श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशःसर्गः
कदाचनसीतयासहक्रीडावनंगर्तनरामेण तांप्रति गर्भिणीत्वादीप्सितदौर्ह्रदनिवेदनचोदने तयातंप्रति पुनरेकवारंगङ्गातीरवर्तिमुन्याश्रमदिदृक्षानिवेदने रामेण तांप्रति तत्करणप्रतिज्ञानम् ।। १ ॥
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।
प्रविवेश महाबाहुरशोकवनिकां तदा ॥ १ ॥
अशोकवनिकां अन्तःपुरगतं लीलोद्यानं ॥ १ ॥
चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि ।
देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥
चम्पकाशोकपुन्नागमधूकपनसासनैः ।
शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ ३ ॥
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।
मन्दारकदलीगुल्मलताजालसमावृताम् ॥ ४ ॥
प्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि ।
जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ५ ॥
[ बिल्वैरामलकैश्चैव तमालकुटजार्जुनैः ।
मल्लिकाजाजिकुन्दैश्च पारिभद्रैश्च शोभिताम् ॥ ६ ॥ ]
सर्वदाकुसुमै रम्यैः फलवद्भिर्मनोरमैः ।
दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ ७ ॥
तुङ्गः पुन्नागविशेषः । कालेयो रक्तचन्दनवृक्षः ॥ २-७ ।।
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।
चारुल्लवपपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः ॥ ८ ॥
दिव्यैः शिल्पिभिरिति । ऋतुमिरित्यर्थः । दोहलकादिभिर्वा ॥ ८ ॥
कोकिलैर्भृंङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।
शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ ९ ॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥ १० ॥
सुरभीणि च पुष्पाणि माल्यानि विविधानि च ॥ ११ ॥
चूतवृक्षावतंसकैः चूतवृक्षाग्रस्थैरित्यर्थः ।। ९-११ ॥
दीर्घिका विविधाकाराः पूर्णा: परमवारिणा ।
माणिक्यवृतसोपानाः स्फटिकान्तरकुट्टिमाः ॥ १२ ॥
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।
दात्यूहशुकसंघुष्टा हंससारसनादिताः ॥ १३ ॥
तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥ १४ ॥
स्फाटिकान्तरकुट्टिमाः स्फटिकमयसोपानप्रान्तस्नानार्हाः निबद्धभूमयः । अन्यथा सर्वत्रान्तरे स्फटिककुट्टिमत्वे पद्माद्युत्पत्तिविरोधात् ॥ १२-१४ ॥
तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।
शाद्बलैः परमोपेतां पुष्पितद्रुमकाननाम् ॥ १५ ॥
परमोपेतां अत्यन्तसंयुक्तां ॥ १५ ॥
तत्र संघर्षजातानां वृक्षाणां पुष्पशालिनाम् ।
प्रस्तराः पुष्पशबला नभस्तारागणैरिव ॥ १६ ॥
संघर्षजातानां स्पर्धयैव जातानां । जातपुष्पाणामित्यर्थः । प्रस्तराः वृक्षमूलेषु शयनार्थं स्थापिताः श्लक्ष्णशिलाः ॥ १६ ॥
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।
तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ १७ ॥
[ नीलवैदूर्यवर्णाश्च पद्मिन्यो बहुविस्तराः ।
हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः] ॥ १८ ॥
ब्राह्मं ब्रह्मनिर्मितं । सन्निवेशनं समीचीनसंस्थानोपेतं ॥ १७-१८ ॥
बह्वासनगृहोपेतां लतागृहसमावृताम् ।
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ १९ ॥
बह्वासनगृहोपेतां । अनेकावस्थानयोग्यगृहोपेतामित्यर्थः । लतागृहसमावृतां लतामयगृहसमावृतां ॥ १९ ॥
आसने च शुभाकारे पुष्पप्रकरभूषिते ।
कुथास्तरणसंवीते रामः सन्निषसाद ह ॥ २० ॥
कुथास्तरणसंवीते उपर्यास्तरणावृते ।। २० ।।
सीतामादाय हस्तेन मधु मैरेयकं शुचि ।
पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ २१ ॥
मांसानि च समृष्टानि फलानि विविधानि च ।
रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् ।। २२ ।।
मैरेयकं धातकीगुडमिश्रवारिभिः कृतं मद्यं । मैरेयमासवे धात्रीधातकीगुडवारिभिः इति वैजयन्ती ॥ २१-२२ ॥
उपानृत्यंश्च राजानं नृत्तगीतविशारदाः ।
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ २३ ॥
[ अप्सरोगणसङ्घाश्च किन्नरीपरिवारिताः ।
दक्षिणा रूपवत्यश्च स्त्रियः पानवशं गताः ।
उपानृत्यन्त काकुत्स्थं नृत्तगीतविशारदाः ॥ २४ ॥]
मनोभिरामा रामास्ता रामो रमयतांवरः ।
रमयामास धर्मात्मा नित्यं परमभूषितः ॥ २५ ॥
स तया सीतया सार्धमासीनो विरराज ह ।
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ २६ ॥
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।
रमयामास वैदेहीमहन्यहनि देववत् ॥ २७ ॥
उपानृत्यन्निति । उपनृत्यन्तीति वा पाठः । राजानमिति । राजानमुपराज्ञः समीपे । पानवशं पानजमदवशं ॥ २३-२७ ॥
तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।
अत्यक्रामच्छुभः कालः शिशिरो भोगदः सदा ॥ २८ ॥
दश वर्षसहस्राणि गवानि सुमहात्मनोः ।
प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ २९ ॥
शिशिरः शुभोत्यकामदिति । पुनश्च संवत्सरोतीत इत्यर्थः । वानरादिसुहृत्संल्लापादिना क्रीडावसराभावात्तैः सह एकसंवत्सरो गतः । तद्विसर्जनानन्तरं क्रीडया पुनरेकः संवत्सरो गतः । तथा चाभिषेकानन्तरं वर्षद्वयं जातं ॥ २८-२९ ॥
पूर्वाह्ने धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।
शेषं दिवसभागार्धमन्तः पुरगतोऽभवत् ॥ ३० ॥
सीताऽपि देवकार्याणि कृत्वा पौर्वान्हिकानि वै ।
श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ ३१ ।।
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ ३२ ॥
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।
प्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत् ।
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ॥ ३३ ॥
शेषं दिवसभागार्धं अपराह्न इत्यर्थः ॥ ३०-३३ ॥
अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।
किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ ३४ ॥
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ ३५ ॥
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।
फलमूलाशिनां देव पादमूलेषु वर्तितुम् ।। ३६ ॥
एष मे परमः कामो यन्मूलफलभोजिनाम् ।
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ ३७ ॥
अपत्येति । ममायमपत्यलाभस्त्वयि समुपस्थितः । तव गर्भलक्षणं दृश्यत इत्यर्थः ॥ ३४-३७ ॥
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ ३८ ॥
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।
मध्यकक्ष्यान्तरं रामो निर्जगाम सुहृद्वृतः ॥ ३९ ॥
विस्रब्धा भव । महाराजो महिषीं मां कथमाश्रमं प्रति नेष्यतीति शङ्कां मा कुर्वित्यर्थः ॥ ३८-३९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशःसर्गः॥४२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