श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः
कुंभकर्णादिषुसभामागतेषु रावणेन प्रहस्तंप्रति विशेषतोनगररक्षाचोदना ॥ १ ॥ तथा स्वकृतसीतानयनाद्यनुवादेनसह रामस्य सेनाभिः सहसागरतीरागमन निवेदनपूर्वकं तद्वधोचितमन्त्रकरणचोदना ॥ २ ॥ कुंभकर्णेन सक्रोधंरावणप्रति सुहृद्भिः सहमन्त्र पूर्वकं सीताहरणस्य कर्तव्यस्वोक्त्या तद्वैपरीत्यस्यानौचित्योक्ति पूर्वकं दर्पाद्रामवधप्रतिज्ञानेनसमाश्वासनम् ॥ ३ ॥
स तां परिषदं कृत्स्नाम् समीक्ष्य समितिञ्जयः ।
प्रचोदयामास तदा प्रहस्तम् वाहिनीपतिम् ॥ १ ॥
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
योधा नधिकरक्षायाम् तथा व्यादेष्टुमर्हसि ॥ २ ॥
अथ सर्वमेलनानन्तरं नगररक्षाविधानपूर्वकं स्वाभिमतानुसारेण रावणो मन्त्रमर्थयते – स तामित्यादि ॥ समितौ युद्धे जयतीति समितिंजय: । संज्ञायां भृतृवृजि – इत्यादिना खचि मुमागमः । तां पूर्वोक्तां । कृतविद्याः अभ्यस्तधनुर्विद्या: । चतुर्विधाः रथिकहस्तिपकसादिपदातिरूपेण चतुर्विधाः । अधिकरक्षायां पूर्वापेक्षया सावधानरक्षायां । यथा स्युः यथा जागरूकाः स्युः । तथा व्यादेष्टुमर्हसि । अत्र इतिकरणं बोध्यं ॥ २ ॥
स प्रहस्तः प्रतीतात्मा चिकीर्षन्राजशासनम् ।
विनिक्षिपद्बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥ ३ ॥
सः सर्वेषु विद्यमानेष्वपि रावणविस्रम्भपात्रभूतः । प्रणीतात्मा निश्चितबुद्धिः । मन्दिरे रावणगृहे । विनिक्षिपत् विन्यक्षिपत् व्यधात् ॥ ३ ॥
ततो विनिक्षिप्य बलम् पृथङ्नगरगुप्तये ।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ ४ ॥
प्रमुखे अग्रे ॥ ४ ॥
निहितम् बहिरन्तश्च बलम् बलवतस्तव ।
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥ ५ ॥
अविमनः स्वस्थ- हृदयः यदभिप्रेतं तत्कुरुष्व । तत् अभीष्टं ते अस्तु सिध्यतु ॥ ५ ॥
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः ।
सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६ ॥
सुखेप्सुः कामपुरुषार्थेच्छुः । न विजयेच्छुः ॥ ६ ॥
प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते ।
धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥ ७ ॥
मन्त्रणीयं वक्तुमनास्तेषामाभिमुख्यं संपादयितुं प्रथमं तान् प्रशंसति – प्रियाप्रिये इति ॥ धर्मकामार्थकृच्छ्रेषु धर्मकामार्थसङ्कटेषु विषये । धर्मादिष्विदानीं को वा सेव्य इति संदेहे तदनुष्ठानफलभूते । प्रियाप्रिये सुखदुःखसाधने वस्तुनी । सुखं दुःखं लाभालाभौ । लाभ इष्टप्राप्तिः अलाभ: तन्नाशः तौ च । हिताहिते । हितं उत्तरकालफलवत् । अहितं तदितरत् ते च । वेदितुमर्हथ । प्रियाप्रियादि- फलस्वरूप निर्धारणाय धर्मादिसंदेहं निराकर्तुं समर्था इत्यर्थः ॥ ७ ॥
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥ ८ ॥
कथमर्हाम इत्यपेक्षायांतत्कार्यमुखेन दर्शयति – सर्वेति ॥ ८ ॥
स सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।
भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥ ९ ॥
इदानीमपि तथैवास्त्वित्याह – स सोमेति ॥ ग्रहा: सोमभिन्नाः सूर्यादयः । मरुद्भिः सोमादिभिर्देवैः ॥ ९ ॥
अहम् तु खलु सर्वान्वः समर्थयितुमुद्यतः ।
कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥ १० ॥
पूर्वोक्तस्यैवार्थस्य पुनरपि वक्ष्यमाणत्वात्तत्र पुनः कथने हेतुं दर्शयति अहमिति ॥ तुरवधारणे । सर्वान् वः समर्थयितुं ज्ञापयितुं । उद्यतएव पूर्वमेवोद्यतः । किंतु कुम्भकर्णस्य स्वप्नाद्धेतो: इममर्थं नाचोदयं तस्य नावेदयं । अतः कथ्यत इत्यर्थः ॥ १० ॥
अयम् हि सुप्तः षण्मासान्कुम्भकर्णो महाबलः ।
सर्वशस्त्रभृतां मुख्यः स इदानीम् समुत्थितः ॥ ११ ॥
कुम्भकर्णस्य स्वप्नादित्युक्तमेव स्पष्टयति — अयमिति । षण्मासानित्यत्यन्तसंयोगे द्वितीया । इदानीं समुत्थितः । अतः पूर्व नावेदयमित्यर्थः ॥ ११ ॥
इयं च दण्डकारण्याद्रामस्य महिषी प्रिया ।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥ १२ ॥
उत्तरत्र सीताप्रत्यर्पणं विना रामजयो विचार्यतामिति वक्तुकामस्तस्या दुस्त्यजत्वं. दर्शयितुं तामेव स्तौति – इयमित्यादिना ॥ रक्षोभिश्चरिताद्देशात् जनस्थानादित्यर्थः । सा मयाऽनीतेत्युक्तिरजानन्तं कुम्भकर्ण प्रति ॥ १२ ॥
सा मे न शय्यामारोढुमिच्छत्यलसगामिनी ।
त्रिषु लोकेषु चान्या मे न सीतासदृशी मता ॥ १३ ॥
अलसगामिनी मन्दगामिनी । त्यज तामनिच्छन्तीं परिगृहाणेतरामित्यत्राह-त्रिष्विति ॥ १३ ॥
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।
हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥ १४ ॥
असदृशत्वमुपपादयतितनु -मध्येत्यादिना । हेमबिम्बनिभा स्वर्णप्रतिमा तुल्या सौम्या रम्या मायेव प्रतिक्षणमपूर्ववदाश्चर्यावहवस्तु । वत् स्थिता ॥ १४ ॥
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ १५ ॥
क्रमेणारोक्ष्यतीत्याशंक्य मन्मथो विलम्बं नसहत इत्याह – सुलोहितेति ॥ सुप्रतिष्ठितौ समतलौ दृष्ट्वा । स्थितस्येति शेषः । शरीरजः कामः ॥ १५ ॥
हुताग्नेरर्चि संकाशामेनाम् सौरीमिव प्रभाम् ।
[दृष्ट्वां सीतां विशालाक्षीं कामस्य वशमेयिवान्] ।। १६ ।।
सोपि निगृह्यता मित्याशङ्क्याह – हुतेत्यादि । अर्धमेकं वाक्यं । अचिश्शब्दस्य इकारान्तत्व मार्षं । सौरीमिवप्रभामित्यस्य दृष्ट्वेत्यादिशेषपूरणेन संबन्धः ॥ १६ ॥
उन्नसम् विमलम् वल्गु विपुलं चारु लोचनम् ।
पश्यंस्तदावशस्तस्याः कामस्य वशमेयिवान् ।। १७ ।।
उन्नसं उन्नतनासिकं । उपसर्गाच्च इति नसादेशः । अवशः विवशः तदधीनः कथं निगृह्णीयामिति भावः । वल्गु सुन्दरं ॥ १७ ॥
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ।
शोकसंतापनित्येन कामेन कलुषीकृतः ।। १८ ।।
कामवश्यत्वमेव विवृणोति – क्रोधेति ॥ क्रोधहर्षयोः समानेन क्रोधे हर्षे चैकरूपेण । दुर्वर्णकरणेन वैवर्ण्यकारिणा । शोकसंतापनित्येन शोके मनोव्यथायां संतापे शरीरपीडायां च नित्येन अनपायेन कामेन । कलुषीकृतः व्याकुलचित्तोस्मि ॥ १८ ॥
