श्रीमन्निगमान्तमहादेशिकविरचितः
तत्त्वमुक्ताकलापः
जीवसरः द्वितीयः ॥ २ ॥
यो मे हस्तादिवर्ष्मेत्यवयवनिवहाद्भाति भिन्नस्स एकः प्रत्येकं चेतनत्वे बहुरिह कलहो वीतरागो न जातः । तत्सङ्घातातिरिक्तेऽप्यवयविनि कथं तेष्वसिद्धा मतिस्स्यात् सङ्घातत्वादिभिर्वा घट इव तदचित्स्यान्ममात्मेत्यगत्या ॥ १ ॥
स्याद्वाऽसौ चर्मदृष्टेरयमहमिति धीर्देह एवात्मजुष्टे निष्टप्ते लोहपिण्डे हुतवहमतिवद्भेदकाख्यातिमूला । श्रुत्यर्थापत्तिभिश्च श्रुतिभिरपि च नस्सर्वदोषोज्झिताभिः देही देहान्तराप्तिक्षम इह विदितस्संविदानन्दरूपः ॥ २ ॥
बाह्याक्षेभ्योऽन्य आत्मा तदखिलविषयप्रत्यभिज्ञातुरैक्यात् कर्तुः स्मृत्यादिकार्ये करणमिति मनो मानसिद्धं ततोऽन्यत् । प्राणास्सङ्घातरूपा वपुरुदितनयान्न ध्रुवं चेतयन्ते ज्ञानं च ज्ञातृधर्मः क्षणिकमपि च वस्तेन नास्याऽऽत्मभावः ॥ ३ ॥
धीर्नित्या यस्य पक्षे प्रसरति बहुधाऽर्थेषु सैवेन्द्रियाद्यैस्तेनाऽऽत्माऽजागलस्थस्तन इव किमिह स्वीक्रियेतेति चेन्न । कल्प्यं चेदात्मतत्त्वं कथयितुमुचितं लाघवं तत्र युक्त्या नित्या सा यस्य तद्वानपि निगममितो गौरवं नास्य भारः ॥ ४ ॥
ज्ञानत्वं वक्ति पुंसः श्रुतिरिह न पुनर्बुद्धिमात्रस्य पुंस्त्वं प्रत्यक्षादेः प्रकोपादनुगतकथने ज्ञानमर्थप्रकाशः । स्वस्यैवाऽऽत्मा तु सिद्धिं मतिरनुभवति स्वान्ययोस्सिद्धिभावं ज्ञातुर्जाड्यप्रसङ्गव्युदसनविषया ज्ञानमात्रोक्तयोऽपि ॥ ५ ॥
आत्मा स्वेनैव सिध्यत्यहमिति निगमैर्यत्स्वयंज्योतिरुक्तः स्वापेऽप्यस्य स्वसिद्धावशयिषि सुखमित्यक्षता प्रत्यभिज्ञा । चेतश्चान्यानपेक्षं मतिषु न हि भवेत्किं च वेदान्तदृष्ट्या ज्ञानत्वादेष धीवत् स्वविषयधिषणानिर्व्यपेक्षस्वसिद्धिः ॥ ६ ॥
प्रत्यक्त्वं पुंसि केचित् स्वविषयधिषणाधारतामात्रमाहुः स्वस्मै स्वेनैव भानं तदिति समुचितं तत्स्वतस्सिद्धिसिद्धेः । प्रत्यङ् स्वापेक्षयाऽसौ त्वमयमिति मितः स्वेतरैः स्वस्य बुद्ध्या भातं नित्यं परस्मै जडमजडमपि स्यात्परागर्थ एव ॥ ७ ॥
बोद्धा कर्ता च भोक्ता दृढमवगमितः प्रत्यगर्थः प्रमाणैः कर्तृत्वाभाववादे स्वयमिह भगवानान्यपर्यं त्वगायत् । कर्ता शास्त्रार्थवत्त्वात्कृतिषु च स पराधीन आभाषि सूत्रैश्चित्रैः कर्मप्रवाहैर्यतनविषमता सर्वतन्त्राविगीता ॥ ८ ॥
यद्भव्यं तन्न न स्याद्यदभवितृ न तद्यत्नकोट्याऽपि सिद्ध्येद्द्वेधाऽपि व्यर्थयत्ना नर इति यदि न स्वोक्तियत्नादिबाधात् । यद्यत्नेनैव भव्यं भवति यतनतस्तत्स्वहेतूपनीताद्दुस्साधा यत्नलभ्ये प्रति यदि यतते तत्र नैष्फल्यमिष्टम् ॥ ९ ॥
