सर्वसिद्धान्त सङ्ग्रह

सर्वसिद्धान्त सङ्ग्रह

‌‌‌शङ्कराचार्यविरचित

अथ उपोद्गातप्रकरणम् ।‌‌

वादिभिर्दर्शनैः सर्वैर्दृश्यते यत्त्वनेकधा ।

वेदान्तवेद्यं ब्रह्मेदमेकरूपमुपास्महे ॥ १ ॥

अङ्गोपाङ्गोपवेदाः स्युर्वेदस्यैवोपकारकाः ।

धर्मार्थकाममोक्षाणामाश्रयाः स्युश्चतुर्दश ॥ २ ॥

वेदाङ्गानि षडेतानि शिक्षा व्याकरणं तथा ।

निरुक्तं ज्योतिषं कल्पश्छन्दोविचितिरित्यपि ॥ ३ ॥

मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरित्यपि ।

चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै ॥ ४ ॥

आयुर्वेदोऽर्थवेदश्च धनुर्वेदस्तथैव च ।

गान्धर्ववेदश्चेत्येवमुपवेदाश्चतुर्विधाः ॥ ५ ॥

शिक्षा शिक्षयति व्यक्तं वेदोच्चारणलक्षणम् ।

वक्ति व्याकरणं तस्य संहितापदलक्षणम् ॥ ६ ॥

वक्ति तस्य निरुक्तं तु पदनिर्वचन स्फुटम् ।

ज्योतिश्शास्त्रं वदत्यत्र कालं वैदिककर्मणाम् ॥ ७ ॥

क्रमं कर्मप्रयोगाणां कल्पसूत्रं प्रभाषते ।

मात्राक्षराणां सङ्ख्योक्ता छन्दोविचितिभिस्तथा ॥ ८ ॥

मीमांसा सर्ववेदार्थप्रविचारपरायणा ।

न्यायसूत्रं प्रमाणादिसर्वलक्षणतत्परम् ॥ ९ ॥

पुराणं नष्टशारवस्य वेदार्थस्योपबृह्मणम् ।

कथारूपेण महता पुरुषार्थप्रवर्तकम् ॥ १० ॥

वर्णाश्रमानुरूपेण धर्माधर्मविभागतः ।

धर्मशास्त्रमनुष्ठेयधर्माणां तु नियामकम् ॥ ११ ॥

हेतुलिङ्गौषघस्कन्धैरायुरारोग्यदर्शकः ।

आयुर्वेदो ह्यनुष्ठेयः सर्वेषां तेन बोध्यते ॥ १२ ॥

अर्थवेदोऽन्नपानादिप्रदानमुखतत्परः ।

दक्षिणाज्यपुरोडाशचरुसम्पादनादिभिः ॥ १३ ॥

तत्पालनाच्चतुर्वर्गपुरुषार्थप्रसाधकः ।

धनुर्वेदो भवत्यत्र परिपन्थिनिरासकः ॥ १४ ॥

सप्तस्वरप्रयोगो हि सामगान्धर्ववेदयोः ।

समेतो लौकिको योगो वैदिकस्योपकारकः ॥ १५ ॥

अङ्गोपाङ्गोपवेदानामेव वेदैकशेषता ।

चतुर्दशसु विद्यासु मीमांसैव गरीयसी ॥ १६ ॥

विंशत्यध्याययुक्ता सा प्रतिपाद्यार्थतो द्विधा ।

कर्मार्था पूर्वमीमांसा द्वादशाध्यायविस्तृता ॥ १७ ॥

अस्यां सूत्र जैमिनीय शाबर भाष्यमस्य तु ।

मीमांसावार्त्तिकं भाट्टं भट्टाचार्यकृतं हि तत् ॥ १८ ॥

तच्छिष्योऽप्यल्पभेदेन शबरस्य मतान्तरम् ।

प्रभाकरगुरुश्चक्रे तद्धि प्राभाकरं मतम् ॥ १९ ॥

भवत्युत्तरमीमांसा त्वष्टाध्यायी द्विधा च सा ।

देवताज्ञानकाण्डाभ्यां व्याससूत्रं द्वयोस्समम् ॥ २० ॥

पूर्वाध्यायचतुष्केण मन्त्रवाच्यात्र देवता।

सङ्कर्षणोदिता तद्धि देवताकाण्डमुच्यते ॥ २१ ॥

भाष्यं चतुर्भिरध्यायैर्भगवत्पादनिर्मितम् ।

चक्रे विवरणं तस्य तद्वेदान्तं प्रचक्षते ॥ २२ ॥

अक्षपादः कणादश्च कपिलो जैमिनिस्तथा ।

व्यासः पतञ्जलिश्चैते वैदिकाः सूत्रकारकाः ॥ २३ ॥

बृहस्पत्यार्हतौ बुद्धो वेदमार्गविरोधिनः ।

एतेऽधिकारितां वीक्ष्य सर्वे शास्त्रप्रवर्तकाः ॥ २४ ॥

वेदाप्रामाण्यसिद्धान्ता बौद्धलोकायतार्हताः ।

युक्त्या निरसनीयास्ते वेदप्रामाण्यवादिभिः ॥ २५ ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे प्रथममुपोद्घातप्रकरणम् ॥

अथ लोकायतिकपक्षप्रकरणम् .

लोकायतिकपक्षे तु तत्त्वं भूतचतुष्टयम् ।

पृथिव्यापस्तथा तेजो वायुरित्येव नापरम् ॥ १ ॥

प्रत्यक्षगम्यमेवास्ति नास्त्यदृष्टमदृष्टतः ।

अदृष्टवादिभिश्चापि नादृष्टं दृष्टमुच्यते ॥ २ ॥

क्वापि दृष्टमदृष्टं चेददृष्टं ब्रुवते कथम् ।

नित्यादृष्टं कथं सत्स्यात् शशशृङ्गादिभिस्समम् ॥ ३॥

न कल्प्यौ सुखदुःखाभ्यां धर्माधर्मौ परैरिह ।

स्वभावेन सुखी दुःखी जनोऽन्यन्नैव कारणम् ॥ ४ ॥

शिखिनश्चित्रयेत् को वा कोकिलान् कः प्रकूजयेत् ।

स्वभावव्यतिरेकेण विद्यते नात्र कारणम् ॥ ५ ॥

स्थूलोऽहं तरुणो वृद्धो युवेत्यादिविशेषणैः. ।

विशिष्टो देह एवात्मा न ततोऽन्यो विलक्षणः ॥ ६ ॥

जडभूतविकारेषु चैतन्यं यत्त दृश्यते ।

ताम्बूलपूगचूर्णानां योगाद्राग इवोत्थितम् ॥ ७ ॥

इहलोकात्परो नान्यः स्वर्गोऽस्ति नरका न च ।

शिवलोकादयो मूढैः कल्प्यन्तेऽन्यैः प्रतारकैः ॥ ८ ॥

स्वर्गानुभूतिर्मृष्टाष्टिर्द्व्यष्टवर्षवधूगमः ।

सूक्ष्मवस्त्रसुगन्धस्रक्चन्दनादिनिषेवणम् ॥ ९॥

नरकानुभवो वैरिशस्त्रव्याध्याद्युपद्रवः ।

मोक्षस्तु मरणं तच्च प्राणवायुनिवर्तनम् ॥ १० ॥

अतस्तदर्थं नायासं कर्तुमर्हति पण्डितः ।

तपोभिरुपवासाद्यैर्मूढ एव प्रशुष्यति ॥ ११ ॥

पातिव्रत्यादिसङ्केतो बुद्धिमद्दुर्बलैः कृतः ।

सुवर्णभूमिदानादि मृष्टामन्त्रणभोजनम् ॥ १२ ॥

क्षुत्क्षामकुक्षिभिर्लोकैर्दरिद्रैरुपकल्पितम् ।

देवालयप्रपासत्रकूपारामादिकर्मणाम् ॥ १३ ॥

प्रशंसां कुर्वते नित्यं पान्था एव न चापरे ।

अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्म’गुण्ठनम् ॥ १४ ॥

बुद्धिपौरुषहीनानां जीविकेति बृहस्पति ।

कृषिगोरक्ष वाणिज्य दण्डनीत्यादिभिर्बुधः ॥

दृष्टैरेव सदोपायैर्भागाननुभवेद्भुवि ॥ १५ ॥

 

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे लोकायतिकपक्षो नाम द्वितीयं प्रकरणम् ॥

+

 

 

अथ आर्हतपक्षप्रकरणम्

लोकायतिकपक्षोऽयमाक्षेप्यस्सर्ववादिनाम् ।

स्वपक्षेण क्षिपत्येष तत्पक्षं क्षपणोऽधुना ॥ १ ॥

अग्नेरौष्ण्यमपां शैत्यं कोकिले मधुरः स्वरः ।

इत्याद्येकप्रकारः स्यात् स्वभावो नापरः क्वचित् ॥ २ ॥

कादाचित्कं सुरवं दुःवं स्वभावो नात्मनो मतः ।

धर्माधर्मावतस्ताभ्यामदृष्टाविति निश्चितौ ॥ ३ ॥

अदृष्टस्यात्र दृष्टत्वे नादृष्टत्वं भवेदिति ।

त्वयोक्तदोषो न स्यान्मे तत्सिध्यत्यागमाद्यतः ॥ ४ ॥

अदृष्टमग्निमादातुं धूमं दृष्ट्वोपधावता ।

धूमेनाग्न्यनुमानन्तु त्वयाप्यङ्गीकृतं ननु ॥ ५ ॥

प्रत्यक्षेणानुमानेन पश्यन्त्यत्रागमेन च ।

दृष्टादृष्टं जनाः स्पष्टमार्हतागमसंस्थिता ॥ ६ ॥

सिद्धा बद्धा नारकीया इति स्युः पुरुषास्त्रिधा ।

केचित्परमसिद्धाः स्युः केचिन्मन्त्रैर्महौषधैः ॥ ७ ॥

गुरूपदिष्टमार्गेण ज्ञानकर्मसमुच्चयात् ।

मोक्षो बन्धाद्विरक्तस्य जायते भुवि कस्यचित् ॥ ८ ॥

अर्हतामखिलं ज्ञातुं कर्मार्जितकळेबरैः ।

आवृतिर्बन्धनं मुक्तिः निरावरणतात्मनाम् ॥ ९ ॥

पुद्गलापरसंज्ञैस्तु धर्माधर्मानुगामिभिः ।

परमाणुभिराबद्धाः सर्वदेहास्सहेन्द्रियैः ॥ १० ॥

स्वदेहमाना ह्यात्मानो मोहाद्देहाभिमानिनः ।

क्रिमिकीटादिहस्त्यन्तदेहपञ्जरवर्तिनः ॥ ११ ॥

आत्मावरणदेहस्य वस्त्राद्यावरणान्तरम् ।

न ह्ययं यदि गृह्णाति तस्यापीत्यनवस्थिति ॥ १२ ॥

प्राणिजातमहि सन्तो मनोवाक्कायकर्मभिः।

दिगम्बराश्चरन्त्येव योगिनो ब्रह्मचारिणः ॥ १३ ॥

मयूरपिच्छहस्तास्ते कृतवीरासनादिका ।

पाणिपात्रेण भुञ्जाना लूनकेशाश्च मौनिनः ॥ १४ ॥

मुनयो निर्मलाश्शुद्धाः प्रणताघौघभेदिन ।

तदीयमन्त्रफलदो मोक्षमार्गे व्यवस्थितः ।

सर्वैर्विश्वसनीयः स्यात् स सर्वज्ञो जगद्गुरुः ॥ १५ ॥

 

इति श्रीमच्छङ्कराचार्यविरचित सर्वदशनसिद्धान्तसङ्ग्रहे

आर्हतपक्षो नाम तृतीयं प्रकरणम्

 

अथ बौद्धपक्षप्रकरणम् .

माध्यमिकमतम्

बौद्धाः क्षपणकाचार्यप्रणीतमपि साम्प्रतम् ।

पक्षं प्रतिक्षिपन्त्येव लोकायतमतं यथा ॥ १ ॥

चतुर्णां मतभेदेन बौद्धशास्त्रंं चतुर्विधम् ।

अधिकारानुरूपेण तत्र तत्र प्रवर्तकम् ॥ २ ॥

ज्ञानमेव हि सा बुद्धिर्न चान्तःकरणमतम् ।

जानाति बुध्यते चेति पर्यायत्वप्रयोगत ॥ ३ ॥

त्रयाणामत्र बौद्धानां बुद्धिरस्त्यविवादतः ।

बाह्यार्थोऽस्ति द्वयोरेव विवादोऽन्यत्र तद्यथा ॥ ४ ॥

प्रत्यक्षसिद्धं बाह्यार्थमसौ वैभाषिकोऽब्रवीत् ।

बुद्ध्याकारानुमेयोऽर्थो बाह्यस्सौत्रान्तिकोदितः ॥ ५ ॥

बुद्धिमात्रं वदत्यत्र योगाचारो न चापरम् ।

नास्ति बुद्धिरपीत्याह वादी माध्यमिकः किल ॥ ६ ॥

न सन्नासन्न सदसन्नचोभाभ्यां विलक्षणम् ।

चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदु ॥ ७ ॥

यदसत्कारणैस्तन्न जायते शशशृङ्गवत् ।

सतश्चोत्पत्तिरिष्टा चेज्जनितं जनयेदयम् ॥ ८ ॥

एकस्य सदसद्भावो वस्तुनो नोपपद्यते ।

एकस्य सदसद्भ्योऽपि वैलक्षण्यं न युक्तिमत् ॥ ९ ॥

चतुष्कोटिविनिर्मुक्तं ‘शून्यं तत्वमिति स्थितम् ।

जातिर्जातिमतो भिन्ना न वैत्यत्र विचार्यते ॥ १० ॥

भिन्ना चेत्सा च गृह्येत व्यक्तिभ्योऽङ्गुष्ठवत्पृथक् ।

अविचारितसंसिद्धा व्यक्तिं सा पारमाणुकी ॥ ११ ॥

स्वरूपं परमाणुनां वाच्यं वैशेषिकादिभिः ।

षट्केन युगपद्योगे परमाणोष्षडंशता ॥ १२ ॥

षण्णां समानदेशत्वे पिण्डः स्यादणुमात्रकः ।

ब्राह्मणत्वादिजातिः किं वेदपाठेन जन्यते ॥ १३ ॥

संस्कारैर्वा द्वयेनाथ तत्सर्वं नोपपद्यते ।

वेदपाठेन चेत्कश्चित् शूद्रो देशान्तरङ्गतः ॥ १४ ॥

सम्यक् पठितवेदोऽपि ब्राह्मणत्वमवाप्नुयात् ।

सर्वसंस्कारयुक्तोऽत्र विप्रो लोके न दृश्यते ॥ १५ ॥

चत्वारिंशत्तु संस्कारा विप्रस्य विहिता यतः ।

एकसंस्कारयुक्तश्चेद्विप्रः स्यादखिलो जनः ॥ १६ ॥

जातिव्यक्त्यात्मकोऽर्थोऽत्र नास्त्येवेति निरूपिते ।

विज्ञानमपि नास्त्येव ज्ञेयाभावे समुत्थिते ।

इति माध्यमिकेनैव सर्वशून्यं विचारितम् ॥ १७ ॥

इति बौद्धपक्षे माध्यमिकमतम्

अथ योगाचारमतम् .

