नित्यग्रन्थ:-भगवद्रामानुज

नित्यग्रन्थ:

श्रीमते रामानुजाय नम:

तस्मै रामानुजार्याय नमः परमयोगिने |

यः श्रुतिस्मृतिसूत्राणां अन्तर्ज्वरमशीशमत् ||

श्रीभगवद्रामानुजविरचित:

नित्यग्रन्थ:

(भगवदाराधनप्रयोगात्मकः)

  1. अथ परमैकान्तिनो भगवदाराधनं वक्ष्ये ॥ 1 ||
  2. भगवत्कैङ्कर्यैकरति: परमैकान्ती भूत्वा,
  3. भगवानेव, स्वशेषभूतेन मया,  स्वकीयैरेव  कल्याणतमैरौपचारिकसांस्पर्शिकाभ्यवहारिकैः भोगैः,  अखिलपरिजनपरिच्छदान्वितं स्वात्मानं प्रीतं कारयितुमुपक्रमते – इत्यनुसन्धाय,

(स्नानादि)

  1. तीर्थं गत्वा,
  2. शुचौ देशे पादौ प्रक्षाल्य,
  3. आचम्य,
  4. तीरं संशोध्य,
  5. शुचौ देशे मूलमन्त्रेण मृदमादाय, द्विधा कृत्वा शोधिततीरे निधाय,
  6. एकेन अधिकमृद्भागेन देहमलप्रक्षालनं कृत्वा,
  7. निमज्ज्य, आचम्य, प्राणायामत्रयम् कृत्वा,
  8. आसीनः  भगवन्तं ध्यायन्,
  9. अन्य मृद्भागमादाय, वामपाणितले त्रिधाकृत्वा,
  10. पृथक्पृथक् संप्रोक्ष्य, अभिमन्त्र्य,
  11. एकेन दिग्बन्धनमस्त्रमन्त्रेण कुर्यात् || 2 ||
  12. अन्येन तीर्थस्य पीठम् ॥ 3 ||
  13. इतरेण गात्रानुलेपनम् ॥ 4 ||
  14. तत: पाणी प्रक्षाल्य,
  15. उदकाञ्जलिमादाय,
  16. तीर्थस्यार्घ्यमुत्क्षिप्य,
  17. भगवद्वामपादाङ्गुष्ठ-विनिस्सृतगङ्गाजलं संकल्पितपीठे आवाह्य,
  18. अर्घ्यं दत्वा,
  19. मूलमन्त्रेणोदकमभिमन्त्र्य, उदकाञ्जलिमादाय,
  20. सप्तकृत्वः अभिमन्त्र्य स्वमूर्ध्नि सिञ्चेत् ॥ 5 ||
  21. एवं त्रि:, पञ्चकृत्व:, सप्तकृत्वो वा ॥ 6 ||
  22. दक्षिणेन पाणिना जलमादाय, अभिमन्त्र्य पीत्वा आचम्य,
  23. स्वात्मानं प्रोक्ष्य, परिषिच्य
  24. तीर्थे निमज्ञः  भगवत्पादारविन्दविन्यस्तशिरस्कः,
  25. यावच्छक्ति मूलमन्त्रं जपित्वा,
  26. उत्तीर्य, शुक्लवस्त्रधरः,   धृतोत्तरीयः,   आचम्य,
  27. ऊर्ध्वपुण्ड्रांस्तत्तन्मन्त्रेण धारयित्वा,
  28. भगवन्तमनुस्मृत्य,
  29. तत्तन्मन्त्रेण भगवत्पर्यन्ताभिधायिना, मूलमन्त्रेण च जलं पीत्वा,
  30. आचम्य, प्रोक्ष्य, परिषिच्य, उदकाञ्जलिं भगवत्पादयोर्निक्षिप्य,
  31. प्राणानायम्य, भगवन्तं ध्यात्वा,
  32. अष्टोत्तरशतं मूलमन्त्रमावर्त्य,
  33. परिक्रम्य, नमस्कृत्य, आधारशक्त्यादिपृथिव्यन्तं तर्पयित्वा,
  34. श्रीवैकुण्ठादि पारिषदान्तं तर्पयित्वा,
  35. देवानृषीन् पितृन् भगवदात्मकान् ध्यात्वा संतर्प्य,
  36. शुचौ देशे वस्त्रं संपीड्य, आचम्य,
  37. आवाहिततीर्थं मूलमन्त्रेणात्मनि समाहृत्य,
  38. Fयागभूमिं गच्छेत् ॥ 7 ||

(यागभूमाौ शरणवरणं)