भिन्ना जीवाः स्वतस्स्युः प्रतिनियततया धीस्मृतीच्छासुखादेः चेतोभेदाद्व्यवस्था न तु भवति यथा देहबाह्याक्षभेदात् । नित्यान् भिन्नांश्च जीवान्कथयति निगमस्तद्धि नोपाधितस्स्यात् आत्माद्वैतश्रुतीनामितरहृदयता तत्रतत्रैव सिद्धा ॥ १० ॥
जीवाः पृथ्व्यादिभूतेष्वणव इव मिथो भेदवन्तः स्वतोऽमी सन्मात्रब्रह्मभागास्तदिह नियतयस्सुस्थिता इत्ययुक्तम् । ऐक्यस्याप्यक्षतत्वादनवधि च सति ब्रह्मणि स्यादवद्यं सत्यं तच्चेत्यभिज्ञैर्बहिरगणि मृषावादतोऽप्येष पक्षः ॥ ११ ॥
देहत्वाद्यैर्विगीतं निखिलमपि मया ह्यात्मवत्किं च पुंस्त्वात् सर्वे जीवा अहं स्युर्न यदि भवति ते गौरवादीत्यसारम् । श्रुत्यध्यक्षादिबाधात्प्रसजति च तदा तत्तदैक्यं घटादेः पक्षादेर्वादिनोश्चेत्यलमिह कलहैस्तज्जिगीषादिमूलैः ॥ १२ ॥
साविद्यं ब्रह्म जीवस्स च न बहुतनुर्नेतरे सन्ति जीवाः स्वप्नादेकस्य लोके बहुविधपुरुषाध्यासवद्विश्वकॢप्तिः । नेतः प्राक्केऽपि मुक्ता न परमपि स तु प्राप्स्यति श्रेय एको मायोत्थौ बन्धमोक्षाविति च मतमसत्सर्वमानोपरोधात् ॥ १३ ॥
स्वस्य स्वेनोपदेशो न भवति न परब्रह्मणा निष्कलत्वान्नाविद्या चेतयित्री स्वतनुसमधिकं वर्ष्म निर्जीवमात्थ । कश्चित्तत्त्वं ब्रवीतीत्ययमुपनिपतद्भ्रान्तिरुन्मुच्यते चेत् तादृग्भ्रान्तिः पुराऽपि ह्यभवदिति न ते किं तदैवैष मुक्तः ॥ १४ ॥
तोयाधारेषु दोषाकर इव बहुधोपाधिषु ब्रह्म शुद्धं छायापन्नं विशेषान् भजति तनुभृतस्तत्प्रतिच्छन्दभूताः । इत्यप्यत्यन्तदुःस्थं प्रसजति च तदा जीवनाशोऽपवर्गश्छायाच्छायावदैक्यं न भजति न च तद्दर्शनं ब्रह्मणस्ते ॥ १५ ॥
एकं ब्रह्मैव नित्यं तदितरदखिलं तत्र जन्मादिभागित्याम्नातं तेन जीवोऽप्यचिदिव जनिमानित्यनध्येतृचोद्यम् । तन्नित्यत्वं हि साङ्गश्रुतिशतपठितं सृष्टिवादः पुनः स्यात् देहादिद्वारतोऽस्येत्यवहितमनसामाविरस्त्यैकरस्यम् ॥ १६ ॥
स्थैर्यं चेन्नाभ्युपेतं भवभृति न भवेदैहिकार्थप्रवृत्तिः देहान्तत्वे तु धर्म्ये पथि निरुपधिका विश्ववृत्तिर्न सिध्येत् । आकल्पस्थायिपक्षे कृतमफलतया मुक्तिमार्गोपदेशैः आमोक्षस्थायितायां श्रुतिरनभिमुखी पूरुषार्थे चतुर्थे ॥ १७ ॥
व्याप्तास्सर्वत्र जीवास्सुखतदितरयोस्तत्रतत्रोपलम्भान्निर्वाह्ये देहगत्या गतिरिह वितथा तद्वतोऽपीति चेन्न । वक्त्री पञ्चाग्निविद्याप्रभृतिषु भविनां स्वस्वरूपेण सिद्धं यातायातप्रकारं श्रुतिरगतिरिमां लाघवोक्तिं शृणोतु ॥ १८ ॥
अव्यापित्वेऽपि पुंसोऽभिमतबहुवपुःप्रेरणे यौगपद्यं ज्ञानव्याप्त्योपपन्नं बहुषु च वपुषोंऽशेषु निर्वाह एषः । यच्चादृष्टं क्रियां स्वाश्रययुजि तनुतेऽन्यत्र तत्कृद्गुणत्वादित्येतत्सिद्धसाध्यं विभुन इह हि तद्ब्रह्मणः प्रीतिकोपौ ॥ १९ ॥