इति माध्यमिकेनोक्तं शून्यत्वं शून्यवादिना ।

निरालम्बनवादी तु योगाचारो निरस्यति ॥ १ ॥

त्वयोक्तसर्वशून्यत्वे प्रमाणं शून्यमेव ते ।

अतो वादेऽधिकारस्ते न परेणोपपद्यते ॥ २ ॥

स्वपक्षस्थापनं तद्वत् परपक्षस्य दूषणम् ।

कथं करोत्यत्र भवान् विपरीतं वदेन्न किम् ॥ ३ ॥

अविभागो हि बुद्ध्यात्मा विपर्यासितदर्शनैः ।

ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ ४ ॥

मानमेयफलाद्युक्तं ज्ञानदृष्ट्यनुसारतः ।

अधिकारिषु जातेषु तत्त्वमप्युपदेक्ष्यति ॥ ५ ॥

बुद्धिस्वरूपमेकं हि वस्त्वस्ति परमार्थतः ।

प्रतिभानस्य नानात्वान्न चैकत्वं विहन्यते ॥ ६ ॥

परिव्राट्रकामुकशुनामेकस्यां प्रमदातनौ ।

कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥ ७ ॥

अथाप्येकैव सा बाला बुद्धितत्त्वं तथैव नः ।

तदन्यद्यत्तु जात्यादि तन्निराक्रियतां त्वया ॥ ८ ॥

क्षणिका बुद्धिरेवातस्त्रिधा भ्रान्तैर्विकल्पिता ।

स्वयम्प्रकाशतत्त्वज्ञैर्मुमुक्षुभिरुपास्यते ॥ ९ ॥

इति बौद्धपक्षे योगाचारमतम्.

.

अथ सौत्रान्तिकमतम्

विज्ञानमात्रमत्रोक्तं योगाचारेण धीमता ।

ज्ञानं ज्ञेयं विना नास्ति बाह्यार्थोऽप्यस्ति तेन नः ॥ १ ॥

नीलपीतादिभिश्चित्रैर्बुद्ध्याकारैरिहान्तरैः ।

सौत्रान्तिकमते नित्यं बाह्यार्थस्त्वनुमीयते ॥ २ ॥

क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु ।

न षष्ठमिन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥ ३ ॥

षडंशत्वं त्वयापाद्य परमाणोर्निराकृतिः ।

युक्तस्तेनापि बाह्यार्थो न चेद्ज्ञानं न सम्भवेत् ॥ ४ ॥

आकाशधातुरस्माभिः परमाणुरितीरितः ।

स च प्रज्ञप्तिमात्रं स्यान्न च वस्त्वन्तरं मतम् ॥ ५ ॥

सर्वे पदार्थाः क्षणिका बुद्ध्याकारविजृम्भिताः ।

इदमित्येव भावास्तेऽप्याकारानुमितास्तदा ॥ ६ ॥

विषयत्वविरोधस्तु क्षणिकत्वेऽपि नास्ति नः ।

विषयत्वं हि हेतुत्वं ज्ञानाकारार्पणक्षमम् ॥ ७ ॥

इति बौद्धपक्षे सौत्रान्तिकमतम्

 

वैभाषिकमतम्

सौत्रान्तिकमतादल्पभेदो वैभाषिके मते ।

प्रत्यक्षत्वं तु बाह्यस्य क्वचिदेवानुमेयता ॥ १ ॥

पूर्वापरानुभावेन पुञ्जीभूतास्सहस्रशः ।

परमाणव एवात्र बाह्यार्थधनवत् स्थिताः ॥ २ ॥

दूरादेव वनं पश्यन् गत्वा तस्यान्तिकं पुनः ।

न वनं पश्यति क्वापि वल्लीवृक्षातिरेकतः ॥ ३ ॥

मृदो घटत्वमायान्ति कपालत्वन्तु ते घटाः ।

कपालानि च चूर्णत्वं ते पुनः परमाणुताम् ॥ ४ ॥

चतुर्णामपि बौद्धानमैक्यमध्यात्मनिर्णये ।

व्यावहारिकभेदेन विवदन्ते परस्परम् ॥ ५ ॥

बुद्धितत्त्वे स्थिता बौद्धा बुद्धिवृत्तिर्द्विधा मता ।

ज्ञानाज्ञानात्मिका चेति तत्र ज्ञानात्मिकामिह ॥ ६ ॥

प्रमाणत्वेन जानन्ति ह्यविद्यामूलिकाप्रमा ।

मूलाज्ञाननिमित्तान्या स्कन्धायतनधातुजा ॥ ७ ॥

प्रपञ्चजातमखिलं शरीरं भुवनात्मकम् ।

पञ्चस्कन्धा भवन्त्यत्र द्वादशायतनानि च ॥ ८॥

सर्वेषामपि बौद्धानां तथाष्टादश धातवः ।

ज्ञानसंस्कारसंज्ञानां वेदनांरूपयोरपि ॥ ९ ॥

समूहःस्कन्धशब्दार्थः तत्तत्सन्तति वाचकः ।

ज्ञानसन्ततिरेवात्र विज्ञानस्कन्ध उच्यते ॥ १० ॥

संस्कारस्कन्ध इत्युक्तो वासनानान्तु संहतिः ।

सुखदुःरवात्मिका बुद्धिस्तथापेक्षामिका च सा ॥ ११ ॥

वेदनास्कन्ध इत्युक्तः संज्ञास्कन्धस्तु नाम यत् ।

रूपस्कन्धो भवत्यत्र मूर्तिभूतस्य संहतिः ॥ १२ ॥

रूपस्योपचयः स्तम्भकुम्भादिरणुकल्पितः ।

पृथिव्यास्स्थैर्यरूपादि द्रवत्वादि भवेदपाम् ॥ १३ ॥

उष्णत्वं तेजसो धातोर्वायुधातोस्तु शीतता ।

एषां च चतुर्णां धातूनां वर्णगन्धरसौजसाम् ॥ १४ ॥

पिण्डाज्जाताः पृथिव्याद्याः. परमाणुचया अमी ।

श्रोत्रन्त्वक् चक्षुषी जिह्वा घ्राणं प्रत्ययपञ्चकम् ॥ १५ ॥

वाक्पादपाणिपाय्वादि ज्ञेयं कारकपञ्चकम् ।

सामुदायिक चैतन्यं बुद्धि स्यात्करणं मनः ॥ १६ ॥

नामजातिगुणद्रव्यक्रियारूपेण पञ्चधा ।

कल्पितं भ्रान्तदृष्ट्यैव शरीरभुवनात्मकम् ॥ १७ ॥

बौद्धशास्त्रप्रमेयन्तु प्रमाणं द्विविधं मतम् ।

कल्पनापोढमभ्रान्तं प्रत्यक्षं कल्पना पुनः ॥ १८ ॥

नामजातिगुणद्रव्यक्रियारूपेण पञ्चधा ।

लिङ्गदर्शनतो ज्ञानं लिङ्गिन्यत्रानुमानता ॥ १९ ॥

चतुर्विधं यदज्ञानं प्रमाणाम्यां निवर्तते ।

नष्टे चतुर्विधेऽज्ञाने मूलाज्ञानं निवर्तते ॥ २० ॥

मूलाज्ञाननिवृत्तौ च विशुद्धज्ञानसन्ततिः ।

शुद्धबुद्ध्यविशेषो हि मोक्षो बुद्धमुनीरितः ॥ २१ ॥

उत्पत्तिस्थितिभङ्गदोषरहितां सर्वाशयोन्मूलिनीं ।

ग्राहोत्सर्गवियोगयोगजनितां नाभावभावान्विताम् ।

तामन्तर्द्वयवर्जितां निरुपमामाकाशवन्निर्मलां ।

प्रज्ञां पारमितां धनस्य जननीं शृण्वन्तु बुद्ध्यर्थिनः ॥ २२ ॥

अतिस्तुतिपरैरुक्तो यस्तु वैशेषिकादिभिः ।

ईश्वरो नेष्यतेऽस्माभिः स निराक्रियतेऽधुना ॥ २३ ॥

हेयोपादेयतत्त्वश्च मोक्षोपायञ्च वेत्ति यः ।

स एव नः प्रमाणं स्यान्न सर्वज्ञस्त्वयोरितः ॥ २४ ॥

दूरं पश्यतु वा मा वा तत्त्वमिष्टं प्रपश्यतु ।

प्रमाणं दूरदर्शी चेद्वयं गृध्रानुपास्महे ॥ २५ ॥

देशे पिपीलिकादीनां सङ्ख्याज्ञः कश्चिदस्ति किम् ।

सर्वकर्तृत्वमीशस्य कथितं नोपपद्यते ॥ २६ ॥

यदि स्यात् सर्वकर्ताऽसावधर्मेऽपि प्रवर्तयेत् ।

अयुक्तं कारयन् लोकान् कथं युक्ते प्रवर्तयेत् ॥ २७ ॥

उपेक्षैव च साधूनां युक्तासाधौ क्रिया भवेत् ।

न क्षतक्षारविक्षेपः साधूनां साधुचेष्टितम् ॥ २८ ॥

ईश्वरेणैव शास्त्राणि सर्वाण्याधिकृतानि चेत् ।

कथं प्रमाणं तद्वाक्यं पूर्वापरपराहतम् ॥ २९ ॥

कारयेद्धर्ममात्रञ्चेदेकशास्त्रप्रवर्तकः ।

कथं प्रादेशिकस्यास्य सर्वकर्तृत्वमुच्यते ॥ ३० ॥

ईशः प्रयोजनाकाङ्क्षी जगत् सृजति वा न वा ।

काङ्क्षते चेदसंपूर्णो नो चेन्नैव प्रवर्तते ॥ ३१ ॥

प्रवर्तते किमीशस्ते भ्रान्तवन्निष्प्रयोजने ।

छागादीनां पुरीषादेर्वर्तुलीकरणेन किम् ॥ ३२ ॥

क्रीडार्थेयं प्रवृत्तिश्चेत् क्रीडते किन्नु बालवत् ।

अजस्रं क्रीडतस्तस्य दुःखमेव भवत्यलम् ॥ ३३ ॥

अज्ञो जन्तुरनीशोऽयमात्मनस्सुखदुःखयोः ।

ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव च ॥ ३४ ॥

तप्तलोहाभितापाद्यैरीशेनाल्पसुरवेच्छुना ।

प्राणिनो नरके कष्टे बत प्राणैर्वियोजिताः ॥ ३५ ॥

वरप्रदाने शक्तश्चेत् ब्रह्महत्यादिकारिणे ।

स्वर्गं दद्यात्स्वतन्त्रः स्यान्नरकं सोमयाजिने ॥ ३६ ॥

कर्मानुगुणदाता चेदीशः स्यादखिलो जनः ।

दाने स्वातन्त्र्यहीनस्सन् सर्वेशः कथमुच्यते ॥ ३७ ॥

एवं नैय्यायिकाद्युक्तसर्वज्ञेशनिराक्रिया ।

हेयोपादेयमात्रज्ञो ग्राह्यो बुद्धमुनिस्ततः ॥ ३८ ॥

चैत्यं वन्देत चैत्याद्या धर्मा बुद्धागमोदिताः ।

अनुष्ठेया न यागाद्या वेदाद्यागमचोदिताः ॥ ३९ ॥

कियायां देवतायांञ्च योगे शून्यपदे क्रमात् ।

वैभाषिकादयो बौद्धाः स्थिताश्चत्वार एव ते ॥ १० ॥

इति बौद्धपक्षे वैभाषिकमतम् ॥

 

लोकायतार्हतमाध्यमिकयोगाचारसौत्रान्तिकवैभाषिकमतानि षट् समाप्तानि ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे बौद्धपक्षो नाम

चतुर्थं प्रकरणम् ॥

 

 

 

