श्री भगवद् गुण दर्पण: 501-600

श्री भगवद् गुण दर्पण: 501-600

 

53.501   शरीरभूतभृत्

                *501 ।। षष्ठशतकप्रारंभः ।। “तस्य मूर्वा समभवत् द्यौः सनक्षत्रदेवता” इति आरभ्य, (भार.सा.348.49) “एतत् हयशिरः कृत्वा नानामूर्तिभिरावृतम्” इत्यन्तम् ।। (भार.शा.) [नि-501. देहभूतं जगत्तत्वं प्रकृत्यादिधरान्तकम् । शरीरभूतभृत् प्रोक्तो बिभर्तीति दशाक्षरः ।।]

53.502   भोक्ता

                *502 . “यत्तु तत्कथितं पूर्वं त्वया हयशिरो महत् । हव्यकव्यभुजो विष्मोः उदक्पूर्वे महोददौ ।।” इति भोक्ता ।। (भार.शा.348.3) [नि-502. हव्यं कव्यं च यो स भोक्ता परिकीर्तितः ।]

53.503   कपीन्द्रः

                *503 अथ एवं समवर्धित-वेदविहित-कर्मप्रवर्तकः पुरा रामः स्वविसदृषलीला-मनुजावतारे स्वदासानां विसदृशतर-कपिरीपं प्रपन्नानां देवानां इन्द्रः उपेन्द्रः । “सर्वलोकेश्वरः साक्षात् लोकानां हितकाम्यया । सर्वैः परुवृतो देवैः वानरत्वम् उपागतैः ।।” इति ।। (राम.यु.114.16) [नि-503. कपिरूपं प्रपन्नानां देवानामीश्वरत्वतः । कपीन्द्र इति विख्यातः सप्तार्णो मनुनायकः ।।]

53.504   भूरिदक्षिणः

                *504 स एव जगदाचार्यकाय हयमेधादिभिः यजमानः भूरिदक्षिणः । “अश्वमेधशतैः इष्ट्वा” इत्यादि ।। (राम.बा.1.14) [नि-504. हयमेधादिभिर्यज्ञैः जगदाचार्यकाय वै । यजमानः स विज्ञेयः सर्वदा भूरिदक्षिणः ।।] सोमपोऽमृतवः सोमः पुरुजित् पुरिसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्त्वतां पतिः ।। 54 ।।

54.505   सोमपः

                *505 तत्रैव शोमापीथी शोमपः । [नि-505. हयमेधे सोमपीथी सोमपः परिकीर्तितः ।]

54.506   अमृतपः

                *506 “यत् किंचित् हूयते वह्नो हविर्मन्त्रैः विधानतः । तत् सर्वममृतं कृत्वा विष्णवे संप्रयच्छति ।।” इति , “अहं हिसर्वयज्ञानां भोक्ता च प्रभुरेव च ।” इति हविः — (गीता 9.24) परिणामरूपम् अमृतं स्वयमेव पिबति च इति अमृतपः । स्वानुष्ठान-अनुविधायिभ्यः स्वानुभवरूपम् अमृतं परमे व्योम्नि पाति इति वा अमृतपः- “यत्र देवा अमृतम् आनशानाः तृतीये धायान्यभ्यैरयन्त” इति , (तै.ना.6.15) “अमृतस्य एष सेतुः” (मु.-2.2.5) “यस्य छाया अमृतम्” इति ।। (तै.यजु.4.1) [नि-506. परिणामोऽस्य हविषां पीयूषमिति कथ्यते । तत्नात् स्यात् अमृतपः परमे व्योम्नि वा स्थितः । मुक्तेभ्यो यः स्वानुभवं पाति इति अमृतपः स्मृतः ।।]

54.507   सोमः

                *507 स्वस्मै स्वामुभवितृभ्यश्च अमृतायमानः सोमः । सोमशब्दो हि अमृतवाची । “महता तपसा राम! महता चापि कर्मणा । राज्ञा दशरथेनासि लब्धोऽमृतमिव अमरैः ।।” इति , (राम.आ.) “अमृतस्येव नातृप्यन् प्रेक्षमाणा जनार्दनम्” इति, “शान्तिसमृद्धम् अमृतम्” इति च ।। (ता.शी. 6) [नि-507. सोमः सुधायमानत्वात् मुक्तानां परिकीर्तितः । ]

54.508   पुरुजित्

                *508 “सत्येन लोकान् जयति दीनान् दानेन राघवः । गुरून् शिश्रूषया वीरो धनुषा युधि शात्रवान् ।।” इति बहूनां जयात् पुरुजित् ।। [नि-508. लोकान् गुरून् शत्रून् बहून् सत्येन दानतः । शुश्रूषया महत्सु अस्तितमः जितवान् पुरुजित् स्मृतः ।।]

54.509   पुरुसत्तमः

                *509 . “स्नेहो मे परमो राजन् ! त्वयि नित्यं प्रतिष्ठितः । भक्तितश्च नियता वीर! भावो नान्यत्र गच्छति ।।” (राम.उ.40.15) “यावत् रामकथा वीर! इत्यादिवत् स्वगुणामृतसमुद्रपिपासिषु हनुमदादीषु महत्सु अस्तितम इति पुरुसत्तमः ।।” (राम.उ.40.16) [नि-509. पुरुः महान् महत्सु अस्तितमः हनुमदादिषु । पुरुसत्तमः आश्यातो नवार्णः स्वस्तिदो मनुः ।।]

54.510   विनयः

                *510 मारीचादयोऽपि वीर्यादिना अस्मात् व्नीयस्ते दम्यन्ते इति विनयः ।। [नि-510. कुंभकर्णमहाकाय-खर-मारीच-रावणः । दम्यन्ते विक्रमैर्येन विनयः स उदाहतः ।।]

54.511   जयः

                *511 आश्रितैः जीयते-विधेयीक्तियते इति जयः । यथा- “आज्ञाप्योऽह तपस्विनाम्”, (राम.बा.3.37) “ततो नारायणो विष्णुः नियुक्तः सुरसत्तमैः” इति ।। (राम.बा. 16.1) [नि-511. आश्रितै जीथते यस्मात् विधेयोक्रियते जयः ।।]

54.512   सत्यसन्धः

                *512 तेषु सत्या, सन्धा-प्रतिज्ञा, अस्य इति सत्यसन्धः । यथा- “अप्याहं जीवितं जह्यां त्वां सीते ! सलक्ष्मणाम् । न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ।।” (राम.आ.10.19) “सत्यसन्धो जितेन्द्रियः” इति च ।। (राम.बा. 1.39) [नि-512. सत्या प्रतिज्ञा यस्येति सत्यसन्धः स उच्यते ।]

