शरणागतिगद्यम्-श्रुतप्रकाशिकया समेतम्

॥ श्रीः ॥

श्रीमते रामानुजाय नमः

लक्ष्मीपतेर्यतिपतेश्च ढ्यैकधाम्नो योऽसौ पुरा समजनिष्ट जगद्वितार्थम् ।

प्राप्यं प्रकाशयतु नः परमं रहस्यं संवाद एप शरणागतिमन्त्रसारः ॥

श्रीभगवद्रामानुज विरचितं

|| शरणागतिगद्यम् ||

श्रीमत्सुदर्शनसूरिविरचितया श्रुतप्रकाशिकया समेतम्

॥ श्रीमते रामानुजाय नमः ॥

वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥

यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो रामानुजस्य चरणौ शरणम् प्रपद्ये ॥

भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकाति- शयासङ्ख्येय कल्याणगुणगणाम् पद्मवनालयाम् भगवतीम् श्रियम् देवीम् नित्यानपायिनीम् निरवद्याम् देवदेवदिव्यमहिषीम् अखिलजगन्मातरम् अस्मन्मातरम् अशरण्यशरण्याम् अनन्यशरणश्शरणमहम् प्रपद्ये ।

यतीन्द्रकृतभाष्यार्थाः यद्व्याख्यानेन दर्शिताः ।

वरम् सुदर्शनार्थम् तम् वन्दे कूरकुलाधिपम्  ॥

वरदम् द्विरदाद्रीशम् श्रीनिधिम् करुणानिधिम् ।

शरण्यम् शरणम् यामि प्रणतार्तिहरम् हरिम्  ॥

उपायोपेयपरम् द्वयम् विशदीक्रियते । तत्र प्रतापोष्मलपितृत्वदुरासद भगवत्सम्श्रयणसिद्धये पुरुषकारभूतवात्सल्यनिर्भरलक्ष्मीसमाश्रयणम् श्रीमच्छब्दविवरणमुखेनाभिधायते । यद्वा, – श्रियम् प्रपद्य तत्सन्निधौ मूलमन्त्रेण स्वरूपानुरूपपुरुषार्थप्रार्थनम् तदुपायप्रार्थनापर्यन्तम् कृत्वा तदनुज्ञया द्वयमनुसन्धीयत इति पूर्वाचार्यानुसन्धानमनुस्मरन् प्रथमम् श्रियम् प्रपद्यते भगवदिति । भगवन्नारायणशब्दौ गुणविभूतिपौष्कल्यपरौ । (द्वादशाक्षराष्ट्राक्षरयोरेकत्र भगवच्छन्दः । अन्यत्र नारायणशब्दः ।) द्विषट्काष्टार्णयोरपि तत्साहित्य-ज्ञापनपरौ च । अनुरूपे अनभिमतिः, अननुरूपे चाभिमतिश्च दृश्यते इति तद्व्युदासाय अभिमतानुरूपशब्दौ । रूपानन्तरगुणशब्दस्सौन्दर्यादिपरः । परत्वसौलभ्यकोटिनिविष्टगुणजात-प्रदर्शनार्थौ ऐश्वर्यशीलशब्दौ । अनवधिकेत्यादि स्फुटार्थः । परत्व सौलभ्ययोस्समाख्याः प्रमाणयति पद्मेत्यादिभिश्चतुर्भिः पदैः । सदापराधानभिज्ञतायै नित्यानपायिनीम् इति पदम् । दौर्लभ्यरूपावद्यरहिता निरवद्या । कृताभिषेका महिषी; अतः अप्रति-हतचिकीर्षिता । अखिलशब्द: स्वान्तर्भावपरः; नह्यस्मद्वर्जितमिति भावः । शरण्यम् भगवन्तमलब्धवन्तः अशरण्याः; अहमपि तेष्वेक इत्याह अनन्य इति ।

पारमार्थिक भगवच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञान-परमभक्तिकृतपरिपूर्णानवरतनित्यविशदतमानन्यप्रयोजनानवधिकाति-शयप्रियभगवदनुभवजनितानधिकातिशयप्रीतिकारिताशेषावस्थो-चिताशेषशेषतैकरतिरूपनित्यकैङ्कर्य प्राप्त्यपेक्षया पारमार्थिकी भगवच्चर-णारविन्दशरणागतिः यथावस्थिताविरतास्तु मे ।