अथ वैशेषिकपक्ष ॥

नास्तिकान् वेदबाह्यांस्तान् बौद्धलोकायतार्हतान् ।

निराकरोति वेदार्थवादी वैशेषिकोऽधुना ॥ १ ॥

वेदमार्गपरिभ्रष्टा विशिष्टाः परदर्शने ।

बौद्धादयो विशिष्टास्ते न भवन्ति द्विजाः पुनः ॥ २ ॥

अतो बुद्धादिभिर्नित्यं वेदब्राह्मणनिन्दया ।

आत्मवञ्चकता कष्टा सर्वत्राघोषिता भुवि ॥ ३ ॥

प्रमाणमेव वेदास्स्युः सर्वेश्वरकृतत्वतः ।

स एव कर्मफलदो जीवानां पारिशेष्यतः ॥ ४ ॥

जीवा वा जीवकर्माणि प्रकृतिः परमाणवः ।

नेशते ह्यत्र जीवानां तत्तत्कर्मफलार्पणे ॥ ५ ॥

जीवाः कर्मफलावाप्तौ शक्ताश्चेत्स्वसुखेव रताः ।

अप्रार्थितानि दुःखानि वारयन्तु प्रयत्नतः ॥ ६ ॥

अशक्तान्यत्र कर्माणि जीवानां स्वफलार्पणे ।

अचेतनत्वादगते स्वर्गादिफलभूमिषु ॥ ७ ॥

नाचेतनत्वात्प्रकृतेः फलदातृत्वसम्भवः ।

अचेतनाः फलं दातुमशक्ताः परमाणवः ॥ ८ ॥

कालोऽप्यचेतनस्तेषां न हि कर्मफलप्रदः ।

अतोऽन्यः फालदो लोके भवत्येभ्यो विलक्षणः ॥ ९ ॥

स तु प्राणिविशेषांश्च देशानपि तदाश्रयान् ।

जानन् सर्वज्ञ एवेष्टो नान्ये बौद्धादि सम्मताः ॥ १० ॥

अजानन् प्राणिनो लोके हेयापादेयमात्रवित् ।

प्रादेशिको न सर्वज्ञो नास्मदादिविलक्षणः ॥ ११ ॥

वेदैकदेशं दृष्ट्वा तु कारीरी वृष्टिबोधकम् ।

अदृष्ट्योश्च विश्वासः कार्यः स्वर्गापवर्गयोः ॥ १२ ॥

कारीरीष्ट्युक्तवृष्टिश्च द्रष्टव्यादृष्टनिर्णये ।

चित्रादेः पुत्रपश्वाप्तिर्द्रष्टव्यादृष्टनिर्णये ॥ १३ ॥

ज्योतिश्शास्त्रोक्तकालस्य ग्रहणं तन्निदर्शनम् ।

दृष्टैकदेशप्रामाण्यं यत्तूक्तं सौगतादिभिः ॥ १४ ॥

तच्च वेदादपहृतं सर्वलोकप्रतारकैः ।

मन्त्रव्याकरणं दृष्ट्वा मन्त्रा विरचिताः पुनः ॥ १५ ॥

लिपिसम्मिश्रजातास्ते सिद्धमन्त्रास्तथा कृताः ।

बौदागमेभ्यो दृष्टार्था न हृता वैदिकैः क्वचित् ॥ १६ ॥

वेदस्यैव षडङ्गानि यतश्शीक्षादिकानि वै ।

नान्यागमाङ्गता तेषां न काप्युक्ता परैरपि ॥ १७ ॥

अतो वेदबलीयस्त्वं नास्तिकागमसञ्चयात् ।

षट्पदार्थपरिज्ञानान् मोक्षं वैशेषिका विदुः ॥ १८ ॥

तदन्तर्गत एवेशो जीवास्सर्वमिदं जगत् ।

द्रव्यं गुणस्तथा कर्म सामान्यं यत्परापरम् ॥ १९ ॥

विशेषस्समवायश्च षट् पदार्था इहेरिताः ॥

पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ २० ॥

दिक्कालात्ममनांसीति नव द्रव्याणि तन्मते ।

पृथिवी गन्धवत्यापः सरसास्तेजसः प्रभा ॥ २१ ॥

अनुष्णाशीतसंस्पर्शो वायुश्शब्दगुणं नभः ।

दिक्पूर्वापरधीलिङ्गा कालः क्षिप्रचिरागतः ॥ २२ ॥

आत्माहंप्रत्ययात्सिद्धो मनोऽन्तःकरणं मतम् ।

अयोगमन्ययोगञ्च मुक्त्वा द्रव्याश्रिता गुणाः ॥ २३ ॥

चतुर्विंशतिधा भिन्ना गुणास्तेऽपि यथाक्रमात् ।

शब्दः स्पर्शो रसो रूपं गन्धसंयोगवेगताः ॥ २४ ॥

संख्याद्रवत्वसंस्कारपरिमाणविभागताः ।

प्रयत्नसुखदुःखेच्छाबुद्धिद्वेषपृथक्त्वताः ॥ २५ ॥

परत्वञ्चापरत्वञ्च धर्माधर्मौ च गौरवम् ।

इमे गुणाश्चतुर्विंशत्यथ कर्म च पञ्चधा ॥ २६ ॥

प्रसाराकुञ्चनोत्क्षेपा गत्यवक्षेपणे इति ।

परञ्चापरमित्यत्र सामान्यं द्विविधं मतम् ॥ २७ ॥

परं सत्तादि सामान्यं द्रव्यत्वाद्यपरं मतम् ।

परस्परविवेकोऽत्र द्रव्याणां यैस्तु गम्यते ॥ २८ ॥

विशेषा इति ते ज्ञेया द्रव्यमेव समाश्रिता ।

सम्बन्धस्समवायस्स्यात् द्रव्याणान्तु गुणादिभिः ॥ २९ ॥

षट् पदार्था इमे ज्ञेयास्तन्मयं सकलं जगत् ।

तेषां साधर्म्यवैधर्म्यज्ञानं मोक्षस्य साधनम् ॥ ३० ॥

द्रव्यान्तर्गत एवात्मा भिन्नो जीवपरत्वतः ।

देवा मनुष्यास्तिर्यञ्चो जीवास्त्वन्यो महेश्वरः ॥ ३१ ॥

तदाज्ञप्तक्रियां कुर्वन् मुच्यतेऽन्यस्तु बध्यते ।

श्रुतिस्मृतीतिहासाद्यं पुराणं भारतादिकम् ॥ ३२ ॥

ईश्वराज्ञेति विज्ञेया न लङ्घ्या वेदिकैः क्वचित् ।

त्रिधा प्रमाणं प्रत्यक्षमनुमानागमाविति ॥ ३३ ॥

त्रिभिरेतैः प्रमाणैस्तु जगत्कर्तावगम्यते ।

तस्मात्तदुक्तकर्माणि कुर्यात्तस्यैव तृप्तये ॥ ३४ ॥

भक्त्यैवावर्जनीयोऽसौ भगवान्परमेश्वरः ।

तत्प्रसादेन मोक्षः स्यात् करणोपरमात्मकः ॥ ३५ ॥

करणोपरमे त्वात्मा पाषाणवदवस्थितः ।

दुःखसाध्यः सुखोच्छेदो दुःखोच्छेदवदेव नः ॥ ३६ ॥

अतस्संसारनिर्विण्णो मुमुक्षुर्मुच्यते जनः ।

पश्चान्नैय्यायिकस्तर्कैः साधयिष्यति नश्शिवम् ।

नातिभिन्नं मतं यस्मादावयोर्वेदवादिनोः ॥ ३७ ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे वैशेषिकपक्षो नाम

पञ्चमं प्रकरणम् ॥

 

अथ नैयायिकपक्षः

नैयायिकस्य पक्षोऽथ संक्षेपात्प्रतिपाद्यते ।

यत्तर्करक्षितो वेदो ग्रस्तः पाषण्डदुर्जनैः ॥ १ ॥

अक्षपादः प्रमाणादिषोडशार्थप्रबोधनात् ।

जीवानां मुक्तिमाचष्टे प्रमाणञ्च प्रमेयता ॥ २ ॥

निर्णयस्संशयोsन्यश्च प्रयोजननिदर्शने ।

सिद्धान्तावयवौ तर्को वादो जल्पो वितण्डता ॥ ३ ॥

हेत्वाभासश्छलं जातिर्निग्रहस्थानमित्यपि ।

प्रत्यक्षमनुमानाख्यमुपमानागमाविति ॥ ४ ॥

चत्वार्यत्र प्रमाणानि नोपमानन्तु कस्यचित् ।

प्रत्यक्षमस्मदादीनामस्त्यन्यद्योगिनामपि ॥ ५ ॥

पश्यान्ति योगिनस्सर्वमीश्वरस्य प्रसादतः ।

स्वभावेनेश्वरस्सर्वं पश्यति ज्ञानचक्षुषा ॥ ६ ॥

यत्नेनापि न जानन्ति सर्वेशं मांसचक्षुषः ।

ईश्वरं साधयत्येतदनुमानमिति स्फुटम् ॥ ७ ॥

भूर्भूधरादिकं सर्वं सर्वविद्धेतुकं मतम् ।

कार्यत्वाद्धटवच्चेति जगत्कर्तानुमीयते ॥ ८ ॥

कार्यत्वमप्यासिद्धञ्चेत्क्ष्मादेस्सावयवत्वतः ।

घटकुण्ड्यादिवच्चेति कार्यत्वमपि साध्यते ॥ ९ ॥

दृष्टान्तसिद्धदेहादेर्धर्माधर्मप्रसङ्गतः ।

न विशेषविरोधोऽत्र वाच्यो भट्टादिभिः क्वचित् ॥ १० ॥

उत्कर्षसमजातित्वात्सम्यग्दोषो न तादृशः ।

कार्यत्वमात्रात्कर्तृत्वमात्रमेवानुमीयते ॥ ११ ॥

दृष्टान्तस्थविशेषैस्त्वं विरोधं यदि भाषसे ।

धूमेनाग्न्यनुमानस्याप्यभावोऽपि प्रसज्यते ॥ १२ ॥

अशरीरोऽपि करुते शिवः कार्यमिहेच्छया ।

देहानपेक्षो देहं स्वं यथा चेष्ट्यते जनः ॥ १३ ॥

इच्छाज्ञानप्रयत्नाख्या महेश्वरगणास्त्रयः ।

शरीररहितेऽपि स्युः परमाणुस्वरूपवत् ॥ १४ ॥

कार्यं क्रियां विना नात्र सा क्रिया यत्नपूर्विका ।

क्रियात्वात् साध्यतेऽस्माभिरस्मदादिक्रिया यथा ॥ १५ ॥

सर्वज्ञीयक्रियोद्भूतक्ष्मादिकार्योपपत्तिभिः ।

ईश्वरासत्त्वमुक्तं यन्निरस्तं पारिशेष्यतः ॥ १६ ॥

यथा वैशेषिकेणेशः पारिशेष्येण साधितः ।

तत्तर्कोऽत्रानुसन्धेयः समानं शास्त्रमावयोः ॥ १७ ॥

कालकर्मप्रधानादेरचैतन्याच्छिवोऽपरः ।

अल्पज्ञत्वात्तु जीवानां ग्राह्यस्सर्वज्ञ एव सः ॥ १८ ॥

सर्वज्ञेशप्रणीतत्वाद्वेदप्रामाण्यामिष्यते ।

स्मृत्यादीनां प्रमाणत्वं तन्मूलत्वेन सिध्यति ॥ १९ ॥

श्रौतं स्मार्तञ्च यत्कर्म यथावदिह कुर्वताम् ।

स्वर्गापवर्गौ स्यातां हि नैव पाषण्डिनां क्वचित् ॥ २० ॥

त्रियम्बकादिभिर्मन्त्रैरपि देवो महेश्वरः ।

अनुष्ठानोपयुक्तार्थस्मारकैः प्रतिपाद्यते ॥ २१ ॥

कारीरीष्ट्यर्थवृष्ट्यादि दृष्ट्वा स्वर्गापवर्गयोः ।

विश्वासोऽदृष्टयोः कार्यः कारणाद्यैः प्रपञ्चितः ॥ २२ ॥

अप्रमाणमशेष्ञ्च शास्त्रं बुद्धादिकल्पितम् ।

स्यादनाप्तप्रणीतत्वादुन्मत्तानां यथा वचः ॥ २३ ॥

बीजप्ररोहरक्षायै वृतिः कण्टकिनी यथा ।

वेदार्थतत्त्वरक्षार्थं तथा तर्कमयी वृतिः ॥ २४ ॥

प्रमानुग्राहकस्तर्कः स कथात्रयसंवृतः ।

वादो जल्पो वितण्डेति तिस्र एव कथा मताः ॥ २५ ॥

आचार्येण तु शिष्यस्य वादस्तत्वबुभुत्सया ।

जयः पराजयो नात्र तौ तु जल्पवितण्डयोः ॥ २६ ॥

वादी च प्रतिवादी च प्राश्निकश्च सभापतिः ।

चत्वार्यङ्गानि जल्पस्य वितण्डायास्तथैव च ॥ २७ ॥

सदुत्तरापरिज्ञानात् पराजयभये सति ।

जयेच्छलेन जात्या वा प्रतिवादी तु वादिनम् ॥ २८ ॥

छलं जातिं ब्रुवाणस्य निग्रहस्थानमीरयेत् ।

निग्रहस्थानमित्युक्तं कथाविच्छेदकारकम् ॥ २९ ॥

तत्रोपचारसामान्यवाक्पूर्वं त्रिविधं छलम् ।

चतुर्वेदविदित्युक्ते कस्मिंश्चिद्वादिना द्विजे ॥ ३० ॥

किमत्र चित्रं ब्राह्मण्ये चतुर्वेदज्ञतोचिता ।

एवं सामान्यदृष्ट्या तु दूषिते प्रतिवादिना ॥ ३१ ॥

वदेद्वाक्यैरनेकान्त निग्रहस्थानमप्यथ ।

नववस्त्रो वटुश्चेति वाद्युक्ते तत्र वाक्छलम् ॥ ३२ ॥

कुतोऽस्य नव वासांसीत्याचक्षाणस्य निग्रहः ।

तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् ॥ ३३ ॥

स्वस्य व्याघातकं वाक्यं दूषणक्षममेव वा ।

उत्तरं जातिरित्याहुः चतुर्विंशतिभेदभाक् ॥ ३४ ॥

चतुर्विंशतिजातीनां प्रयोक्तुः प्रतिवादिनः ।

वक्तव्यं निग्रहस्थानमसदुत्तरवादिनः ॥ ३५ ॥

यथा साधर्म्यवैधर्म्यात्समोत्कर्षापकर्षतः ।

वर्ण्यावर्ण्यविकल्पाश्च प्राप्त्यप्राप्तीतिसाध्यताः ॥ ३६ ॥

प्रसङ्गप्रतिदृष्टान्तावनुत्पत्तिश्च संशयः ।

अर्थापत्त्यविशेषौ च हेतुप्रकरणाह्वयौ ॥ ३७ ॥

कार्योपलब्ध्यनुपलब्धिनित्यानित्याश्च जातयः ।

साम्यापादकहेतुत्वात् समताजातयो मता ॥ ३८ ॥

सदुत्तरांपरिज्ञाने स्यादेकान्तपराजयः ।

एवं जल्पवितण्डाभ्यां वेदबाह्यान्निरस्य तु ॥ ३९ ॥

वेदैकविहितं कर्म कुर्यादीश्वरतृप्तये ।

तत्प्रसादाप्तयोगेन मुमुक्षुर्मोक्षमाप्नुयात् ॥ ४० ॥

नित्यानन्दानुभूतिः स्यान्मोक्षे तु विषयादृते ।

वरं वृन्दावने रम्ये मृणालत्वं वृणोम्यहम् ॥ ४१ ॥

वैशेषिकोक्तमोक्षात्तु सुखलेशविवर्जितात् ।

यो वेद विहितैर्यज्ञैरीश्वरस्य प्रसादतः ॥ ४२ ॥

मूर्छामिच्छति यत्नेन पाषाणवदवस्थितिम् ।

मोक्षो हि हरिभक्त्याप्तयोगेनेति पुरोदितः ॥ ४३ ॥

अष्टावङ्गानि योगस्य यमोऽथ नियमस्तथा ।

आसनं पवनायामः प्रत्याहारोऽथ धारणम् ॥ ४४ ॥

ध्यानं समाधिरित्येवं तत्साङ्ख्यो विस्तरिष्यति ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्वान्तसङ्ग्रहे नैयायिकपक्षो

