श्री भगवद् गुण दर्पण: 701-800

श्री भगवद् गुण दर्पण: 701-800

 

74.701   वसुः

                *701 अष्टमम् शतकम् एतदवतारागमं क्षीरार्णव-निकेतनत्वमाह-वसुः । तत्र वसति इति । यथा- “स लोकानां हितार्थाय क्षौरोदे वसति प्रभुः”, (भार.स.47.26) “एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम् ।।” इत्यादि ।। [नि-701. वसतीति वसुः लोकहितेच्छुः क्षीरसागरे ।।]

74.702   वसुमनाः

                *702 तत्र लक्ष्मीजन्मभूमौ वसतोऽपि वसौ-वसुदेवे मनः अस्येति वसुमनाः । “देवदत्तो ‘दत्तः’, सत्यभामा ‘भामा’ इतिवत् । ‘वसुः वसुदेवः’ इति महाभाष्यविदः ।।” [नि-702. सिन्धौ लक्ष्मीजन्मभूमौ वसतोऽप्यस्य वै मनः । वसुदेवे सदाऽस्तीति स स्यात् वसुमनाः परम् ।।]

74.703   हविः

                *703 देवकीवसुदेव-समीपवासरुच्रपि अपदप्रेमाकुलाभ्यां ताभ्यां कंसात् गुप्तये नन्दयशोदाभ्याम् आदीयत इति हविः ।। [नि-703. नन्दगोपयशोदाभ्यां कंसोपद्रवशान्तये । अदीयतऽऽदीयत च ताभ्यां हविः अतः स्मृतः ।] सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणम् । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ।। 75 ।।

75.704   सद्गतिः

                *704 जायमान एव असुरकृतापद्-अपनोदनः सतां गतिः सद्गतिः । यथा– “सन्तः सन्तोषमधिकं प्रशमं चण्डमारुताः ।।” इति ।। (वि.पु.5.3.4) [नि-704. उत्पन्न एव कंसादिकृत-बाधापनोदनात् । सतां प्राप्यतया चैव सद्गतिः समुदाहृतः ।।]

75.705   सत्कृतिः

                *705 सत्यः सकलसंसार-निगलच्छेदिन्यो दधिनवनीत-चेरण-उलूखल-बन्ध-रिङ्खण- रासक्रीडादिकाः मुग्धकृतयः असेयोति सत्कृतिः ।। यथा- “जन्म कर्म च मे दिव्यम्” इत्यादि ।। (गीता.10.39)

75.706   सत्ता

                *706 सत्तादि सतां स्वयमेवेति सत्ता । न हि तद्व्यतिरेकेण किंचित् स्यात् । “न तदस्ति विना यत् स्यात् मया” इति ।। (गीता.4.9) [नि-706. स्वयमेव सतां सत्ता यस्मात् सत्तेति कीर्त्यते ।।]

75.707   सद्भूतिः

                *707 सतां पुत्रो मित्रं बन्धुर्दूतः सारथिः अन्यच्च तद्भवन् सद्भूतिः ।। [नि-707. सतां पुत्रकलात्रादिभूत्या सद्भूतिरुच्यते ।।]

75.708   सत्परायणः

                *708 “कृष्णाश्रयाः कृष्णबालाः कृष्णनाथाश्च पाण्डवाः । कृष्णः परायणं तेषाम्” इति सत्परायणम् ।। (भार.द्रो.173.24) आह च — “मामेवैष्यसि” इति । (गीता.18.65) पुल्लिङ्गत्वे सन्तोऽस्य परायणम् इनि । सत्परायणः । यथा– “मम प्राणा हि पाण्डवाः” इति । (भार.उ.90.33) “पाण्डवानां भवान् नाथो भवन्तं च श्रिता वयम्” (भार.स.21.10) “ज्ञानी त्वात्मेव मे मतम्” इति ।। (गीता.7.8) [नि-708. सतां परं स्यादयनं लन्तो यस्य उत्तगायनम् । सः सत्परायणं ख्यातः यद्वा स्यात् सत्परायणः ।। सतां परं स्यादयनं सत्परायणम् ईश्वरः । यद्वा अयनं परं सन्तो यस्यासौ सत्परायणः ।।]

75.709   शूरसेनः

                *709 यादवपाण्डवादयो भूभारावतरणसहाया अस्य इति शूरसेनः ।। [नि-709. भूभारहरणार्थाय यादवाः पाण्डवाश्च ये । शूराः सहायास्तेऽस्येति शूरसेनः स कथ्यते ।।]