54.513   दाशार्हः

                *513 दाशः-दानं, भक्तैः स्वस्मै स्वात्मनिवेदनरूपं, तेभ्यो वा स्वात्यसमर्पणरूपम् अर्हति इति दाशार्हः । “अहं” इति अच् । (अष्टा.-3.2.12) एवं महार्ह (525) इत्यादि । कृष्णतेवे दशार्हाणाम् अपत्यत्वात् वा दाशार्हः ।। [नि-513. आत्मनो वाऽर्पणं भक्तैः तेभ्यो वा सावत्मानोऽर्पणम् । दाशस्तमर्हतीत्येव दाशार्हः परिकीर्तितः ।।]

54.514   सात्वतां पतिः

                *514 परं ब्रह्म, सत्वं वा सत् । “तदस्यास्ति” इति मतुप् । (अष्टा.-5.2.94) सात्वतम् । ततः “तत् करोत् तदाचष्टे” इति णिच् । णाविष्ठवत् प्रातिपदिकस्य इति इष्ठवब्भावात् टिलोपः । (अष्टा.-6.4.155) वार्तिक. ततः क्विति सति, णिलोपे च कृते, सात्वतः-भागवताः । तेषां पतिः-सात्वतां पतिः । “निराशीः कर्मसंयुक्तान् सात्वतांश्चाप्यकल्पयम् । सात्वत-ज्ञानदृष्टोऽहं सात्वतः सात्वतीपते! ।। इत्युक्तं ध्वनयति अनयैव व्युत्पत्या । यादव-धुरन्धरत्वात् वा सात्वतां पतिः ।।” [नि-514. येषां सत् ते हि सत्त्वतः तषां यत् सात्वतं तु तत् । तत् करोति तदाचष्टे सात्वत भागवतः स्मृतः ।। यद्वा सातयति ह्येवं सिखयति आश्रितानिति । सात्पदेनोच्यते सात्वन्तो भगवत्पराः । सात्वतां भगवद्भक्त जनानां पतिरीश्वरः । सात्वतां पतिः इत्युक्तः नवार्णः साधुरक्षकः ।।] जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अंभोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ।। 55 ।।

55.515   जीवः

                *515 तान् भागवतान् आत्मनाशात् व्यावर्त्य स्वपरिचर्यया जीवयति इति जीवः । “आनन्दमूर्तिः भगवान् हरिः त्रैलोक्यपूजितः । द्रष्टुं न सहते देवि! क्लिष्टान् स्वपरिचारकान् ।।” इति ।। (पौ.सं.) [नि-515. तान् आत्मनाशात् व्यावर्त्यं सत्वान् यश्च स्वसेवया । उज्जीवयति जीवः सः भक्तक्लेशासहो मनुः ।।]

55.516   विनयिता

                *516 तान् राजकुमारलालनेन रक्षति इति विनयिता । “नय गतौ रक्षणे च ।।” (मंत्र) [नि-516. भक्तान् नित्यराजपुत्रलालनन्यायतः सुखम् । रक्षति अतो विनयिता नयतेः रक्षणार्थतः ।।]

55.517   साक्षी

                *517 तदर्थं तद्बृत्तसाक्षात्कारात् साक्षी ।। [नि-517. साक्षात्करोति यः साक्षी तद्वृत्तं रक्षणाय सः।]

55.518   मुकुन्दः

                *518 तैः ऐकान्त्या-गरिम्णा प्रार्थितः स्वयं मुक्तिभूमिं ददाति इति मुकुन्दः । पृषोदरादित्वात् साधुः ।। [नि-518. तैः प्रार्थितः स्वयं मुक्तिं मुकुन्दः स्यात् ददाति यः ।।] [भवेत् वर्णागमात् हंसः सिंहो वर्ण विपर्थयात् । गूढोत्मा वर्णविकृतेः वर्णनाशात् पृषोदरः ।।]

55.519   अमितविक्रमः

                *519 तेषां ध्यानः-आराधन-अनुसन्धेय-तत्वनिकराधार-शक्ति-धारणात् अमितविक्रमः । श्रीपौष्करे- “कालवैश्वानरः शायी नानाध्वातो निवासिनः । आधारशक्तिसंज्ञस्य हि अमूर्तस्य च वै विभोः ।। अभिमानतनुर्यो वै नानाभेदैश्च वर्तते ।।” इति ।। (जया.सं.)

55.520   अम्भोनिधिः

                *520 पातालाम्भसि अखिलजगदाधार-पीठ कमठात्मना निधीयते इति अम्भोनिधिः । “अनन्तबलशक्तये भुवनभृते कच्छपात्मने” इति तन्मन्त्रवर्णात् ।। (अष्टा.-3.2.15) [नि-520. आधारशक्ति-कमठः स्वरूपेण अर्णवांभसि । निधीयते स्वयं येन स हि अंभोनिधिः उच्यते ।।]

55.521   अनन्तात्मा

                *521 तदुपरि जगदाधार-स्तंभ-भोगीन्द्रस्य आत्मतया तिष्ठति इति अनन्तात्मा । श्रीजयायां- “आधारशक्तेरुपरुं विमलं दीप्तविग्रहम् । ज्वालाशत-समाकीर्णं शंखचक्रगदाधरम् ।। अनन्तेशं न्यसेत्” इति , “चक्रलांगहस्तं च प्रणमन्तं परावरम्” इति च ।। [नि-521. कमठस्योपरि जगदाधारस्तंभभोगिनः । स्वरूपेण स्थितो योऽसौ अनन्तात्मा प्रकीर्तितः ।।]

55.522   महोदधिशयः

                *522 स एव अन्तकाले तस्मिन्नेव अनन्तभोगपर्यके महोदधो शेते इति महोदधिशयः । “अधिकरणे शेतेः” अतेयच् । एवं भूशयः (634) इत्यादि ।। (राम.यु.120.23) [नि-522. तस्मिन् अनन्तपर्यंके समुद्रे शयनाच्च यः । महोददिशयः ख्यातो दशार्णो मनुरुत्तमः ।।]