नाम षष्ठप्रकरणम्

 

 

अथ प्रभाकरपक्ष

प्रभाकरगुरोः पक्षः संक्षेपादथ कथ्यते ॥

तुष्टाव पूर्वमीमांसामाचार्यस्पर्धयापि य ॥ १ ॥

द्रव्य गुणास्तथा कर्म सामान्यं परतन्त्रता |

पञ्चार्थाश्शक्तिसादृश्यसंख्याभिस्त्वष्टधा स्मृता ॥ २ ॥

न विशेषो न चाभावो भूतलाद्यतिरेकत ।

वेदैकविहितं कर्म मोक्षदं नापरं गुरोः ॥ ३ ॥

बध्यते स हि लोकस्तु यः काम्यप्रतिषिद्धकृत् ।

विध्यर्थवादमन्त्रैश्च नामधेयैश्चतुर्विधः ॥ ४ ॥

वेदो विधिप्रधानोऽयं धर्माधर्मावबोधकः ।

आत्मा ज्ञातव्य इत्यादिविधयस्त्वारुणे स्थिताः ॥ ५ ॥

यथावदात्मनां तत्र बोधं विदधते स्फुटम् ।

बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ॥ ६ ॥

नानाभूतः प्रतिक्षेत्रमर्थज्ञानेषु भासते ।

घटं जानाम्यहं स्पष्टामित्यत्र युगपत्त्रयम् ॥ ७ ॥

घटो विषयरूपेण कर्ताहं प्रत्ययागतः ।

स्वयं प्रकाशरूपेण ज्ञानं भाति जनस्य हि ॥ ८ ॥

करणोपरमान्मुक्तिमाह वैशेषिको यथा ।

दुरसहापारसंसारसागरोत्तरणोत्सुकः ॥ ९ ॥

प्रयत्नसुखदःखेच्छाधर्माधर्मादिनाशतः ।

पाषाणवदवस्थानमात्मनो मुक्तिमिच्छति ॥ १० ॥

दुःखसाध्यसुखोच्छेदो दुःखोच्छेदवदिष्यते ।

नित्यानन्दानुभूतिश्च निर्गुणस्य न चेष्यते ॥ ११ ॥

न बुद्धिभेदं जनयेदज्ञातां कर्मसङ्गिनाम् ।।

अन्यस्सन्न्यासिनां मार्गो जाघटीति न कर्मिणाम् ॥ १२ ॥

तस्माद्यागादयो धर्माः कर्तव्या विहिता यतः ।

अन्यथा प्रत्यवायस्स्यात्कर्मण्येवाधिकारिणाम् ॥ १३ ॥

कर्ममात्रैकशरणाः श्रेयः प्राप्स्यन्त्यनुत्तमम् ।

न देवता चतुर्थ्यन्तविनियोगादृते परा ॥ १४ ॥

वेदबाह्यान्निराकृत्य भट्टाचार्यैर्गते पथि । .

चक्रे प्रभाकरश्शास्त्रं गुरुः कर्माधिकारिणाम् ॥ १५ ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे

प्रभाकरपक्षो नाम सप्तमप्रकरणम् ।

 

अथ भट्टाचार्यपक्षः

बौद्धादिनास्तिकध्वस्तवेदमार्गं पुरा किल ।

भट्टाचार्यः कुमारांशः स्थापयामास भूतले ॥ १ ॥

त्यक्त्वा कामयनिषिद्धे द्वे विहिताचरणान्नरः ।

शुद्धान्तःकरणो ज्ञानी परं निर्वाणमृच्छति ॥ २ ॥

काम्यकर्माणि कुर्वाणैः काम्यकर्मानुरूपतः ।

जनित्वैवोपभोक्तव्यं भूयः काम्यफलं नरैः ॥ ३ ॥

कृमिकीटादिरूपेण जनित्वा तु निषिद्धकृत् ।

निषिद्धफलभोगी स्यादधोsधो नरकं व्रजेत् ॥ ४ ॥

अतो विचार्य विज्ञेयौ धर्माधर्मौ विपश्चिता ।

चोदनैकप्रमाणौ तौ न प्रत्यक्षादिगोचरौ ॥ ५ ॥

विध्यर्थवादैर्मन्त्रैश्च नामधेयैश्चतुर्विधः ।

वेदो विधिप्रधानोsयं धर्माधर्मावबोधकः ॥ ६ ॥

निवर्तकं निषिद्धाद्यत् पुंसां धर्मप्रवर्तकम् ।

वाक्यं तच्चोदना  वेदे लिङ्लोट्तव्यादिलाञ्छितम् ॥ ७ ॥

निषिद्धनिन्दकं यत्तू विहितार्थप्रशंसकम् ।

वाक्यमत्रार्थवादः स्याद्विध्यंशत्वात्प्रमाणकम् ॥ ८ ॥

कर्माङ्गभूता मन्त्राः स्युरनुष्ठेयप्रकाशकाः ।

यागादेर्नामभूतानि नामधेयानि हि श्रुतौ ॥ ९ ॥

आत्मा ज्ञातव्य इत्यादि विधयस्त्वारुणेषु ये ।

बोधं विदधते ब्रह्मण्यात्मनां परमात्मनि ॥ १० ॥

दूषयन्त्यनुमानाभ्यां बौद्धा वेदमपि स्फुटम् ।

तन्मूललब्धधर्मादेरपलापस्तु सिध्यति ॥ ११ ॥

वेदोऽप्रमाणं वाक्यत्वाद्रथ्यापुरुषवाक्यवत् ।

अथानाप्त प्रणीतत्वादुन्मत्तानां यथा वचः ॥ १२ ॥

तदयुक्तमिमौ हेतू भवेतामप्रयोजकौ ।

वाक्यत्वमात्राद्वेदस्य न भवत्यप्रमाणता ॥ १३ ॥

अनाप्तपुरुषोक्तत्वं हेतुस्ते न प्रयोजकः ।

स्यादनाप्तोक्ततामात्रादप्रामाण्यं न च श्रुतेः ॥ १४ ॥

नित्यवेदस्य चानाप्तप्रणीतत्वं न दुष्यति ।

विप्रलम्भादयो दोषा विद्यन्ते पुङ्गिरांह सदा ॥ १५ ॥

वेदस्यापौरुषेयत्वाद्दोषशङ्कैव  नास्ति न ।

वेदस्यापौरुषेयत्वं केचिन्नैयायिकादयः ॥ १६ ॥

दूषयन्तीश्वरोक्तत्वान्मन्यमानाः प्रमाणताम् ।

पौरुषेयो भवेद्वेदो वाक्यत्वाद्भारतादिवत् ॥ १७ ॥

सर्वेश्वरप्रणीतत्वे प्रामाण्यमपि सुस्थितम् ।

प्रामाण्यं विद्यते नेति पौरुषेयेषु युज्यते ॥ १८ ॥

वेदे वक्तुरभावाच्च तद्वार्तापि सुदुर्लभा ।

वेदस्य नित्यता प्रोक्ता प्रामाण्येनोपयुज्यते ॥ १९ ॥

सर्वेश्वरप्रणीतत्वं प्रामाण्यस्यैव कारणम् ।

तदयुक्तं प्रमाणेन केनात्रेश्वरकल्पना ॥ २० ॥

स यद्यागमकल्पस्स्यान्नित्योऽनित्यः किमागमः ।

नित्यश्चेत्तं प्रतीशस्य केयं कर्तृत्वकल्पना ॥ २१ ॥

अनित्यागमपक्षे स्यादन्योऽन्याश्रयदूषणम् ।

आगमस्य प्रमाणत्वमीश्वरोक्त्येश्वरस्ततः ॥ २२ ॥

आगमात्सिध्यतीत्येवमन्योऽन्याश्रयदूषणम् ।

स्वत एव प्रमाणत्वमतो वेदस्य सुस्थितम् ॥ २३ ॥

धर्माधर्मौ च वेदैकगोचरावित्यपि स्थितम् ।

ननु वेदं विना साक्षात्करामलकवत्स्फुटम् ॥ २४ ॥

पश्यन्ति योगिनो धर्मं कथं वेदैकमानता ।

तदयुक्तं न योगी स्यादस्मदादिविलक्षणः ॥ २५ ॥

सोऽपि पञ्चेन्न्द्रियैः पश्यन् विषयं नातिरिच्यते ।

प्रत्यक्षमनुमानाख्यमुपमानमनन्तरम् ॥ २६ ॥

अर्थापत्तिरभावश्च न धर्मं बोधयन्ति वै ॥

तत्तदिन्द्रिययोगेन वर्तमानार्थबोधकम् ॥ २७ ॥

प्रत्यक्षं न हि गृह्णाति सोऽप्यतीतमनागतम् ।

धर्मेण नित्यसम्बन्धिरूपस्याभावतः क्वचित् ॥ २८ ॥

नानुमानमपि व्यक्तं धर्माधर्मावबोधकम् ।

धर्मादिसदृशाभावादुपमानमपि क्वचित् ॥ २९ ॥

सादृश्यग्राहकं नैव धर्माधर्मावबोधकम् ।

सुखस्य कारणं धर्मो दुःखस्याधर्म इत्यपि ॥ ३० ॥

अर्थापत्यात्र सामान्यमात्रे ज्ञाते न दुष्यति ।

सामान्यमननुष्ठेयं किञ्चातीतं तदा भवेत् ॥ ३१ ॥

यागादयो ह्यनुष्ठेया विशेषा विधिचोदिताः ।

अभावाख्यं प्रमाणं न पुण्यापुण्यप्रकाशकम् ॥ ३२ ॥

प्रमाणपञ्चकाभावे तत् सदा वर्तते यतः ।

वेदैकगोचरौ तस्माद्धर्माधर्माविति स्थितम् ॥ ३३ ॥

वेदैकविहितं कर्म मोक्षदं नापरं ततः ।

मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ ३४ ॥

नित्यनैमित्तिके कुर्यात्प्रत्यवायजिहासया ।

आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादिते ॥ ३५ ॥

जीवात्मनां प्रबोधस्तु जायते परमात्मनि ।

प्रत्याहारादिकं योगमभ्यस्यन्विहितक्रियः ॥ ३६ ॥

मनःकरणकेनात्मा प्रत्यक्षेणावसीयते ।

भिन्नाभिन्नात्मकस्त्वात्मा गोवत्सदसदात्मतः ॥ ३७ ॥

जीवरूपेण भिन्नोऽपि त्वभिन्नः पररूपतः।

असत्स्याज्जीवरूपेण सद्रूपः पररूपतः ॥ ३८ ॥

शाबळेयादिगोष्वेव यथा गोत्वं प्रतीयते ।

परमात्मा त्वनुस्यूतवृत्तिर्जीवेsपि बुध्यताम् ॥ ३९ ॥

त्रैयम्बकादिभिर्मन्त्रैः पूज्यो ध्येयो मुमुक्षुभिः ।

ध्यात्वैवारोपिताकारं कैवल्यं सोऽधिगच्छति ॥ ४० ॥

परानन्दानुभूतिः स्यान्मोक्षे तु विषयादृते ।

विषयेषु विरक्तास्स्युर्नित्यानन्दानुभूतितः ॥

गच्छन्त्यपुनरावृत्तिं मोक्षमेव मुमुक्षवः ॥ ४१ ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे

भट्टाचार्यपक्षो नाम अष्टमप्रकरणम् ।

 

अथ साङ्ख्यपक्षः .