  1. सुप्रक्षालितपाणिपाद:, स्वाचान्त:,
  2. शुचौ देशेऽतिमनोहरे निश्शब्दे भुवं संगृह्य, तां शोषणादिभिर्विशोध्य,
  3. गुरुपरंपरया परमगुरुं भगवन्तमुपगम्य,
  4. तमेव प्राप्यत्वेन प्रापकत्वेनानिष्टनिवारकत्वेनेष्टप्रापकत्वेन च यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारं अनुसन्धाय,
  5. तमेव शरणमुपूगच्छेत् ‘अखिले’ त्यादिना ॥ 8 ||
  6. एवं शरणमुपगम्य, तत्प्रसादोपबृंहितमनोवृत्ति:,
  7. तमेव भगवन्तं सर्वेश्वरेश्वरमात्मनस्स्वामित्वेन अनुसन्धाय,
  8. अत्यर्थप्रिय अविरत विशदतम प्रत्यक्षरूप अनुध्यानेन ध्यायन्नासीत ॥ 9 ||
  9. ततस्तदनुभवजनितातिमात्रप्रीतिकारितपरिपूर्ण-कैङ्कर्यरूपपूजां आरभेत ॥ 10 ||
  10. ‘ भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनानेनात्मना स्वकीयैश्च देहेन्द्रियान्त: करणै: स्वकीयकल्याणतमद्रव्यमयानौपचारिकसांस्पर्शिकाभ्यवहारिकादिसमस्तभोगान् अतिप्रभूतान् अतिसमग्रानतिप्रियतमान् अत्यन्तभक्तिकृतान् अखिलपरिजनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादयितुमुपक्रमते ’  इत्यनुसन्धाय |
  11. स्वदेहे पञ्चोपनिषन्मन्त्रान् संहारक्रमेण न्यस्य,
  12. प्राणायामेनैकेन, दक्षिणेन पाणिना नाभिदेशे मूलमन्त्रं न्यस्य,
  13. मन्त्रोद्भूतचण्डवाय्वाप्यायितनाभिदेशस्थवायुना शरीरमन्तर्बहिश्च सर्वतत्त्वमयं तत्त्वक्रमेण विशोष्य,
  14. पुनः प्राणायामेनैकेन हृद्देशे मूलमन्त्रं न्यस्य,
  15. मन्त्रोद्भूत चक्राग्निज्वालोपबृंहितजाठराग्निना दग्धवा तत्तत्समष्टिप्रलीनसर्वतत्त्वसर्वकिल्बिषसर्वाज्ञानतद्वासनो भूत्वा,
  16. भगवद्दक्षिणपादाङ्गुष्ठे मूलमन्त्रेण स्वात्मानं प्रवेशयेत् ॥ 11 ||
  17. अपरेण प्राणायामेन भगवत्प्रसादेन भगवत्किङ्करत्वयोम्यतामापाद्य,
  18. तस्मादादाय, तद्वामपादाङ्गुष्ठादधस्तात् मूलमन्त्रेणात्मानं विन्यस्य,
  19. देववामपादाङ्गुष्ठनखशीतांशुमण्डलाद् गळदिव्यामृतरसैरात्मानमभिषिञ्चेत्,
  20. एवमात्मानं अभिषिच्य, भगवत्प्रसादेन तदमृतमयं सर्वकैङ्कर्यमनोहरं सर्वकैङ्कर्ययोग्यं शरीरं लब्ध्वा,
  21. तस्मिन् शरीरे पञ्चोपनिषन्मन्त्रान् सृष्टिक्रमेण विन्यसेत् ।| 12 ||
  22. ‘ओं षौं नम: पराय परमेष्ठ्यात्मने नम:’ इति मूर्ध्नि स्पृशेत् ।| 13 ||
  23. ‘ओं यां नम:, पराय पुरुषात्मने नमः’ इति नासिकाग्रे  || 14 ||
  24. ‘ओं रां नम:, पराय विश्वात्मने नमः’ इति हृदये || 15 ||
  25. ‘ओं वां नम:, पराय निवृत्त्यात्मने नमः’ इति गुह्ये || 16 ||
  26. ‘ओं लां नम:, पराय सर्वात्मने नमः’ इति पादयो: || 17 ||
  27. एवं न्यासं कुर्वंन्, तत्तच्छक्तिमयमुद्भूतदेहं ध्यायेत् || 18 ||
  28. पुनरपि प्राणायामेनैकेन देववामपादाङ्गुष्ठविनिस्सृतामृतधारयाऽऽत्मानमभिषिच्य,
  29. कृतलाञ्छनो धृतोर्ध्वपुण्ड्रः भगवद्यागमारभेत || 19 ||

(सात्विकत्यागह्रध्यागौ)

  1. ‘भगवानेव सर्वं कारयतति ’ इति पूर्ववत् ध्यात्वा, हृद्यागं कृत्वा,

(बाह्ययागार्थम् अर्घ्यादिपरिकल्पनं)

