श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपञ्चाशः सर्गः
मुनिकुमारकै: सीतारोदनादिकंनिवेदितेनवाल्मीकिना सत्वरंसीतासमीपमेत्य ससान्त्वनमर्थ्यादिनासंपूजन पूर्वकं तस्याः स्वाश्रमप्रापणेन तापसी:प्रति तत्परिरक्षणचोदना ॥
सीतां रुदन्तीं दृष्ट्वा तां तत्र वै मुनिदारकाः ।
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ १ ॥
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ।
सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ २ ॥
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ।
पत्नी श्रीरिव संमोहाद्विरौति विकृतानना ॥ ३ ॥
भगवन्साधु पश्यं त्वं देवतामिव खाच्युताम् ।
नद्यास्तु तीरे भगवन्वरस्त्री काऽपि दुःखिता ॥ ४ ॥
सर्वं निवेदयामासुरित्येतद्विवृणोति – अदृष्टेत्यादि ।। ३-४ ॥
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा ।
अनर्हा दुःखशोकाभ्यामेका दीना ह्यनाथवत् ॥ ५ ॥
न ह्येनां मानुषीं विद्मः सत्क्रियाऽस्याः प्रयुज्यताम् ।
आश्रमस्याविदूरे च त्वामियं शरणं गता ।
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि ॥ ६ ॥
तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ।
तपसा लब्धचक्षुष्मान्प्राद्रवद्यत्र मैथिली ॥ ७ ॥
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ।
तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामतिः ॥ ८ ॥
अध्यमादाय रुचिरं जाह्नवीतीरमागमत् ।
ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ ९ ॥
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः ।
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ॥ १० ॥
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ।
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ११ ॥
अनर्हेति । दुःखस्येति शेषः ॥ ५-११ ॥
आयान्ती चासि विज्ञाता मया धर्मसमाधिना ।
कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ॥ १२ ॥
कारणमिति । आगमनकारणमित्यर्थः ॥ १२ ॥
तव चैव महाभागे विदितं मम तत्वतः ।
सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ १३ ॥
तव चैवेति । शुद्धभावत्वमिति शेषः । मम मया । मह्यं मम ॥ १३ ॥
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा ।
विस्रब्धा भव वैदेहि सांप्रतं मयि वर्तसे ॥ १४ ॥
आश्रमस्थाविदूरे मे तापस्यस्तपसि स्थिताः ।
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ १५ ॥
मयि वर्तस इति । मत्समीपे निवसिष्यसीत्यर्थः ॥ १४-१५ ॥
इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ।
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ १६ ॥
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् ।
शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ १७ ॥
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ १८ ॥
यथा स्वगृहमभ्येत्येति । तथैवावतिष्ठस्वेति शेषः ।। १६-१८ ॥
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ १९ ॥
मुदा युक्ता इति । मुनिपत्नयः तापस्यः । अब्रुवन्निति । वाल्मीकिमिति शेषः ॥ १९ ॥
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते ।
अभिवादयामस्त्वां सर्वा उच्यतां किं च कुर्महे ।। २० ।।
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत् ।
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ २१ ॥
स्नुषा दशरथस्यैषा जनकस्य सुता सती ।
अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ २२ ॥
इमां भवन्त्यः पश्यन्तु स्नेहेन परमेण हि ।
गौरवान्मम वाक्याच्च पूज्या वोस्तु विशेषतः ॥ २३ ॥
चिरस्यागमनमिति । प्रतीक्ष्य स्थिता वयं अभिवादयामहे । एतेन सीतायाः समाश्वासादिना विलम्बो जात इत्यवगम्यते ।। २०-२३ ।।
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ।
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ २४ ॥
प्रणिधाय तापसीनां हस्ते दवा ॥ २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनपञ्चाशः सर्गः ॥ ४९ ॥