55.523   अन्तकः

                *523 तदा सर्वस्य अन्तं करोति इति अन्तकः । “तत्करोति” इति णिच् ण्वुल् । “अन्ते पृथिव्यां सलिले दृश्यसे त्वं महोरगः ” इति, (राम.यु.120.23) वैष्णवे– “आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः” इति, (वि.पु.2.5.20) “यस्यैषा सकला पृथिवी फणामणिशिखारुणा । आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ।।” (वि.पु.2.5.22) “गन्धर्वाप्सरसः सिद्धाः सकिंन्नरमहोरगः । नान्तं गुणानां गच्छन्ति तेना नन्तोऽयमुच्यते ।। ” “तस्य वीर्यं प्रबाव च स्वरूपं रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ।।” “कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः। संकर्षणात्मको रुद्रो निष्क्रम्य अत्ति जगत्त्रयम् ।।” इत्यादि ।। [नि-523. अन्तं करोति जगतो योऽसौ अन्तकः ईरित्रः ।] अजो महाईः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ।। 56 ।।

56.524   अजः

                *524 अस्मिन् तत्वावसाने प्रणवप्रकृतिभूत-अकार-वाच्यतया स्मर्तव्यत्वात् अजः । अकारवाच्यतया जातः इति । “तस्य प्रकृति-लीनस्य यः परः स महेश्वरः” इति ।। [नि-524. तत्वावसाने प्रमवप्रकृतेः स त्वकारतः । ] स्मर्थव्यत्वात् अजः प्रोक्तः ह्यूषडेवर्णो र्मिनाशकः ।।]

56.525   महार्हः

                *525 तत्र प्रमवेन महम्-आत्मनिवेदनपूर्वकं पूजनम् अर्हति इति महार्हः । [नि-525. स्वरूपादितार्थेन तारेण आत्मनिवेदनम् । महं पूजामर्हतीति महार्ह इत् कथ्यते ।।]

56.526   स्वाभाव्यः

                *526 एवम् अनेन मन्त्रेण स्वभूतैः आत्मभिः स्वामित्वेन आभिमुख्येन अवश्यं भाव नीयत्वात् स्वाभाव्यः । “ओरावश्यके” इति ण्यत् । (अष्टा.- 3.1.125) “स्वोज्जीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेः स्वाम्यं स्वभावं च सदा स्मरः ।।” (वि.त.) “नान्यो हेतुर्विद्यते ईशनाय” इति । (श्वे.-6.17) नित्यस्य स्वस्वामि-भावस्य ल्वाभाविकत्वेन भाव्यत्वात् वा स्वाभाव्यः ।। [नि-526. मन्त्रेणानेन आत्मभिस्तु स्वभूतैः आभिमुख्यतः । अवश्यं भावनीयत्वात् स्वाभाव्यः परिकीर्तितः ।। ]

56.527   जितामित्रः

                *527 एतद्रहस्यवबोधविरोधि-अहंकार-ममकार-कामादयः जिताः तेषामनेन इति जितामित्रः । कामादयो हि एषाम् अनित्राः । “काम एष केरोध एष रजोगुणासमुद्भवः” इति उपक्राम्य, (गीता 3.37) “जहि शत्रुं महाबाहो! कामरूपं दुरासदम्” इत्यन्तम् ।। (गीता 3.43) [नि-527. एतद्रहस्यविज्ञान-विरोधिममतादयः । जितास्तेषाम् अनेनेति जितामित्रोऽष्टवर्णकः ।।]

56.528   प्रमोदनः

                *528 स्वसंबन्धिनां तत्प्रथमानिसन्धान-प्रहर्षः प्रयोजनम् इति प्रमोदनः । [नि-528. ध्यानासक्तेषु भक्तेषु मोदमानः प्रमोदनः ।]

56.529   आनन्दः

                *529 अथ कपिलमूर्तिः । आनन्दवल्ली-मीमांस्यमान-वाङ्मनस-दुर्ग्रहो महानन्दः अस्यास्ति इति आनन्दः । “अर्थ आदित्वादच्” ।। [नि-529. आनन्दवल्ली मीमांस्यस्तु अवाङ्मनसगोचरः । आनन्दो ह्यस्य नित्योऽस्तीति आनन्दः परिकीर्तितः ।।]

56.530   नन्दनः

                *530 तमानन्दं यथोक्तायां मुक्तो प्रापय्य नन्दयतीति नन्दनः । “एष ह्येवानन्दयाति” (अष्टा.-5.2.27) “एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति” इति वा ।। (आनं 7) [नि-530. तमानन्दं यथोक्तायां मुक्तौ प्रापय्य यः सदा । मुक्तान् नित्यान् नन्दयति नन्दनः स तु कीर्तितः ।।]

56.531   नन्दः

                *531 एवम् अनन्त-भोग्य-भोगतदुपकरणैः समृद्ध्यते तस्मिन् इति नन्दः । “अधिकरणे घञ्” (अष्टा.-3.2.15) [नि-531. भोग्यैः भोगोपकरणैः भोगैर्भोक्तृभिरेव च । तस्मिन् समृद्ध्यते न्तयम्ति नन्दः प्रकीर्तितः ।। ]

56.532   सत्यधर्मा

                *532 एवम् आच प्रक्रमात् आ च स्वप्राप्तेः आर्जवात् सत्यधर्मा- स्तयवृत्तः ।। यः स्यात् स सत्यधर्मा च वस्वर्णः सत्यवर्तनः ।।

56.533   त्रिविक्रमः

                *533 ईदृशेन महामहिम्ना वाच्येन विक्रान्तत्रिवेदः त्रिविक्रमः । यथा- “त्रिरित्येवं त्रयो वेदाः कीर्तिताः मुनिसत्तमैः । क्रमसे तास्तथा सर्वान् त्रिविक्रम इति स्मृतः ।।” “सर्वे वेदा यत्रैकं भवन्ति” (यजु आर.) “नारायणपरा वेदाः” इति ।। (भाग 2.5.15) [नि-533. त्रीन् वेदान् क्रमते यो हि महिम्ना स त्रिविक्रमः ।।] महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदः त्रिदशाध्यक्षः महाशृङ्गः कृतान्तकृत् ।। 57 ।।

57.534   महर्षिः

                *534 यथोक्तवेददर्शनात् महर्षिः कपिलमूर्तिः । “श्रुतीः ऋगाद्याः वक्त्रेभ्यः प्रोद्गिरन्तमतः स्मरेत्” इति वद्ध्याने ।(ध्वान) “ऋषिं प्रसूतं कपिलं महान्तम्” (श्वे.- 5.2) “सांख्यास्य वक्ता कपिलः परमर्षिः स उच्यते” इति च ।। [नि-534. साक्षात् द्रष्टा स वेदानां महर्षिः कपिलः स्मृतः ।]

