श्री भगवद् गुण दर्पण: 201-300

श्री भगवद् गुण दर्पण: 201-300

 

22.201   सर्वदृक्

                *201 तृतीय-शतक-प्रारंभः 577. स एव सर्वान्- अनुकूल-प्रतिकूल-तटस्थान् यथार्हं नियन्तुं पश्यति इति सर्वदृक् । “दृशेश्च इति वक्तव्यम्” इति क्विन् । क्विन् पेरत्यय कुः । स हि सर्वतोमुखः ।। [नि-201. अनुकूलान् तटस्थाश्च प्रतिकूलानपि स्वयम् । नियन्तुं च यथायोग्यं यः पश्यति स सर्वदृक् ।।]

22.202   सिंहः

                *202 क एवम् ? सिंहः–महानृसिंहसंहननः । “सिचेः संज्ञायाम्” इति को नुमहौ च ।। (उणा.पा.-5.63) [नि-202. रिपुद्विपानां निषपेष-भीषणः सिंह उच्यते]

22.203   सन्धाता

                *203 रिपुद्विप-निष्पेष-भीषणोऽपि संधाता- प्रणेयानां प्रह्लाद-प्रभृतीनां संश्लेषय्ता ।। [नि-203. प्रह्लादाद्यैः सन्धाता संश्लेषकरणाच्च सः । ]

22.204   सन्धिमान्

                *204 स च तैः सन्धिः नित्योऽस्य अस्ति इति संधिमान् । नित्ययोगे मतुम् ।। [नि-204. प्रह्लादाद्यैः नित्यसन्धिः यस्य स्यात् सन्धिमान् स्मृतः ।]

22.205   स्थिरः

                *205 तत्सन्धाने तदपचार-दुर्विचाल्यतेवात् स्थिरः । “अजिर शिशिर” (उणा.पा.-1.56) इत्यादिना किरच् प्रत्ययो आकार-लोपश्च निपात्यते ।

22.206   अजः

                *206 (96,524). स्तंभ-संभवत्वेन इतरवत् न जायते इति अजः । “अन्येष्वपि दृश्यते” इति डः । (अष्टा.- 3.2.101) “न जायते जनित्र्यां यत् अजस्तस्मात् अनेकजित्” इति ।। [नि-206. स्तंभजत्वात् इतरवत् अजातत्वात् अजः स्मृतः ।]

22.207   दुर्मर्षणः

                *207 प्रतीपैः दिष्करं मर्षणमस्य इति दुर्मर्षणः । “रथांग-शंख-धातारं ब्रह्ममूर्तिं सुभीषम्” इति तद्ध्यानम् ।। [नि-207. दुष्करं मर्षणं यस्य परैः दुर्मर्षणः स्मृतः ।]

22.208   शास्ता

                *208 एवं सर्व-कण्टकं साधु शास्ति इति शास्ता । तत्साधु-कारिणि तृन् । “तृन्तृचौ श्सिक्षदादिभ्यः संज्ञायां च अनिटौ”, (उणा.पा.-2.94) इति अनिट् । यथा– “निनाद-वित्रासित-दानवः” (वि.ध.43.23) “द्रवन्ति दैत्याः” इति ।। [नि-208. समस्तान् कण्टकान् शास्ति इत्यतः शास्ता इति कीर्त्यते ।]

22.209   विश्रुतात्मा

                *209 विश्रुतात्मा- स एव सर्वदा सर्वत्र सर्वैः विस्मयेन श्रुत-सैह-अपदान-स्वभावः । यथा– “अशेष-देवेश-नरेश्वक-ईश्वरैः” इत्यादि ।। (वि.ध.43.27) [नि-209. निस्मयेन श्रुतं देवैः सैहं यस्य अपदानकम् । शीलं तैः विश्रुतात्मा सः महाकीर्तिप्रदो मनुः ।।]

22.210   सुरारिहा

                *210 स एव सुरारिं हिरण्यकशिपुम् उरोविदारं हतवान् इति सुरारिहा । यथा– “सत्सत्त्व-करजश्रेणी-दीप्तेन उभयपाणीमा । संयच्छते यथा सम्यक् भयानां सोऽभयं परम् ।।” इति तद्ध्याने ।। [नि-210. हिरण्यकशिपोः हन्ता कीर्त्यते स सुरारिहा ।] गुरुर्गुरुतमो धाम सत्य-पराक्रमः । निमिषोऽनिमिषः स्नग्वी वाचस्पतिरुदारधीः ।।

23.211   गुरुर्गुरुतमः

                *211 अथ मत्स्यावतारः अशेषविद्वा-परमाचार्यकः गुरुः । “सः पूर्वेषामपि गुरुः” इति हैरण्य-गर्णः । (योगसू.) “कुगोरुच्च” इति कुप्रत्ययः । (उणा.पा.-1.24) । उकाराश्च अन्तावेशः । तस्यैव विशेषणं गुरुतमः, न स्वतन्त्र-नामत्वम् अस्य । “पूज्यश्च गुरुर्गरीयान्” इति ।। (गीता 11.43) [नि-211. अथ मत्स्यावतारस्य प्रस्तावस्तु प्रतन्यते । अशेषविद्याचार्यत्वात् स्मडतो गुरुतमो गुरुः ।।]

23.212   धाम

                *212 संहारनश्वर-चराचरबीजाधार-नौकर्णधारत्वेन तदाश्रयत्वात् धाम । धाञः “सर्वधातुभ्यो मनिन्” इति ‘मनिन्’ प्रत्ययः ।। (उणा.पा.-4.146)

23.213   सत्यः

                *213 मन्वादिषु तत्काल-समाश्रितेषु सत्सु साधुः इति सत्यः ।। [नि-213. मन्वादिष्वपि साधुत्वात् सत्त्य इत्यभिधीयते ।]

23.214   सत्यपराक्रमः

                *214 तेषु सत्यः– अकैतवः, पराक्रमः –वृत्तिः अस्य इति सत्यपराक्रमः ।। [नि-214. वृत्तिर्हि अकैतवा यस्य स स्यात् सत्यपराक्रमः ।।]

23.215   निमिषः

                *215 तद्बिरोधिषु निमिषति- न कटाक्षयति इति निमिषः ।। [नि-215. विरोधिनः सतां योऽसौ नेक्षते निम्षश्च सः ।]

