एवेति मन्वीथाः । जलत्वम् नाम किमिति चेत् – हन्त किम् द्रवत्वाभिलाषेण जलत्वमपलपितु-मिच्छसि, किम् वा जलत्ववत् द्रवत्वसिद्धिरिति मन्यसे, न चोभयमपि युज्यते । तथापि किमिदम् जलत्वमितिचेत्; जातिविशेषः । किम् तस्य व्यञ्जकमिति चेत् तादृशसम्योगविशेषरूपविशेषादि । तर्हि तदभ्युपगमेन जलत्वमपि परित्यज्यतामिति चेत् – अस्तु नैतावता द्रवत्वस्य बहिर्भावः । यदि द्रवत्वम् न स्यात् – क्षितितल इव सलिलेऽपि दुष्प्रवेशत्वम् स्यादिति चेन्न; आकाशादिभिर्व्यभिचारात् । स्पर्शवत्त्वेसतीति चेन्न; पवना तपादिभिर्व्यभिचारात् । तेषाम् प्रशिथिलस्वभावत्वात् । तदेव कथम्? सावकाशत्वात् तेषामिति चेन्न; अनुपलम्भात् । न हि मध्यन्दि-नातपे मात्रयाऽपि अवकाशमुपलभामहे । तथाऽपि तदुपगमे अत्रापि तदभ्युपगम्यताम् – अविशेषात् । प्रवेशादियोग्यः समसम्योगविशेष एव किन्निबन्धन इति चेन्न; पवनतपादिभिस्समाधानम् यत्तु करकाद्य-वस्थायाम् काठिन्योपलम्भात् जलत्वातिरिक्तम् द्रवत्वमित्युक्तम्, तदपि न; उपष्टम्भकभेदादेव तदानीम् काठिन्योपलब्धेः – यथा काञ्चनादि-तेजसाम् । नहि तेजसः स्वतोऽन्यतो वा काठिन्यमस्ति । नच करकाद्यवस्थासु कस्यचित् जलप्रतीतिः । नापि विद्रुतावस्थायाम् जलत्वद्रवत्वयोरन्यतराप्रतीतिः । येन व्यतिरेकोपलम्भः स्यात् । अपर्यायत्वम् कथमिति चेत्; सम्योगविशेषाद्युपाधिभेदादित्युक्तमेव । एतदेव वैशेषिकाद्यभिमतम् द्रवत्वम् ॥

*स्नेहनिरूपणम्*

अथ स्नेहो निरूप्यते । स्नेहप्रत्ययविषयः स्नेहः । स जलैकवृत्तिः । घृतादिषु सम्सर्गात् दृश्यते । न चासौ द्रवत्वमात्रम्; शातकुम्भादि-द्रवाणाम् पाम्सुसङ्ग्राहकत्वाभावात् । नापि तोयत्वमात्रम्; स्निग्धम् तोयमिति पृथग्व्यवहारात्, जलप्रत्ययमन्तरेणापि मधूच्छिष्टादिषु स्निग्धमिति प्रत्ययदर्शनाच्च । तदेवम् प्रत्यक्षसिद्धः; सलिलैकवर्ती पाम्सुसङ्ग्रहणहेतुः स्नेहाख्यो गुणोऽस्तीति वैशेषिकानुसारिणः अस्मदीयाः।

अन्ये त्वाहुः -स्निग्धमिति प्रत्ययस्तावदस्त्येव । स तु रूपस्पर्शविशेषादिष्वेव; न हि अन्यो गुणो विविच्योपलभ्यते । मासृण्य-मात्रेण सलिलेऽपि स्निग्धप्रत्ययः, स काञ्चनादिद्रव्येष्वपि समः । यद्वा न कश्चिदपि सलिलम् स्निग्धमिति जानाति, मृदादिरेव हि तथोपलभ्यते । पाम्सुसङ्ग्रहणमपि सलिलत्वप्रयुक्तम् सलिलत्वैकार्थसमवायिशक्ति-विशेषप्रयुक्तम् वा । अतः काञ्चनादिद्रवाणामसङ्ग्राहकत्वोपपत्तिः । किञ्च यदि सङ्ग्राहकत्वात् सलिले स्नेहाख्यो गुणः स्वीक्रियते, विश्लेषकत्वादग्नौ रौक्ष्याख्यम् गुणान्तरमपि किम् न कल्प्यते? यदि तत्र औष्ण्यादिभिरेव विश्लेषादिसिद्धिः, तर्हि अत्रापि शैत्यादिभिरेव सङ्ग्रह इति किम् न स्वीक्रियते? उक्तञ्च न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे – *दुष्करवियोगस्वभावसम्योगस्पर्शत्वम् पिच्छिलत्वम्, सुकरवियोग-स्वभावसम्योगस्पर्शत्वम् विश्लिष्टत्वम्* इति । यदि च सङ्ग्रहात् स्नेहसिद्धिः, तर्हि पनसनिर्यासादिष्वपि स कल्प्येत, सङ्ग्रहातिरेकात् तेषामेव वा तत्क्लृप्तिरुचिता । यद्वा चुम्बकशिलाया इव शक्तिविशेषात् सङ्ग्राहकत्वमस्तु । न च सलिलम् सङ्ग्राहकमित्येव नियममुपलभामहे, शुष्कमृत्पिण्डादीनाम् सलिलसेकेन विलयस्यापि दर्शनात् । तस्मात् सलिलस्वरूपमेव सहकारिविशेषमासाद्य सङ्ग्राहकम् विभेदकञ्चेति यथोपलम्भमङ्गीकार्यम् । चेतनानाम् तु स्नेहः प्रीतिः उपादित्सा वा, रौक्ष्यमपि दुःखम् जिहासा, क्रोधो वा, अतो न गुणान्तरसिद्धिरिति ॥

*वासनानिरूपणम्*

*वासनायाः अतिरिक्तत्वविचारः*

अनुभवजा स्मृतिहेतुर्वासना । सा कार्यकल्प्या । न तावदनुभवहेतुः स्मृतिः; तस्य चिरध्वस्तत्वात् । नापि तदुपलक्षित आत्मादिः; प्रध्वस्त-स्यापि अज्ञायमानस्योपलक्षणतयाऽपि कारणत्वासम्भवात् । नापि दध्वम् अतिरिक्तञ्च सम्स्कारप्रमोषाभावप्रसङ्गात् । नापि  सदृशदर्शनादि; केवलस्यातिप्रसङ्गित्वात्, विशिष्टस्यासिद्धेः । अनुभवजनितादृष्टविशेष इति चेत्; तर्हि सिद्धा वासना । सा पुण्यापुण्यरूपा वा ततोऽन्या वा इति विशेषः । तत्र न पूर्वा – विधिनिषेधागोचरेषु तदयोगात् । अतो द्वितीयैव परिशिष्यते । सापि आधेयशक्तिर्वा ततोऽन्या वा, कार्यकारणादिप्रक्रिया सर्वा समा । सा च आत्मनिष्ठा ज्ञानद्रव्यनिष्ठा वा इत्येकदेशिविवादः । तत्रानुभवस्मृत्यन्तरङ्गत्वात् ज्ञानद्रव्यनिष्ठत्वमेवोचितम् । यत्तु वरद-विष्णुमिश्रैरुक्तम् – *भावनाकल्पकप्रमाणेनैव स्थिरात्माश्रयत्वकल्पनात् अस्थिरज्ञानाश्रयत्वस्य प्रमाणाभावात्* इति, तन्नूनम् परमताभि-प्रायेणोक्तम्; स्वेनैव ज्ञानस्यद्रव्यत्वनित्यत्वयोः समर्थनात् । यदुक्तम् समन्वयाधिकरणे भेदाभेदिमतदूषणप्रसङ्गेन विवरणकारैः – *नहि उपाधिः प्रतिसन्धाता, प्रदेशभेदस्तु तुल्यः; नहि अन्यगतः सम्स्कारोऽन्यत्र प्रतिसन्धिहेतुः, यदिस्यात् तर्ह्यनियमः, अनुभवसमानाधिकरणश्च सम्स्कारः* इति; तन्नूनम् धर्मभूतज्ञानस्य द्रव्यत्वमनभ्युपगच्छताम् मतेनोक्तम् । अस्मन्मते तु अनुभवसम्स्कारस्मृतीनाम् ज्ञानावस्था-विशेषरूपत्वात् न कश्चिद्दोषः । एतेन *वासनारेणुकुण्ठितः* इत्याद्यपि गतार्थम् ॥