इष्टं प्रादेशिकत्वं विभुषु जनिमतां बुद्धिशब्दादिकानां तेनादृष्टं च तादृङ्न यदि तव सुखाद्याश्रयव्यापकं स्यात् । तस्मात्तत्स्वप्रदेशान्वयवति जनयेत्स्वं फलं यत्ननीत्या भ्रातृव्यादौ च पीडां न घटयितुमलं किं विभुत्वेन भोक्तुः ॥ २० ॥
स्वादृष्टोपार्जितत्वाद्विभुषु यदवदन्विग्रहादेर्व्यवस्थां तच्चैवं निर्निमित्तं तत इह न कथं सर्वतस्सर्वभोगः । आराध्ये विश्वसाक्षिण्यनुगुणफलदे त्वस्ति राजादिनीतिस्तत्साम्ये भोगसाम्यं न हि भवति यथाकर्म भोगप्रदानात् ॥ २१ ॥
देहान्तर्मात्रदृष्टेः पृथगिह विषयिप्राणजीवोत्क्रमोक्तेर्भूयोवाक्यानुसारदणुरिति वचने तादृशोपाध्यनुक्तेः । ईशादाराग्रमात्रो ह्यवर इति भिदावर्णनात्स्पन्दवाक्याद्व्याप्त्युक्तिर्जातिधर्मप्रतिहतिविनिवृत्त्यादिमात्रेण जीवे ॥ २२ ॥
नात्मा देहानुरूपं विविधपरिणतिर्निर्विकारोक्तिबाधात् स्थूलोऽहं मूर्ध्नि जातं सुखमिति च मतिस्तस्य देहात्ममोहात् । नानादेहश्च योगी प्रसजति भिदुरः पुंसि देहप्रमाणे मुक्तौ देहात्ययात्स्यात्परिमितिविरहस्तत्प्रयुक्तेऽस्य माने ॥ २३ ॥
निर्मुक्तस्त्वन्मते स्यात्कथमपरिमितो नित्यमूर्ध्वं प्रधावन् देहः कश्चित्तदानीमपि यदि नियतस्स्यात्तु तन्निघ्नताऽस्य । इच्छातो देहमेकं विशति स परिमित्यर्थमेवेति हास्यं तस्मादास्माकनीत्या परिमितिरिह सा स्थायिनी या विमुक्तौ ॥ २४ ॥
कर्माविद्यादिचक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे तत्तत्काले विपक्तिर्भवति हि विविधा सर्वसिद्धान्तसिद्धा । तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाणः कदाचित् मुक्तैश्वर्यान्तसम्पन्निधिरपि भविता कश्चिदित्थं विपश्चित् ॥ २५ ॥
कृच्छ्रात्संवर्तकष्टाद्यपगमजनितस्थूलदेहस्य जन्तोर्जाग्रत्स्वप्नस्सुषुप्तिर्मरणमथ मृतेरर्धसंपद्दशास्स्युः । सर्वं दुःखान्धकारस्थगितमिह सुखं त्वत्र खद्योतकल्पं त्यक्त्वा शुद्धाशयास्तन्निरवधिकसुखां निर्विविक्षन्ति मुक्तिम् ॥ २६ ॥
कश्चिच्चेन्नित्यबद्धः किमयमहमिति स्यान्मुमुक्षोरुपेक्षा मैवं युक्तस्य मुक्तिर्भवति दृढमिति प्रत्ययात्तत्प्रवृत्तेः । नो चेत्स्यामन्त्यमुक्तः किमहमिति न केऽप्यद्य मुक्तौ यतेरन् सर्गस्थित्यादिसन्तत्यविरतिरत इत्येवमेकेऽन्यथाऽन्ये ॥ २७ ॥
निःशेषात्मापवर्गे विहतविहरणो विश्वकर्ता तदा स्यात् नित्यं चेत्कोऽपि दुःख्येन्निरुपधिकदयाहानिरस्येति चेन्न । पक्षः पूर्वो यदि स्याद्विहरणविरतिः स्वेच्छया नैव दोषः शिष्टे पक्षे निरुद्धा निरुपधिकदया कुत्रचिन्नित्यमस्तु ॥ २८ ॥
