नित्याराधनविधि-श्रीवादिभीकरार्य

श्रियै नमः

श्रीमते रामानुजाय नमः

श्रीवादिभीकरार्य विरचिता नित्याराधनविधिः

१. श्रीमत्त्रयीमकुटदेशिकपादपद्म-

भृङ्गायमाणवरदार्यदयैकपात्रम्।

तत्सूक्तिलेश विभवात्त समस्ततत्वं

भक्त्या भजामि परवादिभयङ्करार्यम्॥

२. वेदान्तदेशिककटाक्ष विवृद्धबोधं

कान्तोपयन्तृयमिनः करुणैकपात्रम्।

वत्सान्ववाय मनवद्यगुणैरुपेतं

भक्त्या भजामि परवादिभयङ्करार्यम्॥

१. प्रातस्स्नात्वा नित्यकर्म कृत्वा पादद्वयं करौ।

प्रक्षाल्याचम्य पुरतो विष्णो र्गुरुपरम्पराम्॥

२. ध्यात्वानुमूलमन्त्रं च द्वयं च शरणागतिम्।

प्रणम्य दक्षिणे पार्श्वे स्थित स्स्वाचार्यचोदितः॥

३. आराधने प्रवृत्तोस्मी त्यनुसन्धाय सादरम्।

कूर्मादीनिति यत्पद्यं तत्सार्थ मनुसंदधत्॥

४. सर्वा नभिमुखीकृत्य तत्पद्यप्रतिपादितान्।

स्वसव्यपार्श्वे निक्षिप्य कुम्भं शुद्धाम्बुपूरितम्॥

५. तस्मि न्द्वयेन तुलसी-शिखां गन्धं च निक्षिपेत्।

अभिमन्तत्र्यद्वयेनैव तुळसीसहिताङ्गुळिः॥

६. सप्तकृत्वोधवा पञ्चकृत्व स्सलिलभाजनम्।

पात्राणि पञ्चोद्धरण्या प्रक्षाल्योत्तरवाक्यतः॥

७. आग्नेयादिषु कोणेषु मध्ये चैव यथाक्रमम्।

न्यस्यार्घ्यपाद्याचमन स्नानशुद्ध्यर्थवारिणा।

८. पूरयोत्तुळसीं तेषु चन्दनञ्च विनिक्षिपेत्।

सर्वा ण्युत्तरवाक्येन पुनस्ता नभिमन्त्रयेत्॥

९. अर्घ्यपात्रादृतेन्येभ्यः पात्रेभ्य स्सलिलं पुनः।

किञ्चित्किञ्चि त्समादाय तान्यर्घ्यचषके क्षिपेत्॥

१०. अर्घ्यपात्रा दुद्धरण्या समादायोदकं पुनः।

निक्षिप्य तुळसीं तत्र स्वनासा सममुद्धरेत्॥

११. भावये द्विरजातोयं कावेरीसलिलं पुनः।

तच्चोदकुम्भपात्रेषु किञ्चित्किञ्चि द्विनिक्षिपेत्॥

१२. शेषेण प्रोक्षये द्यागभूमिं स्वात्मान मेवच।

त्यक्त्वा शेषाम्बु शुद्धेन वारिणा तां विशोधयेत्॥

१३. स्वाचार्यानुमत स्सम्यक् वीक्ष्य विष्णो र्मुखाम्बुजम्।

आराधनं स्वीकुरुष्वे त्यभ्याह्लादनपूर्वकम्॥

१४. ततो रामानुजार्याय तुलसीदळ मर्पयन्।

अनुसन्धाय सान्निध्य मुद्धरण्यार्घ्यपात्रतः॥

१५. आदाय सलिलं तच्च नासिकासममुद्धरेत्।

श्रीमते रामानुजाय नम इत्युच्चरन् करे॥

१६. दक्षिणे त्रिस्तुळस्या च दद्यादुद्धरणीं पुनः।

शोधये दुपचारेषु सर्वेष्वेवं विशोधयेत्॥

१७. पात्रादुद्धृत्य सलिलं दक्षिणं पादपङ्कजम्।