 

साङ्ख्य दर्शनसिद्धान्त संक्षेपादथ कथ्यते ।

साङ्ख्यशास्त्रं द्विधाभूतं सेश्वरञ्च निरीश्वरम् ॥ १ ॥

चक्रे निरीश्वरं साङ्ख्यं कपिलोऽन्यत्पतञ्जलिः ।

कपिलो वासुदेवस्स्यादनन्तस्स्यात्पतञ्जलिः ॥ २ ॥

ज्ञानेन मुक्तिं कपिलो योगेनाह पतञ्जलिः ।

योगी कपिलपक्षोक्तं तत्वज्ञानमपेक्षते ॥ ३ ॥

श्रुतिस्मृतीतिहासेषु पुराणे भारतादिके ।

साङ्ख्योक्तं दृश्यते स्पष्टं तथा शैवागमादिषु ॥ ४ ॥

व्यक्ताव्यक्तविवेकेन पुरुषस्यैव वेदनात् ।

दुःखत्रयनिवृत्तिः स्यादेकान्तात्यन्ततो नृणाम् ॥ ५ ॥

दुःखमाध्यात्मिकं चाधिभौतिकं चाधिदैविकम् ।

आध्यात्मिकं मनोदुःखं व्याधयः पिटकादयः ॥ ६ ॥

आधिभौतिकदुःखं स्यात् कीटादिप्राणिसम्भवम् ।

वर्षातपादिसम्भूतं दुःखं स्यादाधिदैविकम् ॥ ७ ॥

एकान्तात्यन्ततो दुःखं निवर्तेतात्मवेदनात् ।

उपायान्तरतो मोक्षः क्षयातिशयसंयुतः ॥ ८ ॥

न चौषधैर्न यागाद्यैः स्वर्गादिफलहेतुभिः ।

त्रैगुण्यविषयैर्मोक्षस्तत्वज्ञानादृते परैः ॥ ९ ॥

पञ्चविंशतितत्वानि व्यक्ताव्यक्तादिकानि च ।

वेत्ति तस्यैव विस्पष्टमात्मज्ञानं भविष्यति ॥ १० ॥

पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे वसेत् ।

जटी मुण्डी शिखीं वापि मुच्यते नात्र संशयः ॥ ११ ॥

पञ्चविंशतितत्वानि पुरुषः प्रकृतिर्महान् ।

अहङ्कारश्च शब्दश्च स्पर्शरूपरसास्तथा ॥ १२ ॥

गन्धः श्रोत्रं त्वक्च चक्षुर्जिह्वा घाणञ्च वागपि ।

पाणिः पादस्तथा पायुरुपस्थश्च मनस्तथा ॥ १३ ॥

पृथिव्यापस्तथा तेजो वायुराकाशमित्यपि ।

सृष्टिप्रकारं वक्ष्यामि तत्त्वात्मकमिदं जगत् ॥ १४ ॥

सर्वं हि प्रकृतेः कार्यं नित्यैका प्रकृतिर्जडा ।

प्रकृतेस्त्रिगुणावेशादुदासीनोऽपि कर्तृवत् ॥ १५ ॥

स चेतनावत्तद्योगात्सर्गः पङ्ग्वन्धयोगवत् ।

प्रकृतिर्गुणसाम्यं स्याद्गुणास्सत्वं रजस्तमः ॥ १६ ॥

सत्त्वोदये सुखं प्रीति शान्तिर्लज्जाङ्गलाघवम् ।

क्षमा धृतिरकार्पण्यं दमो ज्ञानप्रकाशनम् ॥ १७ ॥

रजोगुणोदये लोभः सन्तापः कोपविग्रहौ ।

अभिमानो मृषावादः प्रवृत्तिर्दम्भ इत्यपि ॥ १८ ॥

तमोगुणोदये तन्द्री मोहो निद्राङ्गगौरवम् ।

आलस्यमप्रबोधश्च प्रमादश्चैवमादयः ॥ १९ ॥

व्यासाभिप्रेतसिद्धान्ते वक्ष्येऽहं भारते स्फुटम् ।

त्रैगुण्यविततिं सम्यग्विस्तरेण यथातथम् ॥ २० ॥

प्रकृतेः स्यान्महांस्तस्मादहङ्कारस्ततोऽप्यभूत् ।

तन्मात्राख्यानि पञ्च स्युः सूक्ष्मभूतानि तानि हि ॥ २१ ॥

वाक्पाणिपादसंज्ञानि पायूपस्थौ तथैव च ।

शब्दस्स्पर्शस्तथा रूपं रसो गन्ध इतीरिताः ॥ २२ ॥

खंवाय्वग्न्यम्बुपृथ्व्यस्स्युः सूक्ष्मा एव न चापरे ।

पटः स्याच्छुक्लतन्तुभ्यः शुक्ल एव यथा तथा ॥ २३ ॥

त्रिगुणानुगुणं तस्मात्तत्त्वसृष्टिरपि त्रिधा ।

सत्त्वात्मकानि सृष्टानि तेभ्यो ज्ञानेन्द्रियाण्यथ ॥ २४ ॥

श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणमित्यत्र पञ्चकम् ।

तैश्शब्दस्पर्शरूपाणि रसगन्धौ प्रवेत्त्यसौ ॥ २५ ॥

रजोगुणोद्भवानि स्युस्तेभ्यः कर्मेन्द्रियाण्यथ ।

वाक्पाणिपादसंज्ञानि पायूपस्थौ तथैव च ॥ २६ ॥

वचनादानगमनविसर्गानन्दकर्म च ।

मनोऽन्तःकरणाख्यं स्यात् ज्ञेयमेकादशेन्द्रियम् ॥ २७ ॥

तमोगुणोद्भवान्येभ्यो महाभूतानि जज्ञिरे ।

पृथिव्यापस्तथा तेजो वायुराकाश इत्यपि ॥ २८ ॥

पञ्चविंशतितत्त्वानि प्रोक्तान्येतानि वै मया ।

एतान्येव विशेषेण ज्ञातव्यानि गुरोर्मुखात् ॥ २९ ॥

आत्मानः प्रळये लीनाः प्रकृतौ सूक्ष्मदेहिनः ।

गुणकर्मवशाद्ब्रह्मस्थावरान्तस्वरूपिणः ॥ ३० ॥

प्रकृतौ सूक्ष्मरूपेण स्थितमेवाखिलं जगत् ।

आभिव्यक्तं भवत्येव नासदुत्पत्तिरिष्यते ॥ ३१ ॥

असदुत्पत्तिपक्षे च शशशृङ्गादि सम्भवेत् ।

असत्तैलं तिलादौ चेत्सिकताभ्योऽपि तद्भवेत् ॥ ३२ ॥

जनित जनयेच्चेति यस्तु दोषस्त्वयेरितः ।

अभिव्यक्तिमते न स्यादभिव्यञ्जककारणैः ॥ ३३ ॥

आत्मानो बहवः साध्या देहे देहे व्यवस्थिताः ।

एकश्चेद्युगपत्सर्वे म्रियेरन् सम्भवन्तु वा ॥ ३४ ॥

पश्येयुर्युगपत्सर्वे पुंस्येकस्मिन् प्रपश्यति ।

अतः स्यादात्मनानात्वमद्वैतं नोपपद्यते ॥ ३५ ॥

आत्मा ज्ञातव्य इत्यादिविधिभिर्प्रतिपादितः ।

निवृत्तिरूपधर्मः स्यान्मोक्षदोऽन्यः प्रवर्तकः ॥ ३६ ॥

अग्निष्टोमादयो यज्ञाः काम्याः स्युर्विहिता अपि ।

प्रवृत्तिधर्मास्ते ज्ञेया यतः पुंसां प्रवर्तकाः ॥ ३७ ॥

धर्मेणोर्ध्वगतिः पुंसामधर्मात्स्यादधोगतिः ।

ज्ञानेनैवापवर्ग स्यादज्ञानाद्बध्यते नरः ॥ ३८ ॥

ब्रह्मार्पणतया यज्ञाः कृतास्ते मोक्षदा यदि ।

अयज्ञत्वप्रसङ्गस्स्यान्मन्त्रार्थस्यान्यथाकृतेः ॥ ३९ ॥

तस्माद्यागादयो धर्मास्संसारेषु प्रवर्तकाः ।

निषिद्धेभ्योऽपि कर्तव्याः पुंसां सम्पत्तिहेतवः ॥ ४० ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनासिद्धान्तसङ्ग्रहे

कपिलवासुदेवसाङ्ख्यपक्षा नाम नवमप्रकरणम् ।

 

अथ पतञ्जलिपक्षः

अथ सेश्वरसाङ्ख्यस्य वक्ष्ये पक्षं पतञ्जलेः ।

पतञ्जलिरनन्तः स्याद्योगशास्त्रप्रवर्तकः ॥ १ ॥

पञ्चविंशतितत्त्वानि पुरुषं प्रकृतेः परम् ।

जानतो योगसिद्धिः स्याद्योगाद्दोषक्षयो भवेत् ॥ २ ॥

पञ्चविंशतितत्त्वानि पुरुषः प्रकृतिर्महान् !

अहङ्कारश्च तन्मात्रा विकाराश्चापि षोडशः ॥ ३ ॥

महाभूतानि चेत्येतदृषिणैव सुविस्तृतम् ।

ज्ञानमात्रेण मुक्तिः स्यादित्यालस्यस्य लक्षणम् ॥ ४ ॥

ज्ञानिनोऽपि भवत्येव दोषैर्बुद्धिभ्रमः क्वचित् ।

गुरूपदिष्टविद्यातो नष्टाविद्योऽपि पूरुषः ॥ ५ ॥

देहदर्पणदोषांस्तु योगेनैव विनाशयेत् ।

सम्यग्ज्ञातो रसो यद्वद्गुडादेर्नानुभूयते ॥ ६ ॥

पित्तज्वरयुतैस्तस्माद्दोषानेव विनाशयेत् ।

गुरूपदिष्टविद्यस्य विरक्तस्य नरस्य तु ॥ ७ ॥

दोषक्षयकरस्तस्माद्योगादन्यो न विद्यते ।

अविद्योपात्तकर्तृत्वात्कामात्कर्माणि कुर्वते ॥ ८ ॥

ततः कर्मविपाकेन जात्यायुर्भोगसम्भवः ।

पञ्चक्लेशास्त्वविद्या च रागद्वेषौ तदुद्भवौ ॥ ९॥

अस्मिताभिनिवेशौ च तत्राविद्यैव कारणम् ।

आत्मबुद्धिरविद्या स्याद‌‌‌‌‌नात्मनि कळेबरे ॥ १ ॥

पञ्चभूतात्मको देहो देही त्वात्मा ततोऽपरः ।

तज्जन्यपुत्रपौत्रादिसन्तानेऽपि ममत्वधीः ॥ ११ ॥

अविद्या देहभोग्ये वा गृहक्षेत्रादिके तथा ।

नष्टाविद्योऽथ तन्मूलरागद्वेषादिवर्जितः ॥ १२ ॥

मुक्तये योगमभ्यस्येदिहामुत्रफलास्पृहः ।

चित्तवृत्तिनिरोधे स्याद्योगः स्वस्मिन्व्यवस्थितिः ॥ १३ ॥

वृत्तयो नात्र वर्ण्यन्ते क्लिष्टाक्लिष्टविभेदिताः ।

क्रियायोगं प्रकुर्वीत साक्षाद्योगप्रवर्तकम् ॥ १४ ॥

क्रियायोगस्तपो मन्त्रजपो भक्तिर्दृढेश्वरे ।

क्लेशकर्मविपाकादिशून्यः सर्वज्ञ ईश्वरः ॥ १५ ॥

स कालेनानवच्छेदाद्ब्रह्मादीनां गुरुर्मतः ।

तद्वाचकः स्यात्प्रणवस्तज्जपो वाच्यभावनम् ॥ १६ ॥

योगान्तरायनाशः स्यात्तेन प्रत्यङ्मनो भवेत् ।

आलस्यं व्याधयस्तीव्राः प्रमादस्त्यानसंशयाः ॥ १७ ॥

अनवस्थितचित्तत्वमश्रद्धा भ्रान्तिदर्शनम् ।

दुःखानि दौर्मनस्यञ्च विषयेषु च लोलता ॥ १८ ॥

श्वासप्रश्वासदोषौ च देहकम्पो निरङ्कुशः ।

इत्येवमादयो दोषा योगविघ्नाः स्वभावतः ॥ १९ ॥

ईश्वरप्रणिधानेन तस्माद्विघ्नान्विनाशयेत् ।

मैत्र्यादिभिर्मनश्शुद्धिं कुर्याद्योगस्य साधनम् ॥ २० ॥

मैत्रीं कुर्यात्सुधीलोके करुणां दुःखिते जने ।

धर्मेऽनुमोदनं कुर्यादुपेक्षामेव पापिनाम् ॥ २१ ॥

भगवत्क्षेत्रसेवा च सज्जनस्य च सङ्गतिः ।

भगवच्चरिताभ्यासो भावना प्रत्यगात्मनः ॥ २२ ॥

इत्येवमादिभिर्यत्नैः संशुद्धं योगिनो मनः ।

शक्तं स्यादतिसूक्ष्माणां महतामपि भावने ॥ २३ ॥

योगाङ्गकारणाद्दोषे नष्टे ज्ञानप्रकाशनम् ।

अष्टावङ्गानि योगस्य यमोऽथ नियमस्तथा ॥ २४ ॥

आसनं पवनायामः प्रत्याहारोऽथ धारणा ।

ध्यानं समाधिरित्येवं तानि विस्तरतो यथा ॥ २५ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।