  1. संभारान् संभृत्यात्मनो वामपार्श्वे जलभाजेन तोयमुत्पूर्य,
  2. गन्धपुष्पयुतं कृत्वा, सप्तकृत्वः अभिमन्त्र्य, विशोष्य, दग्ध्वा,
  3. दिव्यामृतमयं तोयमुत्पाद्य, अस्त्रमन्त्रेण रक्षां कृत्वा, सुरभिमुद्रां प्रदर्श्य,
  4. अन्यानि पूजाद्रव्याणि दक्षिणपार्श्वे निधाय,
  5. आत्मन: पुरस्तात् स्वास्तीर्णे पीठे क्रमेणाग्नेयादिषु कोणेषु अर्घ्यपाद्याचमनीयस्नानीयपात्राणि निधाय,
  6. (अस्त्र) मन्त्रेण प्रक्षाल्य, शोषणादिना पात्राणि विशोध्य,
  7. संस्कृततोयेन तानि च पूरयित्वा,
  8. अर्घ्यपात्रे – सिद्धार्थक गन्धपुष्पकुशाग्राक्षतादीनि निक्षिपेत् || 20 ||
  9. दूर्वां, विष्णुपर्णीं श्यामाकं पद्मकं पाद्यपात्रे || 21 ||
  10. एला लवङ्ग तक्कोल लामज्जक-जातीपुष्पाण्याचमनीये || 22 ||
  11. द्वे हरिद्रे मुराशैलेय तक्कोल जटामांसि मलयजगन्धचम्पकपुष्पाणि स्नानीये || 23 ||
  12. अन्यस्मिन् पात्रे सर्वार्थतोयं परिकल्प्य,
  13. ततोऽर्घ्यपात्रं पाणिना स्पृष्ट्वा, मूलमन्त्रेणा अभिमन्त्र्य,
  14. ‘ओं नमो भगवतेऽर्घ्यं परिकल्पयामि ‘ इत्यर्घ्यं परिकल्पयेत् ॥ 24 ||
  15. एवमेव ‘ पाद्यं परिकल्पयामि ‘ इति पाद्यम् || 25 ||
  16. ‘ आचमनीयं परिकल्पयामि ’ इति आचमनीयम् || 26 ||
  17. ‘ स्नानीयं परिकल्पयामि ’ इति स्नानीयम् || 27 ||
  18. ‘ शुद्धोदकं परिकल्पयामि ’ इति शुद्धोदकम् || 28 ||

(प्रोक्षणं )

  1. ततोऽर्घ्यजलम् अन्येन पात्रेणादाय,  यागभूमिं सर्वाणि च यागद्रव्याण्यात्मानं च प्रत्येकं  संप्रोक्ष्यासनं परिकल्पयेत्॥ 29 ||

(आधारशक्त्यादिसत्करणं )

  1. 1. ‘ ओं आधारशक्त्यै नम:’
    1. ‘ ओं प्रकृत्यै नम:’,
    2. ‘ ओं अखिलजगदाधाराय कूर्मरूपिणे नारायणाय नम:’
    3. ‘ ओं भगवतेऽनन्ताय नागराजाय नम:’
    4. ‘ ओं भूं भूम्यै नम:’
  2. इति यथास्थानमुपर्युपरि ध्यात्वा प्रणम्य,
  3. ‘ ओं श्रीवैकुण्ठाय दिव्यलोकाय नम:’ इति दिव्यलोकं प्रणम्य,
  4. 7. ‘ ओं श्रीवैकुण्ठाय दिव्यजनपदाय नम:’ इति दिव्यजनपदं प्रणम्य,
  5. 8. ‘ ओं श्रीवैकुण्ठाय दिव्यनगराय नम:’ इति दिव्यनगरं प्रणम्य,
  6. 9. ‘ ओं श्रीवैकुण्ठाय दिव्यविमानाय नम:’ इति दिव्यविमानं प्रणम्य,
  7. 10. ‘ ओं आनन्दमयाय दिव्यमण्टपरत्नाय नम:’ इति मण्टपरत्नं प्रणम्य,
  8. तस्मिन्,
  9. ‘ ओं अनन्ताय नम:’ इत्यास्तरणं प्रणम्य,
  10. तस्मिन्नुपरि,
  11. 12. ‘ ओं धर्माय नम:’ इत्याग्नेय्यां पादं विन्यस्य,
  12. 13. ‘ ओं ज्ञानाय नम:’ इति नैर्ऋत्याम्,
  13. 14. ‘ ओं वैराग्याय नम:’ इति वायव्याम्,
  14. 15. ओं ऐश्वर्याय नम: इत्यैशान्याम्,
  15. 16. ‘ ओं अधर्माय नम:’ इति प्राच्यां पीठगात्रं विन्यस्य,
  16. 17. ‘ओं अज्ञानाय नम:’ इति दक्षिणस्याम्,
  17. 18. ‘ ओं अवैराग्याय नम:’ इति प्रतीच्याम्,
  18. 19. ‘ ओं अनैश्वर्याय नम:’ इत्युत्तरस्याम्,
  19. एभि: परिच्छिन्नतनुं, पीठभूतं सदात्मकमनन्तं विन्यस्य,
  20. पश्चात् सर्वकार्योन्मुखं विभुमनन्तम् –
  21. 20. ‘ ओं अनन्ताय नम:’ इति विन्यस्य,
  22. तस्मिन्नुपरि –
  23. 21. ‘ ओं पद्माय नम:’ इति पद्मं विन्यस्य,
  24. तत्पूर्वपत्रे
  25. 22. ‘ ओं विमलायै (चामरहस्तायै) नम:’ इति विमलां चामरहस्तां विन्यस्य,
  26. तत आरभ्य प्रादक्षिण्येनैशानान्तं पत्रेषु
  27. 23. ‘ ओं उत्कर्षिण्यै चामरहस्तायै नम:’
  28. 24. ‘ ओं ज्ञानायै चामरहस्तायै नम:’
  29. 25. ‘ ओं क्रियायै चामरहस्तायै नम:’
  30. 26. ‘ ओं योगायै चामरहस्तायै नम:
  31. 27. ‘ ओं प्रह्व्यै चामरहस्तायै नम:’
  32. 28. ‘ ओं सत्यायै चामरहस्तायै नम:’
  33. ‘ ओं ईशानायै चामरहस्तायै नम:’