*वैशेषिकैः प्रतिपादितसम्स्कारत्रैविध्यविचारः*

वेगो भावना स्थितस्थापक इति त्रिविधः सम्स्कार इति वैशेषिकाः । तदनुपपन्नम्; वेगस्य कर्मविशेषव्यतिरेके प्रमाणाभावात्, शीघ्रम् गच्छतीत्याद्युपलम्भस्यापि कर्मातिशयमात्रेण चरितार्थत्वात्, कर्मातिशयस्य चोभयसिद्धत्वात् । उक्तञ्च न्यायतत्त्वे प्रमेयपादे कालनिरूपणप्रसङ्गे – *सम्योगकालसामीप्यम् हि वेगः* इति । वेगेन गच्छतीत्यादौ प्रयत्नहेतुकर्मण्यपि वेगशब्दप्रयोगात् । वेगस्य शरादि-धर्मत्वेन प्रतिभासस्य मान्द्यप्रतीतिनिरस्तत्वात् । सम्स्कारत्वम् स्पन्दजनकवृत्ति सम्स्कारजातित्वादित्यादेरतिप्रसङ्गासिद्ध्यादिदुष्टत्वात् । श्रीविष्णुचितार्यैः क्रिया वेगार्थत्वेन पठिता । तथा हि । ईश्वरानुमान-निराकरणे – *सर्वा क्रिया कृतिपूर्विका क्रियात्वात् गमनवत् इति चेन्न; शरवेगजलस्यन्दनादौव्यभिचारात् तेषाम् स्वभावत्वकल्पने हेतुमत्त्वकल्पनाविरोधात्* इत्युक्तम् ।

 

*स्थितस्थापकोऽपि ज्ञानावस्थैवेति निरूपणम्*

स्थितस्थापकोऽपि सम्स्थानविशेष एव । सम्स्थानविशेषतारतम्या-नुरोधेन हि प्रतिगमनतारतम्यम् दृश्यते । सर्वदा क्रियोत्पत्तिप्रसङ्गः कर्षणमोक्षणादिसहकारिसाहित्येन परिहारश्च समौ । अतिरिक्तस्यापि स्थितस्थापकस्य तादृशतारतम्यम् सम्स्थानतारतम्याधीनमिति वक्तव्यम्, तद्वरमदृष्टगुणान्तरकल्पनात् । तेनैव सम्स्थानविशेषेण स्वस्थानगमन-सिद्धिः । परिशुद्धिरतिरिक्तवदत्रापि चिन्त्या ।

ये पुनर्ज्ञानसम्स्कारः कर्मसम्स्कार इति द्वैविध्यमाहुः – तेषाम् कोऽयम् कर्मसम्स्कार इष्टः? न तावद्वेगस्थितस्थापकरूपः, तस्य निराकृतत्वात् । नापि पुण्यापुण्यरूप-क्रियाप्रवृत्तिहेतुः; तस्या अपि पूर्वपूर्वादृष्टस्वस्वातन्त्र्यादिभिरेव निर्वाहात् । नापि मृदङ्गवादनादौ पूर्वपूर्ववादनादिभिराहित उत्तरोत्तरक्रियासु हस्त-लाघवादिहेतुः; तत्र हस्तलाघवादेः पूर्वपूर्ववादनाकृतकाठिन्यविशेषाभावादि-प्रयुक्तत्वात् । हस्तप्रेरणादिशैघ्र्यस्य पूर्वपूर्ववादनाधिकृतसम्स्कारजनित-प्रेरणस्मृतिशैघ्र्यप्रयुक्तत्वात् । यानि पुनः *अघस्याश्लेषकरणम् वैदिक-कर्मायोग्यतावासनाप्रत्यवायहेतुशक्त्युत्पत्तिप्रतिबन्धकरणम्  एतदुभय-कार्यकारणभूतानादिविपरीतवासनाबद्धोऽपि* इत्यादि भाष्यकारवचनानि, तेषामप्यनुभववासनातिरिक्तसम्स्कारकल्पननिर्बन्धाभावात् । *अघस्य* इत्यादिवाक्यानन्तरञ्चैवमुक्तम् – *अघानि हि कृतानि पुरुषस्य वैदिक-कर्मायोग्यताम् सजातीयकर्मान्तरारम्भरुचिम् प्रत्यवायञ्च कुर्वन्ति । अघस्य विनाशकरणमुत्पन्नायास्तच्छक्तेविनाशकरणम्, शक्तिरपि परम-पुरुषाप्रीतिरेव* इति । एवञ्चै पापकर्मणः परमपुरुषाप्रीतिद्वारासजातीय-कर्मान्तरारम्भरुचिजनकत्वमिति सिद्धत्वात् न् तत्र वासनान्तरमस्तीति गम्यते । *अनारब्धकार्ये एव तु* इत्यधिकरणे च व्यक्तमभाषयत्; यथा – *न च पुण्यापुण्यजन्यभगवत्प्रीत्यप्रीतिव्यतिरेकेण शरीरस्थिति-हेतुभूतसम्स्कारसद्भावे प्रमाणमस्ति* इति, अन्यत्राप्येतत्तुल्यन्यायमिति बोद्धव्यम् ।

*सम्स्कारविषये गीताभाष्याभिप्रायनिरूपणम्*

एवम् श्रीमद्गीताभाष्येऽप्युक्तम् –

* त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति ताम् शृणु । इत्यस्य व्याख्याने *स्वभावः – स्वासाधारणो भावः प्राचीनवासनानिमित्तस्तत्तद्रुचिविशेषः, यत्र रुचिस्तत्र श्रद्धा जायते, श्रद्धा हि स्वाभिमत । साधयत्येतदिति विश्वासपूर्विका साधने त्वरा । वासना रुचिश्च श्रद्धा चात्मधर्मा गुणसम्सर्गजाः, तेषामात्मधर्माणाम् वासनादीनाम् जनका देहेन्द्रियान्तःकरणविशेषगता धर्माः, कार्यैक-निरूपणीयाः सत्त्वादयो गुणाः – सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः* इत्युक्तम् । यच्चात्मसिद्धौ – *निर्धूतनिखिलकरणकळेबरज्ञानकर्म-वासनानुबन्धस्य अपवृक्तस्य न खलु स्वपरसम्वेदनोदयनिबन्धनम् किञ्चित् सम्भाव्यते* इति भगवद्यामुनमुनिभिर्ज्ञानकर्मवासनयो-र्भेदेनोपादानम्, तदपि भाष्यकारवचनवत् निर्वाह्यम् । यत्तु कैश्चित् कार्पासबीजे लाक्षारागरुषिते सति तद्रक्ततापगमेऽपि तत्कुसुमफलादौ रक्ततादर्शनात् वासनानुवृत्तिरङ्गीकार्येति – तत्र विचारणीयम् । किम् तत्कार्येष्वङ्कुरादिषु वासनोदयः? क्रमेण पुष्पाद्यात्मना परिणममानेषु बीजावयवेषु वा? नाद्यः – वैयधिकरण्येन आश्रयाभावाच्च वासनोदया-नुपपत्तेः, अन्यथाऽतिप्रसङ्गात् । बीजावयवेषु तु लाक्षावयवानुवृत्ति-स्यूतिबलेनैव रक्ततोपपत्तौ वासना निष्प्रयोजना । यत्तु गारुडमन्त्राद्य-भिमृष्टेषु जलादिषु विषनिर्हरणादिदर्शनात् कश्चित् सम्स्कारोऽङ्गीकार्य इति – तदनुपपन्नम्; मन्त्रबलाहितशक्तिविशेषेणैव तत्तत्कार्योपपत्तेः । नहि सजातीयकार्यनिष्पादकतया नियतस्य सम्स्कारस्य एतादृश-कायहेतुत्वम् युज्यते ।

