श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरशीतितमः सर्गः
रामसमीपमुपागतवता लक्ष्मणमुखाद्रामशोककारणमवगतवताचविभीषणेन रामंप्रति इन्द्रजिन्निहतसीतायामायामयत्वोक्त्या समाश्वासनम् ॥ १ ॥ तथेन्द्रजिता निकुंभिलायांहोमारं -भस्य होमसमाप्तौतस्यदुर्जयत्वस्यच निवेदनेन तद्वधाय लक्ष्मणप्रेषणप्रार्थना ॥ २ ॥
राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले ।
निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः ॥ १ ॥
नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः ।
नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ॥ २ ॥
अथेन्द्रजिद्वधोपायदर्शनं – राममाश्वासयान इत्यादि ।। आश्वासयाने आश्वासयमाने । आगमशासनस्यानित्यत्वान्मुगभावः । अनेन पूर्वोक्तवादा भ्रातृवात्सल्यात्तदाश्वासनार्था नतु परमार्था इत्युक्तं । पूर्वोक्तयुक्तिपरिहारस्तु, हैतुकान्बकवृत्तींश्च वाड्मात्रेणापि नार्चयेत् इति मनूक्तरीत्या प्रेक्षणीयः । गुल्मान् सेनासन्निवेशान् । स्वस्थाने स्वकार्यकरणार्थं ॥ १-२ ॥
सोभिगम्य महात्मानं राघवं शोकलालसम् ।
वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥ ३ ॥
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् ।
ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमासितम् ॥ ४ ॥
सोभिगम्येति । अत्र राघवपदं लक्ष्मणपरं । उत्तरश्लोके रामदर्शनस्य वक्ष्यमाणत्वात् । ददृशे ददर्श ॥ ३-४ ॥
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः ।
अन्तर्दुःखेन दीनात्मा किमेतदिति सोब्रवीत् ॥ ५ ॥
सः विभीषण: रामं दृष्ट्वा दीनात्मा दीनमनस्कःसन् । अन्तर्दुःखेन अबहि: प्रकटितदु:खविकारेण उपलक्षितःसन् अब्रवीत् ॥ ५ ॥
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् ।
लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥ ६॥
हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः ।
हनुमद्वचनात्सौम्य ततो मोहमुपागतः ॥ ७ ॥
लक्ष्मणोवाचेत्यत्र छान्दसः सुलोपः । मन्दार्थं अल्पार्थं संगृहीतार्थमित्यर्थः ॥ ६-७ ॥
कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः ।
[पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् ॥ ८ ॥]
मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता ।
तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ ९ ॥
कथयन्तमित्यर्धं ॥ मध्ये निवारणोक्तिः सर्वस्य वृत्तान्तस्य स्वेनावगतत्वात् । विभीषणः उवाचेति शेषः ॥ ८-९ ॥
अभिप्रायं तु जानामि रावणस्य दुरात्मनः ।
सीतां प्रति महाबाहो न च घातं करिष्यति ॥ १० ॥
करिष्यति । रावण इति शेषः ॥ १० ॥
याच्यमानस्तु बहुशो मया हितचिकीर्षुणा ।
वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥ ११ ॥
तत्र हेतुमाह-याच्यमान इत्यादिना ॥ ११ ॥
नैव साम्ना न दानेन न भेदेन कुतो युधा ।
सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ।। १२ ।।
सा साम्रा द्रष्टुमपि नैव शक्येत । दानेनापि द्रष्टुं न शक्येत । भेदेनापि द्रष्टुं न शक्येत । युधा दण्डेन कुतो द्रष्टुमपि शक्येत । अन्येन मायोपायेन केनचिद्रष्टुमपि नैव शक्येत ॥ १२ ॥
[ मायामयीं महाबाहो तां विद्धि जनकात्मजाम् ॥ ]
वानरान्मोहयित्वा तु प्रतियातः स राक्षसः ॥
चैत्यं निकुंम्भिलां नाम यत्र होमं करिष्यति ॥ १३ ॥
हुतवानुपयातो हि देवैरपि सवासवैः ।
दुराधर्षो भवत्येव सङ्ग्रामे रावणात्मजः ॥ १४ ॥
कथं तर्हिन्द्रजिता हतेत्याशङ्क्य मायेयमित्याह – वानरानित्यादिना ॥ मोहयित्वा । लङ्कायां स्वव्यतिरिक्तस्य योद्धुरभावात् स्वस्मिन्कर्मव्याकुले वानराः प्रहरेयुः यज्ञश्च विच्छिद्येत । विच्छिन्ने च तस्मिन् ब्रह्मवरानुसारेण स्वस्य विनाशो भविष्यतीति मत्वा वञ्चनमितिभावः ॥ १३-१४ ॥
तेन मोहयता नूनमेषा माया प्रयोजिता ।
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ॥ १५ ॥
अन्विच्छता चिन्तयता ॥ १५ ॥
ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ।
त्येजेमं नरशार्दूल मिथ्या सन्तापमागतम् ।
सीदते हि बलं सर्वे दृष्ट्वा त्वां शोककर्शितम् ॥ १६ ॥
तत् होमरूपं कर्म ॥ १६ ॥
इह त्वं स्वस्थहृदयस्तिष्ठ सत्वसमुच्छ्रितः ।
लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥ १७ ॥
सैन्यानुकर्षिभिः सैन्यपालैः ॥ १७ ॥
एष तं नरशार्दूलो रावणिं निशितैः शरैः ।
त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ १८ ॥
तत्कर्म होमकर्म । णिजन्तत्वाद्विकर्मकत्वं ॥ १८ ॥
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः ।
पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥ १९ ॥
तं सन्दिश महाबाहो लक्ष्मणं शुभलक्षणम् ।
राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥ २० ॥
एते लक्षणीयाः । पत्रिपन्त्राणि पक्षिपक्षाः, तेषामङ्गानि बर्हाणि, तैः वाजिनः वेगवन्तः ।। १९ – २० ।।
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् ।
त्वमतिसृज रिपोर्वधाय वाणीममररिपोर्मथने यथा महेन्द्रः ॥ २१ ॥
समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृश्यः समरे सुरासुरैः ।
युयुत्सता तेन समाप्तकर्मणा भवेत्सुराणामपि संशयो महान् ॥ २२ ॥
यद्यस्मात्कारणात् रिपुनिधनं प्रति कालविप्रकर्षः कालविलम्ब: । अद्य कर्तुं न क्षमः । तत्तस्मात् । त्वं रिपुवधाय वाणीमतिसृज । आज्ञापयेत्यर्थः । यथा महेन्द्र इत्यापन्मात्रेदृष्टान्तः ॥ २१ – २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धंकाण्डव्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