सव्यं विशोध्य हस्तावप्यथ पात्राम्बुना क्रमात्॥

१८. शोधये दर्घ्यपात्राम्बु गण्डूषार्थं समर्पयेत्।

तद्वदाचमनीयं च तत्पात्रोद्धृतवारिणा॥

१९. प्लोतवस्त्रैकपार्श्वेन मार्जयेत्पादपङ्कजे।

पार्श्वान्तरेण हस्तौ च वदनं परिमार्जयेत्॥

२०. मुखपाणिपदाब्जेषु चन्दनञ्च समर्पयेत्।

समर्पयेच्च तुळसीं भक्त्या पादाब्जयो र्युगे॥

२१. कृत्वा तुळस्या दन्तानां शोधनं तां त्यजेत्करम्।

शोधये दर्घ्यपादाम्बु त्रिर्गण्डूषं समर्पयेत्॥

२२. विशोध्य वदनाम्भोजं दद्या दाचमनीयकम्।

मुखाब्जं च कराब्जे च प्लोतवस्त्रेण मार्जयेत्॥

२३. दत्वा श्रीतुळसीं तैलं स्नानीयार्थे च चन्दनम्।

स्नानमङ्गीकरोतीति भावयेत्स्नानपात्रतः॥

२४. उद्धृत्य सलिलं श्रीमद्रामावरजयोगिने।

नम इत्युच्चर न्दद्यात् त्रिश्चतुर्वापतद्ग्रहे॥

२५. दद्यादाचमनं प्लोतवस्त्रयज्ञोपवीतके।

पादौ प्रक्षाल्याचमनं दत्वा प्लोतेन मार्जयेत्॥

२६. पादाब्जयोः कराम्भोजयुग्मे दत्वा च चन्दनम्।

श्रीमृत्तिकाञ्च मूलाञ्च दत्वा श्रीतुळसीमपि॥

२७. सर्वोपचारा नाचार्यकराम्भोजसमर्पितान्।

स्वामिन् रामानुजाचार्य स्वीकुर्विति निवेदयेत्॥

२८. पुनः प्रक्षाल्य पात्राणि पूरयित्वाम्बुना ततः।

किञ्चित्किञ्चि त्समादाय क्षिप्त्वा सलिलभाजने॥

२९. शेषेण रामावरजयोगव च्छरवैरिणा।

कुर्याच्छ्रीपरकालादे रुपचारा नशेषतः॥

३०. एवं सेनेशमारभ्य श्रीसुदर्शनशेषयोः।

पक्षीशस्य क्रमात्कुर्या दुपचारा न्पृथक्पृथक्॥

३१. पुनरापूर्य पात्राणि समुद्दिश्य श्रियः पतिम्।

इद म्मन्त्रासनमिति दत्वा श्रीतुळसीशिखाम्॥

३२. अर्घ्यपात्राच्च सलिल मुद्धृ त्योत्तरवाकयतः।

इदमर्घ्यमिति श्रीशकरे त्रिर्दक्षिणे क्षिपेत्॥

३३. श्रीमन्नारायणायेति सर्वमङ्गलमूर्तये।

श्रियै भूम्यै च नीळायै दद्यादर्घ्यं समन्ततः॥

३४. एवमेषां पाद्यपूर्वा नुपचारान् समर्पयेत्।

पादाब्जयो श्श्रीतुळसीं दद्यात्स्नाना नसम्प्रति॥

३५. समायाहीति विज्ञाप्य पादुकात्वेव विन्यसेत्।

तुळसीमत्र वैतेषां पाद्यादी न्परिकल्पयेत्॥

३६. पुन श्श्रीशपदाम्भोजे दत्वा श्रीतुळसीशिखाम्।

सकर्पूरं च ताम्बूलं गण्डूषं परिकल्पयेत्॥

३७. दद्यादाचमनं प्लोतं चन्दनं दन्तशोधनम्।

जिह्वानिर्लेखनं दद्या द्गण्डूषाचमनादिकम्॥

३८. पुनश्च तुळसीं दत्वा स्नानवेद्यां समाहितः।

सालग्रामा न्समारोप्य तेषां तैलं समर्पयेत्॥