यस्तु मीमाम्सकैः – *व्रीहीन् प्रोक्षति* इत्यादि-विहितकर्मसु व्रीह्यादिद्रव्यनिष्ठः कश्चित् सम्स्कारोऽङ्गीक्रियते । *सम्स्कारः कर्तुरेवेष्टः प्रोक्षणाभ्युक्षणादिषु* इति, तस्य कर्तृसम्स्कारत्वमभ्युपगम्यते नैयायिकैः । तत्र किमयम् भावनाख्यः सम्स्कारः? उत अदृष्टरूप इति विवेचनीयम्, नाद्यः – तस्यानूभूतिजन्यत्वेन क्रियाजन्यत्वानुपपत्तेः । न द्वितीयः – द्रव्येषु किञ्चित्कारमनाधाय केवलात्मसम-वेतादृष्टजनकत्वे प्रयाजादिवत् आरादुपकारकत्वप्रसङ्गात् । ततश्च नैवा-रादिचरुयुक्तायाम् विकृतौ व्रीहीणामेव प्रोक्षणम् स्यात्, न तु नीवाराणाम्; तत्प्रोक्षणस्य प्रकृतावविहितत्वेन आत्मसमवेतादृष्टासिद्धेः । ततो व्रीह्या-दिष्वेव सम्स्कारोऽभ्युपगन्तव्य इति । अत्रोच्यते – यद्यप्येवम्; अथा-प्ययम् सम्स्कारस्तत्तद्देवताभिमतिविषयत्वम् वा सत्त्वादिगुणोद्बोधेन यागयोग्यत्वम् वा – अनेन न ततोऽतिरिक्तगुणविशेषसिद्धिः ॥

*सङ्ख्यानिरूपणम् (सङ्ख्या)*

अथ सङ्ख्या । एकद्वित्र्यादिप्रतिपत्तिव्यवहारविषयः सङ्ख्या । ताम् द्रव्यमात्रनिष्ठाम् केचिदाहुः । केचित्तु द्रव्यगुणादिसमस्तपदार्थवर्तिनीम् । द्रव्यमात्रनिष्ठावादिनश्च नित्यद्रव्येष्वेकत्वम् नित्यम्, अनित्यद्रव्येष्व-वयवगतैकत्वैर्जन्यम्, द्वित्व त्रित्वादयस्त्वपेक्षाबुद्धिसहकृतैः प्रत्येकवर्ति-भिरेकत्वैर्जन्या इत्याहुः । तत्र तावत् द्वित्वादिव्यवहाराणाम् द्वित्वादि-सामग्र्यैव निष्पत्तिः; तत्तदपेक्षाबुद्धिविषयतयैव तेषाम् स्फुरणात् । द्वित्वा-दीनाम् बाह्यनिष्ठानामपि व्यवहर्तृनियमस्तत एववाच्यः । अन्यथा साधारणोपलम्भप्रसङ्गात् रूपादिवत् । ततस्तेनैव व्यवहारस्तन्नियम-श्चेत्यस्मिन् पक्षे तु उपपन्नतरम् । तादृशबुद्धिनिवृत्तौ च द्वित्वादि-निवृत्तिरभ्युपगता । एवञ्च कारणनिवृत्तिमात्रात् कार्यनिवृत्तिकल्पनम् गरीयः । तादृशबुद्धिनिवृत्तिमात्रात् व्यवहाराभाव इति तूपपन्नतरम् ।

ननु बुद्धिविशेष एव तात्त्विकमारोपितम् वा द्वित्वादिकमनाश्रित्य कथञ्चिदपि न घटते इति चेत्; भवतो वा कथम् घटते? शक्तिविशेषादिति चेन्न; द्वित्वापलापापातात् । द्वित्वादिप्रागभावः शक्तिरिति चेन्न; द्वित्वत्रित्वादि-सर्वप्रागभावसन्निधौ कस्य शक्तित्वमिति नियमासिद्धेः । ईश्वरबुद्धिपरि-ग्रहविशेषात् अदृष्टाद्वा नियम इति चेत्; तुल्यम् । निर्विषयव्यवहारप्रसङ्गो वैषम्यमिति चेन्न; विषयाभिधानात् । किञ्च द्वित्वादिषु प्रमाणसिद्धेषु तत्प्रागभावानाम् सहकारित्वकल्पनम्, तेषु च प्रमितेषु तन्नियमेन द्वित्वाद्युत्पत्तिप्रतिनियतिरिति दुरुत्तरम् । अतः सिद्धम् द्वित्वादि सङ्ख्याबुद्धिविशेषविषयत्वमिति ॥

*एकत्वविचारः*

एकत्वञ्चिन्त्यते । तत्र तावत् कार्यमेकत्वम् नास्त्येव । अवयविन एव अनभ्युपगमात् कुतस्तदैक्यम्? समुदायैकत्वम्? राश्येकत्ववत् । तत्रापि हि भागप्रधानव्यवहारे अनेकत्वम् व्यवहरन्ति । सम्हति-दशायामेकत्वावस्था जायते विभक्तदशायामनेकत्वावस्था चेति चेन्न; भेदाभेदविरोधप्रसङ्गात्, प्रत्ययस्य च सम्हतिविभागाभ्यामेव अन्यथा-सिद्धत्वात्, स्वरूपस्य च वस्तुतो भेदाभेदविरुद्धत्वप्रसङ्गात्, पटावस्था-यामेकतन्तूपलम्भप्रसङ्गाच्च । प्रळयावस्थायाम् प्रपञ्चैक्यम् कथमिति चेत्; न कथञ्चित् । श्रुतिविरोधस्तर्हीति चेन्न; भेदप्रहाणपरत्वात् । तदेवैक्यमिति चेन्न; प्रकृतित्वावस्थारूपत्वात् । यथा तृणोपलादिपरि-णामकलायाम् पृथिवीतः पृथग्व्यवहारो जायते । तेषामेव परिणामान्तरमापन्नानाम् पुनः पृथिवीत्वव्यवहारः । न च तावता तृणोपलाद्यम्शानाम् परस्परम् तावदैक्यम्, अथ महापृथिव्या वा । किम् तर्हि विजातीयावस्थाप्रहाणेन सजातीयावस्थापत्तिमात्रम् । एवम् प्रकृत्या-दावपीति । चिन्त्यम् निरवयवगतमैक्यमप्येवम् । तथाऽप्येकक्रिया-न्वयेन समप्रधानतया समुच्चीयमानवस्त्वन्तरप्रतिपत्तिविधुरवस्तु-मात्रप्रतिपत्ति विषयत्वमेकत्वम् । एतेन अयमेकः, अयमप्येकः इति व्यवहारोऽपि निर्व्यूढः; समुच्चये सत्यपि एकक्रियान्वयित्वसमप्राधा-न्ययोः अभावात् । न चात्रोपलम्भादिविरोधः; येन गौरवमपि सह्येत । तदेवम् गुणादावपि तत्त्वान्तरमन्तरेणापि सङ्ख्या प्रतीयमाना समाना-कारेण निर्व्यूढा । उपलम्भसाम्येऽपि वैरूप्यकल्पनम् अत्रभवतामधिकम्।

असङ्ख्यातव्यवहारोऽपि एवम् विधसङ्ख्याप्रतिक्षेपकः – अन्यथा भवतोऽपि विरोधात् । ईश्वरादिबुद्ध्या सर्वसमुच्चयसद्भावेऽपि शतसहस्रा-युतादिवत् अवच्छेदाभावादेव असङ्ख्यातत्वमानन्त्यम् । अनन्तेष्वपि न्यूनाधिकभावो विद्यत एव – यथाऽतीतकल्पदिवसादिसमुदायादीनाम्, यथा च द्रव्यत्वपार्थिवत्वघटत्वादिव्यक्तीनाम् । यत्तु *एकत्वमेकसङ्ख्याव-च्छेदः इति भाष्यम्* तदपि न सङ्ख्यायास्तत्त्वान्तरत्त्वाभिसन्धिपूर्वकम् । निर्विशेषवस्तुवादिनम् प्रतिविशेषप्रसङ्गमात्रपरत्वात्, अस्मदुक्त-सङ्ख्याया अपि विशेषत्वाविशेषात् । यत्तु भगवद्यामुनमुनिभिरात्मसिद्धौ द्वित्वादेरपि यावदाश्रयभावित्वमुक्तम् – तदपि वैशेषिकप्रक्रियाबीभत्सा-मात्रादिति मन्यामहे । उक्तम् हि भगवन्नाथमुनिभिः प्रमेयपादसप्तमा-धिकरणे *सम्योगान्तर्भूता सङ्ख्या* इति, *समस्ततदात्मा सख्या* इति च । अस्यार्थ उच्यते – बुद्धिविशेषसम्बन्धो हि सङ्ख्याख्यात्वेनोपपादितः, स च सम्योग एव । यद्वा सङ्घातैकत्वाद्यभिप्रायम् तदिदम् मन्तव्यम् । वरदविष्णुमिश्रादिभिस्तु आत्मसिद्धिवचनानुसारेण अतिरिक्तसङ्ख्याऽभ्युप- गता । यथोक्तम् -*प्रत्यक्षाश्रयवर्तिसङ्ख्यापरिमाणपृथक्त्वसम्योगविभाग-परत्वापरत्वद्रवत्व सादृश्यानि प्रत्यक्षाणि* इति । गुणेषु च सङ्ख्यादि-सद्भाव उक्तः – *गुणा- श्रितसङ्ख्यादीनाम् सम्युक्ताश्रितत्वेन ग्रहणम्* इति । एतदपि परमताभिप्रायेणेति मन्तव्यम् । यत्तु भट्टपराशरपादैः प्राकट्यनिराकरणादिप्रसङ्गेषु – *सङ्ख्या तु द्वितीयक्षण एव ज्ञायते सा सङ्ख्या समवायि-नोऽस्तीत्यविरोधः* इत्यादिषु प्रदेशेषु सङ्ख्याभ्युपगमनम् व्यवहृतम्, तत् किम्स्वित् स्वाभ्युपगमेन अथवा पराभ्युपगमेनेति न सम्विद्मः, प्रमेयनिरूपणविच्छेदात् ॥

