श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः
रामेणलक्ष्मणंप्रति महदपराधस्यानर्थहेतुत्वेउदाहरणतया कथान्तरोदाहरणारंभः ।। १ ।। निमिनाम्नाइक्ष्वाकुवंश्येनराज्ञा स्वयाजनायस्वप्रार्थितेनवसिष्ठेन इन्द्रेणस्वस्यपूर्ववरणोक्त्याप -श्चाद्याजनोक्तौविलंबासहनेन गौतमवरणेनयागनिर्वर्तनम् ॥ २ ॥ पश्चादागतेनवासष्टेन निद्रापरवशतयास्वानभियायिनंनिर्मिंप्रतिविदेहत्वशापदानम् ॥ ३ ॥ निमिनावसिष्ठंप्रति स्वतः शापदानस्यानौचित्योक्त्या तस्यापिविदेहत्वशापदानम् ॥ ४ ॥
एष ते नृगशापस्य विस्तरोभिहितो मया ।
यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥
इह राजापराधविषये ॥ १ ॥
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ २ ॥
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।
कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ३ ॥
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।
पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ४ ॥
तृप्तिः कथानां संबन्धिनीत्यर्थः ॥ २-४ ॥
स राजा वीर्यसंपन्नः पुरं देवपुरोपमम् ।
निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥
गौतमस्येति गौतमाश्रमस्येत्यर्थः ॥ ५ ॥
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।
निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ६ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।
यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७ ॥
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।
वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ८ ॥
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।
अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ९ ॥
वैजयन्तं इन्द्रप्रासादं । सादृश्यात्तद्व्यपदेशः ।। ६-९ ।।
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।
वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ १० ॥
प्रतिपालय प्रतीक्षस्व । प्रतीक्ष त्वं तदन्तरमिति च पाठः । तदनन्तरं त्वां याजयिष्य इति शेषः ।। १० ।।
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।
वसिष्ठोपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ११ ॥
गौतमः प्रत्यपूरयत् । वसिष्ठकर्तव्यं हौत्रमिति शेषः ।। ११ ॥
निमिस्तु राजा विप्रांस्तान्तसमानीय नराधिपः ।
अयजद्धिमत्पार्श्वे स्वपुरस्य समीपतः ।
पञ्च वर्षसहस्राणि राजा दीक्षामुपागमत् ॥ १२ ॥
इन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः ।
सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ १३ ॥
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।
कोपेन महताऽऽविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ १४ ॥
तान् अत्र्यादीन् ।। १२-१४ ।।
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।
तस्मिन्नहनि राजर्षिर्निद्रयाऽपहृतो भृशम् ॥ १५ ॥
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।
अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ १६ ॥
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।
चेतनेन विनाभूतो देहस्तव भविष्यति ।। १७ ।।
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।
ब्रह्मयोनिमथोवाच संरम्भात्क्रोधमूर्च्छितः ॥ १८ ॥
अजानतः शयानस्य क्रोधेन कलुषीकृतः ।
मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। १९ ।।
स इति । असमाप्तसत्र इतिशेषः ।। १५-१९ ॥
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।
देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ २० ॥
इति रोपवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।
सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ २१ ॥
चेतनेन विना कृत इति । मृत इत्यर्थः । सुरुचिरप्रख्यः सुरुचिरकान्तिः ॥ २०-२१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ॥