75.710   यदुश्रेष्ठः

                *710 “अयं स कथ्यते प्राज्ञैः पुराणआर्थविशारदैः । गोपालो यादवं वंशं मग्नमभ्युद्धरिष्यति” ।। इति यदुश्रेष्ठः । (वि.पु.5.20.49) [नि-710. मग्नं तु यादवं वंशमुद्धरिष्यति यश्च सः । यजुश्रेष्ठ इति ख्यातः वस्वर्णो वंशवर्धनः ।।]

75.711   सन्निवासः

                *711 मनुष्यधर्मशीलत्वेऽपि सतां सनकादीनां विश्रान्तिभूमिः सन्निवासः । यथा- “सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः । संचिन्त्यमानं तत्रस्थैः नासाग्र-न्यस्तलोचनैः ।।” इति ।। (वि.पु.5.18.42) [नि-711. सनकादिमिवासो हि मनुष्यत्वेऽपि यः सदा । सन्निवासः स विज्ञेयो ह्यष्टार्णः स्थानदायकः ।।]

75.712   सुयामुनः

                *712 शोभनं पावनं मनोहरं यमुनासंबन्धि जलक्रीडा-पुष्पापचय-रासक्रीडादि यस्येति सुयामुनः ।। [नि-712. गोपीभिर्यमुनायां तु शोभनं पावनं महत् । जलक्रीडादि यस्येति सुयामुन इतीरिः ।।] भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।

76.713   भूतावासः

                *713 कृष्णत्वेऽनिह्नुत-पराभावत्वात् “वसन्ति त्वयि भूतानि भूतावासस्ततो हरे” ।। इति भूतावासः ।। [नि-713. यस्मिन् वसन्ति भूतानि भूतावासः स कथ्यते ।।]

76.714   वासुदेवः

                *714 वसुदेवापत्यत्वे द्विषट्काध्यात्मं नियच्छतीति वासुदेवः । अत एव हि च जाग्रद्व्यूहवासुदेवः “माथुराय अद्भतमायाय” इति मथुरावतारेण विशेष्यते ।। (भार.स.33.15) [नि-714. वासुदेवापत्यतया द्वादशाध्यात्ममञ्जसा । नियच्छति सदा यस्तु वासुदेवः स ईरितः ।।]

76.715   सर्वासुनिलयः

                *715 एवं सर्वप्राणालंभनं सर्वासुनिलयः । यथा- “विना कृष्णोन गोव्रजाः” “असूर्यमिव सूर्येण निवातमिव वायुना । कृष्णेन समुपेतेन जहृषे भारतं पुरम् ।।” इत्यादि ।। [नि-715. सर्लासुनिलयः स स्यात् सर्वप्राणावलंबनम् ।।]

76.716   अनलः

                *716 तेषामेव सर्वकर्मकरत्वेऽपि अनलः-न किंचित् कृतमेषां मया इत्यवितृप्तः । “ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति” इति । (भार.उ.28.22) स्वभक्तविषयापराधं सौढु नालमिति वा । यथाह– “द्वौ तु मे वधकालेऽस्मिन्न क्षन्तव्यौ कथंचन । यज्ञविघ्रकरं हन्यां पाष्डवानां च दुर्हृदम्” ।। इति ।। (बार.स.68.26) [नि-716. सर्वं कृत्वाऽपि गोपानां न च किंचित् मया कृतम् । इत्येवमवितृप्तो यः सः अनलः परिकीर्तितः । स्वभक्तेभ्यः कृतं मन्तुं नालं सोढुं स वा अनलः ।]

76.717   दर्पहा

                *717 . गोवर्धनोद्धरम-पारिजातापहरण-बाणदेष्षण्ड-खण्डनादौ देवानां दर्पमात्रं हतवान् इति दर्पहा ।। [नि-717. गोवर्धनस्योद्धरमे पारिजातपरिग्रहे । बाणदोर्दण़्डषण्डानां खण्डनादौ तदा तदा ।। देवानां वै दर्पमात्रं हतवान् यः स दर्पहा ।।]

76.718   दर्पदः

                *718 शत्रुशमन-दुर्जयद्वारवतीकरण-शंखपद्मनिधि-सुरतरु-सुधर्मा-हरणादिना निर्मरी कृतेभ्यो यादवेभ्यो मधुपानादिदर्प दत्तवान् इति दर्पदः ।। [नि-718. मधुरायां यादवेभ्यो मधुपानादिना ततः । दर्प च दत्तवान् योऽसौ दर्पदः परिकीर्तितः ।।]