*परिमाणनिरूपणम्*

परिमाणप्रत्ययविषयः परिमाणम् । तच्चतुर्धा – अणुमहद्दीर्घह्रस्वभेदात् । चत्वार्यपि परिमाणानि प्रतियोगिनिरूपितवेषाण्येव – इदमितोऽणु इदमितो महत् इदमितो ह्रस्वम् दीर्घमित्येव प्रतीतेः । अत्र च विभुद्रव्येषु परिमाणम् नास्तीत्येके; अपरिमितप्रत्ययात् । उक्तम् हि श्रीवेदार्थसङ्ग्रह-व्याख्यानेऽनन्तपदव्याख्यानदशायाम् श्रीराममिश्रैः – *वस्तुपरिच्छेदो वस्तुनः परिमाणम्, देशपरिच्छेदस्तु तत्कार्यः* इत्युक्त्वा  *अपरिच्छेद-स्तु न गुणः* इत्यादि । उक्तञ्च भगवद्यामुनमुनिभिः आगमप्रामाण्ये पूर्वपक्षे – *यदपि वियति परिमाणमिह निदर्शितम् – तदपि विमर्शनी-यमिव; परिमाणम् हि नाम देशावच्छेदः – इयत्ता परितो भाववेष्टनमिति यावत् । न च नभसि तदस्तीति कथमिव तदिह निदर्शनतया निर्दिश्यते* इति ।

अन्ये तु इत इदमधिकमित्येवम्रूपस्य परिमाणस्य तत्राप्युपपत्ते-रस्त्येव तत्रापि परिमाणम् । अपरिमितव्यवहारस्तु सङ्कुचितपरिमाण-प्रतिक्षेपपर इत्याहुः ।

इदञ्च परिमाणाख्यम् गुणान्तरम् विवरण-कारादिभिः स्वीकृतम् । जन्माद्यधिकरणे विवरणेऽपि ह्युक्तम् – *वस्तु-परिच्छेदो वस्तुपरिमाणम्, देशपरिच्छेदस्तु तद्धेतुकः* इत्यादि ।

अथान्यत् मतम् – परिमाणमेव तत्त्वान्तरम् नास्ति । तथाहि – देशव्याप्तिविशेष एव तत्तत्प्रतिसम्बन्धिनिरूपितवेषेण तत्तत्परिमाणम् । तत्त्वान्तरवादिनाऽपि चैतत् परिमाणाविनाभूतम-भ्युपगतम् । ततस्तदधिकस्वीकारेगौरवम् भवेत् । ननु न तावत् देशसम्योगमात्रम् परिमाणम् – अतिप्रसङ्गात् । ततोऽवच्छिन्नदेशविशेष इति वाच्यम् । न च अवच्छेदो येन केनापि, किम् तु परिमाणविशेष-विशिष्टेनेति वाच्यम् । अतस्तदुपजीविना देशावच्छेदेन तदपह्नवो न युज्यते । देशपरिमाणञ्च देशान्तराधीनमित्यनवस्था च स्यात् । तस्मात् स्थितम् तत्त्वान्तरम् परिमाणमिति, तन्न; एवम् हि अवच्छेदनिरूपणम् – यत्सम्युक्तम् देशम् देशान्तरञ्च यत् युगपदाक्रमितुम् शक्तम् तत्ततोऽधिकपरिमाणम्, यत्सम्युक्तम् देशमखिलमेकदैव यदाक्रमितुम् न शक्तम् तत्ततो न्यूनपरिमाणमिति । तथा एकदिगा-र्जवावच्छेदेन आधिक्यम् दैर्ध्यम्, तेनैव न्यूनभावो ह्रस्वत्वम्, बहुदिग-वच्छेदेन आधिक्यम् महत्त्वम्, तेनैव न्यूनभावोऽणुत्वम् । नचैतदधिकमणुत्वमस्तीत्यणुनिराकरणादपिसिद्धम् । चतुर्विधमप्येतदेकस्मिन्नपि घटते । यथा स्तम्बविशेष एव स्तम्बान्तरापेक्षया स्थूलाणुत्वदीर्घ-ह्रस्वत्वव्यवहार इति । एवञ्च सति नात्रावच्छेदके किञ्चित् परिमाणम् निर्दिष्टम् – येनोपजीव्यविरोधान-वस्थादिदोषः स्यात् । एतेन देशस्यापि न्यूनाधिकत्वे व्याख्याते । न्यूनाधिकदेशसम्योगभेद एव स्वरूपातिरिक्तम् परिमाणविशेषमन्तरेण न घटते इति चेन्न; राश्यादिषु दृष्टत्वात् । तत्र भागसङ्ख्याधिक्यनिबन्धनः स इति चेन्न; तर्हि सर्वत्र तत एवास्तु । प्रशिथिलसम्योगवति समभागवत्त्वेऽपि परिमाणभेदो दृष्ट इति चेत्; सत्यम् । तथाऽपि प्रशिथिलसम्योगादेव परिमाणविशेषो-त्पादकतया अभिमतात् तावद्देशव्याप्तिरेवास्तु । समूढप्रसारितचूर्णपुञ्जेऽपि हि तथा दृश्यते । एवम् महत्त्वबहुत्वाभ्यामपि देशव्याप्तिविशेष एवारभ्यते – न ततोऽन्यदान्तराळिकमनुपलभ्यमानमिति । उक्तञ्च भगवद्यामुनमुनिभिः – *परिमाणम् हि नाम देशावच्छेदः* इति । भगवन्नाथमुनिभिरपि प्रमेयपादसप्तमाधिकरणे – *सङ्ख्यान्तर्भूतम् परिमाणम्* इत्याद्युक्त्वा अनन्तरञ्चोक्तम् – *दूरत्वम् दैर्ध्यम्, सामीप्यम् ह्रस्वत्वम्, तिर्यग्दूरत्वम् स्थौल्यम्, तिर्यक्सामीप्यम् कार्श्यम्, स्वाम्श-स्याग्रे स्वाम्शस्थितिरार्जवम्, स्वाम्शस्य स्वाम्शस्थितिर्वक्रता, एकदिक्स्थान्त्यावयवानाम् विरुद्धदिक्स्थान्त्यावयवदूरत्वसामीप्यसाम्यम् वृत्तत्वम्, केवलविरुद्धदिगन्ताम्शेभ्यः कोणविरुद्धदिगन्ताम्शेभ्यः कोण-विरुद्धदिगन्ताम्शानाम् दूरत्वसामीप्यसाम्यम् चतुरश्रत्वम्* इति । किञ्चिदन्तरमतिक्रम्य च उक्तम् – *अनेकव्याप्तिर्महत्ता, तदभावो मन्दत्वम्* इति । देशकालसङ्ख्योन्मानादिसर्वसाधारणपरिमाणमात्रस्य च स्वरूपमुक्तम् – *समस्तभावतदात्मा परिमाणम्* इति ।

अत्रेदम् तत्त्वम् – आयामविस्तारघनभेदेन त्रिविधम् परिमाणम् । यथासम्भवम् प्राक्प्रत्यग्दक्षिणोत्तरोर्ध्वाधःपर्यवसितञ्चैतत् । तत्र त्रिष्वपि दिग्द्वन्द्वेषु यत्राधिक्यम् स आयामः यत्र मध्यमत्वम् स विस्तारो यत्र न्यूनत्वम् तत् घनमिति । त्रयाणामप्येषाम् सङ्करतारतम्यभेदात् बहुविधो व्यवहारः । विभुद्रव्येषु कार्त्स्न्यपेक्षायाम् परिमाणम् नास्ति । तत्तदवच्छेदापेक्षायाम् यथासम्भवम् व्यवहार इति ॥