– इति अष्ट शक्तीश्चामरहस्ता विन्यस्य,

  1. 30. ‘ ओं अनुग्रहायै चामरहस्तायै नम:’ इति कर्णिकापूर्वभागेऽनुग्रहां चामरहस्तां विन्यसेत् |
  2. 31. ‘ ओं जगत्प्रकृतये योगपीठाय नम:’ इति योगपीठं संकल्प्य,
  3. 32. ‘ ओं दिव्याय योगपर्यङ्काय नमः’ इति दिव्ययोगपर्यङ्काय विन्यस्य,
  4. तस्मिन्ननन्तं नागराजं सहस्रफणाशोभितम्,
  5. 33. ‘ ओं अनन्ताय नागराजाय नम:’ इति विन्यस्य,
  6. 34. ‘ ओं अनन्ताय नम:’ इति पुरस्तात् पादपीठं विन्यस्य,
  7. सर्वाण्याधारशक्त्यादीनि पीठान्तानि तत्त्वानि प्रत्येकं गन्धपुष्पधूपदीपैः संपूज्य,
  8. सर्वपरिवाराणां तत्तत्स्थानेषु पद्मासनानि संकल्प्य,
  9. अनन्त गरुड विष्वक्सेनानां सपीठकं पद्मं विन्यस्य,
  10. सर्वत: पुष्पाक्षतादीनि विकीर्य,
  11. योगपीठस्य पश्चिमोत्तरदिग्भागे
  12. 35. ‘ ओं अस्मद्गुरुभ्यो नम:’ इति गुरून् गन्ध पुष्प धूप दीपैः अभ्यर्च्य,
  13. प्रणम्य अनुज्ञाप्य भगवद्यागमारभेत ॥ 30 ||

[ भगवध्यानयाचने ]

  1. कल्पिते नागभोगे समासीनं भगवन्तं नारायणं पुण्डरीकतदलामलायताक्षं किरीटहारकेयूरकटकादिसर्वभूषणैर्भूषितं आकुञ्चितदक्षिणपादं प्रसारितवामपादं जानुन्यस्त-प्रसारितदक्षिणभुजं नागभोगे विन्यस्तवामभुजम् ऊर्ध्वभुजद्वयेन शङ्खचक्रधरं सर्वेषां सृष्टिस्थिति-प्रलयहेतुभूतमञ्जनाभं कौस्तुभेन विराजमानं चकासतम् उदग्रप्रबुद्धस्फुरदपूर्वाचिन्त्य-परमसत्त्वपञ्चशक्तिमयविग्रहं पञ्चोपनिषदैर्ध्यात्वा,
  2. ‘ आराधनाभिमुखो भव ’ इति मूलमन्त्रेण प्रार्थ्य,
  3. मूलमन्त्रेण दण्डवत्प्रणम्य, उत्थाय, स्वागतं निवेद्य,
  4. यावदाराधनसमाप्तिसान्निध्ययाचनं कुर्यात् ॥ 31 ||

( क्वाचिक्तावाहनप्रकारः )