भक्तिर्मुक्तेरुपायः श्रुतिशतविहितस्सा च धीः प्रीतिरूपा तन्निष्पत्त्यै फलेच्छाद्युपधिविरहितं कर्म वर्णाश्रमादेः । ज्ञानध्यानादिवाचां समफलविषया सैव युक्ता प्रतिष्ठा सामान्योक्तिस्समानप्रकरणपठिता पर्यवस्येद्विशेषे ॥ २९ ॥
ध्यानाद्युक्त्या ध्रुवानुस्मृतिरिह विहिता ग्रन्यिमोक्षाय सैव स्पष्टा दृष्टिस्तथैव श्रुतफलविषया सेवनत्वादुपास्तिः । क्वाऽप्यैक्यं विद्युपास्त्योर्व्यतिकरितगिरा भक्तिमेवाह गीता सर्वं तद्वित्तिमात्रे फलवति विफलं तेन सैवं विशिष्टा ॥ ३० ॥
विद्याः पञ्चाग्निवैश्वानरदहरमधुन्याससत्पूर्वसंज्ञाः नाना शब्दादिभेदात्तुलितफलतया तद्विकल्पश्च शिष्टः । कर्मज्ञानाख्ययोगौ त्विह परभजनाधिक्रियार्थौ स्वदृष्ट्या धर्मैर्वर्णाश्रमाणां त्रयमिदमवदन् सेतिकर्तव्यताकम् ॥ ३१ ॥
विश्वान्तर्यामि तत्त्वं स्वयमिह चिदचिद्विग्रहैर्वा विशिष्टं यस्यामालम्बनं सा भवभयशमनी वीतरागस्य विद्या । यस्तूपास्ते यथोक्तं तदितरदखिलं ब्रह्मदृष्ट्या स्वतो वा नैतस्य ब्रह्मनाड्योद्गतिरपि न पदव्यर्चिरादिर्न मोक्षः ॥ ३२ ॥
स्वान्तध्वान्तप्रसूतं दुरितमपनुदन् योगिनस्सत्त्वशुद्ध्यै सर्वो वर्णादिधर्मश्शमदममुखवत्सन्निपत्योपकारी । विद्यां चेत्यादिवाक्येऽप्यनुकथितमिदं नैकवाक्यानुरोधात् कर्मापेक्षाभिसन्धिं क्वचन विवृणुते तत्समुच्चित्यवादः ॥ ३३ ॥
संस्कारः कर्मकर्तुर्न भवति विहितं मुक्तये ज्ञानमन्यन्नाप्येतत्कर्मणोऽङ्गं न च सकृदसकृत्त्वाप्रयाणानुवृत्तम् । अङ्गं तस्याऽऽसनाद्यं प्रणिधिसमुचितौ देशकालप्रभेदावित्याद्यं साङ्गयोगप्रकरणविततं सूत्रभाष्यादिषूक्तम् ॥ ३४ ॥
ब्रह्मण्यैकान्त्यभाजां मुहुरनुकथितो मोक्षधर्मेऽपवर्गस्तस्मान्नानाऽमरेज्या न भवति परभक्त्यङ्गमित्यप्ययुक्तम् । ऐन्द्रीप्रातर्दनादिप्रथितनयविदामन्तरात्मैकलक्ष्येष्वग्नीन्द्रादिप्रयोगेष्वखिलमपि विभुः कर्म भुङ्क्ते स एकः ॥ ३५ ॥
त्यागत्रैविध्यमुक्त्वा स्वमतमिह जगौ सात्त्विकं त्यागमीशस्तस्माद्वर्णाश्रमादित्यजनमपदृशां तामसं मोहमूलम् । योगारूढस्य कर्मच्यवनमपि तदा सह्यमङ्ग्यर्थवाक्यैर्योगं त्वत्याश्रमिभ्यः परममिति वचो वक्ति मोक्षाश्रमेण ॥ ३६ ॥
तुर्यो निष्कृष्य मोक्षाश्रम इति कथितस्तेन नान्येषु विद्या शान्त्यादिव्याहतेश्चेत्यसदिह गुणिनां सर्वतो मुक्त्यधीतेः । यावज्जीवं द्वितीयाश्रमवति पुनरावृत्त्यभावोऽप्यधीतः स्मृत्याद्यैश्चैवमुक्तं भवति तु चरमे योग्यताधिक्यमात्रम् ॥ ३७ ॥