*पृथक्त्वनिरूपणम्*

पृथक्त्वम् पृथग्व्यवहारकारणम् पृथग्गुण इति काणादादयः । तदिदम् भेदमात्रात् नातिरिच्यते; प्रत्ययस्य तावन्मात्रेण विश्रान्तेः, कल्पकानाञ्च अन्यथासिद्धेः, पृथक्त्वस्य भिन्नशब्देन च सहप्रयोगा-दर्शनात् । भेदावध्यवधिकतया द्रव्येष्विव अद्रव्येषु च पृथक्त्वधी-व्यवहारदर्शनात् । सा भ्रान्तिरिति चेन्न; बाधकाभावात् । भेदशब्दार्थ एव पृथक्त्वाख्यगुणोऽस्त्विति चेन्न; तस्य स्वरूपसम्स्थाननीलपीतादि-भिर्निर्वाहात् । अपर्यायबुद्ध्युपाधिना तेषु सर्वेषु भेदशब्दव्युत्पत्तेः, स्वरूपादिशब्दवत् । तस्यैव च अन्योन्याभावत्वात् । इदमिदम् न भवतीत्यत्र अवधिनिरूप्यत्वमन्योन्याभावस्य न दृष्टमिति चेन्न; शब्दविशेषात् तथोपपत्तेः । पृथक्त्वाख्यगुणवाचकान्यशब्दपर्यायसम्बन्धे पञ्चमी पाणिनेः विवक्षितेति चेत्; कथम्? अन्योन्याभावपर्यायविवक्षायाम् घटात् पटो न भवतीत्यपि प्रयोगप्रसङ्गादिति चेन्न; धर्मिपर्यन्तेष्विति विशेषात् । पृथक्त्वमिति निर्देशे कथमिति चेन्न; तस्यापि धर्मिणमु-ल्लिख्यैव धर्मबोधकत्वात् । अमानोनादयस्तु असत्त्वे वर्तमाना नावध्याकाङ्क्षिणः । यद्वा तेषाम् समानाधिकरण एव अवधिरिति सिद्धम् भेदमात्रमेव पृथक्त्वमिति । उक्तञ्च भेदसमर्थनानन्तरम् भट्टपराशर-पादैः – *तदेवम् क्लृप्तैरेव द्रव्यजातिगुणकर्मभिर्धर्मैरशेषाणामपुन-रुक्तवित्तिव्याहारव्यवहाराणामुपपत्तेर्भेदो नाम न धर्मान्तरमपूर्वम् कल्प्यम् । अत एव वैशेषिकपरिक्लृप्ताः पृथक्त्वविशेषादयोऽपि प्रोत्सारिताः* इत्यादि । भेदस्य एकानेकगतत्वविकल्पपरिहारे चोक्तम् –

* नीलिमश्वेतिमानावप्यनेकावेव धर्मिणम् ।

नीलम् शुभञ्च भिन्दानौ स्फुटम् ह्युपलभामहे ॥

ये विशेषपृथक्त्वादिसापेक्षम् कल्पयन्ति ते ।

बिभ्यत्वात्माश्रयादिभ्यो न वयम् दृष्टवादिनः ॥* इति ।

तदेवम् स्वरूपधर्मौ यथासम्भवम् पृथक्छब्देन भिन्नादिशब्देन च व्यपदिश्यते । उक्तञ्च न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे – *अतिरेक- व्यतिरेकभेदेन द्विविधो भेदः* इति । अत्रातिरेको धर्म्यन्तरेष्वसन् धर्मः । व्यतिरेको धर्मधर्म्यादेः स्वरूपम् । तस्मिन्नेवाधिकरणे – *ऐक्यम् साकल्येन सम्योगः, तदभावो भेदः* इत्युक्तम्, तत् विभागाभिप्रायम् ॥

*विभागनिरूपणम्*

*विभागस्य अतिरिक्तत्वविचारः*

सम्योगविरोधी गुणो विभाग इति परे । तदयुक्तम्; नोदनपाटनादी-नामेव सम्योगविध्वम्सकत्वात्, विभागजनकतया अभ्युपगतानामेव तद्ध्वम्सकत्वोपपत्तेः । न च सम्योगजनकजातीयत्वादिनाऽनुकूलस्य कर्मादेस्तद्ध्वम्सकत्वमनुपपन्नमिति वाच्यम्; रूपादिजनकतया अभ्युपगताग्निसम्योगादिजातीयानाम् रूपादिनाशकत्वाभ्युपगमात् । स्वजन्यव्यक्तेरपि स्वनाश्यत्वमिष्टम्, किम्पुनरन्यस्याः । उत्पाट्य-मानघटादिषु शब्दोत्पादकतया कश्चिद्गुणः कल्प्यते इति चेन्न; तत्रापि विभागजनकस्य पाटनादेरेव तज्जनकत्वोपपत्तेः, तस्य च सम्योगविशेष-रूपत्वात् । विभक्तप्रत्ययस्य च सम्योगाभावविषयतयोपपत्तेः । तर्हि मेरुविन्ध्ययोरपि विभक्तप्रत्ययः किम् न स्यादिति चेन्न; तस्य विध्वम्सात्मकत्वात् । सम्योगाभावमात्रनिबन्धनश्च विभक्तप्रत्ययस्तत्रापि केषाञ्चित् जायते, उपचाराच्च तन्निर्वाहो भवतामपि । एवम् क्वचित् स्वरूपभेदनिबन्धनो विभक्तप्रत्ययो निर्वाह्यः । क्षणिकस्य विभागस्य स्थिरध्वम्सात्मकत्वम् कथमिति चेन्न; तस्य परिभाषामन्तरेण क्षणि-कत्वे प्रमाणाभावात्, प्रतियोगिस्मरणादौ तद्विभागवानयमिति प्रत्ययस्य यावत्पुनस्सम्योगमुत्पत्तेः । प्रध्वम्सात्मकत्वे पुनस्सम्योगे सत्यपि विभक्तबुद्धिः स्यादिति चेन्न; भवतामपि पूर्वसम्योगप्रध्वम्सस्य विद्य-मानत्वेन असम्युक्तप्रत्ययप्रसङ्गात् । यावदुत्पन्नसम्योगध्वम्सेसति तदातदा तत्तत्प्रतियोगिकतया तथाप्रतीतिरिति चेत्; तुल्यम् । द्रव्य-द्वयनिष्ठतया प्रतीयमानस्य सम्योगवत् गुणत्वमुचितमिति चेत्; अहो ! महावैशेषिकोऽसि । यदभावस्य प्रतियोग्याधारिणः स्वतोऽमिलितत्व-मभ्युपगच्छतामेवमभिमन्यसे । उभयनिरूप्यप्रतियोगिकतया हि सम्योगप्रध्वम्सस्य उभयनिष्ठत्वप्रत्ययोऽभ्युपगत एव भवद्भिः । असम्युक्ताविति सम्योगप्रागभावात् । ननु ध्वम्सोऽपि भावान्तरमेव भवतामिति शब्दान्तरेण विभागः स्वीकृत इति चेन्न; उत्तरसम्योगादि-मात्रात्मकत्वात् । सजातीयस्यैव कथम् विरोधित्वमिति चेत्; अभाव-निरूपणम् यावदेतच्चोद्यम् मा स्म विस्मरः । प्रत्ययस्तु वियुक्तो विघटितो विश्लिष्टो विनष्टसम्योगो विभक्तो विप्रकृष्टो देशान्तरगत इति तुल्यरूप एव जायते । एतदखिलमभिसन्धायोक्तम् न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे – *वियोगो न वक्तव्यः* इति । तत्रैव पश्चाद-प्युक्तम् – *अत्यन्तसामीप्यम् सम्योगः, दूरत्वम् वियोगः* इति । अनेन सम्योगोऽप्यपलपितः स्यादिति चेत्; सामीप्यस्य समीपदेशसम्योगा-त्मनैव निरूप्यत्वात् । तथा च आदेशादेशिनोरविशेषेण द्वयोरपि सम्योगसिद्धिः। दूरत्वमपि देशविशेषसम्योग एवेति न ततोऽतिरिक्तो विभाग इति ॥