किमपेक्षितमित्यत्राह – *पारमार्थिक* इन्यनुभवविशेषणम् । परमपुरुषार्थान्तर्भूतत्वात् स्वयम् परमपुरुषार्थत्वात् अकृत्रिमत्वाद्वा पारमार्थिकत्वम् । अकृत्रिमत्वम् निरुपाधिकत्वम् । भक्तिविशेषणम् वा पारमार्थिकशब्दः । *चरणारविन्द* इति मातुस्स्तन्यम् पुत्रस्येव शेषभूतस्य प्राप्यमिति भावः । *ऐकान्तिकत्वम्* फलान्तरार्थत्वाभावाद्भगवदेक-विषयत्वम् । *आत्यन्तिकत्वम्* अत एव सदानुवृत्तिः नित्ययुक्त इति यावत् । उत्तरोत्तरसाक्षात्काराभिनिवेशः *परभक्तिः* । साक्षात्कारः *परज्ञानम्* । उत्तरोतरानुभवाभिनिवेशः *परमभक्तिः* । *परिपूर्ण*त्वादिपदषट्कम् *अनुभव*विशेषणम् । परव्यूहादिसर्वावस्थभगवद्विषयत्वम् परिपूर्णत्वम् । सकृत्त्वब्यावृत्यर्थम् *अनवरत*त्वम् । अविरतेच्छावधिमत्त्वव्युदासाय *नित्य*त्वम् । विरतनित्यत्वव्युदासायानवरतत्वम् । स्नानाग्निहोत्रा-दिकम् हि विरतनित्यम् । परोक्षत्वव्युदासाय *विशदतम*त्वम् । प्रयोजना-न्तरार्थत्वव्युदासाय *अनन्यप्रयोजन*त्वम् । तत्र हेतुः *अनवधिकातिशय-प्रिय*त्वम् । प्रयोजनान्तरत्वाभावेऽपि सावधिकातिशयप्रियत्वव्युदासार्थम् अनवधिकातिशय प्रियत्वमुक्तम् । ईदृशानुभवेन जनितानवधिकातिशय-प्रीतिः *अहो मया ईदृशानुभवो लब्धः* इति पूर्वानुभवलब्धविषय-निरवधिकातिशयानुकूल*प्रीतिसन्तान*रूपा तनुयाकारितम् । अशेषावस्थाः आस्थानान्तःपुरस्थित्यादयः । *अशेष*शब्दः छत्रचामरकलाचीपादुका-ग्रहणताम्बूलदानादिपरः । अनन्तवैनतेयादीनाम् सर्वविधकैङ्कर्यप्राप्तावपि कैङ्कर्यम् प्रतिनियतम् दृश्यते । तत्कथमिति शङ्कायामाह *रतिरूप* इति । स्वेन कृतत्वेऽपि परप्रीतिरेव फलम् – *प्रहर्षयिष्यामि*(स्तोत्ररत्नम् – ४६) इति हि उच्यते । तस्मादन्यकृतत्वेऽपि कैङ्कर्यस्य तज्जनितपरप्रीतिम् दृष्ट्वा स्वकृतत्वे सतीव प्रीतिस्सर्वेषाम् जायत इति तादृशप्रीतिरूपम् कैङ्कर्यमित्यर्थः । इति मन्त्रचतुर्थ्यर्थोक्तिः । पारमार्थिकीति तमः कार्यव्युदासाय  आनुकूल्यादिशरीरवती तद्धि तस्या उपायान्तरेभ्यो व्यावृत्तम् स्वरूपम् | *यथावस्थिता* इति रजः-कार्यव्युदासाय । प्रपत्तव्यविषय-सम्बन्धरूपः प्रकारः; तत्साहित्यमभिप्रेतम् । शरणवरणानर्हे शरण्य-त्यवीपयथावस्थिता स्यात् । *अविरता* आफलसिद्धेरविश्रान्ता, अव्यवहित साधनमित्यर्थः । व्यवहितसाधनम् हि मध्ये साधनान्तरप्राचुर्ये स्वयम् विरतम् स्यात् । साक्षात् *अस्तु मे* ।

*अस्तु ते । तयैव सर्वम् सम्पत्स्यते ॥*

*अस्तु ते* इति – *तेन मैत्री भवतु ते*(रामायणे सुन्दरम्.२१-२०) इत्यादिमानगत्या निश्चित्येति केचित् । स्वसम्बन्धिनिस्तरणमपि सर्वशब्दाभिप्रेतम् ।

अखिलहेयप्रत्यनीककल्याणैकतानस्वेतरसमस्तवस्तुविलक्षणानन्तज्ञाना- नन्दैकस्वरूप, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरति – शयौज्वल्यसौन्दर्यसौगन्ध्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूप, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःसौशील्यवात्सल्य-मार्दवार्जवसौहार्दसाम्यकारुण्यमाधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्यधैर्यशौर्यपरा-क्रमसत्यकामसत्यसङ्कल्प कृतित्व कृतज्ञताद्यसङ्ख्येयकल्याणगुण-गणौघमहार्णव, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यनिरतिशय-सुगन्धनिरतिशयसुखस्पर्शनिरतिशयौज्वल्यकिरीटमुकुटचूडावतम्समकर-कुण्डलग्रैवेयकहारकेयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धनपीताम्बर- काञ्चीगुणनूपुराद्यपरिमितदिव्यभूषण, स्वानुरूपाचिन्त्यशक्तिशङ्खचक्र- गदासिशार्ङ्गद्यसङ्ख्येयनित्यनिरबद्यनिरतिशयकल्याणदिव्यायुध, स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिका-तिशयासङ्ख्येयकल्याणगुणगणश्रीवल्लभ, एवम्भूतभूमिनीळानायक, स्वच्छन्दानुवृत्तिस्वरूपस्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्यनिरवद्य- निरतिशयज्ञानक्रियैश्वर्याद्यनन्तगुणगणशेषशेषाशनगरुडप्रमुखनानाविधा-नन्तपरिजनपरिचारिकापरिचरित चरणयुगल, परमयोगिवाङ्मनसापरिच्छेद्य स्वरूपस्वभावस्वाभिमतविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थान-समृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्यनिरतिशयश्री-वैकुण्ठनाथ, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिस्वशेषतैकस्वभाव-प्रकृतिपुरुषकालात्मकविविधविचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोग-स्थानरूपनिखिलजगदुदयविभवलयलील, सत्यकाम, सत्यसङ्कल्प, पर-ब्रह्मभूत, पुरुषोत्तम, महाविभूते, श्रीमन्, नारायण, वैकुण्ठनाथ, अपार-कारुण्यसौशील्यवात्सल्यौदार्यैश्वर्यसौन्दर्यमहोदघे, अनालोचितविशेषा- शेषलोकशरण्य, प्रणतार्तिहर, आश्रितवात्सल्यैकजलधे, अनवरतविदित-निखिलभूतजातयाथात्म्य, अशेषचराचरभूतनिखिलनियमननिरत, अशेषचिदचिद्वस्तुशेषीभूत, निखिलजगदाधार, अखिलजगत्स्वामिन्, अस्मत्स्वामिन्, सत्यकाम, सत्यसङ्कल्प, सकलेतरविलक्षण, अर्थिकल्पक, आपत्सख, श्रीमन्, नारायण, अशरण्यशरण्य, अनन्यशरण स्त्वत्पादारविन्दयुगलम् शरणमहम् प्रपद्ये । अत्र द्वयम् ।