यमाः पञ्च भवन्त्येते जात्याद्यनुगुणा मताः ॥ २६ ॥

नियमाश्शौचसन्तोषतपोमन्त्रेशसेवनाः ।

यमस्य नियमस्यापि सिद्धौ वक्ष्ये फलानि च ॥ २७ ॥

अहिंसायाः फलं तस्य सन्निधौ वैरवर्जनम् ।

सत्यादमोघवाक्त्वं स्यादस्तेयाद्रत्नसङ्गतिः ॥ २८ ॥

ब्रह्मचर्याद्वीर्यलाभो जन्मधीरपरिग्रहात् ।

शीचात्स्वाङ्गेऽजुगुप्सा स्याद्दुर्जनस्पर्शवर्जनम् ॥ २९ ॥

सत्त्वशुद्धिस्सौमनस्यमैकात्म्येन्द्रियवश्यते ।

आत्मदर्शनयोग्यत्वं मनश्शौचफलं भवेत् ॥ ३० ॥

अनुत्तमसुखावाप्तिः सन्तोषाद्योगिनो भवेत् ।

इन्द्रियाणाञ्च कायस्य सिद्धिः स्यात्तपसः फलम् ॥ ३१ ॥

इन्द्रियस्य तु सिद्ध्या स्याद्दुरालोकादिसम्भवः ।

कायसिद्ध्याणिमादिः स्यात्तस्य दिव्यशरीरिणः ॥ ३२ ॥

जपेन देवताकर्षः समाधिस्त्वीशसेवया ।

आसनं स्यात् स्थिरसुखं द्वन्द्वनाशस्ततो भवेत् ॥३३॥

पद्मभद्रमयूराख्यैर्वीरस्वस्तिककुक्कुटैः ।

आसनैर्योगशास्त्रोक्तैरासितव्यञ्च योगिभिः ॥ ३४ ॥

प्राणापाननिरोधः स्यात् प्राणायामस्त्रिधा हि सः ।

कर्तव्यो योगिना तेन रेचपूरककुम्भकैः ॥ ३५ ॥

रेचनाद्रेचको वायोः पूरणात्पूरको भवेत् ।

सम्पूर्णकुम्भवत्स्थानादचलस्स तु कुम्भकः ॥ ३६ ॥

प्राणायामश्चतुर्थः स्याद्रेचपूरककुम्भकान् ।

हित्वा निजस्थितिर्वायोरविद्यापापनाशिनी ॥ ३७ ॥

इन्द्रियाणाञ्च चरतां विषयेभ्यो निवर्तनम्। ।

प्रत्याहारो भवेत्तस्य फलमिन्द्रियवश्यता ॥ ३८ ॥

चित्तस्य देशबन्धः स्थाद्धारणा द्विविधा हि सा ।

देशबाह्यान्तरत्वेन बाह्यः स्यात्प्रतिमादिकः ॥ ३९ ॥

देशस्त्वाभ्यन्तरो ज्ञेयो नाभिचक्रहृदादिकः ।

चित्तस्य बन्धनं तत्र वृत्तिरेव न चापरम् ॥ ४० ॥

नाभिचक्रादिदेशेषु प्रत्ययस्यैकतानता ।

ध्यानं समाधिस्तत्रैव त्वात्मनः शून्यवत्स्थितिः ॥ ४१ ॥

धारणादित्रये त्वेकविषये पारिभाषिकी ।

संज्ञां सयम इत्येषा त्रयोच्चारणलाघवात् ॥ ४२ ॥

योगिनस्संयमजयात् प्रज्ञालोकः प्रवर्तते ।

संयमस्सतु कर्तव्यो विनियोगोऽत्र भूमिषु ॥ ४३ ॥

पञ्चभ्योऽपि यमादिभ्यो धारणादित्रयं भवेत् ।

अन्तरङ्गं हि निर्बीज समाधिः स्यात्ततः परम् ॥ ४४ ॥

अजित्वात्वपरां भूमिं नारोहेद्भूमिमुत्तराम् ।

अजित्वारोहणे भूमेर्योगिनस्स्युरुपद्रवाः ॥ ४५ ॥

हिक्काश्वासप्रतिश्यायकर्णदन्ताक्षिवेदनाः ।

मूकताजडताकासशिरोरोगज्वरास्त्विति ॥ ४६ ॥

यस्येश्वरप्रसादेन यागो भवति तस्य तु ।

न रोगाः सम्भवन्त्येते येऽधरोत्तरभूमिजाः ॥ ४७ ॥

एक एवाखिलो धर्मो बाल्यकौमारयौवनैः ।

वार्धकेन तु कालेन परिणामाद्विनश्यति ॥ ४८ ॥

पराग्भूतस्य यातीडापिङ्गळाभ्यामहर्निशम् ।

कालस्तं शमयेत्प्रत्यगभियातः सुषुम्नया ॥ ४९ ॥

मुक्तिमार्गः सुषुम्ना स्यात् कालस्तत्र हि वञ्चितः ।

चन्द्रादित्यात्मकः कालस्तयोर्मार्गद्वयं स्फुटम् ॥ ५० ॥

क्षीरात्समुद्धृतं त्वाज्यं न पुनः क्षीरतां व्रजेत् ।

पृथक्कृतो गुणेभ्यस्तु भूयो नात्मा गुणी भवेत् ॥ ५१ ॥

यथा नीता रसेन्द्रेण धातवश्शातकुम्भताम् ।

पुनरावृत्तये न स्युस्तद्वदात्मापि योगिनाम् ॥ ५२ ॥

नाडीचक्रगतिर्ज्ञेया योगमभ्यस्यतां सदा ।

सुषुम्ना मध्यवंशास्थिद्वारेणतु शिरोगता ॥ ५३ ॥

इडा च पिङ्गळा घ्राण प्रदेशे सव्यदक्षिणे ।

इडा चन्द्रस्य मार्गः स्यात्पिङ्गळा तु रवेस्तथा ॥ ५४ ॥

कुहूरधो गता लिङ्गं वृषणं पायुमप्यसौ ।

विश्वोदरा धारणा च सव्येतरकरौ क्रमात् ॥ ५५ ॥

सव्येतराङ्घ्री विज्ञेयौ हस्तिजिह्वा यशस्विनी ।

सरस्वती तु जिह्वा स्यात् सुषुम्नापृष्ठनिर्गता ॥ ५६ ॥

तत्पार्श्वयोः स्थितौ कर्णौ शाङ्खिनी च पयस्विनी ।

गान्धारी सव्यनेत्रं स्यान्नेत्रं पूषा तु दक्षिणम् ॥ ५७ ॥

ज्ञानकर्मेन्द्रियाणि स्युर्नाड्यः कण्ठाद्विनिस्सृताः ।

नाड्यो हि योगिनां ज्ञेयाः सिरा एव न चापराः ॥ ५८ ॥

प्राणादिवायुसञ्चारो नाडीष्वेव यथा तथा ।

ज्ञातव्यो योगशास्त्रेषु तद्व्यापारश्च दृश्यताम् ॥ ५९ ॥

योगी तु संयमस्थाने संयमात्सर्वविद्भवेत् ।

पूर्वजातिपरिज्ञानं संस्कारे संयमाद्भवेत् ॥ ६० ॥

हस्त्यादीनां बलानि स्युर्हस्त्यादिस्थानसंयमात् ।

मेत्र्यादि लभते योगी मैत्र्यादिस्थानसंयमात् ॥ ६१ ॥

चन्द्रे स्यात्संयमात्तस्य तारकाव्यूहवेदनम् ।

ध्रुवेऽनागतविज्ञानं सूर्ये स्याद्भुवनेषु धीः ॥ ६२ ॥

कायव्यूहपरिज्ञानं नाभिचक्रे तु संयमात् ।

क्षुत्पिपासानिवृत्तिः स्यात्कर्णकूपे तु संयमात् ॥ ६३ ॥

कर्णनाड्यां भवेत्स्थैर्यमर्थज्योतिषि सिद्धधीः ।

जिह्वाग्रे रससंवित्स्यान्नासाग्रे गन्धवेदनम् ॥ ६४ ॥

अभ्यासादनिशं तस्माद्देहकान्तिश्शुभाकृतिः ।

क्षुदादिविनिवृत्तिश्च जायते वत्सराद्यतः ॥ ६५ ॥

संवत्सरेण विविधा जायन्ते योगसिद्धयः ।

यथेष्टचरितं ज्ञानमतीताद्यर्थगोचरम् ॥ ६६ ॥

स्वदेहेन्द्रियसंशुद्धिर्जरामरणसंक्षयः ।

वैराग्येण निवृत्तिः स्यात्संसारे योगिनोऽचिरात् ॥ ६७ ॥

अणिमाद्यष्टकं तस्य योगसिद्धस्य जायते ।

तेन मुक्तिविरोधो न शिवस्येव यथा तथा ॥ ६८ ॥

अणिमा लघिमा चैव महिमा प्राप्तिरीशता ।

प्राकाम्यञ्च तथेशित्वं वशित्वं यत्र कामदम् ॥ ६९ ॥

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे

पतञ्जलि-सेश्वरसाङ्ख्यपक्षो नाम दशमप्रकरणम्

अथ वेदव्यासपक्ष

सर्वशास्त्राविरोधेन व्यासोक्तो भारते द्विजैः ।

गृह्यते साङ्ख्यपक्षाद्धि वेदसारोऽथ वैदिकैः ॥ १ ॥

पुरुषः प्रकृतिश्चेति द्वयात्मकमिदं जगत् ।

परश्शयानस्तन्मात्रपुरे तु पुरुषः स्मृतः ॥ २ ॥

तन्मात्रास्सूक्ष्मभूतानि प्रायस्ते त्रिगुणास्स्मृताः ।

प्रकृतिर्गुणसाम्यं स्याद्गुणास्सत्त्वं रजस्तमः ॥ ३ ॥

बन्धः पुंसो गुणावेशो मुक्तिर्गुणविवेकधीः ।

गुणस्वभावैरात्मा स्यादुत्तमो मध्यमोऽधमः ॥ ४ ॥

उत्तमः सात्त्विकः श्लेष्मप्रकृतिस्स जलात्मकः ।

राजसो मध्यमो ह्यात्मा स पित्तप्रकतिर्मत ॥ ५ ॥

अधमस्तामसो वातप्रकृतिर्यत्तमो मरुत् ।

सत्त्वं शुक्लं रजो रक्तं धूम्रं कृष्णं तमो मतम् ॥ ६ ॥

जलाग्निपवनात्मानः शुक्लरक्तासितास्ततः ।

तत्तदाकारचेष्टाद्यैर्लक्ष्यन्ते सात्त्विकादयः ॥ ७ ॥

प्रियङ्गुदूर्वाशस्त्राब्जहेमवर्णः कफात्मकः ।

गूढास्थिबन्धस्सुस्निग्धपृथुवक्षा बृहत्तनुः ॥ ८ ॥

गम्भीरो मांसलः सौम्यो गजगामी महामनाः ।

मृदङ्गनादो मेधावी दयाळुस्सत्यवागृजुः ॥ ९ ॥

क्षुद्रदुःखपरिक्लेशैरतप्तो धर्मतस्तथा  ।

अनेकपुत्रभृत्याढ्यो भूरिशुक्लो रतिक्षमः ॥ १० ॥

धर्मात्मा मितभाषी च निष्ठुरं वक्ति न क्वचित् ।

बाल्येsप्यरोदनोsलोलो न बुभुक्षार्दितो भृशम् ॥ ११ ॥

भुङ्क्तेsल्पं मधुरं कोष्णं तथापि बलवानसौ ।

अप्रतीकारतौ वैरं चिरं गूढंवहत्यसौ ॥ १२ ॥

धृतिर्बुद्धिः स्मृतिः प्रीतिः सुखं लज्जङ्गलाघवम् ।

आनृण्यं समतारोग्यमकार्पण्यमचापलम् ॥ १३ ॥