23.216   अनिमिषः

                *216 कः एवम् ? अनिमिषः । सत्सु न निमिषति–जागर्ति इति अनिमिषः दिव्य-मीनतनुः ।। [नि-216. सद्रक्षणे जागरूकः स्मृतो ह्यमनिमिषश्च सः ।]

23.217   स्रग्वी

                *217 तिर्यक्त्वेऽपि परत्व-सूचिनी वैजयन्ती स्रक् अस्य नित्ययोगिनी इति स्रगिवी । “अस्मायामेधास्रजो विनिः” इति विनिः ।। (अष्टा.- 5.2.121) [नि-217. परत्व-सूचिनी या च वैजयन्तीति कीर्तिता। तया स्रजा नित्ययोगात् स्रग्वी इति परिकीर्त्यते । ]

23.218   वाचस्पतिः

                *218 स एव श्रीमन्मात्स्यपुराणेन वेदोपबृंहणात् वाचस्पतिः । “षष्ठ्याः अलुक् ;” षष्ठ्याः पतिपुत्र इत्यादिना सत्वम् ।। (अष्टा.-8.3.53) [नि-218. वेदोपबृंहणात् वाचस्पतिः मात्स्यपुराणतः ।]

23.219   उदारधीः

                *219 सर्वोपजीव्य-सार्वज्ञ्यात् उदारधीः ।। [नि-219. सर्वोपजीव्य-सार्वज्ञ्यात् उच्यते स उदारधीः ।] अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ।। 24 ।।

24.220   अग्रणीः

                *220 तेन प्रकारेण अग्रिमं पस्चिमं पदं, नयति इति अग्रणीः ।। [नि-220. महोदारतया भक्तान् अग्रिमं पश्चिमं पदम् । नयति इति अग्रणीः प्रोक्तः भक्तमोक्षप्रदो मनुः ।।]

24.221   ग्रामणीः

                *221 तत्र च नित्यसिद्धानां, ग्रामं-समाजं, नयति इति ग्रामणीः । “सत्सूद्विष” इत्यादिना क्विप् । (अष्टा.- 3.2.61) “अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्” इति णत्वम् ।। (अष्टा.- 8.4.39) [नि-221. ग्रामं समाजं सूरीणां नयति ग्रामणीः च सः ।]

24.222   श्रीमान्

                *222 “मत्स्यः कमललोचनः” इति स्पष्टपरविभूतिः श्रीमान् ।। [नि-222.मत्स्यरूपावतारेऽपि श्रीमान् कमल-नोत्रतः । ]

24.223   न्यायः

                *223 [नि-223. न्यायो हि युक्त-कारित्वात् भक्तेषु एष विशेषतः ।]

24.224   नेता

                *224 नियुक्तं करोति इति नेता-निर्वाहशीलः । न्याय्यं हि निमज्ज्य निस्तारमं महात्मनाम् ।। [नि-224. भक्तैः नियुक्तं यत् कर्म नेता तत्करणादपि ।]

24.225   समीरणः

                *225 एवमिष्टिचेष्टः समीरणः । “ईर गतौ कंपने च” “चलनशब्दार्थात् अकर्मकाद्युच्” । एवं पवनादयोऽपि (292) । उक्तार्थेषु (अष्टा.- 3.2.148). “कृत्वा मीनमयीं सद्यः प्रविवोश रसातलम् । वेदमूर्तिस्ततो वेदान् आनिन्ये ब्रह्मणोऽन्तिकम् ।।” “ज्ञानादि-गुण-बृन्देन पक्षभूतेन भूषितम् । स्वोत्थ-ब्रह्म-मदं- शृङ्ग-निस्सृतेन विराजितम् ।। ” “कल्पावलान-समये वहन्तं चेव चिनतयेत् । “नौरूपां विततां क्षोणीं प्रजापति-गुणान्विताम् ।। ” “मुक्ताफल-निभेनैव वपुषा निर्मलेन च । अनिमीलित-नेत्रस्च मीनात्मा यतवाक् तथा ।।” [नि-225. भक्तेष्टचेष्टाशीलत्वात् समीरण उदाहृतः ।] अथ एवद्विद्यावतारोज्जीवितासु पुरुषसूक्ताद्यासु परविद्यासु यथा प्रतिपाद्यते तता अनुरूपाणि नामानि सहस्रमूर्धादीनि ।

24.226   सहस्रमूर्धा

                *226 सहस्र-मूर्धा-मूर्धा-अक्षि-पादाः ज्ञान-कर्मं-उपकरम-उपलक्षणार्थाः । सहस्र-शब्दश्च तेषाम् असंख्येयत्व-परः ; “विश्वतश्चक्षुः उत विश्वतोमुख” (तै.ना.1.12) “सर्वतः पाणिपादं तत्” (गीता 13.13) इत्यादि-ज्ञापकात् । तैश्च तत्कार्य-ज्ञान क्रिया-सामर्य्यानन्त्यं लक्ष्यते इति अभियुक्ताः ; औचित्यात्, बहुशास्त्र- संगतेश्च । [नि-226. सहस्रशब्दो हि आनन्त्य-लक्षकः समुदाहृतः । सहस्रमूर्धा सोऽनन्त-शिरस्कः सीर्त्यते ततः । सहस्रमूर्धा स स्याद्वा पुंसूक्ताद्युक्त-नामवान् ।। ]

24.227   विश्वात्मा

                *227 आभ्यां ज्ञान-शकनाभ्यां विश्व-व्यापनात् विश्वात्मा । यथा– “स भूमिं विश्वतो वृत्वा”, (पु.सू.) “येनैष भूतस्तिष्ठत्यन्तरात्मा”, (तै.ना.) “येन सर्वमिदं प्रोतम् ” (तै.ना.50) “अहमात्मा गुडाकेश ! सर्वभूत…” इत्यादि ।। (गीता 10.20) [नि-227. आभ्यां च ज्ञानकर्मभ्यां विश्वात्मा व्यापनात् स्मृतः ।]

25.228   सहस्राक्षः

                *228 आभ्यां ज्ञान-शकनाभ्यां विश्व-व्यापनात् विश्वात्मा । यथा– “स भूमिं विश्वतो वृत्वा”, (पु.सू.) “येनैष भूतस्तिष्ठत्यन्तरात्मा”, (तै.ना.) “येन सर्वमिदं प्रोतम् ” (तै.ना.50) “अहमात्मा गुडाकेश ! सर्वभूत…” इत्यादि ।। (गीता 10.20) [नि-228. आक्षिपादपदे ज्ञान-कर्मेन्द्रियनिदर्शके ।]