सा तु सम्वत्सरं कालं मामयाचत भामिनी ।
प्रतीक्षमाणा भर्तारं राममायतलोचना ।। १९ ।।
यद्येवं सा प्रसह्यापि शय्यामारोप्यतां तत्राह – सा त्विति ॥ संवत्सरं कालं संवत्सररूपं कालं । संवत्सराभ्यन्तरे रामो यदि नागतः तदा तथा करिष्यामीत्ययाचतेत्यर्थः । इदं चारोप्योक्तं । वस्तुतो रावणेनैव तथा प्रतिज्ञानादिति भावः ॥ १९ ॥
तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम् ।
श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ।। २० ।।
चारुनेत्राया इति प्रतिश्रवणहेतुः । नयनसौन्दर्यपारवश्येन तद्वचनमङ्गीकृतवानस्मीतिभावः । अध्वनि दीर्घमार्गे ॥ २० ॥
कथं सागरमक्षोभ्यमुत्तरिष्यन्ति वनौकसः ।
बहुसत्त्वझषाकीर्णम् तौ वा दशरथात्मजौ ।। २१ ।।
कथमेनामुपलप्स्यसे तामुपनेतुमुपागते सपरिकरेदाशरथावित्यत आह – कथमिति ॥ उत्तरन्ति उत्तरिष्यन्ति । सत्त्वानि झषव्यतिरिक्तजन्तवः ॥ २१ ॥
अथवा कपिनैकेन कृतं नः कदनं महत् ।
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामतिः ।। २२ ।।
तर्हि किमिदानीं विचार्यं तत्राह — अथवेति ॥ यस्य यथा मतिः तथा ब्रूतेत्यर्थः ॥ २२ ॥
मानुषान्मे भयं नास्ति तथापि तु विमृश्यताम् ।
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान्हरीन् ॥ २३ ॥
विभीषणमतव्यावृत्यर्थं स्वमतमाह – मानुषादिति ॥ सपादश्लोकमेकं वाक्यं । मानुषात् भयाभावे हेतुमाह -तदेति । अजयमिति च्छेदः । लङुत्तमैकवचनं । इन्द्रं जितवतो मे मनुष्य: कियानितिभावः । ते मे भवन्तश्च तथा । ते देवासुरे युद्धे जेतारो भवन्तः । तथा सहायभूताः । वर्तन्त इत्यर्थः । सुग्रीवप्रमुखान्हरीनित्युत्तरशेषः ॥ २३ ॥
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।
सीतायाः पदवीं प्राप्तौ सम्प्राप्तौ वरुणालयम् ॥ २४ ॥
प्राप्तौ ज्ञातवन्तौ । वरुणालयं समुद्रं संप्राप्तौ । प्राप्नुतां नाम का नः क्षतिरितिभावः ॥ २४ ॥
अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥ २५ ॥
विमृश्यतामित्युक्तं विमर्शप्रकारं दर्शयति- अदेयेति ॥ मत्रो मन्त्र्यतां मन्त्रः क्रियतामित्यर्थः । सुनीतं सुनिश्चितं ॥ २५ ॥
न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
सागरं वानरैस्तीर्त्वा विश्चयेन जयो मम ॥ २६ ॥
मा भूद्रामस्य समुद्रतरणे तव जये वा शक्तिः तत्सहायस्यान्यस्य कस्यचित्स्यात्तत्राह – नहीति ॥ वानरैः सह सागरं तीर्त्वा । आगन्तुमिति शेष: । रामादन्यस्य शक्ति न पश्यामि । अतो मम निश्चयेन जय इत्यन्वयः ॥ २६ ॥
तस्य कामपरीतस्य निशम्य परिदेवितम् ।
कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ २७ ॥
[संप्रधार्यैव तत्कार्यं करणीयं त्वया विभो ।
संप्रधार्य सहामात्यैः पूर्वमेव यथातथम्] ।। २८ ।।