  1. अन्यत्र स्वाभिमते देशे पूजा चेदेवमावाहनम्

‘ मन्त्रयोगस्समाह्वानं करपुष्पोपदर्शनम् ।

बिम्बोपवेशनं चैव योगविग्रहचिन्तनम् ॥

प्रणामश्च समुत्थानं स्वागतं पुष्पमेव च ।

सान्निध्ययाचनं चेति तत्रा आह्वानस्य सत्क्रिया:’॥ इति  || 32 ||

  1. ततो भगवन्तं प्रणम्य,
  2. दक्षिणत: -1. ‘ओं श्रीं श्रियै नमः’ इति श्रियमावाह्य प्रणम्य,
  3. वामे – 2. ‘ ओं भूं भूम्यै नमः’ इति मन्त्रेण भुवमावाह्य,
  4. तत्रैव – 3. ‘ ओं नीं नीलायै नमः’ इति नीलामावाह्य,
  5. 4. ‘ ओं किरीटाय मकुटाघिपतये नमः’ इत्युपरि भगवत: पश्चिमपार्श्वे – चतुर्भुजं  चतुर्वक्त्रं कृताञ्जलिपुटं मूर्ध्नि भगवत्किरीटं धारयन्तं किरीटाख्यदिव्यभूषणं प्रणम्य,
  6. एवमेव- 5. औं किरीटमालायै आपीडात्मने नमः’ – इत्यापीडकं तत्रैव पुरस्तात् प्रणम्य,
  7. 6. ‘ ओं दक्षिणकुण्डलाय मकरात्मने नम:’ इति दक्षिणकुण्डलं दक्षिणत: प्रणम्य,
  8. 7. ‘ ओं वामकुण्डलाय मकरात्मने नम:’ इति वामकुण्डलं वामत: प्रणम्य,
  9. 8. ‘ ओं वैजयन्त्यै वनमालायै नमः’ इति वैजयन्तीं पुरत: प्रणम्य,
  10. 9. ‘ ओं श्रीमत्तुलस्यै नमः’ इति तुलसीं देवीं पुरस्तात् प्रणम्य,
  11. 10. ‘ ओं श्रीवत्साय श्रीनिवासाय नमः’ इति श्रीवत्सं पुरत: प्रणम्य,
  12. 11. ‘ ओं हाराय सर्वाभरणाधिपतये नमः’ इति हारं पुरत: प्रणम्य,
  13. 12. ‘ ओं श्रीकौस्तुभाय सर्वरत्नाधिपतये नम इति कौस्तुभं पुरत: प्रणम्य,
  14. 13. ‘ ओं काञ्चीगुणोज्ज्वलाय दिव्यपीताम्बराय नमः’ इति पीताम्बरं पुरत: प्रणम्य,
  15. ‘ ओं सर्वेभ्यो भगवद्भूषणेभ्यो नमः’ इति सर्वभूषणानि सर्वत: प्रणम्य,
  16. 15. ‘ ओं सुदर्शनाय हेतिराजाय नमः’ इति सुदर्शनात्मानं रक्तवर्णं, रक्तनेत्रं (द्वि) चतुर्भुजं कृताञ्जलिपुटं भगवन्तमालोकयन्तं तद्दर्शनानन्दोपबृंहितमुखं मूर्ध्नि भगवच्चक्रं धारयन्तं दक्षिणत: प्रणम्य,
  17. 16. ‘ ओं नन्दकाय खड्गाधिपतये नमः’ इति नन्दकात्मानं शिरसि भगवत्खड्गं धारयन्तं प्रणम्य,
  18. 17. ‘ ओं पद्माय नमः’ इति पद्मात्मानं शिरसि पद्मं धारयन्तं प्रणम्य,
  19. 18. ‘ ओं पाञ्चजन्याय शङ्खाधिपतये नमः’ इति शङ्खात्मानं श्वेतवर्णं रक्तनेत्रं द्विभुजं कृताञ्जलिपुटं शिरसि शङ्खं धारयन्तं वामत: प्रणम्य – तत्रैव
  20. 19. ‘ ओं कौमोदक्यै गदाधिपतये नमः’ इति गदाम् देवीं प्रणम्य,
  21. 20. तत्रैव – ‘ ओं शार्ङ्गाय चापाधिपतये नमः’ इति शार्ङ्गात्मानं प्रणम्य,
  22. 21. ‘ ओं सर्वेभ्यो भगवद्दिव्यायुधेभ्यो नमः’ इति सर्वाणि भगवदायुधानि परित: प्रणम्य,
  23. 22. ‘ ओं सर्वाभ्यो भगवत्पादारविन्दसंवाहिनीभ्यो नमः’ – इति दिव्यपादारविन्दसंवाहिनीस्समन्तत: प्रणम्य,
  24. 23. ‘ ओं अनन्ताय नागराजाय नमः’ इति पृष्ठतोऽनन्तं (भगवन्तं) नागराजं चतुर्भुजं हलमुसलधरं कृताञ्जलिपुटं फणामणिसहस्रमण्डितोत्तमाङ्गं भगवद्दर्शनानन्दबृंहितसर्वाङ्गं ध्यात्वा,  प्रणम्य,
  25. 24. ओं सर्वेभ्यो भगवत्परिजनेभ्यो नमः’ इत्यनुक्तानन्तपरिजनान् समन्तत: प्रणम्य,
  26. 25. ‘ ओं भगवत्पादुकाभ्यां नमः’ इति भगवत्पादुके पुरत: प्रणम्य,
  27. 26. ‘ ओं सर्वेभ्यो भगवत्परिच्छदेभ्यो नमः’ इति सर्वपरिच्छदान् समन्तत: प्रणम्य,
  28. ‘ ओं वैनतेयाय नमः’ इत्यग्रतो भगवतो भगवन्तं वैनतेयमासीनं द्विभुजं कृताञ्जलिपुटं ध्यात्वा प्रणम्य,
  29. 28. ‘ ओं श्रीमते विष्वक्सेनाय नमः’ इति भगवत: प्रागुत्तरपार्श्वे दक्षिणाभिमुखं भगवन्तं विष्वक्सेनमासीनं चतुर्भुजं शङ्खचक्रधरं नीलमेघनिभं ध्यात्वा प्रणम्य,
  30. 29. ‘ओं गं गजाननाय नम:’
  31. 30. ‘ओं जं जयत्सेनाय नम:’
  32. 31. ‘ ओ हं हरिवक्त्राय नम:’
  33. ‘ ओं कं कालप्रकृतिसंज्ञाय नम:’
  34. 33. ‘ ओं सर्वेभ्यो श्री विष्वक्सेनपरिजनेभ्यो नम:’ इति विष्वक्सेनपरिजनान् प्रणम्य,
  35. 34. ‘ ओं चण्डाय द्वारपालाय नम:’
  36. 35. ‘ ओं प्रचण्डाय द्वारपालाय नम:’ इति पूर्वद्वारपार्श्वयो: प्रणम्य,
  37. 36. ‘ ओं भद्राय द्वारपालाय नम:’
  38. 37. ‘ ओं सुभद्राय द्वारपालाय नम:’ इति दक्षिणद्वारपार्श्वयो: प्रणम्य,
  39. 38. ‘ ओं जयाय द्वारपालाय नम:’
  40. 39. ‘ ओं विजयाय द्वारपालाय नम:’ इति पश्चिमद्वारपार्श्वयोः प्रणम्य,
  41. 40. ‘ ओं धात्रे द्वारपालाय नम:’
  42. ‘ ओं विधात्रे द्वारपालाय नम:’ – इत्युत्तरद्वारपार्श्वयो: प्रणमेत् ॥ 34 ||
  43. एते द्वारपालास्सर्वे शङ्खचक्रगदाधराः आज्ञामुद्राधराः ध्यातव्या: ॥ 35 ||
  44. ‘ ओं सर्वेभ्यो द्वारपालेभ्यो नमः’ इति सर्वद्वारेषु सर्वद्वारपालान् प्रणम्य,
  45. 43. ‘ ओं कुमुदाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति पूर्वस्यां दिशि,  पार्षदेश्वरं कुमुदं प्रणम्य,
  46. 44. ‘ ओं कुमुदाक्षाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इत्याग्नेय्यां, कुमुदाक्षं प्रणम्य,
  47. 45. ‘ ओं पुण्डरीकाय गणाधिपतये सवाहनपरिवारप्रहरणाय नम इति दक्षिणस्यां पुण्डरीकं प्रणम्य,
  48. 46. ‘ ओं वामनाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति नैर्ऋत्यां वामनं प्रणम्य,
  49. 47. ‘ ओं शङ्कुकर्णाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति पश्चिमायां शङ्कुकर्णं प्रणम्य,
  50. 48. ‘ ओं सर्पनेत्राय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इति वायव्यां सर्पनेत्रं प्रणम्य,
  51. 49. ‘ ओं सुमुखाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इत्युदीच्यां सुमुखं प्रणम्य,
  52. 50. ‘ ओं सुप्रतिष्ठिताय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः’ इत्यैशान्यां सुप्रतिष्ठितं प्रणम्य,
  53. 51. ‘ ओं सर्वेभ्यो भगवत्पार्षदेभ्यो नमः’ इति सर्वस्माद्बहि: प्रणमेत् ॥ 36 ||
  54. अन्यत्रावाह्य पूजायामावाहनस्थानानि परमव्योमक्षीरार्णवादित्यमण्डलहृदयानि मथुरा- द्वारकागोकुलायोध्यादीनि दिव्यावतारस्थानानि चान्यानि पौराणिकानि श्रीरङ्गादीनि च यथारुचि ॥ 37 ||
  55. 2. एवं भगवन्तं नारायणं देवीभूषणायुध परिजन परिच्छदद्वारपालपार्षदैस्सेव्यमानं, स्वाधीन त्रिविधचेतनाचेतन स्वरूपस्थिति प्रवृत्तिभेदं, क्लेशकर्माद्यशेष दोषासंस्पृष्टं,  स्वाभाविकानवधिकातिशय ज्ञान बलैश्वर्य वीर्य शक्तितेज: प्रभृत्यसंख्येय कल्पाणगुणगणौघमहार्णवं ध्यात्वा, प्रणम्य,
  56. मूलमन्त्रेण स्वात्मानं देवाय निवेद्य,
  57. प्रणम्यानुज्ञाप्य, भगवत्पूजामारभेत ॥ 38 ||