25.229   सहस्रपात्

                *229 आभ्यां ज्ञान-शकनाभ्यां विश्व-व्यापनात् विश्वात्मा । यथा– “स भूमिं विश्वतो वृत्वा”, (पु.सू.) “येनैष भूतस्तिष्ठत्यन्तरात्मा”, (तै.ना.) “येन सर्वमिदं प्रोतम् ” (तै.ना.50) “अहमात्मा गुडाकेश ! सर्वभूत…” इत्यादि ।। (गीता 10.20) [नि-229. तेन अनन्त-ज्ञानकर्मा सहस्राक्षः सहस्रपात् ।।] आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः । अहः संवर्तको वग्निः अनिलो धरणीधरः ।। 25 ।।

25.230   आवर्तनः

                *230 “भ्रामयन् सर्वभूतानि” (गीता. 18.61) “कालचक्रं जगच्चक्रं युगचक्रं च केशवः । आत्मयोगेन भगवान् परिवर्तयतेऽनिशम् ।।” (भार.उ.67.12) “तस्माद्विराट् अजायत” इत्यादिनाऽपि इदमेव उच्यते ।। (पु.सू.5) [नि-230. संसाराध्व-घटीयन्त्रे परिवर्तन-शीलतः । चक्रवच्च विशेषेण हि आवर्तनः इति ईरितः ।।]

25.231   निवृत्तात्मा

                *231 ततः संसार-विभूतेः त्रिपाद्विभूतिकत्वेन निवृत्तम्–उद्गतं, स्वरूपं यस्य सः निवृत्तात्मा । “त्रिपादूर्ध्व उदैत्पुरुषः,” (पु.सू.4) “परात् परं यन्महतो महान्तम्” इत्यादि ।। (तै.ना.1.5) [नि-231. त्रिपाद्विभूतिकत्वेन भवपादविभूतितः । उद्गतात्मस्वरूपत्वात् निवृत्तात्मा इति च कत्यते ।।]

25.232   संवृतः

                *232 तसेयाम् अवस्थायां “तमसः परस्तात्” (पु.सू.20) इति तामसानां मूढानां गूढत्वात् संवृतः ।। [नि-232. तामसानां तु मूढानां गूढत्वात् संवृतः स्मृतः ।]

25.233   संप्रमर्दनः

                *233 संवरणं तमः स्वविद्यया संप्रमर्दयति इति स्प्रमर्दनः । “तमेवं विद्वान् अमृत इह भवति” (पु.सू.20) “य एवं विदुः अमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति” इति ।। [नि-233. तमसो विद्यया सम्यक् मर्दनात् संप्रमर्दनः । ]

25.234   अहःसंवर्तकः

                *234 अहरुपलक्षित-काल-परुवृत्तिहेतुः अहःसंवर्तकः । ण्वुल् । “युवोरनाकौ” (अष्टा.-7.1.1) “सर्वे निमेषा जजिरे विद्युतः पुरुषादधि” (तै.ना.1.8) “कालचक्रम्” (भार.उ.67.13) “कालस्य हि च” इति ।। (भार.उ.67.13) कालो हि भूत-भवद्-भविष्यद्रूपेण परापर-प्रत्ययःहेतुः नित्यं भगवत्क्रीडनकम् । स हि तं षड्विध-विकार-कारिणं प्रकृति-पुरिष-संयोजन-वियोजनं नियच्छति । तम् एके व्यवस्थितां प्रकृतेः परिणामपरंपरामाहुः ; अपरे परमेश्वर-चेष्चा- समष्टिम्; अन्ये स्वतन्त्रम् । श्रीपौष्करे कथंचिन्नेयम् उदाहरणम्– “अध्यात्मं काल-तत्त्वीयम् अधिदैवतम् अस्य वै । प्रभवाप्यय-मूर्तिः वै विश्वात्मा परमेश्वरः ।। अधिभूतं परिज्ञेयं त्रैलेक्यं भूतपूर्वकम् । कालश्च अव्यक्त-तत्त्वस्य हि अध्यात्मत्वेन वर्तते ।। अधिदैवतम् इज्याच सद्भेगम् अधिभूतता ।।” इति ।। [नि-234. अहर्लक्षितकालस्य परिवृत्तेश्च साधनम् । अहःसंर्वतक इति प्राहुः वेदान्त-पारगाः ।।]

25.235   वह्निः

                *235 प्रथमश्च देशः परमाकाशः । आपेक्षिको अन्यः गगन-दिगादिः तत्कोणे । यथा– “अस्य अमृतं दिवि” (पु.सू.23) “स्वे महिम्नि स्थितम्” (वि.ध.72.2) “पादोऽस्येहा भवात् पुनः” इत्यादि । (पु.सू.4) देशो हि नाम इह इदम् इत्याद्यवगति-हेतुः । स च तद्दत्त एव बद्दमुक्त-नित्येभ्यः ।। [नि-235. विश्वस्य देसरूपेण वहनात् मह्निः उच्यते ।]

25.236   अनिलः

                *236 एवम् एषाम् अननात्-उज्जीवनात् अनिलः । “सलिकल्पनि” (उणादि पा. 1.54) इत्यादिना इलच् । अस्य कलेव प्रसिद्धो अनिसः । “प्राणात् वायुः अजायत”, (पु.सू.14) “को हि एव अन्यात् कः प्राण्यात् ?” इति ।। (तै.ना. 7) [नि-236. बद्धाहेः अननात् योऽसौ अनिलः परिकीर्तितः ।]

25.237   धरणीधरः

                *237 अन्यदपि धारकं धारयति इति धरणीधरः । “स दाधार पृथिवीम् द्याम् उतेमाम्”, (तै.का.4.1.8) “उद्धृताऽसि वराहेण”, (तै.ना.1) “पृथिवीं च अन्तरुक्षं च द्यां चैव पुरुषोत्तमः । मनसैव विसृष्टात्मा नयति आत्मवशं वशी ।।” इत्यादि ।। (भार.उ.67.5) [नि-237. भूत-धात्र्याश्च धरणेः धारणात् धरणीधरः ।] सुप्रसादः प्रसन्नात्मा विश्वसृट् विश्वभुक् विभुः । सत्कर्ता सत्कृतः साधुः जह्नुः नारायणो नरः ।।