76.719   अदृप्तः

                *719 अथापि स्वयम् अद्दुप्तः । सभापर्वणि — “एवं विधानि कर्माणि कृत्वा गरुडवाहनः । न विस्मयमुपागच्छत् पारमाष्ठ्येन तेजसा ।।” इति । यशोदा-नन्द-लालन-द्दप्तो वा ।। [नि-719. अथाऽप्यगर्वितो योऽसौ अद्दप्तः स उदाहृतः ।

76.720   दुर्धरः

                *720 बाललीलादिप्रसङ्गेषु मत्तमातङ्गवत् ताभ्यां दुर्धरः दुर्वारचञ्चल-चेष्टितः । यता सा आह- “यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित” इति । (वि.पु.5.6.15) दुरात्मनां वा दुर्धरः । यथा– “इमं हि पुण्डरिकाक्षं जिधृक्षन्ति अल्पमेधसः । पटेनाग्निं प्रज्वलितं यथा बालो यथाऽबलाः ।।” इति । (भार.उ.129.16) “दुर्ग्रहः पाणिना वायुः दुःस्पर्शः पाणिनां शशी । दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् ।।” इत्यादि ।। (भार.उ.129.40) [नि-720. मत्तेभवत् ताभ्यां दुर्ग्रहो दुर्धरो मतः ।।]

76.721   अपराजितः

                *721 अथ भारतसंग्रामे निष्परिग्रहा अपि तत्परिग्रहात् पञ्चापि पाण्डवाः शतेनापि बहूपकरण-रूढमूलैर्वा धार्तराष्ट्रैः न पराजिताः इति अपराजितः । यथा आरण्यके कर्णाय इन्द्रः- “एकं हनिष्यसि रिपुं तं महामृधे । न तु तं प्रार्थयस्येकं रक्ष्यते स महात्मना ।। यमाहुर्वेदविदुषो वाराहम् अजितं हरिम् । नारायणम् अचिन्त्यं च तेन कृष्णेन रक्ष्यते ।।” (भार.व.309.28) जयद्रथाय रुद्रः- “अजय्यांश्चापि अवध्यांश्च वारयिष्यसि तान् युधि । ऋते अर्जुनं महाबाहुं देवैरपि दुरासदम् ।। यमाहुः अमितं देवं शंखचक्रगदाधरम् । प्रधानः शोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते ।।” (भार.व.260.75) “यस्य त्वं पुरुषव्याघ्र! सारथ्यम् उपजग्मिवान् । ध्रुव एव जयस्तस्य न तस्यास्ति पराजयः ।।” (भार.उ.52.12) भीष्मद्रोणादयश्च — “शक्दोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् । यद्येषां न भवेत् गोप्ता विष्णुः कारणपूरुषः ।। “ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः । श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः ।।” “अजय्यः शाश्वतो ध्रुवः ।” (राम.यु.114.15) “अजितः खढ्गधृक्”, (राम.यु.120.14) “यतः कृष्णस्ततो जयः ” “यत्र योगेश्वरः कृष्णः” इत्यादि ।। (भार.उ.6.79) आयुर्वेदे चरके औषधपेषणमन्त्रे– “यथाऽहं नाभिजानामि वासुदेवे पराजयम् । मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम् । एतोन सत्यवाक्येन सिच्यताम् अगदो ह्ययम् ।।” (आयुर्वेद.चरक सं) वैतरणे च विषहरणमन्त्रं वदन्- “रत्नाकर इवाक्षोभ्यो हिमवानिव चाचलः । जातवेदा इवाधृष्यो नारायण इवाजयः ।।” इति ।। (गीता 10.19) [नि-721. दुर्योधनादिभिर्नित्यं रूढमूलैः पराजयः । न यस्य कुत्रचिद्वाऽपि सोऽपराजित ईरितः ।।] विश्वमूर्तिः महामूर्तिः दीप्तमूर्तिः अमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ।। 77 ।।

77.722   विश्वमूर्तिः

                *722 “अहमात्मा गुडाकेश ! सर्वभूताशयस्थितः” इति ।। [नि-722. विश्वं मूर्तिः तनुर्यस्य विश्वमूर्तिस्तु स स्मृतः ।।]

77.723   महामूर्तिः

                *723 विश्वाश्रयमूर्तिः महामूर्तिः यथा- “इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश! यच्चान्यत् द्रष्टुमिच्छसि ।।” इति ।। [नि-723. विश्वैकाश्रयमूर्तित्वात् महामूर्तिः इति स्मृतः ।।]