यन्नित्यं तन्न कार्यं तदपि न तदिति स्थापिते कर्मभेदेऽप्येकं विद्याश्रमाङ्गं भवति हि विनियुक्त्यन्तरेणोपपत्तेः । तत्रानुष्ठानतन्त्रं विदुषि तु घटते कर्तृकालाद्यभेदात् प्राजापत्यादिलोकार्थिनि च तदितरोऽनर्थरोधाय तद्वान् ॥ ३८ ॥
मन्दस्यापि प्रवृत्तिः किमपि फलमनुद्दिश्य कस्यापि न स्यात् नित्येऽनर्थोपरोधप्रभृति फलमतः काम्यतैवेति चेन्न । नित्येष्टोऽनर्थरोधस्तदितरदतथा किंच शिष्टो विधीनामाज्ञानुज्ञाविभागस्सुगम इह निरुक्त्यैव नैमित्तिकांशः ॥ ३९ ॥
कर्तव्यं यन्निमित्ते सति तदुभयधा पापशान्त्यर्थमेकं तत्स्यात्काम्येन तुल्यं परमकरणतो दोषकृन्नित्यतुल्यम् । सत्यां कामश्रुतौ संवलितमपि भवेत्तद्बलादेतदेव त्यागं च प्रत्यवायस्त्वनधिकृतिमुखस्तत्रतत्रावसेयः ॥ ४० ॥
निष्कामं चेन्निवृत्तं तदिह न घटते मुक्तिकामाधिकारात् स्वप्रीतिस्पर्शहीना न च भवति परप्रीतिरिष्टेति चेन्न । युक्ता यस्मान्निवृत्तिर्बहुभयशबलात्तन्निवृत्तं निवृत्तं सूते यत्र प्रवृत्तिस्त्वभिमतमहितं तत्प्रवृत्तं प्रवृत्तम् ॥ ४१ ॥
पुंभिः सिद्धाधिकारैः क्रतव इव निराकाङ्क्षभावं भजन्त्यः प्रोक्तास्त्रैवर्णिकार्हाश्श्रुतिनयवशतो यद्यपि ब्रह्मविद्याः । अस्तेयाद्यैः प्रपत्त्या परिचरणमुखैरप्यधीतैः स्वजातेः सर्वेऽपि प्राप्नुयुस्तां परगतिमिति तु ब्राह्मगीतादिसिद्धम् ॥ ४२ ॥
ध्यानादृष्टेन साक्षात्कृतिरुपजनिता बाधते चेत्प्रपञ्चं तत्तुल्यार्थैव शाब्दी प्रमितिरपि न किं बाधते पूर्वमेव । ज्वालैक्यादौ परोक्षादपि हि निजगदुर्बाधमध्यक्षबुद्धेर्नाप्यत्रादृष्टरूपामहितविमथनीं शक्तिमङ्गीकरोषि ॥ ४३ ॥
निर्दिष्टो निष्प्रपञ्चीकरणविधिरसौ गौडमीमांसकाप्तैर्दृष्टो न क्वापि दुर्निर्वहमपि करणाद्यत्र साध्याविशेषात् । मुक्तिर्नैयोगिकी चेज्जगदपि न मृषा नश्वरी सापि ते स्यात् ध्वंसात्मत्वेऽपि तस्या न च वदसि भिदां ब्रह्मणस्तच्च नित्यम् ॥ ४४ ॥
वाक्यार्थज्ञानमात्रादमृतमिति वदन्मुच्यते किं श्रुतेऽस्मिन् बाढं चेन्मानबाधस्स यदनुभवति प्रागिवाद्यापि दुःखम् । ध्यानादीनां विधानं भवति च वितथं तन्न युक्तं न चेष्टं ध्यानाद्यङ्गाढ्यशब्दोदितचरममतेर्नाधिकं वः प्रकाश्यम् ॥ ४५ ॥
उद्देश्यांशं त्वमाद्यं स्फुटमनुभवतां सम्यगध्यक्षवित्त्या प्रत्यक्षत्वभ्रमोऽयं त्वमसि दशम इत्यादिवाक्यार्थबोधे । शब्दात्प्रत्यक्षबोधे प्रसजति शिथिला तद्व्यवस्था ततोऽर्थे साक्षात्कारं न शब्दो जनयति विमतस्सिद्धवच्छब्दभावात् ॥ ४६ ॥
शिष्यो जीवस्त्वसिद्धः किमु तव यदि वा भ्रान्तिसिद्धो मितो वा नासिद्धायोपदेशो भ्रमविषयमितौ नोपदेशार्हताऽस्य । भेदेनैक्येन वाऽन्त्यः कथमुपदिशतु ज्ञातभेदोऽप्यभेदं तादात्म्ये जागरूके सति किमुपदिशेत्स्वात्मने तद्विदे सः ॥ ४७ ॥