26.238   सुप्रसादः

                *238 स एवं समविधाय संमुखेषु सुपिरसादः । “तमक्रतुं पश्यति वीतशोको धातुः प्रसादात्”, (श्वे.-3.20) “प्रसाद-परमौ नाथौ मम गेहम् उपागतौ” इत्यादि ।। (वि.पु.5.19.20) [नि-238. प्रसादपरमत्वाच्च सुप्रसादः प्रकीर्तितः ।]

26.239   प्रसन्नात्मा

                *239 तत्कारणं प्रसन्नात्मा -स्वत एव अवाप्त-कामतया रागाद्यनुपप्लुत-मनाः । यथा– “अविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः” इति (छा.8.7.3) “शान्तिसमृद्धम् अमृतम्” इति च । (तै.शौ. 6) अपूर्णः कृपणो हि दुराराधः ।। [नि-239. अवाप्त-सर्वकामत्वात् रागादि-रहितं मनः । यस्यास्ति स प्रसन्नात्मा चित्ततुष्टिप्रदो मनुः ।]

26.240   विश्वसृट्

                *240 गिणदोषम् अनपेक्ष्य दाक्षिण्यात् विश्वं सृजति इति विश्वसृट् ।। [नि-240. विश्वं जगत् सृजति यो विश्वसृट् स प्रकीर्तितः ।]

26.241   विश्वभुक् विभुः

                *241 तथैव व्याप्य भुनक्ति-पालयति इति विश्वभुग्विभुः । एकं नाम । यथा– “सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा अभिवदन् यदास्ते” इति ।। (पु.सू.16)

26.242   सत्कर्ता

                *242 एवं सर्पी यो दण्डापूपिक्या सतः सत्कर्ता । यथा– “सज्जन-प्रतिपूजकः” इति ।। (राम.) [नि-242. सत्कर्ता च स विज्ञेयः सज्जवप्रतिपूजकः ।]

26.243   सत्कृतः

                *243 तैः सत्कृतः । स हि तच्छ्रद्धार्पितेन स्वल्पेनापि स्पमहिमानुगुणेन अव अप्रतिपन्न-प्रत्युकारकः परिततुष्यति । “अहो ! ह्येकान्तिनः सर्वान् प्रीणाति भगवान् हरिः । विधि-पिरयुक्तां पूजां च गृह्णाति शिरम् स्वयम् ।” (सात्वत सं) “शबर्या पूजितः सम्यक्” (राम.बा.1.58) “मालाकारेण पूजितः” इति ।। (वि.पु. 5.11.99) [नि-243. अर्चादिभिः सज्जनैः यः पूजितः सत्कृतः स्मृतः ।]

26.244   साधुः

                *244 तदपेक्षित-दूत्य-सारथ्यादि साधयति इति साधुः । “कृवापाजि” इत्यादिना साधेरुण् । (उणा.पाद.-1.1) [नि-244. सेवां साऱथ्यदूत्याद्यां साधुः साधयतीति सः ।]

26.245   जह्नुः

                *245 अभक्तेषु आत्म-माहात्म्यम् अपह्नुते इति जह्नुः इति नैरुक्ताः । उद्योगे यथा– “चक्रं तद्वासुद्वस्य मायया वर्तते विभोः । सापह्नवं पाण्डवेषु चेष्टेते राजसत्तमः ।” इति ।। (भार.उ.6.7.2) [नि-245. अभक्तेष्वात्म-माहात्म्य-निह्नुतेर्जह्नुरुच्यते ।]

26.246   नारायणः

                *246 एवम् एभिः अशेषैः विश्ष्य उपनिषत्सु “नारायणाय विद्महे” (तै.ना. 6.1.26) “नारायण परं ब्रह्म” (तै.ना.6.11) “एको ह वै नारायण आसीत्” (महोप.1) “अथ पुनरेव नारायणः” (महोप) “चक्षुश्च द्रष्टव्यं च नारायणः” (सु.-6) “अथ द्व्यो देव एको नारायणः”(सु.-6) इति प्रतिशाखं परस्य वस्तुनो मूर्त्यन्तर व्यावर्तकतया निर्दिष्टम् असाधारणं नाम आह-नारायणः । श्रौत-निरुक्तम् — “यच्च क्ञ्चित्” इति । (नारा.सू) अन्यत् अषडीक्षणत्वात् न आचक्ष्महे ।। [नि-246. अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्मृतः ।]

26.247   नरः

                *247 इदमेव गूढं व्याचष्टे नरः । अनश्वर-चिदचिग्विभूतिकः ।। [नि-247. पः क्षमो यस्य न ह्यस्ति स नरः समुदाहृतः ।] असंख्येयोऽप्रमेयात्मा विष्ऽटः शिष्टकृत् शुचिः । शिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ।।

27.248   असङ्ख्येयः

                *248 तत्समूहाश्च असंख्येयः ।। [नि-248. अगण्य-नरसंघो यः सोऽसंख्येयः प्रकीर्तितः ।]

27.249   अप्रमेयात्मा

                *249 तेषामसंख्येयानाम् एकैकशोऽपि अप्रमेयानाम् अनवधिकानाम् अन्तर्बहिश्च [नि-249. एकैकशोऽप्रमेया या ह्यसंख्याता विभूतयः । तासां चेव अप्रमेयात्मा व्यापनात् बहिरन्ततः ।]

27.250   विशिष्टः

                *250 स्वत एव तदनपेक्ष-वैलक्षण्यत्वात् विशिष्टः ।। [नि-250. विलक्षो विश्ष्टो यो सर्वान् तान् अनपेक्ष्य सः ।]

27.251   शिष्टकृत्

                *251 अपि तु स्वसंबन्धेन तान् स्वानुगुण-कल्याणान् कुर्वन् ।

27.252   शुचिः

                *252 अनाधेय-दीप्तः शिष्टकृत् शुचिः ।। [नि-251,252. स्वानुकूल-शुभान् कुर्वन् स्वसंबन्धेन तान् स्नयम् । अनाधेय-महादीप्तिः शिष्टकृत् शुचिः उच्यते ।।]

27.253   सिद्धार्थः

                *253 अथ यतोक्तोपपादनम् । सिद्धार्थः, स्वत एव अवाप्तकामत्वात् ।। [नि-253. सिद्धाः प्राप्याः यस्य सर्वे ह्यर्थाः सिद्धार्थ ईरितः । अवाप्तः-सर्वकामो वा सिद्धार्थ इति कथ्यते ।।]