57.535   कपिलाचार्यः

                *535 कपिलश्चासौ आचार्यश्चति कपिलाचार्यः । कबृ वर्णे “कमेः पश्च ” इति ‘इलच् प्रत्ययः, पकारस्च अन्तादेशः’ । (उणा.पा.-1.58) “निर्धूमाङ्गारवर्णाभं शंखपद्माक्षसूत्रिणम्” इति (ध्यान) तद्ध्याने । स्वतत्व-संविदाचयनात् आचार्यः । “संवित्प्रकाशनाय” इति तन्मत्रवर्णे ।। (मंत्र) [नि-535. तत्वप्रवचनादेव कपिलाचार्य उच्यते ।]

57.536   कृतज्ञः

                *536 सापराध-सागरापत्येऽपि अंशुमति स्वाभिनम्रत्वसुकृतमेव ज्ञातवान् इति कृतज्ञः वैष्णवे- “कपिलमुपगभ्य भक्तिनम्रस्तदा तुष्टाव स चेनं भगवानाह” (वि.पु.4.4.24) “वरं वृणीष्व” इति च ।। इति ।। (वि.पु.4.4.26) [नि-536.स्वाभिनम्रत्वसुकृतं किंचित् अंशुमता कृतम् । विदितं येन कारुण्यात् कृतज्ञः सोऽभिधीयते ।।]

57.537   मेदिनीपतिः

                *537 “यस्येयं वसुधा सर्वा वासुदेवस्य धीयतः । कपिलं रुपमास्थाय घारयत्यनिशं धराम् ।।” इति मेदिनीपतिः ।।(रा.बा.39.2) [नि-537. कापिलं रूपमास्थाय यो धारयति मेदिनीम् । स मेदिनीपतिः ख्यातो नवार्णे भूप्रदो मनुः ।।]

57.538   त्रिपदः

                *538 भोग्य-भोक्तृ-नियन्तॄणि तत्त्वानि ज्ञाप्यतया पदानि अस्येति त्रिपदः । यथा- “सत्त्वानामुपकाराय प्रधानं पुरुषं परम् । दर्शयिष्यामि लेक्षु कापिलं रूपमास्थितः ।। ” इति । (रवि.ध.63.59) प्रमवे त्रीणि पदानि तद्वाचकानि इति वा । “तथैवासं त्रिककुदो वाराहं रूपमास्थितः” (भार.मो.343.63) इति वा त्रिपदः ।। प्रणवे त्रीणि वाऽप्येततद्वाचकानि पदान्यतः ।। वाराहरूपस्याऽऽस्थाने पदानि ककुदानि वा । त्रीणि सन्ति ततो वाऽसौ त्रिपदः परिकीर्तितः।।]

57.539   त्रिदशाध्यक्षः

                *539 स एव ब्रह्मदेः प्रलयापत्सखत्वात् त्रिदशाध्यक्षः ।। [नि-539. सखा स्यात् त्रिदशाध्यक्षो ब्रह्मादेः प्रलयापदि ।]

57.540   महाशृङ्गः

                *540 अग्रलग्न-महीमेडलदंष्ट्रो महाशृङ्गः । “एकशृङ्गो वराहस्त्वम्”, (राम.यु.120.14) “दंष्ट्रोग्रविन्यस्तमशेषम् एतत् भूमण्डलं नाथ! विभाव्यते त् । विगाहतः पद्मवनं विलग्नं सरोजिनीपत्रमिवोढपङ्कम् ।।” इति ।। (वि.पु.1.4.36) [नि-540. महा यस्य च शृङ्गाग्रे महाशृङ्गः स कथ्यते ।।]

57.541   कृतान्तकृत्

                *541 कृतान्तम्-अन्तकायं हिरण्याक्षं, कृत्तवान् इति कृतान्तकृत् । यथा– “हतो हिरण्याक्षमहासुरः” इति । वाराहस्मृति पुराणयोः स्वसिद्धान्तकरणात् वा ।। [नि-541. अन्तकायं हिरम्याक्षं कृत्तवान् यः कृतान्तकृत् । वाराहयोः स्वसिद्धान्तकृतेः स्मृतिपुराणयोः । कृतान्तकृत् इति ख्यातो वस्वर्णे अभीष्टदायकः ।।] मयावराहो गेविन्दः सुषोणः कनककाङ्गदी । गुह्यो गभीरो गहनो गुप्तः चक्रगदाधरः ।। 58 ।।

58.542   महावराहः

                *542 .”ततः समुत्क्षिप्य धरां स्वदंष्ट्रया” महावराहः स्फुटपद्मलोचनः । रसातलात् उत्पलपत्रसंनिभः समुत्थितो नील इवाचलो महान् ।। ” इति महावराहः ।। (वि.पु.1.4.26) [नि-542. रसातलगताम् उर्वी यश्चोद्धत्योत्थितः क्षणात् । महावराह इति सः स्मृतो हि उर्वीप्रदो मनुः ।।]

58.543   गोविन्दः

                *543 “नष्टां च धरणीं पूर्वमविन्दं च गुहागताम् । गोविन्द इति तेनाहम्” इति गोविन्दः ।। [नि-543. नष्टां च धरणीं पूर्व गोविन्दः लब्धवान् इति ।।]

58.544   सुषेणः

                *544 अथ अन्यत् रहस्यम् । शोभना शुद्धसत्वमयी बद्धमुक्त-नित्य-विजयोपकारणत्वात् सेना इव पञ्चोपनिषत् कायः अस्य इति सुषेणः ।। [नि-544. पञ्चोपनिषदङ्गत्वात् सुषेणः परिकीर्तितः ।]

58.545   कनकाङ्गदी

                *545 तन्मयैः उक्तरूप-सौन्दर्यसन्धुक्षणैः अङ्गदेपलक्षितैः दिव्यभूषणैः नित्य योगात् कनकाङ्गदी । नित्ययोगे इनिः । कनकशब्दः अप्राकृतयथोक्त-विलक्षणद्रव्य [नि-545. अप्राकृतान् दिव्यानि भूषणानि च नित्यशः । रौक्माणि सन्ति यस्यासौ उच्यते कनकाङ्गदी ।।]

58.546   गुह्यः

                *546 एवं परमोपनिषद्विषयेण वपुषा गुह्यः । “शासि दुहिगुहिभ्यो वा इति वक्तव्यम्” इति क्यम् ।। [नि-546. पञ्चोपनिषदङ्गेन गूढत्वात् गुह्य उच्यते ।।]