[ मन्त्रासनं ]

  1. पात्रेण (उद्धरिण्या) पूर्वस्थितात् अर्घ्यपात्रादर्घ्यजलमादाय, पाणिभ्यां (घ्राण) मुखसममुद्धृत्य,
  2. ‘ भगवन्! इदं प्रतिगृह्णीष्व’ इति चिन्तयन् भगवन्मुखे दर्शयित्वा,
  3. भगवद्दक्षिणहस्ते किंचित्प्रदायार्घ्यं प्रतिग्रहपात्रे प्रक्षिपेत् || 39 ||
  4. हस्तौ प्रक्षाल्य, पादयो: पुष्पाणि समर्प्य,
  5. पाद्यपात्रात्पाद्यजलमादाय पादयो: किंचित् समर्प्य, मनसा पादौ प्रक्षालयन्,  पाद्यं प्रतिग्रहपात्रे निक्षिपेत् || 40 ||
  6. हस्तौ प्रक्षाल्य, वस्त्रेण पादौ संमृज्य गन्धपुष्पाणि दत्वा,
  7. आचमनीयपात्रादाचमनीयमादाय, भगवद्दक्षिणहस्ते किंचित् समर्प्य, ‘भगवद्वदने आचमनीयं समर्पितम् ’ इति मनसा भावयन्, शेषमाचमनीयं प्रतिग्रहपात्रे प्रक्षिपेत् || 41 ||
  8. तत: गन्ध पुष्प धूप दीप आचमन मुखवास ताम्बूलादि निवेदनं कृत्वा, प्रणम्य,
  9. ‘आत्मानमात्मीयं च सर्वं, भगवन् ! नित्यकिंकरत्वाय स्वीकुरु’ इति भगवते निवेदयेत् || 42 ||