27.254   सिद्धसङ्कल्पः

                *254 तदुपरि लिद्ध-संकल्पः च । स्वातन्त्र्येण प्रयुक्तततया स्वेच्छया साधित- सर्वार्थः इत्यर्थः ।। “सत्यकामः सत्यसंकल्पः” इति ।। (छा.-8.7.3) [नि-254. सत्य-संकल्पवत्त्वाच्च सिंद्धसंकल्प ईरितः ।]

27.255   सिद्धिदः

                *255 अणिम-गरिमाद्याः सिद्धीः साधकेभ्यो ददाति इति सिद्धिदः ।। [नि-255. सिद्धिदः साधकेभ्यो यो ह्यणिमाद्यष्टलिद्धिदः ।]

27.256   सिद्धिसाधनः

                *256 यस्य साधनमपि “ये तु धर्म्यामृतम्” इति (गीता 12.20) न्यायेन अनुष्ठान- वेलायामपि प्रियंकरत्वात् सिग्घिरूपम्, सः सिद्धिसाधनः ।। [नि-256. तत्सिध्देश्चापि हेतुत्वात् सिद्धिसाधन ईरितः । ] वृषाही वृषभो विष्णुः वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ।। 25 ।।

28.257   वृषाही

                *257 निखिल-मेगलांकुर-अर्पण-दिनत्वात् वृषरूपं धर्मरूपम् अहः अस्य प्रथमाभिगमन- दिवसं वृषाही । “राजाहस्सखिभ्यष्टच्” । तदस्य अस्तीति वृषाही । यथा– “अद्य मे सफलं जन्म सुप्रबाता च मे निशा । यदुन्निद्राब्जपत्राक्षं विष्णोः द्रक्ष्याम्यहं मुखम् ।।” (वि.पु.5.17.3) “ता विशास्ते च दिवसाः” इत्यादि । “यदा ह्येवैष एतस्मिन्नदृश्ये…. अथ सोऽभयं गतो भवति” इति च ।। (तै.आ.2.7) [नि-257. वृषो हि धर्मस्तद्रूपम् अहर्यस्य दिनं स्मृतम् । प्रथमाभिगमाहाख्यं वृषाही स प्रकीर्तितः ।।]

28.258   वृषभः

                *258 “ऋषिवृषिभ्यां कित्” वृषेरभच्प्रत्ययः किद्वद्भावश्च ।। (उणा.पा.-3.123) [नि-258. अभिगच्छद्भक्तजनान् सुधावर्षणतोऽन्वहम् । वृषभश्च समाख्यातः सिञ्चन् भयहरो मनुः ।।]

28.259   विष्णुः

                *259 एवं वर्षन् वेवेष्टि इति विष्णुः । विष् ल् व्याप्तौ “विषेः किच्च” इति णुः। (उणा.पा.-3.39) तैस्तैः उपकारैः अधिकेन भगवता न्यूनानां स्वव्यतिरिक्तानाम् अविनाभावः तर्किकः प्रसिद्दः अत्र व्याप्तिः अभिमता । “न तदस्ति विना यत् स्यात् मया भूतं चराचरम्” इति ।। [नि-259. विष्णुः स्यात् अविनाभावात् व्याप्यव्यापक-भावतः ।]

28.260   वृषपर्वा

                *260 वृषाः– वर्णाश्रमधर्माः । ते तदारोहणपर्वाणि इति वृषपर्वां ।। [नि-260.पृषा वर्णाश्रमा धर्माः पर्वाण्यारोहणे तु ते । यस्य सन्ति सदा सौऽयं वृषपर्वा प्रकीर्तितः ।।]

28.261   वृषोदरः

                *261 आराधकानां यथालब्ध-हविरादिभिः सुपूरत्वेन सर्वातास्पदत्वेन धार्मिकोदरत्वात् वृषोदरः ।। [नि-261. भक्तैः उपाहृतां पूजाम् उपहाराश्च धर्मतः । कृत्वोदरे यो जयति स वृषोदरः उच्यते ।।]

28.262   वर्धनः

                *262 मातृवत् तान् उदरे कृत्वा वर्धयति इति वर्धनः ।। [नि-262. मातृवत् जठरे कृत्वा भक्तान् वर्धयति स्वयम् । वर्धनः प्रोच्यते नित्यम् सप्तार्णो वृद्धिदो मनुः ।।]

28.263   वर्धमानः

                *263 तान् वर्धयन् स्वयमपि वर्धते इति वा, एवं प्रायैः अपर्यवस्यत्-समृद्धिः इति वा वर्धमानः ।। [नि-263. वर्धयन् तान् स्वयमपि वर्धमानस्च वर्धनः ।]

28.264   विविक्तः

                *264 एवं सर्व-लेकोत्तरस्वैकान्त-वृत्तान्तत्वात् विविक्तः ।। [नि-264. लोकोत्तरादिवृत्तान्तात् स्वैकान्तात् गुणबृंहितात् । विविक्त इति विख्यातः पावनत्वप्रदो मनुः ।।]

28.265   श्रुतिसागरः

                *265 एवं प्रकारगुण-प्रवणानां श्रुतीनां सागर इव सरिदोघानां परमा पर्यवसान-भूतिः इति श्रुतिसागरः । “नापायणपरा वेदाः” (भाग. 2.5.15) “वेदैश्च सर्वैः अहमेव वेद्यः” इति । (गीता 15.15) [नि-265. नदीनां सागर इव स्वगुणोक्तिविधाजुषाम् । श्रुतीनाम् अवसानत्वात् कथ्यते श्रुतिसागरः ।।] सुभजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।

29.266   सुभुजः

                *266 प्रपन्न-भर-धुर्य-शोभनभुजः सुभुजः ।। [नि-266. प्रपन्नः-भरणे धुर्यभुजो यः भूभुजस्तु सः ।]

29.267   दुर्धरः

                *267 तादृग्भुजबलेन संवर्त-समुद्रवेगो बालक्रीडा-सैकत-सेतुभिरिव परैः दुर्वारवेगो दुर्धरः । “ईषद्दुःसुषु” (उष्टा.3.3.126) इत्यादिना खल् । एवं दुर्लभः (783) दुर्गमः (784) इत्यादयोऽपि ।। [नि-267. परैः दुर्वारवेगो यः दुर्धरः स च कथ्यते ।]

