शरणागतिगद्यम्

भगवरामानुजाचार्यविरचितं

गद्य त्रयम्

यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने ।

अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ।।

शरणागतिगद्यम्

वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् ।

रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।।

         ओम् भगवन्नारायणाभिमातानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येय- कल्याणगुणगणां, पद्म वनालयां, भगवतीं, श्रियं, देवीं, नित्यानपायिनीं, निरवद्यां, देवदेवदिव्यमहिषीं, अखिलजगन्मातरं, अस्मन्मातरं, अशरण्यशरण्यां, अनन्यशरण: शरणमहं प्रपद्ये॥

         पारमार्थिक भगवच्चरणारविन्द, युगळैकान्तिकात्यन्तिक, परभक्ति परज्ञान परमभक्तिकृत-परिपूर्णानवरत-नित्य विशदतमानन्यप्रयोजनानवधिकातिशय प्रिय भगवदनुभवजनित-अनवधिक-अतिशय-प्रीतिकारिताशेषावस्थोचिताशेषाशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी भगवच्चरणारविन्द शरणागतिर्यथावस्थिताविरतास्तु मे ॥

अस्तु ते, तयैव सर्वं सम्पत्स्यते ॥

अखिलहेयप्रत्यनीककल्याणैकतान, स्वेतर समस्त वस्तु विलक्षण ! अनन्त ज्ञानानन्दैक स्वरूप  !

स्वाभिमतानुरूपैक रूपाचिन्त्यदिव्याद्भुत नित्य निरवद्य निरतिशयौज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमार्यलावण्य यौवनाद्यनन्त गुाणनिधि दिव्यरूप !

स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्य-वीर्यशक्तितेजस्सौशील्य-वात्सल्यमार्दवार्जवसौहार्दसाम्यकारुण्य, माधुर्य-गाम्भीर्य-औदार्य-चातुर्य-स्थैर्य-धैर्य-शौर्य-पराक्रम-सत्यकाम-सत्यसङ्कल्प-कृतित्व-कृतज्ञतादि-असङ्ख्येय कल्याणगुण-गणौघमहार्णव!, स्वोचितविविधविचित्रानन्ताश्चर्य नित्यनिरवद्यनिरतिशयसुगन्ध-निरतिशयसुखस्पर्श, निरतिशयौज्ज्वल्यकिरीटमकुटचूडावतंस-मकरकुंडलग्रैवेयकहारकेयूर-कटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धन- पीताम्बरकाञ्चीगुणनूपुराद्यपरिमितदिव्यभूषण!  स्वानुरूपाचिन्त्यशक्तिशङ्खचक्रगदासिशार्ङ्गादि, असंख्येय नित्यनिरवद्यनिरतिशय-कल्याणदिव्यायुध! स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपरूपगुणविभवऐश्वर्यशीलाद्यनवधिका-तिशय-असंख्येयकल्याणगुणगणश्रीवल्लभ! एवंभूत भूमिनीळानायक ! स्वच्छन्दानुवृत्ति स्वरूप स्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्यनिरवद्य-निरतिशयज्ञानक्रियैश्वर्याद्यनन्तकल्याण-गुणगणशेषशेषाशनगरुडप्रमुखनानाविधानन्तपरिजनपरिचारिका-परिचरितचरणयुगळ! परमयोगि, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावस्वाभिमतविविधविचित्रानन्तभोग्य-भोगोपकरणभोगस्थान-समृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाण, नित्यनिरवद्यनिरतिशयवैकुण्ठनाथ! स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्ति, स्वशेषतैकस्वभाव प्रकृतिपुरुषकालात्मक, विविधविचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानरूपनिखिलजगदुदयविभवलयलील! सत्यकाम! सत्यसङ्कल्प! परब्रह्मभूत! पुरुषोत्तम! महाविभूते! श्रीमन्नारायण! वैकुण्ठनाथ! अपारकारुण्यसौशील्य वात्सल्यौदार्यैश्वर्यसौन्दर्यमहोदधे! अनालोचितविशेषाशेषलोक शरण्य! प्रणतार्ति हर! आश्रितवात्सल्यैकजलधे! अनवरतविदितनिखिलभूतजातयाथात्म्य! अशेषचराचरभूतनिखिलनियमननिरत! अशेषचिदचिद्वस्तु शेषिभूत! निखिलजगदाधार! अखिलजगत्स्वामिन्! अस्मत्स्वामिन्! सत्यकाम! सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! श्रीमन्नारायण! अशरण्यशरण्य! अनन्यशरण:,  त्वत्पादारविन्दयुगलं  शरणमहं प्रपद्ये!॥

अत्र द्वयम्

पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् । रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥

सर्वधर्मांश्च संत्यज्य सर्वकामांश्च साक्षरान् । लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो! ॥

त्वमेव माता च पिता त्वमेव  त्वमेव बन्धुश्च गुरुस्त्वमेव।

त्वमेव विद्या द्रविणं त्वमेव  त्वमेव सर्वं मम देवदेव॥

         पितासि लोकस्य चराचरस्य  त्वमस्य पूज्यश्च गुरुर्गरीयान्।

न त्वत्समोस्त्यभ्यधिक: कुतोऽन्यो लोकत्रयेऽप्यप्रतिम प्रभाव॥

         तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्।

पितेव पुत्रस्य सखेव सख्यु: प्रिय: प्रियायार्हासि देव सोढुम् ॥

       मनोवाक्कायैरनादिकालप्रवृत्तानन्ताकृत्यकरण – कृत्याकरण – भगवदपचार – भागवतापचार – असह्यापचाररूप – नानाविधानन्तापचारान्, आरब्धकार्यान्, अनारब्धकार्यान्, कृतान्, क्रियमाणान् करिष्यमाणांश्च सर्वानशेषत: क्षमस्व ॥