58.547   गभीरः

                *547 तदभिव्यक्त-ऐश्वर-महागांभीर्यो गभीरः । “गभीर-गंभीरो” इति गाहेः ‘ईरन्’ प्रत्ययो ह्रस्वत्वं भकारादेशश्च निपात्यते । तत्संपृक्तो हि कतक-संकलितमिव सलिलम् अनाद्यविद्यकलुषोऽपि संसारी प्रसीदति । किं पुनः स्वभावदीप्रो भगवान् ? [नि-547. तद्वपुर्व्यङ्ग्यगांभीर्यो गभीर इति कथ्यते ।।]

58.548   गहनः

                *548 अथ गहनः-दुरवगाहः । न हि स्वच्छ-सुग्रह-अन्तर्वृत्तोऽपि रत्नाकरो जानुदघ्नः [नि-548. अन्यैः दुरवगाहत्वात् गहनः परिकीर्तितः ।]

58.549   गुप्तः

                *549 गुप्तः च तद्गौरवज्ञैः पूर्वगुरुभिः ।। [नि-549. तद्गौरवज्ञैःस गुप्तः स गुप्त इत्यभिधीयते ।।]

58.550   चक्रगदाधरः

                *550 कुत्रज् किंलक्षणो वा गुप्तः? “तमसः परमो धाता शङ्ख चक्रगदाधरः” इति (राम.यु.114.15) चक्रगदाधरः । उक्तनित्यरूप-विभूषणवत् पञ्चशक्तिमयनित्यदिव्यायुधः इत्यर्थः ।। [नि-550. यः शक्तिमद्दिव्यहेतिः स स्यात् चक्रगदाधरः ।।] वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ।। 59 ।।

59.551   वेधाः

                *551 एवं विविधम् अनन्तमहाविभवं नित्यं विदधाति इति वेधाः । “विधाञो वेध च” इति ‘असि’ प्रत्ययो वेधादेशश्च । (उणा.पा.-4.226) “तमसः परमो धाता” इति ।। (राम.यु.120.14) (114.15) [नि-551. महाविभवकल्याणं सततं विदधाति यः । भक्तेभ्यः परमं वेधाः पडर्णो मंगलप्रदः ।।]

59.552   स्वाङ्गः

                *552 यथा तत्रैव समग्रस्वासाधारणम् अङ्ग छत्र-चामरादि-सर्वाधिराज्य-परिबर्हजातं नित्यमस्य इति स्वाङ्गः ।। [नि-552. स्वासाधारणमङ्गह्रि छत्रादि परिबर्हणम् । यस्यास्ति नित्यं स स्वाङ्गः षडर्णः परिवारदः ।।]

59.553   अजितः

                *553 प्राकृतैः उत्पत्तिमरणादिभिः न जिता यथोक्त-द्रव्योपादाना पुरी अजिता अस्य अस्तीति अजितः । अर्श आद्यजन्तं वा ।। “पुरं हुरण्मयीं ब्रह्म विवेश अपराजिता” इति ।। (यजुरा.1.27) [नि-553. प्राकृतैर्न जिता या सा यस्यास्ति इत्यजिता पुरी ।

59.554   कृष्णः

                *554 तन्मय-मेघमेचक-चारुवर्णः कृष्णः । “कृषेर्वर्णे” इति (उणा.पा.-3.4) नक् प्रत्ययः । तन्मयरूप एव वाराहाद्यवतारोऽपि इति च निरूचे । “कृषामि मेदिनीं पार्थ! भूत्वा कृष्णायसो महान् । कृष्णो वर्णश्च मे यस्मात् तेन कृष्णोहम् अर्जुन! ।।” इति । (भार.शा.143.49) यथोक्तं सर्वं व्यनक्ति श्रीविष्णुतत्वादौ- “एकैव पञ्चधा भूता प्रधाना विग्रहात्मिका । सर्वशक्तिसमेताऽपि पुरुषो नियतीरिमाः । न जहाति स्वभावोत्थ-कारुण्येन समाश्रितः ।। परमेष्ठी पुमान् विश्वो निवृत्तिः सर्वं एव च । पञ्चैताः शक्तयः प्रोक्ताः परस्य परमात्मनः ।।” इति । (वि.त.) तेषां तत्वं द्विधमुक्त्वा, “मत्स्यकूर्मवराहाणाम् आविर्भावो महात्मनः । अनयैव द्विजश्रेष्ठ! नान्यथा तद्विरोधतः ।।” इति । (वि.त.) [नि-554. अप्राकृतातिरुचिरमेचकः कृष्ण ईरितः ।]

59.555   दृढः

                *555 अनयैव नित्यक्तौ उपासकानाम् अनपग्रहाय व्यहोऽपि किंचित् स्थलः दृढः । “दृह दृहि वृद्धौ” “दृढः स्थूलबलयोः” इति निपातितः ।। (अष्टा.- 7.2.20) [नि-555. स्थूलत्वात् बलवत्वाच्च दृढ इत्यभिधीयते ।।]

59.556   संकर्षणः

                *556 क एवम् ? संकर्षणः । “संसारे चिदचितोः आत्मनि समं कर्षणात् समं कर्षं नयति” इति मौलाः ।। (मौलसं) [नि-556. संकर्षणः संसृतौ यः समं च्दच्तौ कृषेत् ।।]

59.557   अच्युतः

                *557 व्यूहेऽपि “च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्रवरुणादिषु । यस्मान्न च्यवसे स्थानात् तस्मात् संकीर्त्यसे अच्युतः ।।” इति अच्युतः ।। [नि-557. ब्रह्मादिवत् न च्यवते स्थानात् इति अच्युतः स्मृतः ।।]

59.558   वरुणः

                *558 “येनावृतं खं च दिवं महीं च ” (तै.उ.1.1) “तेनेदमावृतम्” इति वरुणः । “वृञ् वरणै”, “कॄवृदारिभ्य उनन्” ।। (उणा.पा.-3.53) [नि-558. यः स्थितः सर्वमावृत्य वरुणः स तु कथ्यते ।।]

59.559   वारुणः

                *559 तं स्वामित्वेन वृणुते इति वरुणः ; तत्र भवो वारुणः । “तेषु चाप्यहम्” इति ।। (गीता 9.29) [नि-559. स्वामित्वेन वृणानेषु स्थितो वारुण ईरितः ।।]