29.268   वाग्मी

                *268 तथा प्रशस्यतया वाक् अस्य अस्तीति वाग्मी । प्रशंसायां “वाचो ग्मिनिः” । (उष्टा. 5.2.124) । प्रशस्यत्वं च वेदात्मकत्वात् जित्वर-मधुर-गंभीर-प्रिय- हितत्वाच्च । यथा– “वाग्विवृताश्च वेदाः” “उत्तरेत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा” । (रामा.अ.1.17) “भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्” (गीता 10.18) “बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः” (राम.अ.1.13) “ईरयन्तं भारतीं भारतानाम् अर्चनीयां शङ्करीं सृञ्जयानाम् । बुभूषद्भिः ग्रहणीयामनिन्द्यां परासूनाम् अग्रहणीयरूपाम् ।। ” “अमोघ-मेघस्वनः काले प्रगृह्य विपुलं भुजम् । अनर्मकृतम् अत्रस्त्तम् अनिरस्तम् असंकुलम् ।। राजीव-नेत्रो राजानां हेतुमद्वाक्यम् अब्रवीत् ।।” इत्यादि ।। [नि-268. वेदलक्षण-वक्तृत्वात् नाग्मी प्रियहितोक्तितः ।]

29.269   महेन्द्रः

                *269 एवं सर्वतोमुकं प्रसृतत्वात् पूज्य-परमैश्वर्यः –महेन्द्रः । “इदि परमैश्वर्ये” “ऋत्रेन्द्राग्र” (उणा.पा.-2.31) इत्यादिना रन् प्रत्ययान्तो निपातितः ।। [नि-269. परमैश्वर्यवत्त्वेन महेन्द्र इति शब्द्यते ।]

29.270   वसुदः

                *270 एवं सत्यपि अनभिभवनीये महेन्द्रत्वेन महत्वे, लघुभ्यो धनायद्भ्यो धनं ददाति इति वसुदः । यथा– “देवेन्द्रः त्रिभुवनमर्थम् एक पिंगः” इत्यादि ।। [नि-270. वसुदो धनदानाच्च धनायद्भ्यो विशेषतः ।]

29.271   वसुः

                *271 “वासुदेवः सर्वम्” इति प्रकारेण गरींयसां स्वयमेव धनम् इति वसुः ।। (गीता) [नि-271. सर्वस्य हरिरूपत्वात् धनं यस्मात् वसुः ततः ।]

29.272   नैकरूपः

                *272 अथ यथोक्त-महिमोचित-वैश्वरूप्यम् । तत्तत्सर्वं-प्रतीति-योग्यरूपो नैकरूपः “नभ्राण्णपात्”(अष्टा.-6.3.75) इत्यत्र नभ्राड्ग्रहणस्य प्रदर्शनार्थत्वात् नञ्समा- सस्य महाविभाषया विकल्पितत्वाद्वा ‘न’ लोपाभावः । एवं नैकमायः (303) इत्यादयः । “विश्वरूपाय” इति मन्त्रवर्णात्, “पश्यामि त्वां सर्वतोऽनन्तरूपम्” इति ।। (गीता 11.16) नाकरूपः समुद्दिष्टः सर्वप्रत्ययगोचरः ।।]

29.273   बृहद्रूपः

                *273 एषु एकाकमेव दिग्व्योमावकाशं व्याप्नुवत् बृहत् रूपस्य इति बृहद्रूपः । यथा– “द्यावा-पृथिव्योः इदव् अन्तरं हि व्याप्तं त्वया एकेन दिसश्च सर्वाः” इति ।। (गीता 11.20) [नि-273. व्याप्नुवत् यस्य रूपं तु बृहद्रूपः स कीर्तितः ।]

29.274   शिपिविष्टः

                *274 शिपयः-रश्मयः, तान् संप्रविष्टः- व्याप्तवान् इति शिपिविष्टः । यास्कः — “शिपयो रश्मयः उच्यन्ते, तैः आविष्टः” इति । (यास्क) एतत्प्रायम् आर्षम् “श्पिविष्टेति यच्चास्य पीतं रोम च यद्भवेत् । तेनापि विष्टं यत् किंचित् शिपिविष्टं हि तत्स्मृतम् ।।” (भार.शा.343.41) उद्योगे– “रोमकूपेषु च तथा सूर्यस्येव मरीचयः” इति । (भार.उ) “तेजोभिरापूर्य जगत् समग्रं भासस्तव उग्राः प्रतपन्ति विष्णो!” इति ।। (गीता 11.30) [नि-274. शिपयो रश्मयः प्रोक्ताः व्याप्य तेष्वपि वर्तनात् । शिपिविष्टः समाख्यातः सूर्येन्दु अग्न्यादि -रूपवत् ।।]

29.275   प्रकाशनः

                *275 इदमेव दिव्यं रूपं दिदृक्षुभ्यः अर्जुनादिभ्यः असौ प्रकाशयति-प्रकाशनः । यथा- “दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्” (गीता 11.8) “सुदुर्दर्शम् इदं रूपं दृश्टवान् असि यन्मम” इति ।। (गीता 11.52) [नि-275. दिव्यरूपं(विश्वरूपं-पा) दिदृक्षुभ्यः पार्थादिभ्यो विशेषतः । रूपं प्रकाशयति यः स प्रकाशन ईरितः ।। ] ओजस्तेजो-द्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रः चन्द्रांशुः भास्करद्युतिः ।। 30 ।।

30.276   ओजस्तेजोद्युतिधरः

                *276 ओजः – बलम्; तेजः-पराभिभवन-सामर्थ्यं, कीर्तिः वा ; द्युतिः-औज्ज्वल्यम् । तानि धरतीति ओजस्तेजो-द्युतिधरः सः एव । एकं नाम । “यथा प्रदोप्तं ज्वलनं परङ्गाः विशन्ति नाशाय ससृद्ध-वेगाः”, (गीता 11.29) “स्थाने हृषीकेश ! तव प्रकीर्त्या”, (गीता 11.36) “दिवि सूर्य-सहस्रस्य भवेत् युगपदुत्थिता” इत्यादि ।। (गीता 11.12) [नि-276. असाधारण-सामर्थ्यं बलम् ओजः प्रचक्षते । पराभिभव-सामर्थ्यं तेजश्च परिपठ्यते ।। कीर्तिः वा द्युतिः औज्ज्वल्यं तानि धत्ते च वः सदा । ओजस्तेजोद्युतिधरो हि एकनामा प्रकीर्तितः ।।]