*परत्वापरत्वनिरूपणम्*

*परत्वापरत्वयोः दिक्कालसम्बन्धविशेषत्वनिरूपणम्*

दिक्कालापेक्षया परापरधीहेतुगुणौ परत्वापरत्वे इति परे । ते अपि दिक्कालसम्बन्धविशेषात् नातिरिक्ते – लाघवात् । अप्रत्यक्षपदार्थसम्योगः कथम् प्रत्यक्षः इति चेन्न; दिक्कालयोरपि प्रत्यक्षत्वस्य समर्थितत्वात् । यादृशोपाध्यवच्छिन्नदिक्कालसम्बन्धः परत्वापरत्वोत्पादको भवताम्, तथाविध एव सोऽस्माकम् व्यवहारविषय इति नातिप्रसङ्गगन्धोऽपि । यदि च व्यवहारनिर्वाहके सिद्धेऽपि परापरप्रत्ययमात्रात् गुणान्तरक्लृप्तिः, परापरजातिपरापरपरिमाणपरापरज्ञानशक्त्यादिष्वपि तादृशगुणकल्पन-प्रसङ्गः अविशेषात् । न्यूनाधिकव्यक्तिवृत्तिन्यूनाधिकदेशावच्छेदादिभि-स्तत्र निर्वाह इति चेत्; अत्रापि न्यूनाधिकदिक्कालसम्बन्धात् तन्निर्वाह इत्युक्तमेव । भवद्भिरपि प्राक्त्वप्रत्यक्त्वादयः पूर्वोत्तरत्वादयो दिक्काल-सम्योगमात्ररूपा निर्वाह्याः, तदत्र को नाम विशेषो दृष्टः? येन गुणान्तर-कल्पने कुतूहलमत्रभवताम् । परत्वापरत्वे विना सम्युक्तसम्योगभूय-स्त्वाल्पीयस्त्वयोरेव दुर्निरूपत्वमिति चेत्; तर्हि अन्योन्याश्रयः –व्यावृत्त-तया निरूपितयोरेव तयोः परत्वापरत्वनिमित्तत्वम्, तदुत्पन्नाभ्यामेव परत्वापरत्वाभ्याम् तन्निरूपणमिति । अनिरूपितयोरेव तयोरुत्पादक-त्वमिति चेत्; तारानिशाकरादिष्वपि तथाप्रत्ययः स्यात् । दूरत्वेनान्त-राळाग्रहणात् नैवमिति चेत्; त्यज तर्हि सत्तया कारकत्वम् । तथा च सिद्धम् नस्समीहितमिति । यत्तु प्रमेयसङ्ग्रहे श्रीविष्णुचित्तैरुक्तम् – *दूरे कथमिति चेत्; तत्र कुशलमेव – द्युमणिगगनादीतरव्यावृत्तमेव हि रूपम् परिमाणपृथक्त्वदेशकालकृतपरत्वापरत्वादि च इन्द्रिययोग्यम् सर्वम् सहैव ज्ञायते* इति, तदपि न तत्त्वान्तरपरम्, विशिष्टप्रतिसम्बन्धि-मात्रपरमेव, वैशिष्ट्यस्य च अस्मदुक्तप्रक्रिययाऽप्युपपत्तेः । उपादानमात्रस्य तत्त्वान्तरत्वप्रतिपादकत्वाभावात् । तथाहि । तत्रैवमुक्तम् – *अन्धकारे स्थाणुपिशाचस्त्रीपुम्सादिसम्शयास्तदवान्तरा एव । नक्तम् हि द्युमणिदीपमहीगगनस्वात्मादिव्यावृत्तिरपि न ज्ञायत इति न शक्यम् वक्तुम् । न हि देहात्मभ्रममन्तरेण क्वचित् द्रष्टृदृश्यसङ्करोऽप्यस्ति* इति । किमत्र पृथगुपादानमात्रेण स्थाणुपिशाचादयः पदार्थान्तरम् भवन्ति । अस्तु वा परमतेन एकदेशिभेदेन वा व्यवहारः, तथाऽपि विशिष्टोपलम्भनप्रतिपादनपरत्वात् न दोषः ।

*कर्मनिरूपणम्*

*कर्मणः अतिरिक्तत्वविचारः*

अथ कर्म । चलनप्रत्ययविषयः कर्म । तत् प्रत्यक्षमेव; करतलादिषु तथोपलम्भात् । न त्वनुमेयम्; तदसिद्धिप्रसङ्गात् कार्यस्य  उभयाभ्युपेतकर्मसामग्रीमात्रेणैवोपपत्तेः । अतिप्रसङ्गाच्च – कार्येण हि गिरिजलधरसम्योगेन गिरावपि कर्म कल्प्येत । अन्यतरकर्मजनितोऽयम् सम्योग इति चेत्; तत् केन सिद्धम्? तत्रापि जलधरकर्मजनितोऽयमिति- नियमश्च कुतः सिद्धः? जलधरशिखरिणोश्चलाचलरूपेण प्रतीतेरिति चेत्; सिद्धम् नः समीहितम् । विभागपूर्वकेण सम्योगेन कर्मानुमानमिति चेत्; तर्हि जलधरान्तरेण विभज्यमाने जलधरान्तरेण सम्युज्यमाने कर्मानु-मानम् स्यात् । यदि च कार्येण जातेन प्रतीतेन व्याप्यतयाऽनुसम्हितेन च कर्मानुमानम् – चलतीति वर्तमानबोधो न स्यात्, चिरनिर्वृत्तत्वात् तस्य । अस्माकम् तु सत्ताक्षण एवेन्द्रियेण सम्बध्यते, तावतैव च पदार्थान्तरेष्विव अत्रापि वर्तमानप्रत्ययोपपत्तिः । तदेवम् प्रत्यक्षयोग्येषु प्रायशः प्रत्यक्षः चलतिधीविषयः । स च  सम्प्रतिपन्नविभागपूर्वक-सम्योगमात्ररूपो वा तत्कारणभूतोऽन्यो वेति सयूथ्यविवादः । तत्रैवमेकः पक्षः – कर्महेतुतयैवाभ्युपगतैः प्रयत्नादृष्टादिभिः कर्मजन्यतयाऽभ्युपगत-विभागपूर्वकसम्योग एव जन्यताम् । न च मध्ये किमपि विशदमुप-लब्धम्, येन गौरवपरिहारः स्यात् । चन्द्रतारकादीनाम् विभागपूर्वक-सम्योगदृष्टावपि सम्योगसन्ताननैरन्तर्याप्रतीतेः चलतीतिप्रत्ययाभावः । यथा भ्रमणे सत्यपि प्रत्येकम् कर्मक्षणेषु न भ्रमतीतिप्रत्ययः; किम् तु निरन्तरतयाऽनुसन्धीयमानेष्विति भवद्भिरपि स्वीकार्यम्, तथाऽत्रापि सन्तोष्टव्यम् । न च कर्मणा सम्युज्यत इति पृथग्व्यपदेशात् भेदसिद्धिः; कर्मशब्दनिर्दिष्टस्य पूर्वसम्योगविश्लेषस्यैव उत्तरसम्योगारम्भकत्वात् भेदव्यपदेशोपपत्तेः । न च उत्तरसम्योगेस्थिरे वर्तमाने यावत्तद्विनाशकालम् चलतीतिप्रत्ययप्रसङ्गः; विभागपूर्वकसम्योगारम्भक्षणमात्रस्य क्षणिक-निरन्तरतत्सन्तानस्य वा कर्मत्वात् । उक्तञ्च न्यायतत्त्वे प्रथमाधि-करणे – *यदि गमनपचनादीनाम् क्षणिकत्वम् ज्ञायेत, नहि ते क्षणिकाः –सम्योगवियोगविशेषत्वात् तेषाम्* इत्यादि । द्वितीयाधिकरणे चोक्तम् -गमनम् नाम देशाद्देशान्तरप्राप्तिः* इति । प्रमातृपादे प्रसङ्गेनोक्तम् – *वयम् तु क्रियायाः प्रत्यक्षत्वम् ब्रूमः* इत्युपक्रम्य  *तस्माद्देशादेशा-न्तरप्राप्तिर्लिङ्गमिति न मन्यामहे, अपि तु तदेव तदिति मन्यामहे कल्पनालाघवात्* इत्यादि । यत्तु भट्टपराशरपादैरुक्तम् –  *इन्द्रियैरर्यमाणत्वात् ज्ञायमानोऽर्थ उच्यते ।