59.560   वृक्षः

                *560 तेषु छायातरुवत् आश्रितानाम् उपजीव्य-सर्वस्वः तत्कृत-उपमर्द-सहस्रसहः वृक्षते इति वृक्षः । “वृञ् वरणे” । “विनासवृक्षः साधूनाम् आपन्नानां परा गतिः ।” (राम.कि.15.19) “वृक्ष इव स्तब्धो दिवि तिष्ठत्येकः” (तै.ड.11.200 [नि-560. साधूनाम् आश्रयत्वाच्च सर्वैनस्सहनादपि । सर्वोपजीव्यसर्वस्वो वृक्ष इत्यभिधीयते ।। ]

59.561   पुष्कराक्षः

                *561 तेषां प्रसादवर्षण पोषके अक्षिणी यस्य सः पुष्कताक्षः । पुष्करम्– “पुषः करन्” इति ‘करन्’ प्रत्ययः । किंद्वद्भावः ।। [नि-561. सतां प्रसादवर्षेण पोषके यस्य चाक्षिणी । पुष्कराक्षः स विज्ञेयो ह्यष्टार्णः प्रीतिवर्धकः ।।]

59.562   महामनाः

                *562 तेषु अगाध-उदार-विस्तृत-मनाः महामनाः ।। [नि-562. अगाधोदारविस्तारं मनो यस्य महामनाः ।।]

60.563   भगवान्

                *563 एवम् अशोष दोषविद्वेषि-कल्याण स्वरूपतया परमपूज्यो भगवान् ।। [नि-563. सर्वहेयप्रत्यनीक कल्याणात्मकतया स्थितः । पूज्यात् पूज्यतमो योऽसौ भगवान् इति शब्द्यते ।।]

60.564   भगहा

                *564 गुणतोऽपि तथा, भगहा । “ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।।” (वि.पु.6.5.74) तं हन्ति-गच्छतीति । “हन्तिः गमनकर्मा” । अत्र वैष्णवे षष्ठे अंशे भगवच्छब्द- निर्वचनप्रकरणं लेख्यम् ।। [नि-564. भगवशब्द्यान् स कल्याणगुणान् हन्ति तु गच्छति । इत्यसौ भगदा प्रोक्तः षडर्णः सुखदायकः ।।]

60.565   नन्दी

                *565 एवसौ व्यूहे संकर्षणः, स्वावतारे नन्दगेपोन पितृमान् नन्दी । मधु-वल्लवी- सेवानन्दवान् वा ।। [नि-565. नन्दगोपेन पितृमान् नन्दी आनन्दीति वा तथा ।।]

60.566   वनमाली

                *566 स्वसृज्य-भूतसूक्ष्म-सार सौरभ्याभिमानिन्या वैजयन्त्या नित्ययोगी वनमाली ।। [नि-566. स्वसृज्य-भूतसूक्ष्माणां मालया नित्ययोगतः । वनमाली समाख्यातो ह्यष्टार्णो भूषणप्रदः ।। ]

60.567   हलायुधः

                *567 उक्तभूतसमृद्धि-कृषीवल-हल परिकरो हलायुधः । यथा- “बलभद्रं समृद्ध्यर्थं सीरकर्मणि कीर्तयेत्” इति ।। (वि.ध.41.36) [नि-567. हलं च सततं सीरं धत्ते योऽसौ हलायुधः । सीरकार्यसमृद्ध्यर्थे वस्वर्णो मन्त्रनायकः ।।]

60.568   आदित्यः

                *568 स्ववाचकात् ‘आ’वर्णात् आतः इत्यः-प्राप्यः इति आदित्यः । “एतिस्तुशास्वृदृ जुषः क्यप्” । ((उणा.पा.-4.4) (पुषः कित्-पा.)) । आकारो हि संकर्षण-आदित्यः ।। भूतपूर्वादितिभावाया देवक्या अपत्यमिति वा आदित्यः । यथा वैष्णवे धर्मे देवकीं प्रति भगवान् — [नि-568. आवर्णादेव यः प्राप्यः स आदित्यः प्रकीर्तितः । अदितिः देवकी तस्या वाऽऽदित्योऽपत्यभावतः ।।] अथ नारायणविषयः

60.569   ज्योतिरादित्यः

                *569 दिव्याश्चर्य-ज्योतिर्मयत्वात् अपूर्वो ज्योतिरादित्यः । प्रसिद्धो हि आदित्यः तत्तेजसि तमायेत । श्रीनारायणीये -तयोर्णवेन युध्यतोः “निष्प्रभाणि च तेजांसि ब्रह्मा चैव आसनात् च्युतः ।” इति ।। (भार.शा.344.90) [नि-569. समस्ततेजोहरण-ज्योतिषा दीप्यते च यः । स वै स्यात् ज्योतिरादित्यो नवार्मो ज्ञानदायकः ।।]

60.570   सहिष्णुः

                *570 तत्र तदपराधसहनात् सहिष्णुः । तत्रैव- “प्रसादयामास भवो देवं नारायणं प्रभुम् । शरणं जगतामाद्यं वरेण्यं वरदं हरिम् ।। तथैव वरदो देवो जितक्रोधो जितक्रोधो जितेन्द्रियः । प्रीतिमानभवत् तत्र रुद्रेण सह संगतः ।।” इति ।। (भार.शा.362.64) [नि-570. ब्रह्मादिमन्तु-सहनात् सहिष्णुः इति कथ्यते ।।]

60.571   गतिसत्तमः

                *571 स एव परमधर्माध्व-देशिकत्वेन गतिसत्तमः ।- गतौ प्रत्ययिततमः इति । “अहो ह्यनुगृहीतेऽद्य धर्मं एभिः सुरैरिह” इति ।। (भार.शा.342.17) [नि-571. धर्मे प्रत्ययिततमो गतिसत्तम उच्यते ।।] सुधन्वा खण्डपरशुः दारुणो द्रविणप्रदः । दिविल्पृके लर्वदृक् व्यासो वाचस्पतिरयोनिजः ।। 61 ।।

61.572   सुधन्वा

                *572 सुधानिमित्त-सुरासुरसमर-संहारि-शरासनत्वात् सुधन्वा । “धनुषश्च” इति समासान्तोऽनङ् । (अष्टा.-5.4.132) “तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि”, “नरस्ततो वर-कटकाग्र्य-भूषणैः महेषुभिः पवनपदं समावृणोत्” इति ।। [नि-572. सुशोभनं धनुर्यस्य सुधन्वा परिकीर्तितः ।।]