कामपरीतस्य कामेन विपरीतस्य । कामातुरतया विपरीतबुद्धेरित्यर्थः । परिदेवितं परिदेवनं । तद्वदसंगतभाषणमित्यर्थः ॥ २७ – २८ ॥
यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु पा इहाऽहृता ।
सकृत्समीक्षैव सुनिश्चितं तदा भजेत चित्तम् यमुनेव यामुनम् ॥ २९ ।।
मन्त्रिभिर्हितसंयुक्तै: समर्थैर्मन्त्रनिर्णये । सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत् इत्युक्तोत्तममन्त्रयितृभावे एकोर्थं विमृशन्नेको धर्मे प्रकुरुते मनः । एकः कार्याणि कुरुते तमाहुर्मध्यमं नरं इत्युक्तमध्यममन्त्रयितृभावेपि नावस्थितोसीत्याह—यदेति ॥ यदा सकृत्समीक्ष्यैव स्वयमेव विचार्य । रामस्य सीता इहाहृता तदैव चित्तं कर्तृयमुना यामुनं पर्वतमिव सुनिश्चितं सुनिश्चयम् भजेत खलु । स एवास्माभिः सह विचारकालः । इदानीं विचारणं गते जले सेतुबन्धनमिति भावः ।। २९ ।।
सर्वमेतन्महाराज कृतमप्रतिमं तव ।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ ३० ।।
तदा कृते किं स्यादित्यत्राह – सर्वमिति ॥ कृतमिति कर्मणि निष्ठा । एतत्कृतं सर्वं मन्त्रकर्म । अस्य कर्मण: सीताहरणरूपस्य । आदावेव यदि विधीयेत तदा अप्रतिमं समञ्जसं स्यादित्यर्थः ॥ ३० ॥
न्यायेन राजकार्याणि यः करोति दशानन ।
न स संतप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥ ३१
आदौ विचार्य कृतस्य साफल्यप्रदर्शनपुर: सरमविचार्यकृतस्य फलवैपरीत्यं दर्शयति लोकद्वयेन – न्यायेनेति ॥ न्यायेन विचारणेन ॥ ३१ ॥
अनुपायेन कर्माणि विपरीतानि यानि च ।
क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विव ॥ ३२ ॥
अनुपायेन क्रियमाणानि कर्माणि विपरीतानि विपर्यस्तानि यानि तानि च दुष्यन्ति दोषवन्ति च भवन्ति । न केवलं निष्फलानि प्रत्युतानर्थकराण्यपिभवन्तीत्यर्थः । अप्रयतेषु अशुचिषु अपात्रेषु । दीयमानानीति शेषः ॥ ३२ ॥
यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥ ३३ ।।
अकालकृतं मन्त्रकरणमनुचितमित्याह – य इति ॥ पूर्वकार्याणि पूर्वं कर्तव्यानि मन्त्रकर्माणि । अपरकार्याणि उत्तरकालकर्तव्य कर्मारम्भान् । पूर्वं मन्त्रविचारात्पूर्वं ॥ ३३ ॥
चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम् ।
क्षिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ ३४ ।।
इदानीमसमीक्ष्यकारिणो बलमपि निरर्थकमित्याह – चपलस्येति ॥ यद्वा प्राप्तामध्यनीतिं बलेन समीकरिष्यामीत्यत्राह – चपलस्येति ॥ कृत्येषु क्षिप्रं चपलस्य असमीक्ष्यकारिणः । बलमधिकमाभिमुख्येन जेतुमशक्यम् । समीक्ष्य विचार्य । अन्ये शत्रवः । खं रन्ध्रम् प्रपद्यन्ते । असमीक्ष्यकरणरूपा वसरं लब्ध्वा अभिभवन्तीत्यर्थ: । द्विजा: हंसाः । अलङ्घ्यस्यक्रौञ्चस्य क्रौञ्चाख्यपर्वतस्य । लङ्घनाय खं रन्धंयथाप्रपद्यन्ते तद्वदित्यर्थः । क्रौञ्चस्यौन्नत्येनालङ्ध्यत्वात् । सुब्रह्मण्यशक्तिविदारणकृतरन्ध्रेण हंसास्तमतिक्रम्य गच्छन्तीति प्रसिद्धिः ॥ ३४ ॥