( स्नानासनं )

  1. तत: स्नानार्थमासनमानीय, गन्धादिभिरभ्यर्च्य,  भगवन्तं प्रणम्य अनुज्ञाप्य, पादुके प्रदाय,
  2. तत्रोपविष्टे – माल्यभूषणवस्त्राण्यपनीय, विष्वक्सेनाय दत्वा,
  3. स्नानशाटिकां प्रदाय,
  4. अर्घ्यपाद्याचमनीय पादपीठप्रदान दन्तकाष्ठ जिह्वानिर्लेहनगण्डूष-मुखप्रक्षालन आचमनादर्शप्रदर्शन हस्तप्रक्षालन मुखवास ताम्बूल तैलाभ्यङ्गोद्वर्तन आमलकतोय कङ्क-तप्लोतदेहशोधन शाटिकाप्रदान हरिद्रालेपन प्रक्षालन वस्त्रोत्तरीय यज्ञोपवीतप्रदान पाद्याचमन पवित्रप्रदान गन्ध पुष्प धूप दीपाचमन नृत्तगीत वाद्यादि सर्वमङ्गल संयुक्ताभिषेक नीराजनाचमन देहशोधन प्लोतवस्त्रोत्तरीय यज्ञोपवीताचमन कूर्चप्रसारण सहस्रधाराभिषेक -नीराजनाचमन देहशोधन प्लोत-वस्त्रोत्तरीय यज्ञोपवीताचमनानि दद्यात् ॥ 43 ||

( अल्न्कारासनं )

  1. ततोऽलङ्कारासनमभ्यर्च्य, प्रणम्यानुज्ञाप्य,
  2. पादुके प्रदाय, तत्रोपविष्टे –
  3. पूर्ववत् स्नानीयवर्ज्यंमर्घ्यपाद्या आचमनीयशुद्धोदकानि मन्त्रेण कल्पयित्वा,
  4. भगवते अर्घ्यपाध्या आचमनीयानि दत्वा,
  5. गन्धपुष्पपादसम्मर्दनवस्त्रोत्तरीयभूषणोपवीतार्घ्य – पाद्याचमनीयानि दत्वा
  6. समस्तपरिवाराणां स्नानवस्त्रादिभूषणान्तं दत्वा,
  7. गन्धादीन् देवानन्तरं सर्वपरिवाराणां प्रत्येकं प्रदाय,
  8. धूपदीपाचमनान्तं दद्यात् ॥ 44 ||
  9. अथवा सर्वपरिवाराणां गन्धादीनेव दद्यात् ॥ 45 ||
  10. गन्ध पुष्प प्रदानालङ्कार अञ्जनोर्ध्वपुण्ड्रादर्श धूप दीपाचमन ध्वज छत्र चामर वाहन शङ्ख चिह्नकाहल- भेर्यादि सकलनृत्तगीतवाद्यादिभिरभ्यर्च्य,
  11. मूलमन्त्रेण पुष्पं प्रदाय, प्रत्यक्षरं पुष्पं प्रदाय
  12. द्वादशाक्षरेण विष्णुषडक्षरेण विष्णुगायत्र्या पञ्चोपनिषदै: पुरुषसूक्तऋग्भिः पुष्पं प्रदाय अन्यैश्च भगवन्मन्त्रैश्शक्तष्टोत्पुष्पं प्रदाय,
  13. देव्यादिदिव्यपारिषदान्तं तत्तन्मन्त्रेण पुष्पं दत्वा प्रणम्य,
  14. प्रतिदिशं प्रदक्षिणप्रणामपूर्वकं भगवते पुष्पाञ्जलिं दत्वा पुरत: प्रणम्य,
  15. श्रुतिसुखै: स्तोत्रै: स्तुत्वा,
  16. स्वात्मानं नित्यकिंकरतया निवेद्य, तथैव ध्यात्वा,
  17. यथाशक्ति मूलमन्त्रं जपित्वा,
  18. सर्वभोगप्रपूरणीं मात्रां दत्वा,
  19. मुखवासताम्बूले प्रदाय, अर्घ्यं दत्वा,

( भोज्यासनं )