३९. स्नानीयं चन्दनं दत्वा सर्वे स्नान्तीति भावयेत्।

मर्दयित्वाम्बुना सम्यग्दत्वा श्रीतुळसीशिखाम्॥

४०. पुंसूक्तं भट्टनाथार्यसूक्तिं च शरणागतिम्।

अनुसन्धाय संस्नाप्य दद्या दाचमनादिकम्॥

४१. विज्ञाप्याथ स्वीकुरुष्वे त्यालङ्कारिक मासनम्।

दद्यादर्घ्यं श्रीतुळसीं साळग्रामा नशेषतः॥

४२. प्लोतवस्त्रेण सम्मृज्य समारोप्य यथापुरम्।

वस्त्रं यज्ञोपवीतं च दद्या दाचमनादिकम्॥

४३. प्रक्षाळ्य पूर्ववत्पात्रा ण्यर्घ्यादींश्च समर्पयेत्।

पुनर्दत्वा श्रीतुळसीं श्रीशपादारविन्दयोः॥

४४. दद्याच्च मृत्तिकागन्धं तुळसीं भूषणान्यपि।

प्रीणयित्वा परां दिव्यां सूक्तिं च शरवैरिणः॥

४५. विज्ञाप्य धूपदीपादीन् दत्वा नृत्यादिकानपि।

सर्वोपचारांस्वीकुर्वि त्यपि विज्ञापयेत्सुधीः॥

४६. अथ भोज्यासनं स्वीकुर्विति विज्ञाप्य पादयोः।

दत्वा श्रीतुळसीं भूयः पाद्यादींश्च समर्पयेत्॥

४७. दत्वा पुष्पाञ्जलिं भोज्य मन्नमादाय सन्निधौ।

परिमृज्य निधायार्घ्यपात्रा दुद्धृतवारिणा॥

४८. तुळस्या मन्त्ररत्नेन प्रक्षा ळ्योत्तरवाक्यतः।

स्पृष्ट्वा तेनैव भोज्यान्नं परिषिच्य श्रियः पतेः॥

४९. दत्वा चोत्तरवाक्येन करेसव्येतरेजलम्।

अनुसन्धायान्नसूक्तं तुळसीसहिताङ्गुळिः॥

५०. गोदादिपरमाचार्यदिव्यसूक्तिं निवेदयेत्।

आविष्कृताश्च गुरुभिः पूर्वैस्सूक्ती र्निवेदयेत्॥

५१. तत उत्तरवाक्येन सर्वमङ्गळमूर्तये।

श्रीमते नारायणाय नम इत्युच्चरन् स्फुटम्॥

५२. निवेदयेच्छ्रीभूनीळासेनेशेभ्य श्शठारये।

परकालादिपूर्वेभ्य श्श्रीरामानुजयोगिने॥

५३. स्वाचार्यप्रमुखेभ्यश्च निवे द्योदकभाजनात्।

शीतोदकं समादाय श्रीशमभ्यर्च्य पूर्ववत्॥

५४. सर्वेभ्यो विनिवेद्यैषां विधाय करशोभनम्।

त्रिस्त्रि र्गण्डूषसलिलं दद्या दाचमनादिकम्॥

५५. दत्वा पुष्पाञ्जलिं श्रीशपदपङ्केरुहद्वये।

मङ्गळाशासनं कृत्वा वेदशान्तिं पठंस्ततः॥

५६. समस्तपरिवाराय नमोनारायणाय च।

इत्युक्त्वा दण्डवद्भूमौ प्रणम्याथ यथासुखम्॥

५७. विश्रमस्वेति तीर्थं च प्रसाद मतिपावनम्।

स्वीकुर्या त्प्रीतिसंयुक्तः कृतार्थोस्मीति भावयन्॥

५८. भाषया रम्यजामातृमुनिनाऽऽराधनक्रमः।

श्रीशस्य दर्शितस्सोयं मुदे पद्यैः प्रदर्शितः॥

श्रीवादिभीकरार्य विरचिता नित्याराधनविधि स्समाप्ता

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.