श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः
शुकसारणकृतशत्रुपक्षप्रशंसनमसहमानेनरावणेन सभर्त्सनं तद्विसर्जनपूर्वकं यथावच्छयनासनादिरामाचरणावगमाय शार्दूलादिचारवरप्रेषणम् ॥ १ ॥ वेषान्तरधारणेनवानर सेनामध्यप्रविष्टैर्विभीषणदृष्टनिवेदितैर्वानरमुष्टिपिष्टैः कृपयारामविमोचितैः शार्दूलादिभिः पुनारावणसमीपगमनम् ॥ २ ॥
शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् ।
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ।। १ ।।
लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् ।
सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ।। २ ।।
[गजं गवाक्षं गवयं मैन्दं द्विविदमेव च ।
अङ्गदं चैव बलिनं वज्रहस्तात्मजात्मजम् ।। ३ ।।
हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् ।
सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम् ।। ४ ।।]
किंचिदाविग्नहृदयो जातक्रोधश्च रावणः ।
भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ।। ५ ।।
अथ रावणेन चारप्रेषणादिप्रतिपाद्यत एकोनत्रिंशे – शुकेनेत्यादिश्लोकत्रयं सर्ववानरराजंचेत्यत्र चकारो हनुमदादिसमुच्चयार्थ: । आविग्नहृदय: भीतहृदयः । तथापि जातक्रोधः परस्तवाकर्णनेन कुपित इत्यर्थः । कथान्ते वचनान्ते ॥ १ – ५ ॥
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ ।
रोषगद्गदया वाचा संरब्धः परुषं वचः ।। ६ ।।
रोषगद्गदया कोपस्स्वलितया । संरब्धः कुपितः ।। ६ ।।
न तावत्सदृशं नाम सचिवैरुपजीविभिः ।
विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः ।। ७ ।।
तावत् प्रथमतः । निग्रहप्रप्रहे निग्रहानुग्रहयोः । प्रभोः शक्तस्य । नृपतेः विप्रियं वक्तुं न सदृशं नाम । नामेति नीतिशास्त्रप्रसिद्धिः ॥ ७ ॥
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् ।
उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ।। ८ ।।
विप्रियपदोक्तं विशयति रिपूणामिति ॥ अभिवर्ततां अभिवर्तमानानां । अप्रस्तवे अनवसरे । स्तवं वक्तुं सदृशं नाम सदृशं किमु । युद्धारम्भसमयो हि परस्तुत्यनर्ह इति भावः ॥ ८ ॥
आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः ।
सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते ।
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्यते ।। ९ ।।
यद्यस्मात् राजशास्त्राणां सारं प्रतिपाद्यसारभूतं । अनुजीव्यं अनुजीविकृत्यं । न गृह्यते न ज्ञायते । अतः वां युवाभ्यां गुरवः महान्तः । वृद्धाः ज्ञानवयश्शीलसंपन्नाः । आचार्या: नीतिशास्त्रोपदेष्टारः । वृथा पर्युपासिताः । तदुपासनफलादर्शनान्निरर्थकमाराधिताइत्यर्थः । ननु चिरोपासितगुरोरज्ञानं नसाम्प्रतं तत्राह – गृहीतो वेति । गृहीतोवार्थः । न विज्ञातः न विशेषेण ज्ञातः । विस्मृत इत्यर्थः । तर्हि कथं ज्ञातृत्वप्रवाद इत्यत्राह – भार इति । ज्ञानस्य भारः ऊह्यते वा । जातमपि ज्ञानं नानुष्ठानपर्यवसायीत्यर्थः । यद्वा ज्ञानस्य भार ऊह्यते । ज्ञानभारभरणाभिमान एव क्रियते न तु तत्कार्यमित्यर्थः ॥ ९ ॥
ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ।। १० ।।
आवयोरज्ञत्वे कथमेतावत्पर्यन्तमस्मन्मत्यनुसारेण तव राज्यभरणं तत्राह — ईदृशैरिति ॥ ईदृशैः एवं नीतिशास्त्रलेशानभिज्ञैरित्यर्थः । धरामि राज्यमिति शेषः । धृञ् धारणे इति भौवादिको धातुः । धरामि जीवामीति वा ॥ १० ॥
किं नु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः ।
यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ।। ११ ।।
मां परुषं वचो वक्तं युवयोर्मृत्योः सकाशात् भयं नास्ति किंतु । वक्तुं उद्यतयोर्युवयोरिति शेष इत्यप्याहु: । परुषोक्तिमात्रे कुतो मृत्युरित्यत्राह – यस्येति । शासतो मे जिह्वैव शुभाशुभं प्रयच्छति । शासने प्रवृत्तस्य मे जिह्वाचलनमेव मृत्युं श्रेयो वा प्रयच्छतीत्यर्थः ॥ ११ ॥
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः ।
राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ।। १२ ।।
राजदोषः राजकोपः । दहनस्पृष्टवनपादपस्थितिसंभवादप्यसंभाविता राजदोषस्पृष्टजन -स्थितिरिति भावः । तिष्ठन्ते तिष्ठन्ति ॥ १२ ॥
हन्यामहं त्विमौ पापौ शत्रुपक्षप्रशंसकौ ।
यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् ।। १३ ।।
स्वमनः प्रत्याह- हन्यामिति ॥ १३ ॥
अपध्वंसत गच्छध्वं संनिकर्षादितो मम ।
न हि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम् ।।१४ ।।