         अनादिकालप्रवृत्तविपरीतज्ञानमात्मविषयं, कृत्स्नजगद्विषयं च, विपरीतवृत्तं च, अशेषविषयं अद्यापि  वर्तमानं, वर्तिष्यमाणं च सर्वं क्षमस्व ॥

       मदीयानादिकर्मप्रवाहप्रवृत्तां, भगवत्स्वरूपतिरोधानकरीं, विपरीतज्ञानजननीं, स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां, दैवीं गुणमयीं मायां, दासभूतश्शरणागतोऽस्मि तवास्मि दास इति वक्तारं मां तारय॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय:

उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥

बहूनां जन्मनामन्ते  ज्ञानवान् मां प्रपद्यते । वासुदेवस्सर्वमिति स महात्मा सुदुर्लभ:

इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ।

पुरुषस्स पर: पार्थ! भक्त्या लभ्यस्त्वनन्यया ।

भक्त्या त्वनन्यया शक्य:,

मद्भक्तिं लभते पराम् ॥

      इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व । परभक्तिपरज्ञानपरमभक्त्येकस्वभावं मां कुरुष्व । परभक्तिपरज्ञानपरमभक्तिकृतपरिपुर्णानवरत, नित्यविशदतमानन्यप्रयोजनानवधिकातिशयप्रिय-भगवदनुभवोऽहं, तथाविधभगवदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेष-शेषतैकरति रूपनित्यकिङ्करो भवानि॥

     एवम्भूतमत्कैङ्कर्यप्राप्त्युपायतया अवक्लृप्तसमस्तवस्तुविहीनोऽपि, अनन्त तद्विरोधि-पापाक्रान्तोऽपि, अनन्तमदपचारयुक्तोऽपि, अनन्तमदीयापचारयुक्तोऽपि, अनन्तासह्यापचार-युक्तोऽपि, एतत्कार्यकारणभूतानादि विपरीताहंकारविमूढात्मस्वभावोऽपि  एतदुभयकार्यकारण-भूतानादिविपरीतवासनासम्बद्धोऽपि, एतदनुगुणप्रकृति विशेषसम्बद्धोऽपि, एतन्मूलाध्यात्मिक-आधिभौतिकाधिदैविकसुखदु:खतद्धेतुतदितरोपेक्षणीयविषयानुभवज्ञानसंकोचरूप- मच्चरणारविन्द-युगलैकान्तिकात्यन्तिकपरभक्तिपरज्ञानपरमभक्तिविघ्नप्रतिहतोऽपि, येनकेनापि प्रकारेण द्वयवक्ता  त्वं केवलं मदीययैव दयया, निश्शेषविनष्टसहेतुकमच्चरणारविन्दयुगलैकान्तिक आत्यन्तिकपरभक्तिपरज्ञान परमभक्तिविघ्न:, मत्प्रसादलब्धमच्चरणारविन्द-युगलैकान्तिक-आत्यन्तिक परभक्तिपरज्ञानपरमभक्ति:, मत्प्रसादादेव साक्षात्कृत यथावस्थितमत्स्वरूपरूपगुण-विभूतिलीलोपकरणविस्तार:, अपरोक्षसिद्धमन्नियाम्यतामद्दास्यैक स्वभावात्म स्वरूप:, मदेकानुभव:, मद्दास्यैकप्रिय:, परिपूर्णानवरतनित्यविशदतमानन्यप्रयोजनानवधिकातिशयप्रिय-मदनुभवस्त्वं, तथाविधमदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैक रतिरूपनित्यकिंकरो भव ॥

     एवंभूतोऽसि, आध्यात्मिकाधिभौतिकाधिदैविक दु:खविघ्नगन्धरहितस्त्वं, द्वयमर्थानुसन्धानेन सह, सदैवं वक्ता यावच्छरीरपातमत्रैव श्रीरंगे सुखमास्व। शरीरपातसमये  तु केवलं मदीययैव दययातिप्रबुद्ध:, मामेवावलोकयन्, अप्रच्युतपूर्वसंस्कारमनोरथ:, जीर्णमिव वस्त्रं सुखेनेमां प्रकृतिं स्थूलसूक्ष्मरूपां विसृज्य, तदानीमेव  मत्प्रसादलब्ध मच्चरणारविन्दयुगलैकान्तिकात्यन्तिक-परभक्तिपरज्ञानपरमभक्तिकृतपरिपूर्णानवरतनित्यविशदतमानन्यप्रयोजनानवधिकातिशयप्रियमदनुभवस्त्वं तथाविधमदनुभवजनितानवधिकातिशयप्रीतिकारित  -अशेषावस्थोचिताशेषशेषतैकरतिरूप-नित्यकिंकरो भविष्यसि, मा ते भूदत्र संशय: ॥ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन। रामो द्विर्नाभिभाषते। सकृदेव प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्व पापेभ्यो मोक्षयिष्यामि मा शुच:

इति मयैव ह्युक्तम् ॥ अतस्त्वं तव तत्त्वतो मद्ज्ञानदर्शनप्राप्तिषु निस्संशयस्सुखमास्स्व ॥

तृणीकृतविरिञ्चादि निरङकुशविभूतयः । रामानुजपदाम्भोजसमाश्रयणशालिनः ||

अन्त्यकाले  स्मृतिर्यातु तव कैंकर्यकारिता । तामेनां भगवन्नद्य क्रियमाणां  कुरुष्व मे ॥

इति श्रीभगवद्रामानुज विरचिते गद्यत्रयप्रबन्धे शरणागतिगद्यम् समाप्तम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.