77.724   दीप्तमूर्तिः

                *724 यत्किंचित् केनचित् गुणेम दीप्तं तदस्य विशेषेण मूर्तिः इति दीप्तमूर्तिः । यथा– “यद्यत् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा” इत्यादि । (गीता 10.41) [नि-724. यत्किंचित् केनचित् दीप्तं गुर्णेनात्र विशेषतः । तत्सर्वं मूर्तिरस्येति दाप्तमूर्तिरसौ स्मृतः ।।]

77.725   अमूर्तिमान्

                *725 अमूर्तयः अव्यक्तपुरुषादयोऽपि एवमस्य स्वम् इति अमूर्तिमान् । यथा- “भूमिरापोऽनलो वायुः” (गीता 7.4) “अपरेयमितस्तु अन्यात् प्रकृतिम्” इति (गीता 7.5) “यस्याव्यक्तं शरीरम्” (सु.-7) “यस्यात्मा शरीरम्” इति च । (बृ.माध्यं) पूर्वोत्तरमूर्तिमत्त्वोक्तिविरोधात्, ‘अमूर्तिः’ इत्येतावता निषेधसिद्धौ, मतुब्वैयर्थ्याच्च नैषः मूर्तिनिषेधः ।। [नि-725. अमूर्तिशब्देनोच्यते ह्यव्यक्तपुरुषादयः । त एव यस्य स्वम् इति स स्मृतः स्यादमूर्तिमान् ।।]

77.726   अनेकमूर्तिः

                *726 कृष्णत्वेऽपि अजहद्वासुदेवादि-चतुर्मूर्तित्वात् “षोडशस्त्रीसहस्राणि शतमेकं ततौऽधिकम् । तावन्ति चक्रे रूपाणि भगवान् देवकीसुतः ।।” (वि.पु.5.31.18) इति च असाधारण-अनेकमूर्तित्वात् अनेकमूर्तिः ।। [नि-726. षोडशस्त्रीसहस्राणि शतमेकं ततोऽधिकम् । अनेकमूर्तिः इत्युक्तः तत्सख्याक-स्वदेहतः ।।]

77.727   अव्यक्तः

                *727 इदं मनुष्यत्वेन गूहते इति अव्यक्ताः । यथा– “नाहं प्रकाशः सर्वस्य” (गीता 7.25) “नाहं वेदैर्न तपसा” इत्यादि ।। (गीता.11.53) [नि-727. मनुष्यत्वेन सर्वत्र परभावप्रकाशनात् । बुधैः अव्यक्त इति च कथितस्तत्त्वपारगैः ।।]

77.728   शतमूर्तिः

                *728 अथ दिद्दक्षवे अर्जुनाय व्यक्तवैश्वरूप्यः शतमूर्तिः । “पश्य मे पार्थ! रूपाणि शतशोऽथ सहस्रशः” ।। इति ।। [नि-728. अर्जुनाय व्यक्ततया विश्वरूपप्रदर्शनात् । शतमूर्तिः इति ख्यातः ।। ]

77.729   शताननः

                *729 “अनेकवक्त्रनयनम्” इति ।। (गीता. 11.10) [नि-729. शतशोऽथ सहस्रशः । अनेकाननसंपत्या शतानन इतीरितः ।।] एको नैकः स वः कः किं यत् तत् पदमनुत्तमम् । लोकबन्धुर्लोकनाथः माधवो भक्तवत्सलः ।। 78 ।।

78.730   एकः

                *730 उक्ते महिम्नि सजातीय-संख्येयासंभवात् अद्वैतं गच्छतीति एकः । “इण् गतौ” इत्यस्मात् “इण्भीका” (उणा.पा.-3.43) अत्यादिना कन्प्रत्ययः । एकोपाधिपतितान् हि संतक्षते, यथा ‘द्वौ ब्राह्मणौ’ ‘त्रयः क्षत्रियाः’ इति । न हि भगवतः कश्चित् उपाधिना तुल्यकक्षः । यथा– “एक इद्राजा जगतो बभूव”, (तै.यजु.4.1.8) “न तस्य प्रतिमाऽस्ति” इति च ।। [नि-730. द्वितीयस्वजातीय-राहित्यात् एक उच्यते ।।]

78.731   नैकः

                *731 अतः इदमैक्यं न सर्वनिह्नव-विवर्त-परिणामादि-निमित्तम्; किंतु विभूतितया विदातीयेन सर्वेण द्वितोयवानेव इति नैकः । यथा- “नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप” इति ।। (गीता.11.40) [नि-731. नैकः स्वविसजातीयविभूत्याख्याद्वितीयवान् ।।]