इष्टापूर्तविशेषाणां क्रतूनामविकत्थनम् ।

दानेन चानुग्रहणमस्पृहा च परार्थतः ॥ १४ ॥

सर्वभूतदया चेति गुणैर्ज्ञेयोsत्र सात्त्विकः ।

रजोगुणपरिच्छेद्यो राजसोsत्र यथा जनः ॥ १५ ॥

रजः पित्तं तदेवाग्निरग्निस्तत्पित्तजस्तु वा ।

तीव्रतृष्णो बुभुक्षार्तः पैत्तिकोsमितभोजनः ॥ १६ ॥

पिङ्गकेशोsल्परोमा च ताम्रवक्त्राङ्घ्रिहस्तकः ।

घर्मासहिष्णुरुष्णाङ्गः स्वेदनः पूतिगन्धयुक् ॥ १७ ॥

स्वस्थो विरेचनादेवं मृदुकोष्ठोsतिकोपनः ।

शूरस्सुचरितो मानी क्लेशभीरुश्च पण्डितः ॥ १८ ॥

माल्यानुलेपनादीच्छुरतिस्वस्थोज्ज्वलाकृतिः ।

अल्पशुक्लोsल्पकामश्च  कामिनीनामनीप्सितः ॥ १९ ॥

बाल्येsपि पलितं धत्ते रक्तरोमाथ नीलिकाम्  ।

बली  साहसिको  भोगी सम्प्राप्तविभवस्सदा ॥ २० ॥

भुङ्तेsतिमधुरं चार्द्रं भक्ष्यं कट्वम्लनिस्स्पृहः ।

नात्युष्णभोजी पानीयमन्तरा प्रचुरं पिबन् ॥ २१ ॥

नेत्रं  चात्यल्पपक्षमास्यं भवेच्छीतजलप्रियः ।

कोपेनार्काभितापेन रागमाशु प्रयाति  च ॥ २२ ॥

अत्यागित्वमकारुण्यं सुखदुःखोपसेवनम् ।

अहङ्कारादसत्कारश्चिन्ता वैरोपसेवनम्  ॥ २३ ॥

परभार्यापहरणं ह्रीनाशोsनार्जवन्त्विति ।

राजसस्य गुणाः प्रोक्तास्तामसस्य गुणा यथा ॥ २४ ॥

अधर्मस्तामसो ज्ञेयस्तामसो वातिको जनः ।

अधन्यो मत्सरी चोरः प्राकृतो नास्तिको भृशम् ॥ २५ ॥

दीर्घस्फुटितकेशान्तः कृशः कृष्णोsतिलोमशः ।

अस्निग्धविरळस्थूलदन्तो धूसरविग्रहः ॥ २६ ॥

चञ्चलास्य धृतिर्बुद्धिश्चेष्टा दृष्टिर्गतिः स्मृतिः ।

सौहार्दमस्थिरं तस्य प्रलापोsसङ्गतस्सदा ॥ २७ ॥

बह्वाशी मृगयाशीलो मलिष्ठः कलहप्रियः ।

शीतासहिष्णुश्चपलो  दोषधीर्जर्जरस्वरः ॥ २८ ॥

चन्द्रे स्यात्संयमात्तस्य तारकाव्यूहवेदनम् ।

सन्नतक्तचलालापो गीतवाद्यरतस्सदा ।

मधुराद्युपभोगीच भक्ष्यपक्वाम्लसस्पृहः ॥ २९ ॥

अल्पपित्तकफः प्रेक्ष्योऽस्वल्पनिद्रोऽल्पजीवनः ।

एवमादिगुणैर्ज्ञेयस्तामसो वातिको जनः ॥ ३० ॥

पञ्चभूतगुणान्वक्ष्ये त्रैगुण्यान्नातिभेदिनः ।

जङ्गमानाञ्च सर्वेषां शरीरे पञ्च धातवः ॥ ३१ ॥

प्रत्येकशः प्रभिद्यन्ते यैश्शरीरं विचेष्टते ।

त्वक् च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमः ॥३२॥

इत्येतदिह संख्यातं शरीरे पृथिवीमयम् ।

तेजोऽग्नितस्तथा क्रोधश्चक्षुरूष्मा तथैव च ॥ ३३ ॥

अग्निर्जरयते चापि पञ्चाग्नेयाश्शरीरिणाम् ।

श्रोत्रं घ्राणमथास्यञ्च हृदयं कोष्ठमेव च ॥ ३४ ॥

आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ।

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ॥ ३५ ॥

इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ।

प्राणात्प्राणयते देही व्यानाद्व्यायच्छत्ते सदा ॥ ३६ ॥

गच्छत्यपानोsवाक् चैव समानो हृद्यवस्थितः ।

उदानादुच्छ्वसिति च वृत्तिभदांश्च भाषते ॥ ३७ ॥

इत्येते वायवः पञ्च चेष्टयन्तीह देहिनः ।

इष्टानिष्टसगन्धश्च मधुरः कटुरेव च ॥ ३८ ॥

निर्हारी सङ्गतः स्निग्धो रूक्षो विशद एव च ।

एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥ ३९ ॥

मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।

एवं षड्विधविस्तारो रसो वारिमयो मतः ॥ ४० ॥

ह्रस्वो दीर्घस्तथा स्थूलश्चतुरश्रोऽथ वृत्तवान् ।

शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ॥ ४१ ॥

एवं द्वादशविस्तारो ज्योतिषोऽपि गुणः स्मृतः ।

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ॥ ४२ ॥

धैवतो निषधश्चैव सप्तैते शब्दजा गुणाः ।

उष्णश्शीतं सुखं दुःखं स्निग्धो विशद एव च ॥ ४३ ॥

कठिनश्चिक्कणः श्लक्ष्णः पिच्छिलो मृदुदारुणौ ।

एवं द्वादशविस्तारो वायव्यो गुण उच्यते ॥ १४ ॥

आकाशजं शब्दमाहुरेभिर्वायुगुणैस्सह ।

अव्याहतैश्चेतयते न वेत्ति विषमागतैः ॥ ४५ ॥

अथाप्याययते नित्य धातुभिस्तैस्तु पञ्चभिः ।

आपोऽग्निर्मरुतश्चैव नित्यं जाग्रति देहिषु ॥ ४६ ॥

चतुर्व्यूहात्मको विष्णुश्चतुर्धैवाकरोज्जगत् ।

ब्रह्मक्षत्रियविट्शूद्रांश्चतुर्वर्णान् गुणात्मकान् ॥ ४७ ॥

विप्रश्शुक्लो नृपो रक्तः पीतो वैश्योऽन्त्यजोsसितः ।

विस्तृत्य धर्मशास्त्रे हि तेषां कर्म समीरितम् ॥ ४८ ॥

एकस्मिन्नेव वर्णे तु चातुर्वर्ण्यं गुणात्मकम् ।

मोक्षधर्मेऽधिकारित्वसिद्धये मुनिरभ्यधात् ॥ ४९ ॥

स कर्मदेवतायोगज्ञानकाण्डेष्वनुक्रमात् ।

प्रवर्तयति तत्कर्मपरिपाकक्रमं विदन् ॥ ५० ॥

ऋजवश्शुद्धवर्णाभाः क्षमावन्तो दयाळवः ।

स्वधर्मनिरता ये स्युस्ते द्विजेषु द्विजातयः ॥ ५१ ॥

कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः ।

त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ ५२ ॥

गोषु वृत्तिं समाधाय पीता. कृष्युपजीविनः ।

न स्वकर्म करिष्यन्ति ते द्विजा वैश्यतां गताः ॥ ५३॥

हिंसानृताप्रिया क्षुद्रास्सर्वकर्मोपजीविनः ।

कृष्णाश्शौचपरिभ्रष्टास्ते द्विजाश्शूद्रतां गताः ॥ ५४ ॥

समयाचारनिश्शेषकृत्यभेदैर्विमोहयन् ।

मोक्षदो विष्णुरेव स्याद्देवदैतेयरक्षसाम् ॥ ५५ ॥

चतुर्भिर्जन्मभिर्मुक्तिर्द्वेषेण भजतस्तव ।

भवेदिति वरो दत्तः पुण्डरीकाय विष्णुना ॥ ५६ ॥

रजस्सत्त्वतमोमार्गैस्तदात्मानस्स्वकर्मभिः ।

प्राप्यते विष्णुरेवैको देवदैत्यनिशाचरैः ॥ ५७ ॥

ब्रह्मविष्णुहराख्याभिः सृष्टिस्थितिलयानपि ।

हरिरेव करोत्येको रजस्सत्त्वतमोवशात् ॥ ५८ ॥

सात्विकास्त्रिदशास्सर्वे त्वसुरा राजसा मताः ।

तामसा राक्षसाश्शीलप्रकृत्याकृतिवर्णतः ॥ ५९ ॥

धर्मस्सुराणां पक्षस्स्यादधर्मोऽसुररक्षसाम् ।

पिशाचादेरधर्मस्स्यादेषां लक्ष्म रजस्तम ॥ ६० ॥

ईश्वराज्ज्ञानमन्विच्छेच्छ्रियमिच्छेद्धुताशनात् ।

आरोग्यं भास्करादिच्छेन्मोक्षामिच्छेज्जनार्दनात् ॥ ६१ ॥

यस्मिन्पक्षे तु यो जातः सुरो वाप्यसुरोऽपि वा ।

स्वधर्म एव तस्य स्यादधर्मेऽप्यत्र धर्मवित् ॥ ६२ ॥

वेदत्रयोक्ता ये धर्मास्तेऽनुष्ठेयास्तु सात्त्विकैः ।

अधर्मोऽथर्ववेदोक्तो राजसैस्तामसैः श्रितः ॥ ६३ ॥

विष्णुक्रमणपर्यन्तो यागोऽस्माकं यथा तथा ।

राजसैस्तामसैर्ब्रह्मरुद्राविज्यौ तु तद्गुणौः ॥ ६४ ॥

निजधर्मपथायाताननुगृह्णात्यसौ हरिः ।

मुच्यते निजधर्मेण परधर्मो भयावहः ॥ ६५ ॥

एक एव परो विष्णुः सुरासुरनिशाचरान् ।

त्रिगुणानगुणं नित्यमनुगृह्णाति लीलया ॥ ६६ ॥

 

इति श्रीमच्छङ्कराचार्यविरचिते सर्वदर्शनसिद्धान्तसङ्ग्रहे वेदव्यासोक्तभारतपक्षो

नामैकादशप्रकरणम् ॥

 

अथ वेदान्तपक्ष

वेदान्तशास्त्रसिद्धान्तः संक्षेपादथ कथ्यते ।

तदर्थप्रवणाः प्रायः सिद्धान्ताः परवादिनाम् ॥ १ ॥

ब्रह्मार्पणकृतैः पुण्यैर्ब्रह्मज्ञानाधिकारिभिः ।

तत्त्वमस्यादिवाक्यार्थो ब्रह्म जिज्ञास्यते बुधैः ॥२॥

नित्यानित्यविवेकित्त्वमिहामुत्रफलास्पृहा !