अथ द्वयस्थम् नारायणशब्दम् विवृणोति *अखिले*त्यादिना । तत्र प्रथमपदेन नारशब्दवाच्यानाम् धर्म्युच्यते । *अखिल*शब्दः चिदचिद्गतक्लेशादिभावविकारादिहेयपरः । *प्रत्यनीके*ति न केवलम् विरहमात्रमित्यर्थः । आनन्दकल्याणशब्दौ स्वपरापेक्षया अनुकूलत्वपरौ ।  आनन्दविवरणम् वा कल्याणशब्दः | कल्याणानाम् गुणानाम् एकास्पदमिति वा *कल्याणैकतान*शब्दार्थः । यद्वा – स्वसम्बन्धिनामपि मङ्गलाव??ता *कल्याण*शब्दार्थः । *एक*शब्देन प्रदेशभेदेन जडत्वप्रतिकूलत्वव्युदासः । अथ रूपम् । अभिमतानुरूपशब्दौ पूर्ववत् । *एकरूपत्वम्* उभय-लिङ्गत्व प्राप्यत्वोपास्यत्वैः। तर्कागोचरत्वम् *अचिन्त्य*त्वम् । *दिव्य*शब्दद्वयम् द्रव्य सम्स्थानवैलक्षण्यपरम् । *अद्भुत*त्वम् प्रतिक्षणमपूर्वत्वम् । नित्यसम्स्थानत्वम् *नित्य*त्वम् । दौर्लभ्यावद्यराहित्यम् *निरवद्य*त्वम् । *सौन्दर्यम्* अवयवशोभा । *लावण्यम्* अवयविशोभा । *आदि*शब्दार्थः पीनवृत्तायतभुजत्वादि । अथ दिव्यात्मगुणाः । स्वाभाविकेत्यादि स्फुटम् । षाड्गुण्यम् साधारणम् । सौशील्यादिद्वादशकम् भक्तरक्षणासाधारणम् । *सौशील्य* इत्यादि – शीलम् हि नाम महतो मन्दैस्सह नीरन्ध्रेण सम्श्लेषस्वभावत्वम् । तस्य च प्रयोजनान्तरौपयिकत्वाभावात् *सौशील्यम्* । यद्वा – ईश्वरत्वबुद्ध्या यथा आश्रितानाम् साध्वसम् न स्यात्, यथा च स्वयमपि न स्वस्य परत्वबुद्ध्या विलक्षस्स्यात्, तथा शीलत्वम् सौशील्यम् । *वात्सल्यम् दोषेऽपि गुणत्वबुद्धिः । यथा सद्यः प्रसूतायाः धेनोर्वत्से । इदम् च क्षमाकाष्ठानुरूपम् । अत एव हि पृथगनुक्तिः क्षमायाः । आश्रितविरहा-सहत्वम् *मार्दवम्* । तेष्वस्थानभयशङ्कित्वम् वा । मनोवाक्का-यैकरूप्यम् *आर्जवम्* । यथा *ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे*(रामा-यणे-अरण्यम्.१७-१५) इति । *सौहार्दम्* तेषामभिमतश्रेयोभिध्यायित्वम् । स्वसत्तानपेक्षतदक्षापरत्वम् वा । साम्यम् जन्मवृत्तगुणवैषम्यमनपेक्ष्य सर्वेषाम् समाश्रयणीयत्वे स्वीकृतानाम् तेषाम् सम्भावनाविशेषेषु मनसा तद्विषयादरे च समत्वम् । तारतम्यधीरहितत्वम् । *कारुण्यम्* स्वार्थानपेक्षया परदुःखासहिष्णुता । *माधुर्यम्* हन्तुम् प्रवृत्तावपि रसावहत्वम् । यथा *एह्येहि फुल्लाम्बुजपत्रनेत्र* (भारते भीष्मपर्वे)इति । *गाम्भीर्यम्* आश्रितविषये एवमनेन चिकीर्षितमिति परिच्छेत्तुमशक्यत्वम् । दीयमानगौरवसम्प्रदानलाघवानपेक्षत्वम् वा । *औदार्यम्* अन्यस्मै ददामीत्यभिमान विरहेण *पुत्रवत् प्राप्तम् भुङ्क्ते* इति बुद्ध्या दातृत्वम् । इदमियद्दत्तम् मयेत्यस्मरणशीलत्वम् वा । यद्वा – सर्वम् दत्वापि *ऋणम् प्रवृद्धमिव मे*(भारते उद्योगम्.५८-२२) इत्यतृप्तत्वम्, औदार्यम् । *चातुर्यम्* आश्रितार्थेष्वजडक्रियत्वम् । यथा सानुबन्धरावणवधेन  विभीषणा-भिषेकः । यद्वा –आश्रितदोषगोपनम् वा चातुर्यम्, यथा – पित्रादेरिव । *स्थैर्यम्* *न त्यजेयम् कथञ्चन* इत्यभिसन्धिमत्त्वम् । भक्तरक्षोपयोगिगुणाः द्वादश । अथ तत्रैव रक्षणे विरोधिनिरासौ-पाधिकम् त्रिकम् । *धैर्यम् स्वस्मिन्प्रतिपक्षागमे सत्यविकृतत्वम् । यथा *जटाजूटग्रन्थिम् द्रढयति* इति । स्वगृह इव परबले प्रवेशसामर्थ्यम् *शौर्यम्* । प्रवेशे सति तन्निरासकौशलम् *पराक्रमः* । यथा *छिन्नम् भिन्नम्* इत्यादि । अथ भोग्यगुण युगम् । *सत्यकाम* इति नित्यविभूतिमत्त्वम् । *काम्यस्स्पृहास्मरः कामः* इत्यनेकार्थः। *सत्यसङ्कल्प* इति लीलाविभूतिमत्त्वम् स्वसङ्कल्पानुवृत्युभयविभूति-मत्त्वम् वा । अथ भक्तरक्षाविषयम् उक्तद्वादशकादिलक्षणम् गुणद्वयमाह *कृतित्व* इति। आश्रितकार्यपूरणेन कृतार्थत्वम् *कृतित्वम्* । यद्वा – कृतम् क्रिया, तद्वत्वम् । आश्रितकर्तव्यस्य स्वयम् कर्तृत्वम् यथा *अहम् स्मरामि* इति । कृतमेव जानाति न तु करिष्यमाणाम्शमकृतमिति कृतज्ञः । यद्वा–स्वल्पमप्याश्रितैर्यत्साधु