श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः
शुकेनरावणंप्रति सारणानुक्तानांहनुमदादिवानरवीराणां रामलक्ष्मणादीनांच प्रभावादिप्रशंसनपूर्वकं पृथङ्गामनिर्देशन प्रदर्शनम् ॥ १ ॥ तथा लक्षकोढ्यादिसर्वसंख्यालक्षणकथनपूर्वकं वानरसेनासु तावसंख्या पर्याप्तिनिवेदनम् ॥ २ ॥
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् ।
बलमालोकयन्सर्वं शुको वाक्यमथाब्रवीत् ।। १ ।।
एवं सारणेनोक्तं श्रुत्वाशुकस्तेन कार्त्स्न्येनानुक्ते: स्वयं तत्सर्वं दर्शयत्यष्टाविंशे सर्गे-सारणस्येति ॥ शुकः सारणस्य वचः श्रुत्वा तेन कार्त्स्न्येनानुक्तेः स्वयं तत्सर्वं बलं आदिश्य अङ्गुल्या निर्दिश्य । रावणं । अथ कार्त्स्न्येन । अब्रवीत् । मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ इत्यमरः । सविनयोक्तिद्योतनाय राक्षसाधिपमित्युक्तं ॥ १ ॥
स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् ।
न्यग्रोधानिव गाङ्गेयान्सालान्हैमवतीनिव ।। २ ।।
न्यग्रोधान् वटान् । गाङ्गेयान् गङ्गातटरुहान् । हैमवतान् हिमवत्पर्वतोद्भवान् ॥ २ ॥
एते दुष्प्रसहा राजन्बलिनः कामरूपिणः ।
दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ।। ३ ।।
दैत्यदानवसंकाशा: दैत्यदानवतुल्यबलाः ॥ ३ ॥
एषां कोटिसहस्राणि नव पञ्चच सप्त च ।
तथा शङ्खसहस्राणि तथा वृन्दशतानि च ।। ४ ।।
शङ्खबृन्दादिस्वरूपमुत्तरत्र स्वयमेव वक्ष्यति । वृन्दशतादिसंख्याः सन्तीति शेषः ॥ ४ ॥
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा ।
हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ।। ५ ।।
सुग्रीवसचिवाः सुग्रीवसहायाः । सहायः सचिवः इत्यमरः । देवगन्धर्वैः देषेभ्योगन्धर्वेभ्यश्चेत्यर्थः । उत्पन्नाः कामरूपिणइति कामरूपित्वेनोत्पन्ना इत्यर्थः । पूर्वं कामरूपित्वमुक्तं तस्येदानीमौत्पत्तिकत्वमुच्यत इति न पुनरुक्तिः ॥ ५ ॥
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ ।
मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ।। ६ ।।
कुमारौ युवानौ । देवेति रावणंप्रति संबुद्धिः । रूपिणौ प्रशस्तरूपौ । प्रशंसायां मत्वर्थीय इनिप्रत्ययः । यौ पश्यसि तौ मैन्दश्च द्विविदश्चेत्युच्येते इत्यर्थः ॥ ६ ॥
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ ।
आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा ।। ७ ।।
[यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ ।
सुमुखोविमुखश्चैव मृत्युपुत्रौ पितुः समौ ।
प्रेक्षन्तौ नगरीं लङ्कां कोटिभिर्दशभिर्वृतौ] ।। ८ ।।
युधि ताभ्यां समो नास्तीत्यत्र हेतुं दर्शयति- ब्रह्मणेति ॥ समनुज्ञातौ सन्तौ अमृतप्राशिनावित्यर्थः ॥ ७-८ ॥
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् ।
यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः ।। ९ ।।
हनुमन्तं वर्णयति—यं त्वित्यादिना ॥ प्रभिन्नं मत्तं । प्रभिन्नो गर्जितो मत्तः इत्यमरः ॥ ९ ॥
एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो ।
एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ।। १० ।।
अभिगन्तेति । वैदेहीपक्षे अभिगमनं अन्वेषणं । रावणपक्षे दर्शनं ॥ १० ॥
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ।
हनूमानिति विख्यातो लङ्घितो येन सागरः ।। ११ ।।
ज्येष्ठ इति । अत्र एष इत्यध्याहार्यं । केसरिणः पुत्रः तस्य क्षेत्रजः पुत्रः ॥ ११ ॥
कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः ।
अनिवार्यगतिश्चैव यथा सततगः प्रभुः ।। १२ ।।
बलरूपसमन्वितः प्रशस्तबलसमन्वितः । प्रशंसायां रूपपू प्रत्ययः । यथा सततगः । सततग इव । सततगः वायुः ॥ १२ ॥
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः ।
त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ।। १३ ।।
बाल: बाल्यावस्थः । किलेत्यैतिह्ये । पिपासितः स्तन्यापेक्षः । क्षुधित इति यावत् । त्रियोजनसहस्रं त्रियोजनसहस्रपरिमाणं । द्विगोर्नित्यं इति प्रमाणप्रत्ययस्य लुक् । हनुमत्पितुः केसरिणः कनकाचलवासित्वात्तस्य चात्युन्नतत्वादादित्यस्य तच्छिखरस्य च मध्यमाद्वा त्रिसहस्रयोजनपरिमित इत्युक्तं । अतएव अवतीर्येत्युक्तं नतूत्पत्येति । यद्वा आदित्यस्य भूमेरुपरि लक्षयोजनान्तरत्वात् त्रियोजनसहस्रमित्येतदनेकसहस्रोपलक्षणं ॥ १३ ॥
आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ।
इति सञ्चिन्त्य मनसा पुरैष बलदर्पितः ।। १४ ।।
आहरिष्यामि भक्षयिष्यामि इति संचिन्त्य मनसा पुरैष बलदर्पितः इत्यनन्तरं त्रियोजनसहस्रमित्यर्धं योज्यं ॥ १४ ॥
अनाधृष्यतमं देवमपि देवर्षिदानवैः ।
अनासाद्यैव पतितो भास्करोदयने गिरौ ।। १५ ।।
पतितस्य कपेरस्य हनुरेका शिलातले ।
किंचिद्भिन्ना दृढहनोर्हनूमानेष तेन वै ।। १६ ।।
देवं सूर्य । भास्कर उदयतेऽस्मिन्निति भास्करोदयनः तस्मिन्गिरौ । हनुः तालुप्रदेशः । अनासाद्येत्यत्र तत्तेजसेत्युपस्कार्यं । तेजसा तस्य निर्धूत इति किष्किन्धाकाण्डोक्तेः । यद्यप्युत्तरकाण्डे इन्द्रवज्रेण पतनमुक्तं । तथापि तदपि हेत्वन्तरमिति ज्ञेयं ॥ १५- १६ ॥
सत्यमागमयोगेन ममैष विदितो हरिः ।
नास्य शक्यं बलं रूपं प्रभावो वापि भाषितुम् ।। १७ ।।
एष आशंसते लङ्कामेको मर्दितुमोजसा ।
[येन जाज्वल्यतेसौ वै धूमकेतुस्तवाद्य वै ।
लङ्कायां निहिताश्चापि कथं विस्मरते कपिम्] ।। १८ ।।
कथमियं कथा त्वया विदितेत्यत्राह – सत्यमिति ॥ आगम: आप्तवाक्यं तदेव योग उपाय: तेन । यद्वा आप्तवाक्यश्रवणेन मम मया रूपं वपुः भाषितुं न शक्यं । कामरूपदर्शनादितिभावः ॥ १७-१८ ॥
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः ।
इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः ।। १९ ।।
अथ रामं वर्णयति – यश्चैष इत्यादिना ॥ अनन्तरः अन्तरं अवकाशः तद्रहितः । स्कन्धारूढत्वेन पूर्वोक्तहनुमतोत्यन्तसन्निहितइत्यर्थः । शूरः हनुमदारूढत्वेन प्रकटितशौर्यः । श्यामः कनकमयशिखरारूढ कालाम्बुदकमनीयविग्रहः । पद्मनिभेक्षण: दिव्यवि- ग्रहमहातटाकस्थविकसितकमललोभनीयविलोचनः । अनरण्यादिवयं न मन्तव्यः । किंत्विक्ष्वाकूणां मध्ये अतिरथः अतिशयितरथः । अपराजितरथइत्यर्थः । अत्र न वयमेव प्रमाणं । लोके विख्यातपौरुषः खरवधादिना ख्यातं भवद्वैरिवालिवधेन विशेषेण ख्यातं पौरुषं यस्य तथोक्तः ॥ १९ ॥
यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते ।
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ।। २० ।।
न केवलं पौरुषं धर्मोप्यस्यैव स्वमित्याह – यस्मिन्निति ॥ यस्मिन्धर्मो न चलति जाबालिप्रभृतिभिराकुलितोप्यप्रकम्पितः यो धर्मं नातिवर्तते भरतसीतादिभिः कृतेपि प्रतिबन्धे पितृवचनमुनिप्रतिज्ञाधर्मं नातिवर्तते । खरयुद्धेऽपसर्पण बाणपातावकाशलाभार्थं । छद्मना वालिवधस्त्वन्यथानुपपत्त्यावश्यमाश्रितविषयप्रतिज्ञाया निर्वोढव्यतया च । न केवलं पौरुषधर्मो अस्रबलं चास्यैवेत्याह –य इति । ब्राह्ममस्त्रं ब्रह्मास्त्रमन्त्रं । वेदांश्च वेद जानाति । ब्रह्मास्त्रमन्त्रस्य वेदान्तर्गतत्वेपि प्राधान्यात्पृथगुक्तिः । वेदविदां वेदार्थविदां वरः उपदेष्टृभ्यो वसिष्ठादिभ्योप्युत्कृष्टः ॥ २० ॥
यो भिन्द्याद्गगनं बाणैः पर्वतानपि दारयेत् ।
यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ।। २१ ।।
उक्तं पौरुषमेव प्रपञ्चयति — यो भिन्द्यादित्यादि । गगनं गगस्थविमानादि । आदिशब्देन पातालादिकमुच्यते ॥ २१ ॥
यस्य भार्या जनस्थानात्सीता चापहृता त्वया ।
स एष रामस्त्वां योद्धुं राजन्समभिवर्तते ।। २२ ।।
संप्रति कोपोद्भवे मूलमाह – यस्य भार्येति ॥ २२ ॥
यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः ।
विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ।। २३ ।।
अथ लक्ष्मणं वर्णयति- यस्यैष इत्यादिना ॥ दक्षिणे रामस्येति शेषः । शुद्धजाम्बूनदप्रभः स्वर्णवर्ण: । ताम्राक्षः त्वद्विषयकोपेनेति भावः ॥ २३ ॥
एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः ।
नये युद्धे च कुशलः सर्वशास्त्रविशारदः ।। २४ ।।
सर्वेति । शास्त्रशब्दो नीतिशास्त्रव्यतिरिक्तपरः २४
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली ।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ।। २५ ।।
न ह्येष राघवस्यार्थे जीवितं परिरक्षति ।
एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ।। २६ ।।
प्राणो बहिश्चर इत्यनेन प्राणसंरक्षकत्वमुच्यते ।। २५–२६ ॥
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति ।
रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः ।। २७ ।।
पक्षं पार्श्वं । रक्षोगणेति । चतुर्णामेव रक्षसां गणतुल्यविक्रमत्वात्तथोक्तं । राजा त्वद्राज्यस्येतिशेषः । अत्र हीति गायत्र्याः षोडशाक्षरं ॥ २७ ॥
श्रीमता राजराजेन लङ्कायामभिषेचितः ।
त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ।। २८ ।।
राजवं कुत इत्यत्राह – श्रीमतेति ॥ श्रीमता अवाप्तसमस्तकामत्वेनलङ्काराज्यान -भिलाषिणेत्यर्थः । राजराजेन विभीषणादिराजत्वानिर्वाहे स्वस्य राजराजत्वं न निर्वहेदिति मन्वानेन । लङ्कायां निमित्ते । लङ्कायां राजेतिवान्वयः ॥ २८ ॥
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् ।
सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ।। २९ ।।
अथ सुग्रीवं वर्णयति—मध्ये रामविभीषणयोर्मध्ये । अचलं निचलं ॥ २९ ॥
तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च ।
यः कपीनतिबभ्राज हिमवानिव पर्वतान् ।। ३० ।।
बुद्ध्या ऊहापोहरूपज्ञानेन । ज्ञानेन शास्त्रजन्यज्ञानेन । अभिजनेन कुलेन । अतिबभ्राज अतिशय्य बभ्राज ॥ ३० ॥
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् ।
दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ।। ३१ ।।
गहनं वनं । दुर्गां । प्राकारादिना दुर्गमां । पर्वतदुर्गस्थां पर्वतरूपदुर्गे स्थितां ॥ ३१ ॥
यस्यैषा काञ्चनी माला शोभते शतपुष्करा ।
कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ।। ३२ ।।
शतपुष्करा शतपद्मा । कान्ता काम्यमाना । लक्ष्मीः वीरलक्ष्मीः । तद्धारणे कदाचिदपि पराजयो न भवतीति सदा वाली तां वहति स्मेति प्रसिद्धिः । तद्धारणादेव हि रामस्तदनभिमुख एव वालिनं हतवान् ॥ ३२ ॥
एतां च मालां तारां च कपिराज्यं च शाश्वतम् ।
सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ।। ३३ ।।
प्रतिपादितः प्रापितः ॥ ३३ ॥
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः ।
शतं कोटिसहस्राणां शङ्ख इत्यभिधीयते ॥ ३४ ॥
शतं शङ्खसहस्राणां महाशङ्ख इति स्मृतः ।
महाशङ्खसहस्राणां शतं बृन्दमिति स्मृतम् ॥ ३५ ॥
शतं बृन्दसहस्राणां महावृन्दमिति स्मृतम् ।
महापद्मसहस्राणां शतं पद्ममिति स्मृतम् ॥ ३६ ॥
शतं पद्मसहस्राणां महापद्ममिति स्मृतम् ।
महापद्मसहस्राणां शतं खर्वमिहोच्यते ॥ ३७ ॥
शतं खर्वसहस्राणां महाखर्वमिति स्मृतम् ।
महाखर्वसहस्राणां समुद्रमभिधीयते ॥ ३८ ॥
शतं समुद्रसाहस्रमोघ इत्यभिधीयते ।
शतमोघसहस्राणां महौष इति विश्रुतः ॥ ३९ ॥
उक्तानुक्तसकलवानरसंख्यां वक्तुं प्रथमतः संख्यामेव दर्शयति – शतमित्यादिना ॥ शतपर्यन्तसंख्यायाः स्फुटत्वात्तदूर्ध्वसंख्या अत्र संकीर्त्यन्ते । शतसहस्राणां लक्षाणां शतं कोटिरित्याहुः ॥ ३४ – ३९ ॥
एवं कोटिसहस्रेण शङ्खानां च शतेन च ।
महाशङ्खसहस्रेण तथा बृन्दशतेन च ॥ ४० ॥
महाबृन्दसहस्रेण तथा पद्मशतेन च ।
महापद्मसहस्रेण तथा खर्वशतेन च ॥ ४१ ॥
एवं कोटिसहस्रेणेत्याद्यवान्तरसंख्याभेदकीर्तनंअवान्तरसेनापति -भेदात् ॥ ४०-४१ ॥
समुद्रेण शतेनैव महौघेन तथैव च ।
एष कोटिमहौघेन समुद्रसदृशेन च ॥ ४२ ॥
समुद्रसदृशेन सागरसदृशेन ॥ ४२ ॥
विभीषणेन सचिवै राक्षसैः परिवारितः ।
सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते ।
महाबलवृतो नित्यं महाबलपराक्रमः ।। ४३ ।।
सचिवैः राक्षसैरुपलक्षितेन विभीषणेन परिवारितः सुग्रीवः त्वामभि त्वांप्रति । युद्धार्थं वर्तते ॥ ४३ ॥
इमां महाराजसमीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् ।
ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ।। ४४ ।।
ज्वलितग्रहोपमां क्रूरग्रहोपमां । यथा ते जयो न स्यात् प्रत्युत परैः पराजय एव स्वात् तथा यत्नः क्रियतामिति ध्वन्यते ॥ ४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