78.732   सः

                *732 एषु आकुमारम् अखिलप्रसिद्ध्या स्वविषयं ज्ञानं स्यति इति सः स्यतेः “शमिमुषिस्यति” अत्यादिना डः ।। [नि-732. सर्वेषु कृष्णरूपादिषु आकुमार प्रसिद्धितः । अज्ञानं स्यन् स्वविज्ञानं विश्चयीकुरुते स सः ।।]

78.733   वः

                *733 यथाप्रसिद्धि सर्ववासित्त्वात् वः वसतेर्डः । “वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । स च भूतेष्वशेषेषु वकारार्थस्ततो मुने ! ” ।। इति ।। (वि.पु.6.5.6) [नि-733. यथाप्रसिद्धिवासित्वात् स्वस्य भूतेष्वपि स्वयम् । भूतावासतया वः स्यात् ।।]

78.734   कः

                *734 मलीमसेषु वसन्नपि कनतीति कः । कनतेर्डः ।। [नि-734. सर्वेषु कनतीति कः ।।]

78.735   किम्

                *735 तत्तत्सर्वेप्सितबुभुत्सूनां निरुपाधिक-प्रष्टव्यत्वात् किम् । “प्रच्छ जीप्सायाम्” इत्यस्मात् “प्रच्छिदंसि” इत्यादिना ‘इम्’ प्रत्ययः कादेशश्च । “सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ।।” इति (छा.8.7.1) [नि-735. स ईप्सितर्थज्ञप्त्यर्थं प्रष्टव्यः किमिति स्मृतः ।।]

78.736   यत्

                *736 जलं भित्त्वा यथा पद्मं नरकादुराभ्यहम् ।।” इति, “अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ।।” इति च । (वराहचरमं) [नि-736. रक्षायै पृच्छकानां स यतनात् यत् इति स्मृतः ।।]

78.737   तत्

                *737 तेषां स्वाज्ञानभक्तिं तनोति इति तत् । “गमादीनाम्” इति क्विपं । नकारलोपः तुगागमश्च । अतो हि । (अष्टा.-6.4.40) “तत्सवितुर्वरेणीयम्” (तै.नारा.27) “ओं तत् स्यादिति निर्देशः” इत्यादि ।। (गीता. 7.23) [नि-737. स्वज्ञानभक्तिं भक्तानां तनोतीति तत् उच्चते ।।]

78.738   पदमनुत्तमम्

                *738 तेषां परमप्राप्यत्वात् पदम् अनुत्तमम् । पद्यते प्राप्यते इति पदम् । [नि-738. परमं च प्रपन्नानां प्राप्यं पदमनुत्तमम् ।।]

78.739   लोकबन्धुः

                *739 एवमविशेषेण अशेषानुग्रहे अवर्जनीयं बान्धवं निबन्धनम् आह-लेकबन्धुः । लोकानां स्वजनः । “बन्ध बन्धने” “शृस्वृस्निहि” इत्यादिना उप्रत्ययः । यथा — (उणा.पा.-1.10) “माता पिता भ्राता निवासः शरणं सुहृत् गतिर्नारायणः” (सु.-6) “पिताऽहमस्य जगतः” इत्यादि ।। (गीता.9.17) [नि-739. लोकानां स्वजनत्वाद्धि लोकबन्धुः इति स्मृतः ।।]

78.740   लोकनाथः

                *740 तन्मूलमसाधारणं स्वाभाविकं च संबन्धमाह–लोकनाथः इति । स्वामी ।। [नि-740. लोकबन्धुत्वमूलं हि लोकस्वामित्वमित्यतः । स्वाभाविकाच्च संबन्धात् लोकनाथ इतीरितः ।।]

78.741   माधवः

                *741 बान्धवविशेषमाह-मातापितृत्वं श्रिया सह अस्य सूचयति- माधवः । मधुकुलोद्भवत्लवात् वा । “मौनात् ध्यानाच्च योगाच्च विद्धि भारत! माधवम्” इति वा ।। (भार.उ.71.4) [नि-741. लोकनाथत्वसंबन्धः श्रीमतश्च इति माधवः । मधोर्वशोद्भावत्वाच्च माधवः परिकीर्तितः ।।]

78.742   भक्तवत्सलः

                *742 उक्तस्वाम्यबान्धवोत्सुकेषु भक्तेषु विशेषं भाषते-भक्तवत्सलः । तल्लाभ संभ्रमविस्मृविस्मृतान्यकामः ।। [नि-742. विशेषं वक्ति ङक्तेषु योऽसौ स्यात् भक्तवत्सलः ।।] सुवर्णवर्णो हेमाङ्गो वराङ्गः चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशी रचलश्चलः ।। 79 ।।