कृतम् तदेव जानाति आश्रितकृतम् दोषम् स्वकृतम् श्रेयश्च न स्मरतीति कृतज्ञः । एकैकगुणे अनेकान्तर्भावाभिप्रायः *गण*शब्दः । स एव ओघः प्रवाहः, तस्य *महार्णवः* । न गुणायत्तम् महत्वम् । गुणास्तु स्वावस्थावस्थानाय भगवत्स्वरूपगताः । अन्यथा न स्थातुम् शक्नुवन्तीति भावः । अथ भूषणानि । कटकमुकुटादिजातिभेदो *वैविध्यम्* । एकैकावान्तरभेदपरः *विचित्र*शब्दः । *अनन्ताश्चर्यम्* निरतिशयाश्चर्यम् । उत्तरोत्तरम् निरवद्यत्वमनुसन्धेयम् । विग्रहचिन्तायामपि पूर्वभाविनी हि दिव्याभरणचिन्ता । निरतिशयसुगन्धत्वादिकम् इतरभूषणवैलक्षण्यम् । *सर्वगन्धस्सर्वरसः*(छान्दोग्य.३-९४-४) इत्यादिवत् । मुकुटम् किरीटाग्रावयवो नायकाधारः । यद्वा, मुकुटम् शिरोभूषणमात्रम् यथा *नाकुण्डली नामुकुटी*(रामायणे बाल.६-१०) इति । किरीटरूपम् *मुकुटम्* किरीटमुकुटम् । दिव्यशब्दः सर्वत्राप्राकृतपरः । अथ दिव्यायुधानि । एकैकायुधस्य सर्वायुधकार्यशक्तिमत्त्वम् *अचिन्त्यशक्तिमत्वम्* । यथा–*सहायकृत्यम् किम् तस्य येन सप्त महाद्रुमाः । शैलाश्चवसुधा चैव बाणेनैकेन दारिताः*(रामायणे किष्किन्धा.६-८) इति । परशुटङ्कखनित्रादिकार्यम् एकेन सालगिरिरसातलभेदिना शरेण हि कृतम् । *निरवद्य*त्वम् पूर्ववत् । निरतिशयकल्याणत्वम् शोभनावहत्वन् । तान्याभरणकोटावपि हि निविशन्ते । अथ दिव्यमहिषीविशेषणानाम् पूर्ववदर्थः । अथातिदेश एवम्  इति । लक्ष्म्यपेक्षया भूम्यादीनामपि शेषत्वाभिप्रायेण पृथगुक्तिः । यथा *याभिस्त्वम् स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियम् श्लाघसे*(श्रीगुणरत्नकोशे, २६) इति । अथ परिजनः । सजातीयविजातीयव्यावर्तकाकारविशिष्टम् *स्वरूपम्* । तस्य प्रतिनियतकालसम्बन्धः *स्थितिः* । ईश्वरेच्छाम् ज्ञात्वानुवर्तन्ते नित्यसिद्धाः । सम्सारिणस्तु तदनभिज्ञाः तत्सङ्कल्पा-त्प्रवर्तन्त इति भिदा अभिप्रेता । भेदः स्वरूपस्थितिप्रवृत्तिविशेषः । यद्वा, *सम्सारिभ्यो नित्यानाम् व्यावर्तकधर्माः *स्वच्छन्दानुवृत्तिस्वरूपस्थिति-प्रवृत्तयः* इत्यर्थः । *नित्यनिरवद्य* इति मुक्तव्यावृत्तिः । *क्रिया* कैङ्कर्यम् । *ऐश्वर्यम् देहेन्द्रियादिनियमनम् । * शेषाशनः* (*त्वदीयभुक्तोज्झितशेष-भोजिना*  इति हि प्रसिद्धिः । – स्तोत्ररत्ने) सेनापतिः । छत्रचामरपादुका-पतग्रहधारणादिभेदेन *नानाविधाः* । तत्र एकैककोटिनिविष्टाश्च अनन्ताः । विमलाद्यभिप्रायेणोक्तम् *परिचारिकेति* । *उक्तस्वरूपरूपगुणविभूषणा-दीनाम्* परत्वसौलभ्यसाधारणत्वात् दिव्यलोकविशेषात्पूर्वम् तदुभयमाह *परमे*ति । परमस्वरूपम् नियन्तृस्वरूपम् । परमस्वभावः सौलभ्यनिरूपकादन्यो निरुपाधिकधर्मः *स्वभावः* । *परम-योगि* इत्यदिकम् देश-विशेषणम् वा । तथा श्रीवैकुण्ठगद्योक्तेः । तदा स्वरूपम् सन्निवेश-विशेषविशिष्टद्रव्यम् । तस्य भोग्यताप्रकारः स्वभावः । विविधत्वम् जातिभेदः । एकैकस्य व्यक्त्यानन्त्य*मनन्त*शब्दार्थः । आश्चर्यतारूपेणानन्त्यम् वा । *विभवः* आयतनाद्वहिः *भोग्य*समृद्धिः । *स्रक्चन्दनादिव्यतिरिक्तरथादिसमृद्धिर्वा । *नित्यम्* नित्यसम्स्थानम् । *निरवद्ये*ति, अवद्यादयो न तत्रत्यानामित्यर्थः । *निरतिशये*ति, अनुत्तम-वत् । अथ लीलाविभूतिः । नियमनम् धारणम् च सिद्धम् । *स्वसङ्कल्पे*ति । शेषत्वमाह *स्वे*ति । *काल*स्य प्रकृत्यनन्तरानुक्तिः प्रकृतिपुरुषयो-स्सम्योगवियोगहेतुत्वात् । *तस्यैव तेऽन्येन धृते वियुक्ते रूपान्तरम्*(वि. पु. १-२-२४)  इति हि उच्यते । शब्दस्पर्शादिरूपेण *वैविध्यम्* । तदवान्तर-भिदया *विचित्र*त्वम् । निखिलशब्देन ब्रह्मादिव्यावृत्तिः । अथ उक्ताकारेषु समाख्याष्टकम् प्रमाणयति । *सत्यकाम* इति नित्यविभूतिमत्वसिद्धिः । *सत्यसङ्कल्प* इति लीलाविभूतिमत्वसिद्धिः । निमित्तमात्रत्वम् सत्य-सङ्कल्पतया सिद्धमिति उपादानतामप्यभिप्रयन्नाह *परब्रह्मभूत* इति । उपादानत्वेऽपि चिदचिद्गतदोषास्पृष्टत्वमाह *पुरुषोत्तम* इति । उपादानभूतस्य कथम् जगद्वैलक्षण्यम् इति शङ्कायाम् घटकमर्थमाह महाविभूत इति । शरीरकतया विभूतिमत्त्वमभिप्रेतम् । विभूतिम् प्रति शेषत्वम् द्विनिष्ठमित्यभिप्रायेणाह *श्रीमन्*इति । *महाविभूते* इति शरीरकतया विभूतिमत्त्वसाधारणोक्तमर्थम् विविच्य दर्शयिष्यन् दोषा-स्पृष्टत्वसिद्धये लीलाविभूतिशरीरकत्वमाह *नारायण* इति ।  *नरा-ज्जातानि तत्वानि नाराणीति ततो विदुः*(पाद्मोत्तरे) इति निर्वचनमिहा-भिप्रेतम् । नित्यविभूतियोगे समाख्याम् स्पष्टयति *वैकुण्ठनाथ* इति । *कुठि गतिप्रतिघाते* इति धातुः । ज्ञानप्रतिघातिकर्मादिरहितास्सूरयो विकुण्ठाः; तत्सम्बन्धिदेशो वैकुण्ठाख्यः । एवम् उपायोपेयत्वसाधारणाकारा उक्ताः । अथ उपायत्वैकान्तगुणा उच्यन्ते *अपारे*त्यादिना । कारुण्याद्य-गोचरे मय्यपि कार्यकरम् कारुण्यादिकमिति *अपार*शब्दस्य भावः । *कारुण्या*दि पूर्ववत् । *सम्सारिणाम् स्वरक्षणविघातकत्वेऽपि तान् स्वातन्त्र्येण नियम्य रक्षितुम् शक्तः* इत्यभिप्रेत्य ऐश्वर्यमुक्तम् । *ऐश्वर्यम्* नियन्तृत्वम् । सम्सारिचित्तवशीकरणोपायतया *सौन्दर्य*मुक्तम् । यथा *पुम्साम् दृष्टिचित्तापहारिणम्*(रामायणे अरण्यम्.३-२९) इति । *जितम् ते* (जितन्तास्तोत्रम्.१) इति च । उक्तविशेषणफलमाह *अनालोचिते*ति । *विशेषः* जन्मवृत्तगुणतारतम्यम् । *लोकस्तु भुवने जने*(अ-३-ना-२) । एवम् गुणवत्ताम् निश्चित्याह *प्रणतार्तिहरे*ति । स्वस्यैवम्विधबुद्धियोगप्रदम् वरदमभिप्रेत्यैवमुक्तम् । तस्मिन् विशेषतः आविर्भूतम् स्वस्मिन् विशेषतः कार्यकरम् च गुणमाह *आश्रिते*ति । उपायत्वौपयिकगुणेषु* वात्सल्यगुणो हि स्वस्मिन् विशेषतः कार्यकारोऽभिमतः । तथापि त्यय्यपि किञ्चित्कारोऽवश्यमपेक्षित इति भगवदाशयम् बुध्वाऽह *अनवरते*ति । *तव सार्वज्ञ्यम् न कतिपयविषयम् नापि कादाचित्कम् च कथम् ममाशक्तत्वमविदितम्* इति भावः । आनुकूल्याभावेऽपि प्रातिकूल्यनिवृत्तिरपेक्षितेति भगवदाशयम् बुध्वाऽह अशेषेति । तन्निवृत्तिरपि त्वदायत्तेति भावः । ननु *किम् भवद्रक्षणम् ममावश्यकृत्यम् ?* इति शङ्कायामाह *अशेषचिदचिदि*ति । (लक्ष्मीतन्त्रे १७-२५)*रक्ष्यापेक्षापि त्वदधीनेत्याह *निखिले*ति *कस्यापेक्षया चिदचिद्वस्तुजातम् धृतम्* इति भावः । *नैसर्गिकशेषत्वे सत्यपि जगतस्त्वगुणैर्भूयश्शेषत्वमापादितम्* इत्याशयेनाह *अखिले*ति । यथा *गुणैर्दास्यमुपागतः* (रामायणे किष्किन्धा.४-१२) , इति । *न केवलम् सामान्येन शेषत्वम् किन्तु जन्मविशेषरुचिविशेषप्रदानादिभिर्ममैवमवस्थत्वम् त्वयैवोपपादितम्* इत्यभिप्रायेणाह *अस्मत्स्वामिन्निति । *सत्यकाम* अकिञ्चनरक्षणम् हि परिपूर्णकृत्यम्* इति भावः । तच्च अनायाससाध्यमित्याह *सत्यसङ्कल्पे* ति । *सकलेतरविलक्षण- एवम् भूतस्त्वम् न रक्षसि चेत् *करतवान्येभ्यो-ऽनीदृग्भ्यो विशेषः* इत्याशयः । *अर्थिकल्पक* – कर्मधारयसमासः । यथा *समेत्य प्रतिनन्द्य च*(रामायणे अरण्यम्.१७-२७) इति । *उदारास्सर्व एवैते*(गीता ७-१८) इति च । अन्यथा तवेयम् प्रथा विहन्यत इति भावः । गजेन्द्रादीनामिवापन्नत्वमेव रक्ष्यत्वे हेतुमाह *आपत्सख* इति । *उक्तहेत्वभावेऽपि मातरमपेक्ष्य रक्षितव्यः* इत्याह *श्रीमन्* इति । तया उपेक्षितोऽपि त्वामपेक्ष्य रक्षणीयः इत्याह *नारायणे*ति । सम्बन्धाभावेऽपि रक्षकान्तराभावात् रक्षणीयोऽहम्, त्वम् हि *अगतीनाम् गतिः* इत्याह अशरण्येति । ततः किम् भवतः इत्याह *अनन्य-शरण* इति । त्वच्छब्देन प्रागुक्ताकारविशिष्टतया योग्यत्वमभिप्रेतम् । अवश्यकर्तव्यत्वाय *पाद* ग्रहणम् । *अरविन्द*शब्दश्चैह भोग्यत्वाय । युगलशब्दः द्विवचनाख्यानम् । *अहमस्यपराधानामालयोऽकिञ्चनो-ऽगतिः’*(विष्वक्सेनसम्हितायाम्) इत्यादिकमभिप्रेत्याह *अहमि*ति । *प्रपद्ये* इत्यन्तेन पूर्वखण्डो व्याख्यातः ।