शमो दमो मुमुक्षुत्वं यस्य तस्याधिकारिता ॥ ३ ॥

तत्त्वमस्येव नान्यस्त्वं तच्छब्दार्थः परेश्वरः ।

त्वं शब्दार्थः पुरोवर्ती तिर्यङ्मर्त्यादिकोऽपरः ॥ ४ ॥

तादात्म्यमसिशब्दार्थो ज्ञेयस्तत्त्वंपदार्थयोः ।

सोऽयं पुरुष इत्यादिवाक्ये तादात्म्यवन्मतः ॥ ५ ॥

स्यान्मतं तत्त्वमस्यादिवाक्यं सिद्धार्थबोधनात् ।

कथं प्रवर्तकं पुंसां विधिरेव प्रवर्तकः ॥ ६ ॥

आत्मा ज्ञातव्य इत्यादिविधिभिः प्रतिपादिताः ।

यजमानाः प्रशस्यन्ते तत्ववादैरिहारुणैः ॥ ७ ॥

बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुव ।

नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥ ८ ॥

व्यर्थातो ब्रह्मजिज्ञासा वाक्यस्यान्यपरत्वतः ।

अत्र ब्रूमस्समाधानं न लिङेव प्रवर्तकः ॥ ९ ॥

इष्टसाधनताज्ञानादपि लोकः प्रवर्तते ।

पुत्रस्ते जात इत्यादौ विधिरूपो न तादृशः ॥ १० ॥

आत्मा ज्ञातव्य इत्यादिविधयस्त्वारुणे स्थिताः ।

बोधं विदधते ब्रह्मण्यज्ञानाद्भ्रान्त  चेतसाम् ॥ ११ ॥

स्यादेतत्काम्यकर्माणि प्रतिषिद्धानि वर्जयन् ।

विहितं कर्म कुर्वाणः शुद्धान्तःकरणः पुमान् ॥ १२ ॥

स्वयमेव भवेज्ज्ञानी गुरुवाक्यानपेक्षया ।

तदयुक्तं न विज्ञानं कर्मभि केवलैर्भवेत् ॥ १३ ॥

गुरुप्रसादजन्यं हि ज्ञानमित्युक्तमारुणैः ।

प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शक्तितः ॥ १४ ॥

कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ।

प्रत्यक्प्रवणबुद्धेस्तु ब्रह्मज्ञानाधिकारिणः ॥ १५ ॥

स्यादेव ब्रह्मजिज्ञासा तत्त्वमस्यादिभिर्गुरोः ।

तत्त्वमस्यादिवाक्यौघो व्याख्यातो हि पनः पुनः ॥ १६ ॥

गुर्वनुग्रहहीनस्य नात्मा सम्यक्प्रकाशते ।

आत्माविद्यानिमित्तोत्थः प्रपन्नः पाञ्चभौतिकः ॥ १७ ॥

निवर्तते यथा तुच्छं शरीरभुवनात्मकम् ।

तथा ब्रह्मविवर्तन्तु विज्ञेयमखिलं जगत् ॥ १८ ॥

वेदान्तोक्तात्मविज्ञानविपरीतमतिस्तु या ।

आत्मन्यविद्या सानादि स्थूलसूक्ष्मात्मना स्थिता ॥ १९ ॥

आत्मनः खं ततो वायुर्वायोरग्निस्ततो जलम् ।

जलात्पृथिव्यभूद्भूमेर्व्रीह्याध्यौषधयोsभवन् ॥ २० ॥

ओषधिभ्योsन्नमन्नात्तु पुरुषः पञ्चकोशवान् ।

अपवीकृततन्मात्र सूक्ष्मभूतात्मको जनः ॥ २१ ॥

स्थूलीभवति तद्भेदस्तिर्यड्नरसुरात्मकः ।

धर्माधिक्ये तु देवत्वं तिर्यक्त्वं स्यादधर्मतः ॥ २२ ॥

तयोस्साम्ये मनुष्यत्वमिति त्रेधा तु कर्मभिः ।

त्वगसृङ्मांसमेदोsस्थिमज्जाशुक्लानि धातवः ॥ २३ ॥

सप्तान्नपरिणामा स्यु पुंस्त्रीत्वमपि न स्वतः ।

शुक्लाधिक्य पुमान् गर्भे रक्ताधिक्ये वधूस्तथा ॥ २४ ॥

नपुंसकं तयोस्साम्ये मातुस्सञ्जायते सदा ।

मज्जास्थिस्नायवश्शुक्लाद्रक्तात्त्वङ्मांसशोणिताः ॥ २५ ॥

षट्कोशाख्यं भवेदेतत्पितुर्मातुस्त्रयन्त्रयम् ।

बुभुक्षा च पिपासा च शोकमोहौ जरामृती ॥ २६ ॥

षडूर्मयः प्राणबुद्धिदेहेषु स्याद्द्वयन्द्वयम् ।

आत्मत्वेन भ्रमन्त्यत्र वादिनः कोशपञ्चके ॥ २७ ॥

अन्नप्राणमनोज्ञानमयाः कोशास्तथात्मनः |

आनन्दमयकोशश्च पञ्चकोशा इतीरिताः ॥ २८ ॥

मयङ्विकारे विहित इत्यानन्दमयोऽभ्यसन् ।

गृह्णात्यन्नमयात्मानं देहं लोकायतः खलु ॥ २९ ॥

देहैः परिमितं प्राणमयमारूहता विदुः ।

विज्ञानमयमात्मानं बौद्धा गृह्णन्ति नापरम् ॥ ३० ॥

आनन्दमयमात्मानं वैदिकाः केचिदूचिरे।

अहङ्कारात्मवादी तु प्राह प्रायो मनोमयम् ॥ ३१ ॥

कर्तृवादिभिरस्पृष्ठो ग्राह्य आत्मात्मविन्मते ।

कर्तृत्वं कर्मकाण्डस्थैर्देवताकाण्डमाश्रितैः ॥ ३२ ॥

अवश्याश्रयणीयं हि नान्यथा कर्म सिध्यति ।

वसन्ते ब्राह्मणोऽत्राग्नीनादधीतेति वै विधौ ॥ ३३ ॥

देहो वात्मविशिष्टो वा कोऽधिकारी तु कर्मणि ।

अचेतनत्वाद्देहस्य स्वर्गकामाद्यसम्भवात् ॥ ३४ ॥

न जाघटीति कर्तृत्वं नाशित्वात्तत्र कर्मणि ।

आत्मनो ब्राह्मणत्वादिजातिरेव न विद्यते ॥ ३५ ॥

जातिवर्णाश्रमावस्थाविकारभ्योऽपि सोऽपर ।

विशिष्टो नापर कश्चिद्विद्यते देहदेहिनोः ॥ ३६ ॥

अतः काल्पनिकः कर्ता विज्ञेयस्तत्र कर्माणि ।

नेति नेत्युच्यमाने तु पञ्चकोशे क्रमेण यः ॥ ३७ ॥

भासते तत्परं ब्रह्म स्यादविद्या ततोऽन्यथा ।

आत्मस्वरूपमाच्छाद्य विक्षेपान् सा करोत्यलम् ॥ ३८ ॥

अहड्काराख्यविक्षेपः कामात्कर्मफलस्तदा ।

मूलभूतोऽखिलभ्रान्तेर्बिभ्राणो दुःखसङ्गतिम् ॥ ३९ ॥

व्यवहारान् करोत्युच्चैः सर्वान् लौकिकवैदिकान् ।

मातृमानप्रमेयादिभिन्नान् सर्वस्य सत्यवत् ॥ ४० ॥

निष्क्रियस्य त्वसङ्गस्य चिन्मात्रस्यात्मनः रवलु ।

स्वतो न व्यवहारोऽयं सम्भवत्यनपेक्षिणः ॥ ४१ ॥

जडश्चेतत्यहङ्कारश्चैतन्याध्यासवान्ध्रुवम् ।

अन्यवस्त्वन्तराध्यासादात्मान्यत्वेन भासते ॥ ४२ ॥

इदमंशो द्विधाभूतस्तत्र प्राणः क्रियाश्रयः।

ज्ञानाधारोऽपरो बुद्धिर्मन इत्यंश ईरितः ॥ ४३॥

तस्य चेष्टादयोऽपीष्टाः प्राणाद्याः पञ्च वायवः ।

करणाद्याः क्रियाभेदवागादिद्वारकास्तथा ॥ ४४ ॥

द्विधान्तःकरणं बुद्धिर्मनः कार्यवशादिह ।

आत्मैव केवलस्साक्षादहंबुद्धौ तु भाति चेत् ॥ ४५ ॥

कृशोऽस्मीति मतौ भाति केवलो नेति तद्वद ।

कृशादयोऽत्र दृश्यत्वान्नात्मधर्मा यथा मताः ॥ ४६ ॥

सुस्वादयोऽपि देहस्था नात्मधर्मास्तथैव च ।

मातृमनिप्रमेयेभ्यो भिन्न आत्मात्मविन्मते ॥ ४७ ॥

तथैव चोपपाद्यस्स्यान्निरस्य परवादिनः ॥

अनात्मा विपयश्चेति प्रतिपाद्यो न कस्यचित् ॥ ४८ ॥

घटोऽहमिति कस्यापि प्रतिपत्तेरभावतः।

रूपादिमत्त्वाद्दृश्यत्वाज्जडत्वाद्भौतिकत्वतः ॥ ४९ ॥

अन्नवच्चादनीयत्वाच्छ्वादेर्नात्मा कळेबरम् ।

देहतो व्यतिरेकेण चैतन्यस्य प्रकाशनात् ॥ ५० ॥

अतस्त्वन्नमयो देहो नात्मा लोकायतेरितः ।

प्राणोऽप्यात्मा न वायुत्वाज्जडत्वाद्बाह्यवायुवत् ॥ ५१ ॥

इन्द्रियाणि न चात्मा स्यात् करणत्वात्प्रदीपवत् ।

चञ्चलत्वान्मनो नात्मा सुषुप्तौ तदसम्भवात् ॥ ५२ ॥

सुखे पर्यवसानाच्च सुखमेवात्मविग्रहः ।

धत्तेऽन्नमयमात्मानं प्राणः प्राणं मनो मनः ॥ ५३ ॥

सच्चिदानन्दगोविन्दपरमात्मा वहत्यसौ ।

यदा बाह्येन्द्रियैरात्मा भुङ्क्तेऽर्थान् स्वपराङ्मुरवान् ॥ ५४ ॥

तदा जाग्रदवस्था स्यादात्मनो विश्वसंहिता ।

बाह्येन्द्रियगृहीतार्थान् मनोमात्रेण वै यदा ॥ ५५ ॥

भुङ्क्ते स्वप्नांस्तदा ज्ञेया तैजसाख्या परात्मनः ।

अविद्यातिभिरग्रस्तमनस्यात्मन्यवस्थिते ॥ ५६ ॥

सुषुप्त्यवस्था विज्ञेया प्राज्ञाख्यानन्दसंज्ञिता ।

स्वापेऽपि तिष्ठति प्राणो मृतभ्रान्तिनिवृत्तये ॥ ५७ ॥

अन्यथा श्वादयोऽश्नन्ति संस्करिष्यन्ति वानले ।

स्वापेऽप्यानन्दसद्भावो भवत्येवोत्थितो यतः ॥ ५८॥

सुखमस्वाप्समित्येवं परामृशति वै स्मरन् ।

स्यान्मतं विषयाभावान्न तद्विषयजं सुखम् ॥ ५९ ॥

वैद्यत्वान्न निजन्तेन दुःखाभावे सुखभ्रमः ।

प्रतियोगिन्यदृष्टेऽपि सर्वाभावोऽपि गृह्यते ॥ ६० ॥

यतोऽन्यस्मै पुनः पृष्टः सर्वाभावं प्रभाषते ।

न्यायेनानेन भावानां ज्ञानाभावोऽनुभूयते ॥ ६१ ॥

अत्र ब्रूमस्समाधानं दुःखाभावो न गृह्यते ॥

प्रबुद्धेनेति सुप्तस्य नाज्ञानं प्रति साक्षिता ॥ ६२ ॥

प्रतियोग्यग्रहास्वापे दुरवस्य प्रतियोगिता ।

अभावाख्यं प्रमाणन्तु नास्ति प्राभाकरे मते ॥ ६३॥

नैयायिकमतेभावः प्रत्यक्षान्नातिरिच्यते।

सुखदुवादिनिर्मुक्तेमोक्षे पाषाणवत्स्थितम् ॥ ६४॥

आत्मानं प्रवदन्वादी मूर्खः किन्न वदत्यसौ ।

स्थितमज्ञानसाक्षित्वं नित्यानन्दत्वमात्मनः ॥ ६५ ॥

वदन्त्यत्रात्मनानात्वं देहेषु प्रतिवादिनः ।

एकश्चेत्सर्वभूतेषु पुंसि कस्मिन् मृते सति ॥ ६६ ॥

सर्वे म्रियेरन् जायेरन् जाते कुर्युश्च कुर्वति ।

एवंविरुद्धधर्मा हि दृश्यन्ते सर्वजन्तुषु ॥ ६७ ॥

अतस्सर्वशरीरेषु नानात्वं चात्मनां स्थितम् ।

विरुद्धधर्मदृष्ट्यैव पुंसां भेदस्त्वयेरितः ॥ ६८ ॥

विरुद्धधर्मा दृष्टाः देहे वात्मनि वा वद |

देहे चेद्देहनानात्वं सिद्धं किं तेन चात्मनि ॥ ६९ ॥

चिद्रूपात्मनि भेदश्चेत्पुंस्येकस्मिन् प्रसज्यते ।

एकस्येन्दोरपांपात्रेष्वनेकत्वं यथा तथा ॥ ७० ॥

अनेकदेहेष्वेकात्मप्रतिभासस्तथा मतः ।

आत्मन्यः पञ्चकोशेभ्यः षड्भावेभ्यः षडूर्मितः ॥ ७१ ॥

देहेन्द्रियमनोबुद्धिप्राणाह्ङ्कारवर्जितः ।

एकस्सकलदेहेषु निर्विकारो निरञ्जनः ॥ ७२ ॥

नित्योsकर्ता स्वयंज्योतिर्विभुर्भोगविवर्जितः ।

ब्रह्मात्मा निर्गुणश्शुद्धो बोधमात्रतनुस्स्वतः ॥ ७३ ॥

अविद्योपाधिकः कर्ता भोक्ता रागादिदूषितः ।

अहङ्कारादिदेहान्तःकलुषीकृतविग्रहः ॥ ७४ ॥

यथोपाधिपरिच्छिन्नो बन्धकाष्टकवेष्टितः |

ब्रह्मादिस्थावरान्तेषु भ्रमन् कर्मवशानुगः ॥ ७५ ॥

कर्मणा पितृलोकादि निषिद्धैर्नरकादिकम् ।

विद्य्या ब्रह्मसायुज्यं तद्धीनः क्षुद्रतां गतः ॥ ७६ ॥

एक एव परो जीवः स्वकल्पितजगत्त्त्रयः ।

बन्धमुक्तादिभेदश्च स्वप्नवद्धष्टनामियात् ॥ ७७ ॥

अथवा बहवो जीवाः संसारज्ञानभागिनः ।

अनादित्वादविद्याया अन्योन्याश्रयता न हि ॥ ७८ ॥

व्यष्टिदेहादिदं युक्तं द्वयमित्यपरं मतम् ।

समष्टिदृष्ट्या त्वेकत्वं व्यष्टिदृष्ट्या त्वनेकता ॥ ७९ ॥

साक्षी सद्वारनिर्द्वारसम्बन्धानां जडात्मनाम् ।

विज्ञानाज्ञानरूपेण सदा सवज्ञतां गतः ॥ ८० ॥

मायामात्रस्सुषुप्त्यादौ खचिताज्ञानकञ्चुकः ।

जन्मान्तरानुभूतानमपि संस्मरणक्ष्मः ॥ ८१ ॥

तत्प्रापकवशादत्र तारतम्यविशेषभाक् ।

अवस्थापञ्चकातीतः प्रमाता ब्रह्मविन्मतः ॥ ८२ ॥

प्रमासाधनमित्येव मानसामान्यलक्षणम् ।

तत्परिच्छेदभेदेन तदेवं द्विविधं मतम् ॥ ८३ ॥

निवर्तकमविद्याया इति वा मानलक्षणम् ।

सशेषाशेषभेदेन तदेवं द्विविधं मतम् ॥ ८४ ॥

तत्त्वमस्यादिवाक्योत्थमशेषाज्ञानबाधकम् ।

प्रत्यक्षमनुमानाख्यमुपमानन्तथागमः ॥ ८५ ॥

अर्थापत्तिरभावश्च प्रमाणानि षडेव हि ।

व्यावहारिकनामानि भवन्त्येतानि नात्मनि ॥ ८६ ॥

स्वसंवेद्योsप्रमेयोsपि लक्ष्यते वाङ्मनोsतिगः ।

हिरण्यगर्भपक्षस्तु वेदान्तान्नातिभिद्यते ॥ ८७ ॥

आनन्दःपुरुषोsज्ञानं प्रकृतिस्तन्मते मता ।

ज्ञानं द्विधा स्थितं प्रत्यक्परागिति भेदतः ॥ ८८ ॥

आनन्दाभिमुखं प्रत्यग्बाह्यार्थाभिमुखं पराक् ।

आत्माज्ञानविवर्तः स्याद्भूततन्मात्रपञ्चकम् ॥ ८९ ॥

तन्मात्रपञ्चकाज्जातमन्तःकरणपञ्चकम् ।

मनोबुद्धिरहङ्काराश्चित्तं ज्ञातृत्वमित्यपि ॥ ९० ॥

पार्थिवस्स्यादहङ्कारो ज्ञातृत्वमवकाशजम् ।

करणद्वयमेतत्तु कर्तृत्वेनावभासते  ॥ ९१ ॥

बुद्धिः स्यात्तैजसी चित्तमाप्यं स्याद्वायुजं मनः ।

भूम्याद्येकैकभूतस्य विज्ञेयं गुणपञ्चकम् ॥ ९२ ॥

अहङ्कारो भुवः प्राणो घ्राणङ्गन्धश्च पायुना ।

चित्तपानौ तथा जिह्वा रसोपस्थावपाङ्गुणाः ॥ ९३ ॥

बुद्ध्युदानौ तथा चक्षू रूपपादास्तु तैजसाः ।

मनो वायोर्व्यानचर्मस्पर्शाः पाणिर्गुणास्तथा ॥ ९४ ॥

ज्ञातृत्वश्च समानश्च श्रोत्रं शब्दश्च वाक् रवजाः ।

एकैकसूक्ष्मभूतेभ्यः पञ्च पञ्चापरे गुणाः ॥ ९५ ॥

अस्थि चर्म तथा मांसं नाडीरोमाणि भूगणाः ।

मूत्रं श्लेष्मा तथा रक्तं शुक्लं मज्जा त्वपाङ्गुणाः ॥ ९६ ॥

निद्रा तृष्णा क्षुधा ज्ञेया मैथुनालस्यमग्निजाः ।

प्रचालस्तरणारोहै वायोरुत्थानरोधने ॥ ९७ ॥

कामक्रोधौ लोभभये मोहो व्योमगुणास्तथा ।

उक्तोsवधूतमार्गश्च कृष्णेनैवोद्धवं प्रति ॥ ९८ ॥

श्रीभागवतसंज्ञे तु पुराणे दृश्यते हि सः ।

सर्वदर्शनसिद्धान्तान्वेदान्तान्तानिमान् क्रमात् ।

श्रुत्वार्थवित्सुसंक्षिप्तान्तत्त्वतः पण्डितो भुवि ॥ ९९ ॥

इति श्रीमच्छङ्कराचार्यविराचिते सर्वदर्शनसिद्धान्नसङ्ग्रहे वेदान्तपक्षो नाम द्वादशप्रकरणम् ।।

इति श्रीमच्छङ्कराचार्यविराचिते सर्वदर्शनसिद्धान्नसङ्ग्रहः समाप्तः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.