त्वयेदं महदारब्धं कार्य मप्रतिचिन्तितम् ।
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामिषम् ॥ ३५ ।।
सापायं च त्वत्कृतं कर्मेत्याह–त्वयेति ॥ महत् दुष्करं । सापायमित्यर्थः । अप्रतिचिन्तितं अनालोचितं । इदं सीताहरणरूपंकार्यं । सापायत्वमेवाह – दिष्ट्येति ॥ ३५ ॥
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमं परैः ।
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तवानघ ॥ ३६ ।।
सर्वमेतन्महाराजेत्युपक्रम्योक्तमुपसंहरति तस्मादिति ॥ तर्हि का गतिरित्यपेक्षायां मयि जीवति कस्ते भार इत्याह — अमिति । अनघेति । त्वं तु निर्व्यसनोभवेत्यर्थः । समीकरिष्यामि नीत्यनीती तुल्ये करिष्यामीत्यर्थः ॥ ३६ ॥
अहमुत्सादयिष्यामि शत्रूम्स्तव विशांपते ।
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ।
तावहं योधयिष्यामि कुबेरवरुणावपि ।। ३७ ।।
तदेवाह – अहमिति सार्घश्लोकः ॥ विशांपते प्रजानां पते । अतिमानुषवैभवौ तौ कथं जय्यौ तत्राह — यदीति । तौ दशरथामजौ । शक्रविवस्वन्तौ यदि स्यातां तथापीत्यर्थः ।। ३७ ।।
गिरिमात्रशरीरस्य महापरिघयोधिनः ।
नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभियाद्वै पुरन्दरः ।। ३८ ।।
स्वस्य योधनसामर्थ्य विशेषं दर्शयति – गिरीति ॥ गिरिमात्रशरीरस्य गिरिप्रमाणदेहस्य । प्रमाणे द्वयसचूदन्घन्मात्र च इति मात्रच्प्रत्ययः । पञ्चम्यर्थे षष्ठी ॥ ३८ ॥
पुनर्मां स द्वितीयेन शरेण निहनिष्यति ।
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।। ३९ ।।
शरवर्षिणो रामस्य पुरतः कथं स्थातुं शक्तस्तत्राह- पुनरिति ॥ सः रामः । पुनर्मां प्रथममेकेन शरेण निहत्य पुनरपि द्वितीयेन शरेण मां हनिष्यति । ततः तावदेवेयर्थः । अत्राश्लीलमपि ध्वन्यते । मां द्वितीयेन शरेणावश्यंनिहनिष्यति । तस्य रामस्य । ततः तस्माद्धननात् । कर्तरिषष्ठी । रुधिरं स्वरुधिरं । पास्यामि । कामं अत्यर्थं । आश्वस निश्वसेति ॥ ३९ ॥
वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये ।
हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् ॥ ४० ॥
आत्मानमरक्षन्परघातीवीरो न श्लाघ्य इति न्यायेन परवत्स्वस्यापि वधे न कोप्यतिशय इत्यत्राह -वधेनेति ॥ अत्राप्यर्थान्तरं । वधेन स्वविनाशेन । दाशरथे: सुखावहं जयं तव सकाशादाहर्तुं यतिष्ये । रामं हत्वा रामं गत्वा । इन हिंसागत्यो : इति धातुः । खादामि किं जीवामि किमिति काकुरनुसन्धेया ॥ ४० ॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्वाणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ ४१ ॥
रमस्वेति । अत्राप्यर्थान्तरं । मया रामे विषये अक्षयं यथा भवति तथा गमिता प्रापिता सीता रामस्य वशगा भविष्यति । रमस्खेत्यादौ काकुः ॥ ४१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः ॥ १२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वादशः सर्गः ॥ १२ ।।