30.277   प्रकाशात्मा

                *277 मूर्खैरपि संप्रतिपन्न-पर-प्रभावः प्रकाशात्मा । यथा धृतराष्ट्रः– “त्वमेव पुण्डरीकाक्ष! सर्वस्य जगतः प्रभुः । तस्मात् मे यादवश्रेष्ठ ! प्रसादं कर्तुमर्हसि ।।” इति ।। (भार.उ.) [नि-277. मूर्खेरपि सदा सम्यक् प्रतिपन्न-स्वमाववान् ।

30.278   प्रतापनः

                *278 “भासस्तव उग्राः प्रतयन्ति” इति प्रतापनः ।। (गीता 11.30) [नि-278. तीक्ष्णभावः प्रतापनः ।]

30.279   ऋद्धः

                *279 एवम् कूलम् उद्वहत्-पार्वणार्णवः इव ऋद्धः । यथा उद्योगे– “ततः स पुरुषव्याघ्रः संजगाद पुनः स्वयम् । तां दिव्याम् अद्भुतां चित्राम् ॠद्धिमत्ताम् अरिन्तम ! ।।” (भार.उ.) [नि-279. पार्वमो जलधिः यद्वत् वृद्धिमान् ॠद्धः उच्यते ।]

30.280   स्पष्टाक्षरः

                *280 अनया ऋद्ध्या प्रतिपाद्यया स्पष्टीकृत-वेदाक्षरः इति स्पष्टाक्षरः ।। [नि-280. स्पष्टीकृताश्च वेदार्णाः यस्मात् स्पष्टाक्षरः ततः ।]

30.281   मन्त्रः

                *281 “तन्मन्तारं त्रायते इति मन्त्रः” इति नैरुक्ताः । ब्राह्मे दुष्टविद्रावण स्तोत्रे– “प्राण-प्रयाणे कः स्मर्तुं शक्तः स्यात् मधुसूदन ! ” इति (ब्रह्म.) पृच्छन्तं नारदं प्रति भगवान्– “तृष्णा-तोय-समाकीर्णात् घोरात् संसार-सागरात् । अपारात् पारमाप्नोति यो मां स्मरति नित्यशः ।।” “स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः । धातु-साम्ये स्थिते स्मर्ता विश्वरूपं च माम् अजम् ।। ततस्तं म्रियमाणां तु काष्ठपाषाण-सन्निभम् । अहं स्मरति मद्भक्तं नयामि परमां गतिम् ।। इति ।।” (वारह) [नि-281. मन्तारं त्रायते इति मन्त्रश्चाप्य भिधोयते ।]

30.282   चन्द्रांशुः

                *282 तेषां मन्तॄणां क्लमहर-आह्लादन-तेजस्त्वात् चन्द्रांशुः ।। “चदि आह्लादने।” “स्फायितञ्चि” इत्यादिना रन् । चन्द्रः । (उणा.पा.-2.13) यथा– “ते तं सोममिव उद्यम्तम् दृष्ट्वा” इत्यादि ।। (राम.आ.1.11) [नि-282. क्लमहारि-महाह्लाद-तेजस्करतयाऽपि च । मन्तॄणामेव चंद्कांशुः आह्लाद-फलदो मनुः ।।]

30.283   भास्करद्युतिः

                *283 परेषां परिभावुक-प्रभावत्वात् भास्कर-द्युतिः । यथा– “रक्षांसि भीतानि दिशो द्रवन्ति ” इति , (गीता 11.36) “शर-जालांशुमान् शुरः कपे! राम-दिवाकरः । शत्रु-रक्षोमयं तोयम् उपशोषं नयिष्यति ।।” इति च । (राम.सु.37.18) उभयत्र– “एवम् एषोऽसुराणां च सुराणां चैव सर्वशः । भयाभयकरः कृष्णाः सर्वलोकेश्वरः प्रभुः।।” इति ।। (भार.स.62.27) [नि-283. परप्रभावाभिभव-लक्षण-द्युतिमान् च सः । स भास्करः-द्युतिः प्रोक्तः नेत्र-वैमल्यदो मनुः ।।]

31.284   अमृतांशूद्भवः

                *284 सर्वतापहर-आप्यायन-मृतसंजीवन-अमृतमयांशुः चन्द्रोऽपि तन्मनः- सैत्यादिगुण- उपस्नेहात् तथा उद्भवति इति अमृतांशूद्भवः । “चन्द्रमा-मनसो जातः” इति ।। (पु.सू) [नि-284. सर्वताप-हरस्यैव मृत-संजीवनस्य च । अमृतांशोर्हि तज्जत्वात् अमृतांशूद्भवः स्मृतः ।।]

31.285   भानुः

                *285 अतिभास्वरेण सहस्रांशुनाऽपि उपजीव्यतेजाः भाति इति भानुः । “यस्यादित्यो भाम् उपयुज्य भाति” इति ।। [नि-285. रवेः तेजस्करत्वाच्च भानुः इत्याभिधीयते ।]

31.286   शशबिन्दुः

                *286 एवं च शश-बिन्दुः । “शश प्लुतगतौ” । शशानां-कुटिलगतीनां, बिन्दुः– इपलपिता । बिदि अवयवे । “बिन्दुरिच्छुः” इति उप्रत्ययान्तो निपातितः ।। [नि-286.शशः प्लुतगकिः प्रोक्तः बिन्दुः तस्य निवर्तकः । कौटिल्य-गीत-विध्वंसी शशबिन्धुः उदाहृतः ।।]

31.287   सुरेश्वरः

                *287 तथा ऋजु-गतीनां निर्वाहकः सुरेश्वरः । “सर्वं जिह्वां मृत्युपदम् आर्जवं ब्रह्मणः वदम्” इतिवत् ।। (भार.शा.79.22) [नि-287. धर्ता ॠजुगतीनां यः स सुर्श्वर इतीरितः]

31.288   औषधम्

                *288 भव-तीव्र-विषापह-प्रभावत्वात् औषधम् । यथा– “देवा देवर्षयश्चैव यं विदुः दुःख-भेषजम्” “एकाग्रता-मूल्य-बलेन लभ्यं भवौषधं त्वं भगवन् ! किलैकः ” इत्यादि ।। [नि-288. भवतीव्रविषं हता हि औषधं यः स उच्यते ।]