नैवालं भ्रान्तिबाधे परमपि तदिदं तत्त्वमस्यादिवाक्यं भ्रान्तोक्तिर्यद्वदादौ श्रुतिकृतनिखिलभ्रान्तिमूलत्वबोधात् । रज्जौ सर्पभ्रमे किं जनयति विदितभ्रान्तवाक्सर्पबाधं स्वप्नेऽहिः स्वप्नबुद्ध्या किमु गलति यदा तत्र च स्वाप्नताधीः ॥ ४८ ॥
छायादिर्न त्वसत्यस्सदवगतिकरस्तत्र हेतुर्हि तद्धीस्साध्यज्ञप्त्यादिवत्सा स्वयमिह न मृषा नास्ति धीरित्यबाधात् । सत्येनैव प्रसूता घट इव विमता शेमुषी कार्यभावाद्धेतुत्वालीकभावौ कथमिव विहतावेकमेवाश्रयेताम् ॥ ४९ ॥
ज्ञानस्याशेषभेदोदयविहतिकृतो न स्वनाश्यत्वयुक्तिर्वाताद्यैरेव सद्यश्शममधिकुरुते दग्धदाह्योऽपि वह्निः । तस्मात्तस्यान्यदेव प्रशमकमपरं तस्य चेत्यव्यवस्था तच्चेच्छान्तिं न गच्छेत्कथमिव भविता सर्वभेदोपमर्दः ॥ ५० ॥
बोधस्यान्त्यस्य वेद्यं किमु तव विशदं ब्रह्म मायान्वितं वा किं वा भेदप्रपञ्चः किमु तदनृतता किन्नु वेद्यं न किञ्चित् । आद्ये स्याद्ब्रह्म दृश्यं तदुपरि युगले मोहसत्ताऽथ तुर्ये सूते द्वैतं सती सा स्वविहतिमनृता पञ्चमे स्यान्न धीत्वम् ॥ ५१ ॥
साध्या वस्सर्वमायाविरतिरपि परं ब्रह्म तस्मात्परा वा पूर्वत्र प्रागपि स्यात्परमपि न भवेदुत्तरत्राभ्युपेते । साऽपि स्याच्चेन्निवर्त्या पुनरपि विलगेत्पूर्व एव प्रपञ्चो नो चेत्सत्यैव सा स्यात्प्रसजति च ततो ब्रह्म तत्सद्वितीयम् ॥ ५२ ॥
अन्त्यज्ञानस्य जीवः स्थितिपदमथवा केवलं ब्रह्म ते स्यादाद्ये तेनैव बाध्यो न तदुपजनयेद्धीस्थितौ किं ततोऽस्य । अन्त्ये सत्याऽनृता वा तदधिकरणता नाद्य इष्टः परस्मिंस्तत्कॢप्त्यादेरयोगस्तदिह विमृशतां किं न दुष्टं त्वदिष्टम् ॥ ५३ ॥
नाभुक्तं कल्पकोट्याऽप्युपशमनमियात्कर्म निष्कृत्यभावे विद्यातस्तद्विनाशश्रुतिरिह तदसौ तत्प्रशंसेति चेन्न । तादृग्विद्यैव तन्निष्कृतिरिति हि विदांचक्रुराम्नायवृद्धा नान्यद्ब्रह्मानुभूतिप्रतिभटदुरितध्वंसतस्साध्यमत्र ॥ ५४ ॥
प्रायश्चित्तं न पुण्ये न च सुकृतमनुश्रूयते धर्मबाध्यं नाधर्मत्वं विधानान्न यदि सुचरितं त्वङ्गमस्याश्च न स्यात् । मैवं धर्मोऽप्यधर्मो भवति हि बहुधाऽधिक्रियादेर्विशेषात् धर्मं त्रैवर्गिकं तु स्वयमिह निगमः पाप्मकोटौ पपाठ ॥ ५५ ॥
अश्लेषः पाप्मभिश्चेत्प्रसजति वितथा दुश्चरित्रान्निवृत्तिस्तेषु प्रामादिकेष्वप्यमतिकनिपतद्वीजवत्स्यात्प्ररोहः । मैवं शास्त्रैकवेद्ये फलफलिविषये युक्तयो ह्यस्वतन्त्राः शास्त्राद्बाधस्तु तिष्ठेन्मतिकृतविषये शब्दशक्त्यादिभिर्नः ॥ ५६ ॥