द्रव्यम् जातिर्गुणः कर्मेत्यसावर्थश्चतुर्विधः ॥* इति ।

तथा *जातिगुणकर्मसु सामान्यसमाश्रयणे सम्युक्तसभवेतसमवाय-सम्भवात्* इत्यादि, तत्तु एतैरेव अन्तर्भावितसामान्यपृथग्गणनवत् । अत एव हि तैरेवोक्तम् – *द्रव्यस्य धर्मिणाऽन्तरङ्गो धर्मविशेषो जातिः । जात्यनुप्राणितस्य विशेषकः सिद्धो धर्मविशेषो गुणः । तथाविधः साध्यः क्रिया । तद्धर्मकम् द्रव्यमिति स्थविष्ठानि लक्षणानि । सौक्ष्म्येण तु विवेक्ष्यन्ते प्रमेयेषु* इति ।

अथान्यः पक्षः ।  न विभाग-पूर्वकसम्योग एव कर्म एकेन जलधरेण विभज्यमाने जलधरान्तरेण तेन वा पुनस्सम्युज्यमाने शिलोच्चये चलतीतिप्रत्ययप्रसङ्गात् । देशविभाग-सम्योगौ कर्मेति चेन्न; महाप्रवाहपतितनिष्कम्पमकरे चलतीतिप्रत्यय-प्रसङ्गात् । न प्रवाहो देशः, किम् तु आकाशभूम्यादय इति चेत्; तर्हि स्थिरास्थिरविभागस्य सम्योगाद्यतिरिक्तेन निर्वाह्यत्वात् सिद्धमतिरिक्तम् कर्मेति । उक्तञ्चमानयाथात्म्यनिर्णये प्रत्यक्षलक्षणानन्तरम् वरदविष्णु-मिश्रैः – *तच्च द्रव्यगुणकर्मविषयम् – सकलपदार्थजातस्य त्रिष्वेवान्त-र्भावात् । तत्र द्रव्यलक्षणम् सम्योगीति, अकर्मासम्योगी गुण इति गुणलक्षणम्* इत्यादि । प्रत्यक्षत्वञ्च कर्मणोऽन्यत्रापि तैरुक्तम् – *कर्मणस्तु चाक्षुषद्रव्यवर्तिनश्चाक्षुषत्वम्* इत्यादिना । तच्च सम्योगा-द्यतिरिक्तमनतिरिक्तम् वाऽस्तु – तृतीयकोट्यनुप्रवेशो न युक्त इति वयम् मन्यामहे – इष्टव्यतिरेकेण लक्षणकरणस्य सर्वत्रशक्यत्वात् । यत्र सामान्यवत्त्वे सति सम्योगविभागकार्यद्वयाभावः स गुण इति चेन्न; यत्र तदुभयाभावः स्वोत्पादकसजातीयोत्पादकत्वतद्विजातीयत्वद्वयस्य चाभावः स गुण इति लक्षणकरणेन सम्स्कारस्यापि पृथक्करणप्रसङ्गात् । एवमन्यदपि चिन्त्यम् । अतो द्रव्यमद्रव्यमित्येव विभागः ॥

*सामान्यनिरूपणम्*

अथ सामान्यम् चिन्त्यते । नित्यमेकमनेकसमवायि सामान्यमिति वैशेषिकादयः । तथा हि । अनेकेष्वेकप्रतीतिव्यवहारो न निमित्तमन्तरेण उपपद्यते । तच न ज्ञानाकारः; आत्मख्यातिभङ्गात्; अर्थे च प्रवृत्त्यनु-पपत्तेः, भेदाग्रहस्य च अयोगात् ।

नाप्यळीकम्; असत्ख्यातिभङ्गात् । तथाप्रतीतौ च प्रवृत्त्यनुपपत्तेः, अतथाप्रतीतौ अन्यथाख्यातिप्रसङ्गात् । सदसदादिविकल्पितस्य भेदस्य अनुपपत्त्या तदग्रहस्य अत्रायोगात् । नाप्यपोहात्मकम्, विधिरूपेणैव प्रतीतेः, पूर्ववत् प्रवृत्त्यनुपपत्तेश्च । एतदन्यतया अन्यस्मिन् तदन्यतया च अस्मिन् निरूप्यमाणे अन्योन्याश्रयणात् । निष्प्रतियोगिकापोहस्य वैजात्यप्रसङ्गेन अननुगतिप्रसङ्गात्, तज्जातीयत्वेन उपादाने जाति-स्वीकारात् । नापि  सम्स्थानसादृश्यात्मकम्;  तत्रानुवृत्तिव्यावृत्ति-                                                                       विकल्पायोगात् । अतोऽनुवृत्तमस्त्वेकम् सामान्यमिति ।

*अवयवसामान्यानुवृत्त्या अवयविनि

अनुवृत्तप्रतीतिव्यवहारौ इति पूर्वपक्षवर्णनम्*

सामान्यमिति – अत्रोच्यते; केयमेकप्रतीतिर्नाम – एकव्यक्तित्वप्रतीतिर्वा? एकजातित्वप्रतीतिर्वा? एकजातीयत्वप्रतीतिर्वा? एकाकरधर्मवत्त्वप्रतीतिर्वा? एकशब्दानुविद्धप्रतीतिर्वा? न प्रथमद्वितीयौ – अन्यतरपरिशेषादिप्रसङ्गात् । न तृतीयः – असिद्धेः, एष्वनुवृत्तमिदमिति विकल्पानुदयात् । घटस्य घटत्वमित्यादिव्यवहारस्य कालस्य कालत्वमित्यादिवदुपपत्तेः । नापि तुरीयः – गोत्वाद्यपलापप्रसङ्गात्, सम्स्थानमात्रस्यैव अस्मदभिमतस्य तथात्वात् । मृण्मयहिरण्मयघटादिषु भवद्भिरपि तथानिर्वाहात् । न हि तत्रानुगतम् घटत्वमभ्युपगतम् – जातिसङ्करभयात् । व्यावृत्तजाति-द्वयाभ्युपगमे अनभ्युपगमेऽपि अनुवृत्तप्रतीतिव्यवहारयोः सम्स्थान-सादृश्यमेव निबन्धनम् । एवम् सति तदेवास्तु सर्वत्रापि । ननु अवयव-सामान्यानुवृत्त्या अवयविनि अनुवृत्तप्रतीतिव्यवहारनिर्वाह इति चेन्न; यतः कपालत्वादेरपि पूर्ववत् सङ्करादिदोषः समानः । अस्तु तर्हि  सङ्करा-भ्युपगमेन अनुवृत्तम् सामान्यमिति चेन्न; अन्यथा प्रतीतिनिर्वाहे कल्पनायोगात् । व्यावृत्तसम्स्थानादेः अनुवृत्तधीहेतुत्वे अतिप्रसङ्गा-दिति चेत् – व्यावृत्तानाम् सम्स्थानानामनुवृत्तव्यञ्जकत्वे कथम् नातिप्रसङ्गः? तावतामेव तथाविधस्वभावत्वादिति चेत् – तुल्यम्, तावतामेव तथाविधप्रत्ययहेतुत्वादिति वक्तुम् शक्यत्वात् । केवलमुपलम्भातिक्रमो गौरवञ्च भवन्मते । एवम् पञ्चमोऽपि पञ्चताम् गतः । तत्र हि एक इति शब्देनानुविद्धप्रतीतिर्वा? एकेन गवादिशब्देनानुविद्धप्रतीतिर्वा विवक्षिता? आद्यो न कल्पते; एकव्यक्तिरिति विवक्षायामसिद्धे; एकजातीयमिति व्यवहारस्य तत्तदुपाधिविशेषेणोपपत्तेः, राशि-सैन्यपरिषदरण्यादिषु ऐक्यव्यवहारादिवत् । उपाधिश्चायमनेकेषामेक-स्मृतिसमारोहः । नापि द्वितीयः; तस्यानेकार्थेषु शब्देष्वपि समत्वात् । अनेकार्थव्यावृत्तः कश्चित् विशेषोऽस्तीति चेन्न; तस्यापि स्वरूपविषयादि-शब्दवदुपपत्तेः । स्वरूपविषयादिशब्दा हि नानारूपेष्वेवार्थेषु प्रवर्तमानाः केनचिदाकारेण साधारणाः केनचिदसाधारणाश्च दृश्यन्ते, तद्वत् गोशब्दोऽपि सलिलसरस्वतीकिरणकरमाल्यादिषु साधारणः प्रकरणादिवशात् विशेष-मापद्यते इति विलक्षणनिमित्तकल्पनानवकाशात् ।