79.743   सुवर्णवर्णः

                *743 उक्तगुणवत् कनकनिकष-निर्दोष-उच्च्वल-दिव्यवर्णः सुवर्णवर्णः । “यदा पश्यः पश्यते रुक्मवर्णम्”, (मु.-3.1.3) “रुक्माभं स्वप्नधीगभ्यम्”, (मनु.12.122) “आदित्यवर्णम्” (पु.सू.20) “हिरण्मयः पुरुषः ….सर्व एव सुवर्णः” ।। (छा.-1.6.6) [नि-743. गुणवत्स्वर्णनिकष-निर्दोषोज्ज्वलवर्णतः । सुवर्णवर्ण इत्युक्तः नवार्णो भक्ति-कामदः ।। ]

79.744   हेमाङ्गः

                *744 वर्णाधिष्ठानां च नित्यं दिव्यं सत्त्वमयमङ्गमस्य इति हेमाङ्गः । “बिरण्मयः पुरुषो दृश्यते” इति । (छा.-1.6.6) [नि-744. वर्णाधिष्ठानमङ्गं च दिव्यसत्त्वमयं यतः । अतो हेमाङ्ग इत्युक्तः सप्तार्णो हेमवर्णदः ।।]

79.745   वराङ्गः

                *745 तदेतत् औपनिषदं देवक्या व्रियमाणम् अतिनिह्नुत-दिव्यचिह्नम् आविष्कृतमिति वराङ्गः । यथा– “फुल्लेन्दीवरपत्राभं चतुर्बाहुं निरीक्ष्य तम् । श्रीवत्सवक्षसं जातं तुष्टाव आनकदुन्दुभिः ।। ” इति ।। [नि-745. देवकीप्रीतये दिव्यं मङ्गलं दिव्यलाञ्छनम् । आविष्कृतं येन रूपं वराङ्गः स तु कथ्यते ।।]

79.746   चन्दनाङ्गदी

                *746 चन्दनानि – आह्लादनानि, अनन्याभरणमप्यङ्गं स्वसंवलिततया उन्मील्य ददति इति वा, केयूरोपलक्षणेन वा दिव्यभूषमानि अङ्गदादीनि भूयिष्ठानि अस्य इति चन्दनाङ्गदी । भूमनि इनिप्रत्ययः ।। [नि-746. भूषणानि अङ्गदादीनि सदाह्लादकराणि च । सन्ति यस्य हि नित्यं तु स स्मृतः चन्दनाङ्गदी ।।]

79.747   वीरहा

                *747 अतिमुग्धस्तनन्धयोऽपि पूतनाशकटार्जुनादीन् सुरारीन् वञ्चकान् समूलघातं हन्ति इति वीरहा ।। [नि-747. समूलं पूतनादीन् वै यो जधान स वीरहा ।।]

79.748   विषमः

                *748 एवम् ऋजुकुटिलाशयेषु क्षेमंकर-भयंकर-विषम-वृत्तत्वात् विषमः ।। [नि-748. भीतिक्षेमकरत्वाद्धि कुटिलात्मसु । विषमः स तु विख्यातः ।।]

79.749   शून्यः

                *749 मनुष्यत्वेऽपि अशेषदोषैः विवर्जितः शून्यः । “शुन गतौ”, ण्यत् ।। [नि-749. शून्यः स्यात् दोषवर्जितः ।।]

79.750   घृताशीः

                *750 “घृ सेचते” घृतं सेचनं, स्वगुणैः जगदाप्यायायनम्, तत्र वा गोपगृहगव्ये वा आशास्तिः अस्येति घृताशीः ।। [नि-750. गोपानां सद्मगव्ये वा जगदाप्यायनेऽथवा । घृते त्वाशास्तिरस्येति घृताशीः परिकीर्तितः ।।]

79.751   अचलः

                *751 दुर्योधनादिभिः दुरात्मभिः अभेद्यः अचलः ।। [नि-751. दुयोंधनाद्यभेद्यत्लात् अचलः परिकीर्तितः ।।]

79.752   चलः

                *752 “तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्धं महेन्द्रावरजं समीक्ष्य । सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिति चिन्तयित्वा ।।” ‘स वासुदेवः प्रगृहीत चक्रः संवर्तयिष्यन्निव जीवलोकम् । अभ्युत्पतन् लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धबमकेतुः ।।’ इत्यादि ।। (भार.भी. 53.93.94). [नि-752. सत्यादेः पाण्डवार्थे स चलतीति चलः स्मृतः ।।] अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।। 80 ।।

80.753   अमानी

                *753 भक्तेषु अनहंयुः अमानी । अतो हि दूत्यादौ अनपत्रपिष्णुः अधिचकार ।। [नि-753. अमानी योऽमहकारी भक्तेष्वेव स ईरितः ।।]