पितरम् मातरम् दारान्पुत्रान्बन्धून्सखीन्गुरून् ।

रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥

अथ *अनन्यशरणश्शरणमहम् प्रपद्ये* इति शब्दानामर्थ विवृणोति पौराणिकवचनमुखेन *पितरमि*त्यादिना । *गुरु*पर्यन्तानाम् साधनत्व मुत्कटम् । *दारा*श्च दृष्टसाधनम् । *रत्ना*दीनामुपेयत्वमुत्कटम् ।

सर्वधर्माम्श्च सन्त्यज्य सर्वकामाम्श्च साक्षरान् ।

लोकविक्रान्तचरणौ शरणम् तेऽव्रजम् विभो ॥
आमुष्मिकम् साधनम् साध्य चाह *सर्वे*ति । *अक्षर*शब्देन केवलात्मनि पर्यवसानम् । *लोकविक्रान्तविभु*शब्दौ सौलभ्यपरत्वपरौ ।

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।

त्वमेव विद्या द्रविणम् त्वमेव त्वमेव सर्वम् मम देवदेव ॥

*शरण*शब्दम् विवृणोति *त्वमेवे*ति । *पित्रादिकार्यरक्षणस्यास्मिन्नेव पुष्कलत्वात्, अयमेव बन्धुः, न तु पित्रादयः* इत्यभिप्रायेण *त्वमेवे*- त्यावृत्तिः ।

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेप्यप्रतिमप्रभाव ॥

न परम् मम सर्वस्य लोकस्य चेत्याह *पितासि* इति । रक्षकत्वे समाभ्यधिकराहित्यमुक्तम् । सौलभ्ये वा । अप्रतिमप्रभावेति परत्वस्योक्तिः ।

तस्मात्प्रणम्य प्रणिधाय कायम् प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥

प्रपत्तिम् विवृणोति *तस्मादि*ति । *ईशमीड्यम्* *न तस्येशे कश्चन तस्य नाम महद्यशः*(तै.६-१-९) * इतिवत् । पित्रादयस्तत्त-त्सम्बन्धाद्धि क्षमन्ते । अतः सर्वविधसम्बन्धात् त्वया क्षन्तव्यमित्यर्थः । प्रार्थनापर्यन्तमहा-विश्वासः प्रपत्तिः, महाविश्वासपूर्विका प्रार्थना वा ।

मनोवाक्कायैरनादिकालप्रवृत्तानन्ताकृत्य करणकृत्याकरणभगवदपचार- भागवतापचारासह्यापचाररूपनानाविधानन्तापचारानारब्धकार्याननारब्धकार्यान्कृतान्क्रियमाणान्करिष्यमाणाम्श्च सर्वानशेषतः क्षमस्व ।

अथ उत्तरखण्डम् विवृण्वन् इष्टप्राप्तेरनिष्टनिवृत्तिपूर्वकत्वरूपार्थ-क्रमात् प्रथमम् नमश्शब्दार्थमाह *मन* इत्यादिना । अनादिकाल-प्रवृत्तत्वमानन्त्य-हेतुः । प्रथमानन्तशब्दस्सामान्यापराधविशेषणम् । सामान्यापराधमुक्त्वा विशेषापराधमाह *भगवदि*ति। *भगवदपचारः* शिशुपालादिकृतः । *भागवतापचार*स्तु भागवतविषये अर्थादिनिमित्ता-न्तरेण कृतः । यद्वा भागवतापचारः भगवदपचारः, भगवदपचारः भागवतापचार इति । भागवतभक्तिविषयापचार:*असह्यापचारः* । आचार्य विषयापराधो वा । भागवते अभागवतत्वनिमित्तापराधो वा । अर्चावतारविग्रहस्य अवैलक्षण्यप्रतिपत्तिर्वा । एकैककोट्यवान्तरभिदापरो *नानाविध*शब्दः । *सर्व*शब्दः अपराधव्यक्तिकार्त्स्न्यपरः । कर्मणाम् वैदिककर्मानर्हतापादनशक्तिः, प्रत्यवायकरत्वशक्तिः, वासना-जनकत्वशक्तिश्चास्ति । तत्र अन्यतमशक्तिमात्रम् क्षमाविषयो मा भूदिति *अशेषतः* इत्युक्तम् ।

अनादिकालप्रवृत्तम् विपरीतज्ञानमात्मविषयम् कृत्स्नजगद्विषयम् विपरीतवृत्तम् चाशेषविषयमद्यापि वर्तमानम् वर्तिष्यमाणम् च सर्वम् क्षमस्व ।

अथ मोक्षविरोधिपुण्यपापरूपम् क्षामयति *अनादी*ति । आत्मनः जगतश्च स्वातन्त्र्यधीः देवतान्तरशेषत्वधीः भगवच्छेषवस्तुनि स्वशेष-त्वधीश्च विपरीतज्ञानम् । पुण्यञ्च स्वतन्त्रात्मधीमूलत्वात् भ्रान्तिमूलम् । भगवद्भागवतदेवतान्तरभजनरूपम् स्वार्थम् स्वपुत्राद्यर्थम् च यत्पुण्यम् तत् अशेषविषयम् *विपरीतवृत्तमि*त्युच्यते । *आचार्यसेवादिना शास्त्र-जन्यज्ञाने सम्पन्नेऽपि वासनावशादनुवर्तमानम्* इत्यभिप्रायेणोक्तम् *अद्यापि*वर्तमानमिति । अथ प्रकृतिः ।

मदीयानादि कर्मप्रवाहप्रवृत्ताम् भगवत्स्वरूपतिरोधानकरीम् विपरीतज्ञानजननीम् स्वविषयायाश्च भोग्यबुद्धेर्जननीम् देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थिताम् देवीम् गुणमयीम् मायाम् दासभूतम् शरणागतोऽस्मि तवास्मिदास इति वक्तारम् माम् तारय ।

मदीयेति बीजाङ्कुरन्यायादनादिता । *गुणमायासमावृतः* (जितन्तास्तोत्रम् ३) इत्यस्यार्थमाह *भगवत्स्वरूप* इति । *विपरीतज्ञानम्* देहे अहम् धीः । भोग्यभोगोपकरणरूपत्वमाह देहेत्यादिना । *दैवीम्* त्वल्लीलार्थम् । *दासभूतम् माम्* इति सम्बन्ध: । *शरणागतोऽस्मि तवास्मि* इति पूर्वोत्तरखण्डार्थः । *वक्तारम्* *भवशरणमितीरयन्ति*( वि.पु.३-७-३३) इति हि उच्यते ।