 

*सम्स्थानमेव सामान्यम् इति

सिद्धान्तिपक्षेदोषोद्भावननिरूपणम्*

ननु यदि सम्स्थानमेव सामान्यम् तर्हि तद्रहितेषु रूपरसादिषु कथम् निर्वाहः? तव वा कथमुपलक्षणरहितेषु? तेषु लक्षणमेवोपलक्षणमिति चेत् – किम् तत्? प्रतीतिरिति चेन्न; आत्माश्रयप्रसङ्गात् । अस्माकम् तु तदेवैकीकरणमिति नोपद्रवः । उपलक्षणनिर्बन्धो नास्तीति चेत्; अस्माकमपि मा भूत् सम्स्थाननिर्बन्धः ।

*सादृश्यस्य वस्तुस्वरूपत्वे दोषोद्भावनम्*

द्विविधम् हि सादृश्यम् प्रतीतिसिद्धम् – धर्मसादृश्यम् स्वरूप-सादृश्यञ्चेति । द्रव्येषु प्रायशो धर्मसादृश्यात् एकरूपप्रतीतिव्यवहारौ । तावदपेक्षया च श्रीविष्णुचित्तैरुक्तम् – *भूयोऽवयवसामान्यमेव प्रतियो-ग्यपेक्षया सादृश्यशब्दवाच्यम् इति । धर्मान्तरशून्येषु स्वरूपसादृश्यदेव  एतावदभिप्रेत्य भगवता भाष्यकारेणोक्तम् – *सम्स्थानम् नाम स्वासाधा-रणम् रूपमिति यथावस्तु सम्स्थानमनुसन्धेयम्* इति । अत्र यदुक्तम् विवरणे – *तत्तद्वस्तु पश्यताम् तत्तदवयवविन्यासविशेषलक्षणम् सम्स्थानमवभासते । ननु प्रतिव्यक्ति भेदात् सम्स्थानस्य कथम् व्युत्पत्तिः? अथैक्यम्; तर्हि नासाधारणता । नैतत् – उपाधितोऽपि व्युत्पत्तेः; यथा वालधितः पशुशब्दस्य । सादृश्यञ्चोपाधिः* इत्यादि, तत्र *अवयवविन्यास* इत्युदाहरणपरम्; अन्यथारूपादिषु रूपत्वम् जाति-रित्यादिव्यवहारभङ्गप्रसङ्गात् । *सादृश्यञ्च उपाधिः इत्यादि तु अतिरेकपक्षस्वरसमपि अतिरेकपक्षानुपपत्तेः स्वरूपमात्रपरम् । ननु यदि स्वरूमेव सादृश्यम् – स्वरूपमात्रत्वाविशेषात् सर्वमपि सर्वेण सदृशम् स्यात्; रूपम् रूपान्तरेण सदृशमिति सहप्रयोगश्च न स्यादिति चेत्;  तदिदमतिरिक्तपक्षेऽपि तुल्यम् । यदि तत्र सादृश्यम् भवेत् सर्वेणापि तत् सदृशम् भवेत्; अविशेषात् । यदि तु तावत्प्रतियोगिकमेव सादृश्यम् तत्र उपलम्भव्यवस्थाप्यम्; तर्हि तदेवस्वरूपम् तावत्प्रतियोगिकम् तत एव व्यवस्थाप्यताम्; अविशेषात् । न च सहप्रयोगानुपपत्तिः; प्रतियोगि-निरूपितवेषेण सदृशशब्दविषयत्वात्, अन्यथा विषयादिशब्दैरपि सहप्रयोगानुपपत्तेः । ननु यदि सादृश्यमेव सामान्यम्, तदा गोगवययोरविशेषेण गोशब्दवाच्यत्वम् स्यात्; न स्यात्; सौसादृश्यस्य सामान्यत्वात् । यादृशसौसादृश्यम् सामान्योपलक्षणम् भवताम् – तदेव तदिति नियमनसिद्धेः । सादृश्यातिरिक्तम् सौसादृश्यम् नाम किमिति चेत् – आपाततः समानधर्मातिरेकः अन्ततः स्वरूपविशेषः । यत्तु नारायणार्यैरुक्तम् – *सम्स्थानमेव जातिः । तत् प्रतिपिण्डम् भिन्नत्वेऽपि द्वितीयादिपिण्डेषु सौसादृश्यात् प्रतिसन्धीयमानम् स्वाश्रयेषु वस्तुषु एकबुद्धिशब्दनिबन्धनम् भवति । तदेव प्रतिसन्धीयमानम् सौसादृश्यम् अनुवृत्तिरिति च उच्यते इत्यादि, यच्च वरदविष्णुमिश्रैरुक्तम् – प्रत्यक्षाश्रयवर्तिसङ्ख्या परिमाणपृथक्त्व सम्योगविभागपरत्वापरत्व-द्रवत्वसादृश्यानि प्रत्यक्षाणि* उपमानप्रमाणान्तरञ्चोक्तम् – इदञ्च  सादृश्यम् गुणः – अनुमानेन गुणत्वावधारणात् । कार्यभूतसङ्ख्या-शक्तिसादृश्यानि गुणाः – द्रव्यकर्मान्यत्वे सति आश्रितकार्यत्वात् घटगतशौक्लयवत् इति, तत् तेषाम् तथाभिमतमित्येकदेशिमतम् मन्तव्यम् ।

यत्तु भट्टपराशरपादैरुक्तम् –

* भूयोऽवयवसामान्यम् सादृश्यम् बहवो विदुः ।

पृथक्प्रमेयम् तदिति प्रमेये दर्शयिष्यते ॥* इति,

तत् किमभिप्रायमिति न जानीमः; उत्तरत्र प्रमेयनिरूपणस्य विच्छिन्नत्वात् । अस्तु वा सादृश्यमन्यत् तन्मतेनापि, अस्माकम् तु एषा रुचिः । तदत्र सम्स्थानमाकृतिरिति पर्यायः । तदेव परस्पर-निरूपितवेषेण सौसादृश्यम् जातिः सामान्यमिति च गीयते, नान्य-दुपलब्धम् । यत्तु भट्टपराशरपादैरुक्तम् – *ननु द्रव्यत्वपृथिवीत्वशुक्ल-त्वपाकत्वादेः सामान्यस्य अनाश्रयणे वाच्यानाम् स्वप्रवृत्तिनिमित्तानाञ्च सन्तत्यवस्थादीनामनेकत्वात् एकप्रयोजकाभावे कथमैकशब्द्यम्? वद तव वा कथम्? न ममैव एष भरः, सर्वो हि लोकः सर्वमित्यादिषु बहुष्वपि शब्दैक्यम् मन्यते* इत्युक्त्वा,

*वाच्यस्वरूपेऽथ तदीयरूपे दूरादुपाधिष्वथवैकभावात् ।

सादृश्यभेदाग्रहतोऽथवैषु वाच्येष्विहैकीकरणम् मतम् तत् ॥ इति,

चन्द्रः सूर्य इत्यादौ वाच्यस्वरूपैक्यात्, घटः पट इत्यादौ तदाकारै-क्यात्* इत्यादि; तत्र न तावत् मुख्यमेवाकारैक्यम् विवक्षितम्; जाति-निराकरणात् । अतः एकाकारविकल्पयोग्यसम्स्थानविशेषवत्त्वमभिमत-मिति मन्यामहे । तच्चेदम् सामान्यमापाततः क्वचित् प्रत्यक्षीक्रियते यथा घटत्वादि । क्वचित् सहकारिविशेषापेक्षया यथा विलीनघृतादौ गन्धग्रहणापेक्षया घृतत्वादि । मातापितृसम्बन्धस्मृत्याद्यपेक्षया ब्राह्मणत्वादि । तदुक्तम् भगवद्यामुनमुनिभिरागमप्रामाण्ये –

*ततश्च सन्ततिस्मृत्याऽनुगृहीतेन चक्षुषा ।

विज्ञायमानम् ब्राह्मण्यम् प्रत्यक्षत्वम् न मुञ्चति ॥

तथा च दृश्यते नानासहकारिव्यपेक्षया ।

चक्षुषो जातिविज्ञानजनकत्वम् यथोदितम् ॥* इत्यादि । ……..

॥ इति श्रीकवितार्किकसिम्हस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायसिद्धाञ्जने अद्रव्यपरिच्छेदः

षाष्ठः समाप्तम् ॥

(एतावदेव उपलभ्यमानम्)

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.