80.754   मानदः

                *754 अर्जुन-उग्रसेन-युधिष्ठिरादिभ्यो रथित्व-आधिराज्य-बहुमानं दत्तवान् मानदः ।। [नि-754. स मानदोऽर्जुनादिभ्यो मानं राज्यं च दत्तवान् ।।]

80.755   मान्यः

                *755 तदीयत्वेन संमन्तव्यो मान्यः । तथा हि अयम् आत्मानं बह्वमंस्त– “न सारथेः सात्त्वतकौरवाणां कुद्धस्य मुच्येत रणेऽद्य कश्चित्” इति ।। [नि-755. मान्यस्तदीयत्वेन स्यात् संमन्तव्यः सदेति सः ।।]

80.756   लोकस्वामी

                *756 क एवं कर्मकरः ? लोकस्वामी ।। [नि-756. लोकः सर्वः स्वमस्येति लोकस्वामी इति कथ्यते ।।]

80.757   त्रिलोकधृत्

                *757 एवम् अतितुङ्गः कथं नीचैः भवति ? यतः त्रिलोकधृत् । अशेषाणामपि धारणपोषणयोः भारकत्वात् इति । यथा- “विष्टभ्याऽहम् इदं कृत्स्नम्” इत्यादि ।। (गीता. 10.42) [नि-757. लोकत्रयस्य धरणात् स त्रिलोकधृत् ईरितः ।।]

80.758   सुमेधाः

                *758 आराधक-सुसाधुबुद्धिः सुमेधाः । “नित्यमसिच् प्रजामेधयोः ” इति समासान्तोऽसिच् । (अष्टा.-5.4.122) [नि-758. बुद्धिः सुशोभना यस्य सुमोधाः परिकीर्तितः ।।]

80.759   मेधजः

                *759 अतो मेधे – देवकीपित्रीयव्रतरूपे यज्ञे, जातः इति मेधजः । स हि तामाह- “स्तुतोऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तदद्य ते । सफल देवि ! संजातं जातोऽहं यत् तवोदरात् ।। ” (वि.पु. 5.3.14) [नि-759. देवकीकृतपुत्रीयव्रतयज्ञे च यस्य वै । जनिस्तु मेधजः स स्यात् सुप्तार्णः पुत्रदायकः ।।]

80.760   धन्यः

                *760 तज्जन्म-धनलाभात् धन्यः । “धनगणं लब्धा” इति यत् ।। (अष्टा.- 4.4.84) [नि-760. धन्यस्तु देवकी जन्मधनलाभात् अयं स्मृतः ।।]

80.761   सत्यमेधाः

                *761 “जातोऽहं यत् तवोदरात्”, (वि.पु.5.13.14) “अहं वो बान्धवो जातः”, इति (वि.पु.5.13.11) वल्लव-वसुदेवादि-साजात्याभिमानिनी मेधा सत्याऽस्य, न नटममात्रमिति सत्यमेधाः । स हि वल्लवानाह- “यदि वोऽस्ति मयि प्रीतिः श्लाध्योऽहं भवतां यदि । तदात्मबुद्धिसदृशी बुद्धिर्वः क्रियतां मयि ।।” इति (वि.पु.5.13.1) “नाह देवो न गन्धर्वो न यक्षो न च दानवः । अह वो बान्धवो जातः न वश्चिन्त्यम् अतोऽन्यथा ।।” इत्यादि । (वि.पु.5.13.11) [नि-761. वल्लवीवसुदेवादिसाजात्यस्य अभिमानिनी । मेधा यस्यास्ति सत्या स सध्यमेधाः प्रकीर्तितः ।। ]

80.762   धराधरः

                *762 “तदेतदखिलं गोष्ठं त्रातव्यमधुना मया । इममद्रिमहं धैर्यात् उत्पाट्याऽऽशु शिलाधनम् । धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवापरम् ।। “इति (वि.पु.5.11.13) गोवर्धनं धरमादधत् धराधरः ।। [नि-762. धरं गोवर्धनं शीघ्रं धृतवान् स धराधरः ।।] तेजोवृषो द्युतिधरः सर्वंशस्त्रणृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ।। 81 ।।

81.763   तेजोवृषः

                *763 एवं सुहृत्पालनलक्षणं तेजो वर्षतीति तेजोवृषः ।। [नि-763. तेजोऽभिवर्षति यतः सुहृत्पालनलक्षणम् । तेजोवृषः समाख्यातो वस्वर्णों मित्रवृद्धिदः ।।]