61.573   खण्डपरशुः

                *573 परशुना रौद्रसंग्रम-खण्डनात् खण्डपरशुः । तत्रैव “प्रथ रुग्रविघातार्थम् इषीकां नर उद्धरन् । मन्त्रैश्च संयुयोजाशु सोऽभवत् परशुर्महान् ।। क्षिप्तश्च सहसा रुद्रे खण्डनं प्राप्तवांस्तदा । ततोऽहं खण्डपरशुः ततः परशुखण्डनात् ।।” इति ।। (भार.शा.362.49,50) [नि-573. तीव्रकोपात् परशुना रौद्रसंग्रामखण्डनात् । प्रोक्तः स खण्डपरशुः नवार्णः शोकनाशनः ।।]

61.574   दारुणः

                *574 एवं बाह्याभ्यन्तर-अरि-दारणात् दारुणः । [नि-574. ब्राह्याभ्यन्तरशत्रूणां दारणादपि दारुणः ।।] अथ व्यासावतारः ।

61.575   द्रविणप्रदः

                *575 समग्रं शास्त्रतदर्थरूपं द्रविणं प्रददाति इति द्रविणप्रदः । “वहन् वै वामहस्तेन सर्वशास्त्रार्थसंचयम् । दक्षिणेन च शास्त्रार्तान् आदिशंश्च यतास्थितान् ।।” इति तद्धयाने ।। (ध्याने) [नि-575. शास्त्रं तदर्थं द्रविणं प्रददाति जनाय यः । व्यासो भूत्वा हरिः साक्षात् द्रविणप्रद उच्यते ।।]

61.576   दिविस्पृक्

                *576 परविद्यया दिवि च परमपदे स्थितं स्वतत्वरहः स्पृशति इति दिर्विस्पृक् । “स्पृशोऽनुदके क्विन्”, “हलदन्तात्” इत्यलुक् । “विदितपरमार्थः” इति तन्मन्त्रे ।। [नि-576. परया विद्या यः स्वं स्पृशतीति परे पदे । दिविस्पृक् प्रोच्यते नित्यम् ।।]

61.577   सर्वदृक्

                *577 अन्यदपि सर्वं वाभवं पश्यति इति सर्वदृक् । “दृशेश्च इति । वक्तव्यम्” इति क्विन् प्रत्ययः । “क्विन् प्रत्ययस्य कुः” इति कुत्वम् । (अष्टा.-8.2.62) “विदुषे” इति तन्मन्त्रे ।। (मन्त्र) [नि-577. सर्वदृक् सर्वदर्शनात् ।।]

61.578   व्यासः

                *578 “युगानुसारबोधानाम् अखेदजननाय वै । विभजंस्तु चतुर्धा वै वेदमेकं त्रिकालवित् ।।” इति व्यासः । [नि-578. त्रय्याः चतुर्धा करणात् व्यास इत्युच्यते बुधैः ।।]

61.579   वाचस्पतिः

                *579 पञ्चमवेदरूपाया वाचः स्वामी-वाचस्पतिः । [नि-579. वाचः पंचमवेदस्य स्वामी वाचस्पतिः स्मृतः ।।]

61.580   अयोनिजः

                *580 सारस्वतावतारे भगवद्वाक्संभवत्वात् अयोनिजः । “अथ भूयो जगत् सृष्ट्वा ‘भो’ शब्देन अनुवादयन् । सारस्वतीम् उच्चचार तत्र सारस्वतोऽभवत् ।।” इति ।। (भार.शा.350.37) [नि-580. सारस्वतावतोरे हि भगवद्वाग्भवत्वतः । स्मृतो हि अयोनिज इति वस्वर्णः कर्मनाशकः ।।] त्रिसामा सामगः साम निर्वाण भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ।। 62 ।।

62.581   त्रिसामा

                *581 स्वगायक-बृहत्-रथन्तर-वामदेव्य-प्रधानसामकत्वात् त्रिसामा ।। [नि-581. प्रोक्तः त्रिसामा यस्मात् सः बृहदादित्रिसामकः ।।]

62.582   सामगः

                *582 “एतत् साम गायन्नास्ते ।।” इति ।। (तै.3.10.5) [नि-582. स्वयं स्वानुभवप्रीत्या गायतीति च सामगः ।।]

62.583   साम

                *583 स्वगायकानामपि पापं स्यति इति साम । “षो अन्तकर्मणि” इति, “सातिभ्याम्” इत्यादिना मनिन् ।। (उणा.पा.-4.152) [नि-583. स्वगायकानां कालुष्यं स्यति यः साम कथ्यते ।।]

62.584   निर्वाणम्

                *584 एवम् अपहतपाप्मानां परमगतिनिमित्तं निर्वाणम् । “निर्वाणोऽवाते” इति निपातितः ।। (अष्टा.-8.2.50) [नि-584. निर्वाणं स्यात् परगतेः निम्त्तं निर्गतैनसाम् ।।]

62.585   भेषजम्

                *585 अतोऽसाध्यसंसारव्याधेः परमं भेषजम् । स्तवराजे– “नारायमात् ॠषिगणाः तथा स्द्धा महोरगाः । देवा देवर्षंयश्चैव यं विदुः दुःखभेषजम् ।।” इति ।। (स्तवराजः) [नि-585. असाध्यभवरोगस्य भेषजं यत् सदौषधम् ।।]

62.586   भिषक्

                *586 सम्यग्विदित-निदान-च्कित्सो भिषक् ।। “वेदान्तविज्ञानसुनिश्चितार्ताः” इत्यादिश्रुतेः ।। (तै.उ.11.22) [नि-586. भवरोगनिदानज्ञो योऽसौ भिषक् उदीरितः ।।]

62.587   सन्यासकृत्

                *587 कथं चिकित्यति? सात्विकेन संन्यासेन रजस्तमसी कृन्ततीति संन्यासकृत् । भर्तरि भरन्यासः संन्यासः । स हि भवचिकित्सा ।। [नि-587. त्यागेन सात्विकेनाशु रजसस्तमसः पदम् । यः कृन्तति स संन्यासकृत् नवार्णो मनुः स्मृतः ।।]

62.588   शमः

                *588 तदर्य “भोक्तारं यज्ञतपसाम्” इत्यादिना इच्छाभय-शान्त्युपायम् आचष्टे इति शामः । “तदाचष्टे” इति णिच् । (गीता 5.29) । पचाद्याचि कृते रूपम् ।। [नि-588. अनुद्रिक्तः शामः प्रोक्तः ।।]