31.289   जगतः सेतुः

                *289 एवं सदसद्वर्ग-संकर-विरोधित्वेन जगतः सेतुः । “षिञ् बन्धने” “सितनिगमि” इत्यादिना तुन् । यथा– (उणा.पा.- 1.72) “एष सेतुः विधरण एषां लोकानाम् असंभेदाय” (वृ.6.4.22) इति । अतः खलु कर्मसु अकृताभ्यागम-कृतविप्रणाशयोः अप्रसक्तिः । “यथा धेनुसहस्रेण वत्सो विन्दति माकरम् । तथा पूर्वकृतं कर्म कर्तारम् अनुविन्दति ।।” “शुभकृत् शुभम् आप्नोति पापकृत् पापम् अश्नुते ।। इति ।।” (राम.यु. 114.25) [नि-289. निरोधात् जगतः सेतुः सदसद्वर्गा-संगतेः ।]

31.290   सत्यधर्मपराक्रमः

                *290 एवंविधाः धर्माः-कल्याणगुणाः, पराक्रमः-चैष्टितानि च, सत्याः-अवितथाः यस्य सः सत्यधर्मपराक्रमः । तथा हि गुणचेष्टितानि प्रक्रम्य– “सर्वमेतत् ऋतं मन्ये यन्मां वदसि केशव!” इति अर्जुनः । (गीता 10.14) “विष्णुः सत्यपराक्रमः” (राम.यु.114.16) “मंवाकेषु अनुवाकेषु च निषस्त्सु उपनिषसु च । गृणम्ति सत्य-कर्माणं सत्यं सत्येषु सामसु ।।” इति च ।। चेष्टितानि च सन्ति इति सत्यधर्मपराक्रमः ।।] भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः ।। 32 ।।

32.291   भूतभव्यभवन्नाथः

                *291 एवं प्रायं स्वाम्यम् ऐश्वर्यं वा न केवसम् अद्य, किं तु त्रिकालेषु इति भूत-भव्य-भवन्नाथः । यथा– “भूत-भव्य-भवन्नाथः केशवः केशिसूदनः । प्राकारः सर्ववृष्णीनाम् आपत्सु अभयदोऽरिहा ।।” इति ।। [नि-291. ऐश्वर्यं स्वाम्यम् अथवा त्रिषु कालेषु यस्य सः । भूतभव्य-भवन्नाथः इत्युक्तः सग्भिरादरात् ।। ]

32.292   पवनः

                *292 एवं सर्वदा सर्वत्र स्वभावादेव पुनाति इति पवनः । पविः गत्यर्थः । एतद्गन्धेन गन्धवाहस्यापि सततगतित्वम् ।। [नि-292. यतः स्वयं तु सर्वत्र प्रवहत्येष नित्यशः । प्रवाहः हवनः तस्मात् कथ्यते वेगदो मनुः ।।]

32.293   पावनः

                *293 तथा स्वसंबन्धिनो गंगादीन् जगत्पुनानात् प्रयोजयति इति पावनः । यथा अगस्त्यः- “पावनः सर्वलोकानां त्वमेव रघुनन्दन!” इत्यादि ।। (राम.उ.32.9) [नि-293. यः स्वसंबन्धिगंगादीन् पावयेत् लेकपावनान् । स पावनः इति ख्यातः पावनत्वप्रदो मनुः ।।]

32.294   अनलः

                *294 एवं बहुमुखम् उपकृत्य च न अलं– न पर्याप्तम् अस्य अनुग्रहमहिमा इति अनलः । अतन्द्रो देवः । ईदृक्-शक्तिशीकर-अनुवेधात् लौकिकानलस्यापि अनलत्वम् । “हविषा कृष्णवर्त्मेव भूय एव अभिवर्धते” इति ।। (वि.पु.4.10.3) [नि-294. अपर्याप्तो हि भक्तेभ्योऽपि उपकृत्य पुनः पुनः । अनुग्रहं यः करोति सः अनलः परिकीर्तितः ।।]

32.295   कामहा

                *295 एवंप्रकार-स्वगुण-दर्शिनां विषयान्तर-विषय-स्पृहां हन्ति-कामहा । “न कामकलुषं चित्तं मम ते पादयोः स्थितम्” इति तद्दर्सिनः । (जितं ते) “श्रोत्रियस्य च अकामहतस्य” (तै.आन.8) “यद्चेछन्तो ब्रह्मचर्यं चरन्ति” इति च ।। (कठ.-1.2.15) [नि-295. पुंसां स्वदर्शिनां योऽसो स्पृहां च विषयान्तरे । हतवान् कामहा प्रेक्तः सर्वाशा-पूरको मनुः ।। ]

32.296   कामकृत्

                *296 अन्यदपि भोग्मोक्षादिकं स्वयमेव काम्यं करोति इति कामकृत् ।। [नि-296. स्वपादपद्मे रागादि-करणात् कामकृत् स्मृतः ।]

32.297   कान्तः

                *297 स्वयं सौन्दर्य-सौकुमार्यादि-रूप-गुणैः कान्तः । कमेः निष्ठायां “अनुनासिकस्य क्विझलोः क्ङिति”, (अष्टा.-6.4.15) इति धीर्घः ।। [नि-297. सौन्दर्यादि-गुणैः कान्तः ।]

32.298   कामः

                *298 हि मदनोऽपि जगत् उन्मादयति ।। [नि-298. कामो भृश-मनोहरः ।]

32.299   कामप्रदः

                *299 स्वकामोभ्यः क्षुद्र-कामेभ्यः यथार्ह काम्यं प्रददाति इति कामप्रदः । “प्रे दाज्ञः” इति कः । वसुप्रदः (698,699) इत्यादयोऽपि । (अष्टा.-3.2.6) यथा– “एको बहूनां यो विदधाति कामान्” इति ।। (कठ.-2.2.13) [नि-299. स्वकाम्य-क्षुद्रकाम्यीभ्यो यतार्हं काम्यदानतः । कामप्रदः समाख्यातो ह्यष्टार्णो मनुरुत्तमः ।।]

32.300   प्रभुः

                *300 अनया नितान्त-कान्ततया सर्वहृदय-हरणे प्रभवति इति प्रभुः । “रामः कमलपत्राक्षः सर्वलत्व-मनोहरः” इत्यादि ।। [नि-300. सर्वेषां चित्तहरमे प्रभुः प्रभवतीति यः ।।] इति श्रीहरितकुलतिलक-श्रीवत्सांकमिश्रसूनोः श्रीरंगराज-दिव्याज्ञा-लब्ध-श्रीपराशरभट्ट-अपरनामधेयस्य श्रीरंगनाथस्य कृतौ श्रीविष्णुसहस्रनामविवरणे श्रीभगवद्गुणदर्पणे तृतीयं शतकम् समाप्तम् ।।

…Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.