*तेषाम् ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्य-र्थमहम् स च मम प्रियः ॥ उदारास्सर्व एवैते ज्ञानीत्वात्मैव मे मतम् । आस्थितस्सहि युक्तात्मा मामेवानुत्तमाम् गतिम् ॥ बहूनाम् जन्मनामन्ते ज्ञानवान्माम् प्रपद्यते । वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ॥*(गीता-७.१७-१९)

– इति श्लोकत्रयोदितज्ञानिनम् माम् कुरुष्व । *पुरुषस्सपरः पार्थ भक्त्या लभ्यस्त्वनन्यया*(गीता.८-२२), *भक्त्यात्वनन्यया शक्यः*(गीता ११-५४), *मद्भक्तिम् लभते पराम्*(गीता.१८-५४) इति स्थानत्रयोदित-परभक्तियुक्तम् माम् कुरुष्व ।

परभक्तिपरज्ञानपरमभक्त्यैकस्वभावम् माम् कुरुष्व ।

अथ चतुर्थ्यर्थमिष्टप्राप्तिम् प्रार्थयते *तेषा*मित्यादिना । *परभक्तिस्थाने* प्रपदनम् । *परज्ञानपरमभक्ती* देहसम्बन्धवेलाया- मुपासकस्योपायकोटिनिविष्टे । प्रपन्नस्य तु उभयकोटिघटिते । अतः *परज्ञानम्* प्रार्थितम् *तेषा*मित्यादिना । अथ परमभक्तिप्रार्थनम् पुरुषस्स पर इत्यादिना । व्यवहितत्वात् *स्थानत्रये*त्युक्तम् न तु श्लोकत्रयेति ।

अथ बन्धनिवृत्तेरनन्तरभाविनी: *परभक्तिपरज्ञानपरमभक्तीः* प्रार्थयते *पर* इति । अत एव हि एकस्वभावमित्युक्तम् । पूर्ववदर्थः ।

परभक्तिपरज्ञानपरमभक्तिकृतपरिपूर्णानवरतनित्यविशदतमानन्यप्रयोज-नानवधिकातिशयप्रियभगवदनुभवोऽहम् तथाविधभगवदनुभवजनिता-नवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्य-किङ्करो भवानि ।

अथ भगवज्जनितप्रीति तत्कारितकैङ्कर्याणि प्रार्थयते पर इति । पूर्ववदर्थः । शेषतैकरतिरूपशब्दो बहुव्रीहिः ।

एवम् भूतमत्कैङ्कर्यप्राप्त्युपायतयावक्लृप्तसमस्तवस्तुविहीनोऽपि, अनन्ततद्विरोधिपापाक्रान्तोऽपि, अनन्तमदपचारयुक्तोऽपि, अनन्तमदीया-पचारयुक्तोऽपि, अनन्तासह्यापचारयुक्तोऽपि, एतत्कार्यकारणभूतानादि-विपरीताहङ्कारविमूढात्मस्वभावोऽपि, एतदुभयकार्यकारणभूतानादि-विपरीतवासनासम्बद्धोऽपि, एतन्मूलाध्यात्मिकाधिभौतिकाधिदैविकसुख-दुःखतद्धेतुतदितरोपेक्षणीयविषयानुभवज्ञानसङ्कोचरूपमच्चरणारविन्द युगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्तिविघ्नप्रतिहतोऽपि, येन केनापि प्रकारेण द्वयवक्ता त्वम् केवलम् मदीययैव दयया निःशेषविनष्ट-सहेतुकमच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्ति- विघ्नः, मत्प्रसादलब्धमच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्ति-परज्ञानपरमभक्तिः, मत्प्रसादादेव साक्षात्कृतयथावस्थितमत्स्वरूपरूप-गुणविभूतिलीलोपकरणविस्तारः, अपरोक्षसिद्धमन्नियाम्यतामद्दास्यैक-स्वभावात्मस्वरूपः, मदेकानुभवः, महास्यैकप्रियः, परिपूर्णानवरतनित्य-विशदतमानन्यप्रयोजनानवधिकातिशयप्रियमदनुभवस्त्वम्, तथाविध-मदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरति-रूपनित्यकिङ्करो भव । एवम् भूतोऽसि ।

अथ भगवद्वचः *एव*मित्यादि । वक्ष्यमाणचरमश्लोकप्रथमपदार्थमाह *एवम् भूत* इति । अवक्लृप्तम् विहितम् । समस्तवस्तुशब्देन कर्मज्ञानभक्तियोगाः, तदनुगुणा अमानित्वादिगुणाश्च विवक्षिताः । *विहीन* इति त्यागोऽनूदित इति भावः । *परि*शब्दार्थमभिप्रयन्नाह अनन्तेति । विरोधिभूयस्तया कालान्तरेऽपि तन्नैराश्यम् हि तदर्थः । *एत*दिति बीजाङ्कुरनयात्कार्यकारण भावः । *अथातोहङ्कारादेशः* (भारते उद्योग.७-२५-१) इत्युक्ताहङ्कारव्यावृत्यर्थः *विपरीताहङ्कार* शब्दः । *विमूढ़ात्मस्वभावः* तिरोहितशेषभावः । *उभय*शब्दः पापा-ज्ञानपरः । सुखदुःखतद्धेतुशब्देन अभोग्यविषया विवक्षिताः । ज्ञानस्य *सङ्कोचः* आत्मपरमात्मविषये *विषयानुभव*रूपः । ज्ञानसङ्कोच- रूपश्च विघ्नः । *येन केनापि प्रकारेण* इति । आर्ततया दृप्ततया वेति भावः । केवलशब्द: आकाङ्क्षितानुतापव्यावृत्यर्थः । *एवकारः* कृपायाः पुष्कलकारणत्वपरः । तत्र हेतुः *मदीय*त्वम् । काचित्कस्वरूपाद्यनुभवव्युदासाय विस्तारशब्दः । एवम् नारायणशब्दा-र्थानुभवः उक्तः । तदन्तर्गतजीवस्वरूपाविर्भावमाह *अपरोक्षे*ति । व्याप्तिः धारणम् च नियमनान्तर्गते *प्रशासने गार्गि*(बु. उ.५-८-९) *अन्तः प्रविष्टः*(य आर.३-२४) इति श्रुतेः । अतः पृथगनुक्तिः । एतेन स्वाधीनप्रवृत्तित्वाद्यशेषभ्रमव्युदासः फलितः । आत्माभिमानानु- गुणपुरुषार्थानुभवमाह *मदेके*ति । *एक*शब्देन अनुभाव्यान्तरव्युदासः । विरूपभर्त्रनुभवसाम्यव्युदासायाह *मद्दास्यैके*ति । *एक*शब्देन स्वरूपाननुरूपस्वातन्त्र्यस्य अपुमर्थत्वमभिप्रेतम् । तत्कदेत्यत्राह *एवम् *भूतोऽसी*ति । कदेति त्वरा तव यदा स्यात् तदा त्वमीदृगवस्थितो-ऽसि । अयम् हि तव महालाभ इत्यर्थः ।