62.589   शान्तः

                *589 स्वयं च शान्तः । सत्यति समुद्रेकहेतौ महिमसमुद्रे निस्तरङ्ग-समुद्रवत् अनुद्रिक्तः । तद्दर्शिनां हि प्रबावः, यं जगौ पतञ्जलिः “तत्सन्निधौ वेरत्यागः” इति । अर्वाचीनश्च– “परितः पटु विभ्रदेनसां दहनं धाम विलोकनक्षमम् । मधुरैरवशानि लंभयन् अपि तिर्यञ्चि शमं निरीक्षितैः ।। ” इति ।। [नि-589. शान्तोऽविकृतमानसः ।।]

62.590   निष्ठा

                *590 ततो व्युत्थितचित्तैः शुभाश्रयभूते अस्मिन् निष्ठीयते इति निष्ठा । “आतश्चो- [नि-590. निष्ठायते च योगोत्थैः यत्र निष्ठा स कथ्यते ।।]

62.591   शान्तिः

                *591 तत्र परमसमाधौ विस्मृतसर्वाधिकाराः शाम्यन्ति इति शान्तिः ।। [नि-591. सर्वाधिकाराः शाम्यन्ति समाधौ परमे यतः । अतः शान्तिः इति प्रोक्तः ऋत्वर्णो भक्तिदो मनुः ।।]

62.592   परायणम्

                *592 समाहितानां परमयनम् अव्यवहितप्रपिका परमा भक्तिः अस्मात् इति परायणम् । यथा- “निर्ममः शान्तः” इत्युपक्रम्य, (गीता 18.53) “मद्भक्तिं लभते पराम्” इत्यन्तम्, (गीता 18.54) “भक्त्या त्वनन्यया शक्यः” इति च ।। (गीता 11.54) [नि-592. यस्मात् तु परमा भक्तिः चरमा प्राप्का मता । तस्मात् परायणम् इति स्मृतो हि अष्टार्ण उत्तमः ।।] शूभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलैशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ।। 63 ।।

63.593   शुभाङ्गः

                *593 एवं स्वभक्तिभावनाशुभानि यम-समाध्यवधीनि अष्टाङ्गानि अस्मादिति शुभाङ्गः । स हि स्वयोग-योगक्षेमवहः ।। [नि-593. स्वभक्त्युद्भवकल्याणयमाद्यष्टाङ्गसंभवः । यः स्यात् शुभाङ्गः स प्रोक्तः सप्तार्णो ध्यानदायकः ।।]

63.594   शान्तिदः

                *594 एवं निष्पन्नभक्तिभ्योऽप्रतिप्रसवनिर्मूलित-भवोपप्लवां स्वसायुज्यरूपां शान्ति ददाति इति शान्तिदः । यथा- “विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति” इति, (श्वे.-4.14) “मत्प्रसादात् परां शान्ति स्थानं प्राप्स्यसि शाश्वतम्” (गीता 18.59) “तमीशानं वरदं देवमीढयं निचाय्याऽऽत्मानं शान्तिमत्यन्तमेति” इत्योदि ।। (श्वे.-4.11) [नि-594. एवं निष्पन्नभक्तिभ्यः शान्तिं सायुज्यसंज्ञिकाम् । महानन्दां ददातीति शान्तिदः परिकीर्तितः ।। ]

63.595   स्रष्टा

                *595 एवं मुमुक्षून् मुञ्चन् संसिसृक्षूश्च प्रचित-चिरन्तन-कर्म-वैचित्र्योचित- परिकरैः योजयन् सृजति इति स्रष्टा । “सृजिदृशोर्झल्यिमकिति” इति अम् ।। [नि-595. कर्मवैचित्र्यतः सृज्यान् स्रष्टा स्मात् सृजतीति यः ।।]

63.596   कुमुदः

                *596 एवं सृष्टस्य आब्रह्यस्तम्बस्य उच्चावच-शब्दस्पर्शादि-भोगवती भूमिः, भूमिः, कुः-प्राकृतमण्डलम् तत्र भोक्तॄन् भोजयन् मोदते इति कुमुदः । “बूलनिभूजादित्वात् कः” “अनीशश्चात्मा बध्यते भोक्तृभावात्”, (श्वे.- 1.8) “ज्ञाज्ञौ द्वावजावीशनीशौ” इति ।। (श्वे.-1.9) [नि-596. कौ प्राकृते मंडलेऽस्मिन् स्वभोक्तॄनपि भोजयन् । मोदते यः सर्वकालं कुमुदः स तु गीयते ।।]

63.597   कुवलेशयः

                *597 स्वदेहेन्द्रियादौ आपोक्षिकाभिमानिकाः ईशाश्च इति कुवलेशाः, तान् तथा नियच्छन् यातीति कुवलेशयः तान् तथा नियच्छन् यातीति कुवलेशयः । “आतोऽनुपसर्गे कः” ।। (अष्टा.-3.2.3) [नि-597. बलं योषां कुत्सितं ते कुवलाः जीवसंज्ञिताः । देहेन्द्रियादेरीशास्ते कुवलेशा इति स्मृताः । यस्तान् नियच्छन् यात्येष कुवलेशय उच्यते ।।]

63.598   गोहितः

                *598 गोः प्रकृतेः, संसारबीजावापे क्षेत्रीभूतायाः, हितः- व्यवस्थापकः गोहितः । “यो योनिं योनिम् अधितिष्ठत्येको यस्मिन्निदं खं च विचैति सर्वम् । तमीशानम्”, (श्वे.- 4.11) “गौरनाग्यन्तवती सा जनित्री भूतभाविनी”, (मन्त्रिकोप.5) “सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत्” इति ।। (मंत्रिकोप.4) [नि-598. संसारबीजक्षेत्रस्य प्रकृतेः स्थापकश्च यः । यः स गोहितः ।।]

63.599   गोपतिः

                *599 भोगभूमेः स्वर्गस्यापि पतिः- गोपतिः ।। [नि-599. स स्वर्भूमेः पतिबात् गोपतिः स्मृतः।]

63.600   गोप्ता

                *600 अस्य कर्मफलचक्रस्य रक्षिता गोप्ता ।। [नि-600. गोप्ता स यः कर्मफलचक्रस्य परिपालकः ।।] इति श्रीहरितकुलतिलक श्रीवत्सांकमिश्रसूनोः श्रीरंगराजदिव्याज्ञालब्ध श्रीपराशरभट्टापरनामधेयस्य श्रीरंगनाथस्य कृतौ श्रीमद्विष्णु सहस्रनामविवरणे भगवद्गुणदर्पणे षष्ठं शतकं समाप्तम् ।

….Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.