श्लिष्टं विद्याङ्गपुण्यं स्वफलवितरणान्नेतरार्थं विरागे रागादारभ्यमाणं फलवदमतिकं संभवेन्नैव पुण्यम् । पुण्याश्लेषस्ततोऽस्मिन्न घटत इति चेन्नोपयुक्तातिरिक्तैर्विद्याङ्गैस्तस्य योगादमतिकृतमपि ह्यामनन्त्येव पुण्यम् ॥ ५७ ॥
कर्माश्लेषप्रणाशौ तदुपधिभगवन्निग्रहादेर्निवृत्तिर्नष्टाश्लिष्टातिरिक्तं न च किमपि ततः संक्रमः कस्य मैवम् । तत्तत्कर्मप्रसूतौ स्वभजनशमितौ निग्रहानुग्रहौ यौ तत्तुल्यावेव देवः प्रयति विदुषि तच्छत्रुमित्रेषु धत्ते ॥ ५८ ॥
अन्यश्चेदन्यकर्मप्रजनितफलभुक् शास्त्रवैयाकुली स्याद्ब्रह्मज्ञैरुज्झितानां क्वचिदपि न ततः कर्मणां संक्रमः स्यात् । उद्वेलस्स्याच्च धातेत्यसदविषमताद्यन्वितेनैव धात्रा विद्यानिष्ठोपकाराद्युचितफलमिदं दीयते वर्गयुग्मे ॥ ५९ ॥
अर्चिर्घस्रोऽथ पक्षस्सित उदगयनं वत्सरो मातरिश्वा मार्तण्डस्तारकेशस्तडिदपि वरुणामर्त्यनाथप्रजेशैः । आदिष्टो विश्वनेत्रा स्वयमतिवहने देवयानाध्वगानां यः प्रोक्तोऽमानवाख्यस्त तटिदधिपतिर्विश्रुतो मानसोऽपि ॥ ६० ॥
बुद्धेर्योऽसौ विकासः कबलितनिखिलोपस्कृतब्रह्मतत्त्वः स प्राक्चेन्नित्यमुक्तिर्न यदि कथमसौ नश्वरत्वं न गच्छेत् । मैवं प्रध्वंसवत्ते स खलु मम तथा शौनकाद्युक्तनीत्या शान्ताशेषापराधे न च भवति पुनस्तत्र सङ्कोचहेतुः ॥ ६१ ॥
मुक्तौ देहाद्यभावे मुकुलितविषयो जक्षदादिप्रवादस्तत्सत्त्वे चाशरीरश्रुतिविहतिरतः का चिकित्सेति चेन्न । इच्छातस्स्यादवस्थाद्वयमुभयविधश्रुत्यबाधाद्विमुक्तौ कर्मायत्तैर्वियोगः परमिह कथितस्तस्य देवोपमस्य ॥ ६२ ॥
स्यान्मुक्तो विश्वदेही यदि भवति जगद्व्यापृतौ तस्य शक्तिः स्वातन्त्र्यं क्वाप्यशक्तौ विगलति स च नः स स्वराडित्यधीतः । धत्तेऽनुच्छेद्यसारा तदियमुभयतःपाशतां तर्करज्जुर्मैवं देवस्तदिच्छां क्वचिदपि न विहन्त्येवमस्तु स्वराट् सः ॥ ६३ ॥
आविर्भूतस्वरूपा निरवधिकसुखब्रह्मभुक्तिस्तु मुक्तिः सेवात्वाद्दुःखकृत्सा भवति यदि न तद्धर्मिमानेन बाधात् । पाप्मा चास्मिन्नुपाधिस्स च न खलु तदा पुण्यपापव्यपायादात्मानो विष्णुशेषा इति च सुखमयी सा स्वरूपानुरूप्यात् ॥ ६४ ॥
सर्वस्याप्यानुकूल्यं स्वत इह जगतो वासुदेवात्मकस्य व्यक्तिं तन्मुक्तिकाले भजति भवकृतज्ञानसङ्कोचहानेः । प्राचीनप्रातिकूल्यक्रमविषयधिया नैष दुःख्येत्तदानीं प्रागप्येतत्स्वकर्मोपधिकृतभगवन्निग्रहैकप्रयुक्तम् ॥ ६५ ॥
अन्ये चानादिशुद्धाः श्रुतिसमधिगतास्सूरयस्सन्त्यसङ्ख्याः कर्माभावादनादेर्न तु भवति कदाऽप्येषु संसारबन्धः । शेषाणां शेषिणश्च स्फुरति सुखतया सर्वदा सर्वतत्त्वे नित्यानां मुक्तिभाजामपि भुवनकृता भोगमात्रं समानम् ॥ ६६ ॥
