श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः
शिष्यमुखावगतदण्डराजकृतस्वसुताधर्षणवृत्तान्तेनशुक्रेण तंप्रति तदीयदेशेनसह भस्मीभवनशापदानपूर्वकं निजतनयां प्रति तत्रैवाश्रमेतपश्चरणचोदना ।। १ ।। एवमगस्त्येन रामंप्रति श्वेतोपाख्यानकथनम् ॥ २ ॥
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः ।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ १ ॥
उपश्रुत्येति । शिष्यमुखाद्वृत्तान्तमिति शेषः ॥ १ ॥
सोपश्यदरजां दीनां रजसा समभिप्लुताम् ।
ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २ ॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः ।
निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चैतदुवाच ह ॥ ३ ॥
प्रत्यूषे प्रातःकाले ॥ २-३ ॥
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ।
विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥
विपरीतस्य विपरीतानुष्ठानस्य । विपत्तिं विनाशं मत्क्रोधतो जायमानामिति शेषः । अग्निशिखामिव स्थितां क्रुद्धामरजां । क्रुद्धादग्निशिखामिवेति पाठे क्रुद्धान्मत्तो जायमानामग्निशिखासदृशीं विपत्तिं विनाशं पश्यध्वं ॥ ४ ॥
क्षयोस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ ५ ॥
अस्य प्राप्तः क्षय इति योजना ॥ ५ ॥
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् ।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥
सप्तरात्रेण राजाऽसौ सभृत्यबलवाहनः ।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७ ॥
शिखां वै स्प्रष्टुमिच्छतीत्युक्तान्यापदेशार्थं विशदयति – यस्मादित्यादि । ईदृशमिति । मत्पुत्रीधर्षणरूपमित्यर्थः ॥ ६-७ ॥
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः ।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥
धक्ष्यत इति । नाशयिष्यतीत्यर्थः ॥ ८ ॥
सर्वसत्वानि यानीह स्थावराणि चराणि च ।
महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ ९ ॥
विलयमगमन् गमिष्यन्तीति यावत् ॥ ९ ॥
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् ।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ १० ॥
सर्वसमुच्छ्रयं चराचरप्राणिमात्रमित्यर्थः । उच्छ्रयत्यस्मादित्युच्छ्रयं । पांसुवर्षमिवालक्ष्यमिति । पांसुवर्षं प्रसिद्धप्रलयपांसुमहावर्षमिव प्राप्य सप्तरात्रं सप्तरात्रपर्यन्तमलक्ष्यं भविष्यतीति । विनष्टपुरपौरजानपदकं । भविष्यतीत्यर्थः ।। १० ।।
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥
तदाश्रमवासिनमिति । स्वाश्रमनिवासिनमित्यर्थः । जनपदान्तेषु दण्डजनपदसीमान्तदेशेष्वित्यर्थः ॥ ११ ॥
श्रुत्वा तूशनसो वाक्यं सोश्रमावसथो जनः ।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥ १२ ॥
सोश्रमावसथ इति छान्दसः सन्धिः । एतावता कथं तदमृगद्विजमित्यस्योत्तरं निवृत्तं ॥ १२ ॥
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् ।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ ॥
निर्जनं वनं कथं तपसे प्रविष्ट इत्यस्योत्तरमाह-स तथेत्यादि ।। तव समलत्वात् इहैव वसेति । वासप्रयोजनमाह -सुसमाहितेति । शोभनसमाधिमतीत्यर्थः । समाध्यनुष्ठानस्यापि निमित्तमाह – दुर्मेध इति । यस्माद्धर्षणसहिष्णुर्दुर्बुद्धिरसि, ततः तादृशमलमोचनार्थं समाधिमती सती वसेत्यर्थः ।। १३ ।।
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् ।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ १४ ॥
कथं वस्तुं शक्यं पांसुवर्ष इत्यत्राह – इदं योजनपर्यन्तमित्यादि ॥ १४ ॥
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् ।
अवध्या: पांसुवर्षेण ते भविष्यन्ति नित्यदा ।। १५ ।।
श्रुत्वा नियोगं ब्रह्मर्षेः साऽरजा भार्गवी तदा ।
तथेति पितरं प्राह भार्गवं भृशदुःखिता ।
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ १६ ॥
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् ।
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ १७ ॥
सत्त्वाः पक्ष्यादयः । एवं चोशनसोनुग्रहेण सर: प्रदेशस्य सुखावहत्वात्सुखवासत्वाच्चात्र तपसे प्रविष्ट इति भावः ॥ १५-१७ ।।
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप ।
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ १८ ॥
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते ।
तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ॥ १९ ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव ।
सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ २० ॥
तस्यासौ । व्यत्ययात् षष्ठी । सोसावित्यर्थः । सहिते पूर्णधर्मपूर्णसौख्यसहित इत्यर्थः । कृते कृतयुगे ॥ १८-२० ॥
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ २१ ॥
कृतोदकाः कृतस्नानादिकर्माण इत्यर्थः ॥ २१ ॥
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २२ ॥
स रविः ब्रह्मवित्तमैः तीर्थसमीपे सहितैः संगतैस्तैर्ऋषिभिरभ्यस्तं ब्राह्मणं ब्रह्ममन्त्रतन्त्रयोगाभ्यासलक्षणपूजां प्राप्येति शेषः ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ।।
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