  1. भोज्यासनमभ्यर्च्य, प्रणम्यानुज्ञाप्य पादुके प्रदाय,
  2. तत्रोपविष्टे – पाद्याचमनीयार्हणीयानि दत्वा,
  3. गुडं, माक्षिकं सर्पिर्दधि क्षीरं चेति पात्रे निक्षिप्य
  4. शोषणादिभिर्विशोध्य, अर्घ्यजलेन संप्रोक्ष्य, मधुपर्कम्
  5. अवनतशिराः हर्षोत्फुल्लनयनः हृष्टमनाः  भूत्वा प्रदाय
  6. आचमनीयं दद्यात् || 46 ||
  7. यत्किंचिद्द्रव्यं भगवते देयम् ; तत्सर्वं शोषणादिभिर्विशोध्यार्घ्यजलेन संप्रोक्ष्य दद्यात् || 47 ||
  8. ततश्च गां स्वर्णरत्नादिकं च यथाशक्ति दद्यात् || 48 ||
  9. ततस्सुसंस्कृतान्नमाज्याढ्यं दधिक्षीरमधूनि च फलमूलव्यञ्जनानि मोदकांश्चान्यानि च लोके प्रियतमान्यात्मनश्चेष्टानि शास्त्राविरुद्धानि संभृत्य
  10. शोषणादि कृत्वा, अर्घ्यजलेन संप्रोक्ष्य
  11. अस्त्रमन्त्रेण रक्षां कृत्वा, सुरभिमुद्रां प्रदर्श्य
  12. अर्हाणपूर्वकं हविर्निवेदयेत् ॥ 49 ||
  13. ‘ अतिप्रभूतम् अतिसमग्रमतिप्रियतममत्यन्तभक्तिकृतमिदं स्वीकुरु’ इति प्रणामपूर्वकमत्यन्त साध्वस विनयावनतो भूत्वा निवेदयेत् ॥ 50 ||
  14. ततश्चानुपानतर्पणे प्रदाय
  15. हस्तप्रक्षालनाचमन हस्तसम्मार्जन चन्दन मुखवासताम्बूलादीनि दत्वा
  16. प्रणम्य पुनर्मन्त्रासनं कूर्चेन मार्जयित्वा,
  17. अभ्यर्च्यानुज्ञाप्य पादुके प्रदाय
  18. तत्रोपविष्टे – माल्यादिकमपोह्य विष्वक्सेनाय दत्वा,
  19. पाद्याचमन गन्ध पुष्प धूप दीपाचमन अपूप फलादीनि दत्वा,
  20. मुखवास तांबूल नृत्तगीत वाद्यादिभिः अभ्यर्च्य,
  21. प्रदक्षिणीकृत्य दण्डवत्प्रणम्य,
  22. पर्यङ्कासनमभ्यर्च्यानुज्ञाप्य पादुके प्रदाय,
  23. तत्रोपविष्टे – पाद्याचमने दत्वा
  24. माल्यभूषणवस्त्राण्यपनीय विष्वक्सेनाय दत्वा
  25. सुखशयनोचितं सुखस्पर्शं च वासस्तदुचितानि भूषणान्युपवीतं च प्रदाय
  26. आचमनीयं दत्वा
  27. गन्ध पुष्प धूप दीपाचमन मुखवास ताम्बूलादिभिरभ्यर्च्य
  28. श्रुतिसुखै: स्तोत्रैरभिष्टूय
  29. ‘ भगवानेव स्वनियाम्य स्वरूपस्थितिप्रवृत्ति स्वशेषतैकरसेन अनेनात्मना स्वकीयैश्च देहेन्द्रियान्त:करणै: स्वकीयकल्याणतमद्रव्यमयानौपचारिक सांस्पर्शिक आभ्यवहारिकादि समस्तभोगान् अतिप्रभूतान् अतिसमग्रान् अतिप्रियतमान् अत्यन्तभक्तिकृतानखिलपरि-जनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादितवान्’ इत्यनुसंधाय,
  30. भगवन्तमनुज्ञाप्य
  31. भगवन्निवेदित- हविश्शेषाद्विष्वक्सेनाय किंचिदुद्धृत्य निधाय
  32. अन्यत्सर्वं स्वाचार्यप्रमुखेभ्यो वैष्णवेभ्यो प्रदाय
  33. भगवद्यागावशिष्टैर्जलादिभिर्द्रव्यैर्विष्वसेनमभ्यर्च्य
  34. पूर्वोद्धृतं हविश्च दत्वा, तदर्चनं परिसमाप्य,
  35. भगवन्तमष्टाङ्गेन प्रणम्य शरणमुपगच्छेत् ॥ 51 |

‘मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।

कूर्मवच्चतुर: पादान् शिरस्तत्रैव पञ्चमम् ॥

प्रदक्षिणसमेतेन त्वेवं रूपेण सर्वदा ।

अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रत: विभो:’

इत्युक्तोऽष्टाङ्गप्रणाम: । शरणागतिप्रकारश्च पूर्वोक्त: ॥

ततोऽर्घ्यजलं प्रदाय,  भगवन्तमनुज्ञाप्य,  पूजां समापयेत् ॥ 52 ||

इति श्रीभगवद्रामानुजाचार्य विरचित: नित्यग्रन्थस्समाप्त:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.