सालोक्याद्याः प्रभेदा ननु परिपठिताः क्वापि मोक्षस्य मैवं सायुज्यस्यैव तत्त्वात्तदितरविषये मुक्तिशब्दस्तु भाक्तः । तस्मिंस्ते च त्रयस्स्युस्तदपि च सयुजोर्भाव इत्यैकरस्यं युक्साम्यं (लोक)योगसाम्यादिवदपटुधियां तावतैवैक्यमोहः ॥ ६७ ॥
विश्वाधारस्य लक्ष्मेत्यभिहितमखिलं संभवेन्नापवृत्ते तन्निष्ठत्वादि सर्वं न हि विलयमियात्तच्छरीरस्य तस्य । तन्निघ्नत्वेऽपि मुक्तो न भवति पुनरावृत्तिशङ्काकलङ्की तादृक्सौहार्ददृष्टेर्वयमिह तदनावृत्तिशास्त्रेण विद्मः ॥ ६८ ॥
विश्वैर्वैशेषिकैस्तैर्भवति विरहितो नाशितादृग्गुणत्वाज्जीवात्मा जन्मकाले घटवदिति यदि स्यादिहाम्नायबाधः । दृष्टान्तस्साध्यहीनः क इव निगमविल्लिप्सते मुक्तिमेतां धीर्नित्येच्छादयस्तत्परिणतय इति स्याच्च हेतोरसिद्धिः ॥ ६९ ॥
आत्मा चिन्मात्ररूपो विकृतिमति जडे बिम्बितो बुद्धितत्त्वे तच्चास्मिँस्तद्विवेकाग्रहणविरचितः पुंसि संसारमोहः । अन्त्या विज्ञानवृत्तिः प्रकृतिपुरुषयोरन्यतां गाहमाना तादृक्संसारभेत्त्री पुरुष इह सदा मुक्त एवेति साङ्ख्याः ॥ ७० ॥
नीरूपे बिम्बितत्वं क्व नु भवति कथं रूपशून्यस्य तत्स्यान्निर्लेपे संसृतिः का कथमतिविशदो निष्क्रियश्चैष मुह्येत् । नित्यं वा किं न मुह्येदुपधिभिरितरैर्वेत्तु भेदं कथं वा को वा मोक्षोऽद्य पुंसः प्रथममपि न खल्वस्य दुःखादिगन्धः ॥ ७१ ॥
व्यापिन्येकाऽपि सांख्यैः प्रकृतिरभिहिता सर्वसाधारणी सा व्याप्ता जीवाश्च सर्वे प्रकृतिपरिणतिर्भोग एषामभीष्टः । सर्वे सर्वस्य भोगाः स्युरिह तत इमे संनिधानादिसाम्यात् बुद्धीच्छाद्यं च सर्वं प्रकृतिगतमतो न व्यवस्था ततोऽपि ॥ ७२ ॥
मुक्तिः प्राणाक्षदेहादिभिरुपधिभिरत्यन्तविश्लेषरूपा जीवद्भावोऽपि तैस्सङ्गम इति विहतेर्जीवतस्सा कथं स्यात् । आपस्तम्बादयश्च श्रुतिगतिभिरिमां युक्तिभिश्च व्युदासुर्जीवन्मुक्तादिशब्दः क्वचिदुपचरितस्तत्समावस्थयैव ॥ ७३ ॥
चन्द्रैकत्वादिबुद्ध्या न हि विलयमियाच्चक्षुरर्थादिदोषः स्याद्बाधेऽपि द्विचन्द्रप्रभृतिषु हि ततो भ्रान्तिमात्रानुवृत्तिः । विस्रम्भाभावतः स्यात् फलमपि न तु ते जाघटीति द्वयं तद्ब्रह्मान्याशेषबाधादनतिबलतया बाध्यतो बाधकस्य ॥ ७४ ॥
स्वातन्त्र्यं ब्रह्मणैक्यं पशुपतिसमतां वासनोच्छेदमात्रं धीसन्तानप्रणाशं निजमतिसुखयोर्नित्ययोस्सन्निकर्षम् । चित्तेन स्वात्मसौख्यानुभवमुपलवद्भावमूर्ध्वप्रयाणं शून्याद्वैतं च मुक्तौ श्रुतिरुपकृतये कल्पतां जल्पतां वः ॥ ७५ ॥
॥ इति तत्त्वमुक्ताकलापे जीवसरः द्वितीयः ॥ २ ॥