अपध्वंसत स्थानात्प्रच्यवध्वं । परस्मैपदं बहुवचनं चार्षं । गच्छध्वं गच्छत । सन्निकर्षात् दृष्टिविषयात् ॥ १४ ॥
हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ ।। १५ ।।
हतावित्यर्धं ॥ कृतघ्नत्वस्नेहपराङ्मुखत्वे एव तयोर्वधइति भावः ॥ १५ ॥
एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ ।
रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ ।। १६ ।।
प्रतिनन्द्य प्रशस्य । अभिनिस्तृतौ निर्गतौ ।। १६ ।।
अब्रवीत्तु दशग्रीवः समीपस्थं महोदरम् ।
उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् ।
महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ।। १७ ।।
ततश्चराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात् ।
उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ।। १८ ।।
चारानुपस्थापयेत्यब्रवीदित्यन्वयः ॥ १७-१८ ॥
तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः ।
चारान्प्रत्ययिताञ्शूरान्भक्तान्विगतसाध्वसान् ।। १९ ।।
प्रत्यय एव प्रत्याय: तं प्राप्ताः प्रत्यायिताः तान् । विश्वसनीयानित्यर्थः । विगतसाध्वसान् विगतशत्रुभयान् ॥ १९ ॥
इतो गच्छत रामस्य व्यवसायं परीक्षथ ।
मन्त्रिष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ।। २० ।।
व्यवसायं कर्तव्यनिश्चयं । परीक्षथ परीक्षध्वं । शिथिलव्यवसायश्चेदमुं भीषयाम इति भावः । अस्य रामस्य मन्त्रिषु ये अभ्यन्तराः । अन्तरङ्गभूता इत्यर्थः । तेन रामेण प्रीत्या सङ्गताः । मित्रभूता इत्यर्थः । तानपि परीक्षध्वं । तच्छैथिल्ये तान् भेत्स्याम इत्याशयः ॥ २० ॥
कथं स्वपिति जागर्ति किमन्यच्च करिष्यति ।
विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ।। २१ ।।
कथं स्वपिति किमेक: स्वपिति उत जाग्रद्भिरनेकैरावृतः स्वपिति । आद्ये सुप्ते युद्धं प्रवर्तयिष्याम इति हृदयं । कथंजागर्ति किं चिन्ताकुल: उतानाकुल इत्यर्थ: । आद्ये व्याक्षिप्तं प्रहरिष्यामीत्याकूतं । किमन्यच्च करिष्यति । किं कंचित्कालंविलम्ब्य नगरमुपरोत्स्यति उत सद्य इति । आद्ये क्रमेण वञ्चयिष्यामीति तात्पर्यं । निपुणं प्रच्छन्नमिति यावत् । क्रियाविशेषणमिदं । सर्वं उक्तं स्वापादिकं । अशेषतः सर्वप्रकारेण विज्ञायागन्तव्यं । अशेषतः अशेषैश्चारैरिति वार्थः । अशेषत इत्युत्तरशेषो वा ॥२१॥
चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः ।
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ।। २२ ।।
उक्तमाशयं विवृणोति – चारेणेति ॥ पण्डितैः निपुणैः । वसुधाधिपैः । चारेण चारद्वारेण । अशेषतो विदितः शत्रुः युद्धे स्वल्पेन यत्नेन समासाद्यं निरस्यते ॥ २२ ॥
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् ।
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ।। २३ ।।
चारा: शार्दूलमग्रतः कृत्वा प्रधानीकृत्य । राक्षसेश्वरं रावणं । प्रदक्षिणं चक्रुः ॥ २३ ॥
ततस्ते तं महात्मानं चारा राक्षससत्तमम् ।
कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ।। २४ ।।
कृत्वा प्रदक्षिणमित्यनुवादो मध्ये विलम्बाभावद्योतनार्थं ॥ २४ ॥
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ ।
प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ।। २५ ।।
प्रच्छन्ना: वेषान्तरधारिणः ॥ २५ ॥
प्रेक्षमाणाश्चमूं तां च बभूवुर्भय विक्लिबाः ।
ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ।। २६ ।।
भयविक्लबा: भयेन दीनाः । धर्मात्मना राक्षसेन्द्रेण विभीषणेनेत्यर्थः ।। २६ ।।
विभीषणेन तत्रस्था निगृहीता यदृच्छया ।
शार्दूलो ग्राहितस्त्वेकः पापोयमिति राक्षसः ।। २७ ।।
निगृहीताः तर्जिताइत्यर्थः । ग्राहितः ग्रहणं प्रापितः ॥ २७ ॥
मोचितः सोपि रामेण वध्यमानः प्लवङ्गमैः ।
आनृशंस्येन रामस्य मोचिता राक्षसाः परे ।। २८ ।।
मोचितः प्रहारादितिशेषः ॥ २८ ॥
वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः ।
पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ।। ३९ ।।
अर्दिताः पीडिताः । विक्रान्तैरित्यत्र विक्रममात्रोक्तेर्लघुविक्रमैरित्यत्र जवमात्रं विक्रमस्य विशेष्यते ॥ २९ ॥
ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः ।
गिरेः सुवेलस्य समीपवासिनं न्यवेदयन्भीमबलं महाबलाः ।। ३० ।।
बहिर्नित्यचराः परराष्ट्रेषु वृत्तान्तज्ञानाय सदा संचारशीलाः । समीपवासिनमिति पुंस्त्वमार्षं ॥ ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