आध्यात्मिकाधिभौतिकाधिदैविकदुःखविघ्नगन्धरहितस्त्वम् द्वयमर्थानु- सन्धानेन सह सदैवम् वक्ता यावच्छरीरपातमत्रैव श्रीरङ्गे सुखमास्व ।

*शरीरपातावधि कल्पकालः एवम् विनोदेन नेयः* इत्याह *आध्या-त्मिके*ति । *दुःख*रूपो विघ्नः । तत्र सङ्गरहितत्वे हेतुमाह द्वयमिति । *सदैव*मिति । *क्षणमात्रम् द्वयार्थानुसन्धानाभावे सति तापत्रयस्या-वकाशस्स्यात् । अत एव निरन्तरानुसन्धानेन तद्विरहः कार्य इति भावः । उपायत्वे द्वयोक्तिरेवालमिति कृत्वा *वक्तारम् माम् तारय* इत्युक्तम् । अत्र तु अर्थानुसन्धानम् भोगरूपत्वेनोक्तम् । अत्रैवेत्युपलक्षणम् । *भगवदभिमानतदीयसम्बन्धवद्देशविशेषेष्वित्यर्थः । *यावच्छरीरपातम्* इति । कियानयङ्काल इति भावः ।

शरीरपातसमये तु केवलम् मदीययैव दययातिप्रबुद्धो मामेवावलोकयन् अप्रच्युतपूर्वसम्स्कारमनोरथः, जीर्णमिव वस्त्रम् सुखेनेमाम् प्रकृतिम् स्थूलसूक्ष्मरूपाम् विसृज्य, तदानीमेव मत्प्रसादलब्ध- मच्चरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्तिकृत-परिपूर्णानवरतनित्यविशदतमानन्यप्रयोजनानवधिकातिशयप्रियमदनुभव-स्त्वम् तथाविधमदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थो-चिताशेषशेषतैकरतिरूपनित्यकिङ्करो भविष्यसि ।

*शरीरे*ति । केवलम् त्यय्यकिञ्चित्करेपीति भावः । *दययैव* इति । एवकारः पुष्कलत्वद्योतकः। *अतिप्रबुद्धः* *जीवद्दशायाम् प्रबोधः अन्ध-तमसस्स्थानीयः* इति भावः । परमात्मनि विश्रमानन्तरम्भाव्ययम् प्रबोधः, ततः प्राक्तनम् स्मरणम्, अन्तिममुपासकानामपेक्षितम् । प्रपन्नन्तु *काष्ठपाषाणसन्निभम्*(वरा-च) भगवानेव स्मरति, स्वस्मिन्विश्रमानन्तरम् प्रबोधम् च जनयति । *तेन प्रद्योतेनैष आत्मा निष्कामति*(बृ.६-४-२) इति हि श्रूयते । अतः तदा बोधसिद्धिः । *माम्* स्वरूपरूपगुणविभवान्वितम् । *एवे*ति विषयान्तरकालुष्यविरह उक्तः । *अवलोकयन्* साक्षात्कुर्वन् । *अप्रच्युत* इति । गुरूपदेशादिजन्य*सम्स्कारः* भगवत्प्राप्तीच्छा चाप्रच्युते यस्य स तथोक्तः । *तदानीमेव* प्रकृतिविमोक्षानन्तरमेव । उपरि पूर्ववत् ।

*मा ते भूदत्र सम्शयः ।* *अनृतम् नोक्तपूर्वम् मे न च वक्ष्ये कदाचन* ।*(रामायणे किष्किन्धा.७-२२) *रामो द्विर्नाभिभाषते* । (रामायणे अयोध्या.१८-३०)

इदमाश्वासनवाक्यमिति न सम्शयितव्यमित्याह *मा ते भूदि*ति । अनृतस्यानुक्तत्वमाह *अनृत*मिति । उक्तस्य दृढत्वमाह *रामो द्वि* रिति ।

*सकृदेव प्रपन्नाय तवास्मीति च याचते ।

अभयम् सर्वभूतेभ्यो ददाम्येतद्व्रतम् मम ॥(रामायणे युद्ध.१८-३४)

‘सर्वधर्मान्परित्यज्य मामेकम् शरणम् व्रज ।

अहम् त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥*(गीता.१८-६६)

इति मयैव ह्युक्तम् ।

न केवलम् तव, अन्येषमपि मयोक्तमित्याह *सकृदि*ति ।

अवतारद्वयेऽपि वचनद्वयम् ।

अतस्त्वम् तव तत्वतो मज्ज्ञानदर्शनप्राप्तिषु निस्सम्शयस्सुखमास्व ।

अतः भक्तिसाध्यम् प्रपत्त्यैव लभ्यमिति निर्भरेण त्वया भवितव्यमित्याह *अत*स्त्वमिति । आचार्यतो लब्धम् ज्ञानम् यथा तत्वविषयमिति न सम्शयः, तथा भाविन्योर्दर्शनप्राप्त्योरपि निस्सम्शयः इत्यर्थः ॥

इति श्रीभगवद्रामानुजविरचितम्

शरणागतिगद्यम्

सम्पूर्णम्

इति श्रीहारीतकुलतिलकस्य श्रीरङ्गराजदिव्याज्ञालब्ध श्रीवेदव्यासभट्टारकापरनामधेयस्य

  • श्रीमत्सुदर्शनाचार्यस्य कृतिषु –

शरणागतिगद्यव्याख्यानम्

सम्पूर्णम्

***************

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.