81.764   द्युतिधरः

                *764 तेन तारुण्योऽपि इन्द्राभिभावुकाम् अतिमानुषीं द्युतिं धृतवान् द्युतिधरः । [नि-764. अमानुषीं यो घृतवान् द्युतिम् ऐन्द्राभिबावुकाम् । ख्यातः स हि द्युतिधरः वस्वर्णः कान्तिदो मनुः ।।]

81.765   सर्वशस्त्रभृतां वरः

                *765 नरक-जरासन्धादि-समरेषु सर्वशस्त्रभृतां वरः । यथा- “मनुष्यधर्मलीलस्य लीला सा जगत्पतेः । अस्त्राण्यनेकरूपाणि यद् अरातिषु मुञ्चति ।।” इति ।। (वि.पु.5.22.24) [नि-765. जरासन्धादिसमरे श्रेष्ठः शस्त्रणृतां च यः । स ख्यातः सर्वंलोकेषु सर्वशस्त्रभृतां वरः ।।]

81.766   प्रग्रहः

                *766 [नि-766. पार्थः सारथिनानेन सदश्च इव रश्मिभिः । प्रगृह्यते यतः तत् स्यात् प्रगृहः समुदाहृतः ।।]

81.767   निग्रहः

                *767 अर्जुन-पौरुष-निरपेक्षेण सारथ्य-वैवित्र्येण निगृह्यन्ते शत्रवः इति निग्रहः ।। [नि-767. येन सारथ्यवैचित्र्यात् निगृह्यन्ते स्म शत्रवः । स निग्रहः समाख्यातः सप्तार्णः शत्रुनाशकः ।।]

81.768   व्यग्रः

                *768 अर्जुन-वैरिनिग्रहे युद्धकर्मासहमानो व्यग्रः । “अग कुचिलायां गतौ”, “ऋज्रेन्द्राग्र” इत्यादिना ‘रन्’ प्रत्ययो निपातितः । (उणा.पा.-2.31) यथा भीष्माभिऋमणे– “ये यान्ति यान्त्येव शिनिप्रवीर! येऽवस्थिता सत्वरं तेऽपि यान्तु । भीष्मं रथात् पश्यत पात्यमानं द्रोणं मयाऽद्या ।। ” (भार.भी.59.86) इत्येवमुक्त्वा, “रथात् अवप्लुत्य विसृज्य वाहान्” इत्यादि ।। (भार.भी. 59.90) [नि-768. युद्धक्रसहिष्णुत्वात् पार्थविद्विड्विनिग्रहे । असौ व्यग्रः समाख्यातः षडर्णो वैरिनाशकः ।।]

81.769   नैकशृङ्गः

                *769 बुद्धियोगः सारथ्यम् अनायपधाग्रहणव्याजः प्राप्तकाले तद्ग्रहणमिति बहु वैरिबाधकमस्येति नैकशृङ्गः ।। “शॄ हिंसायां” , “शृणातेः ह्रस्वश्च” इति ‘गन्’ प्रत्यय किन्नुडागमश्च ।। (उणादिपा.1.126) [नि-769. नैकशृङ्गो यस्य नैकं स्यात् शृङ्गं वैरिबाधकम् ।। ]

81.770   गदाग्रजः

                *770 गदनाम्नोऽग्रजः गदाग्रजः ।। [नि-770. गदनामश्च अग्रजत्वात् गदाग्रज इतीरुतः ।] चतुर्मूर्तिः चतुर्बाहुः चतुर्व्यूहः चतुर्गतिः । चतुरात्मा चतुर्भावः चतुर्वेदवित् एकपात् ।। 82 ।।

82.771   चतुर्मूर्तिः

                *771 विभवेऽपि तन्मूलव्यूहं प्रत्यभिज्ञापयति-चतुर्मूर्तिः । बलभद्र-वासुदेव- प्रद्युम्न-अनिरपद्धाभिख्याः चतस्रो मूर्तयः यदुकुलेऽप्यस्य इति ।। [नि-771. बलभद्रो वासुदेवः प्रद्युम्नश्च अनिरुद्धकः । चतस्रो मूर्तयो यस्य स चतुर्मूर्तिः उच्यते ।]

82.772   चतुर्बाहुः

                *772 व्यबहमूलेन निरुपाधिक-पररूपेण देवक्यामवततार इति चतुर्बाहुः । सा हि एनमाह– “उपसंहर सर्वात्मन् रूपमेतत् चतुर्भुजम् । जानातु माऽवतारं ते कंसोऽयं दितिजन्मजः ।।” इति ।। (वि.पु.5.3.13) [नि-772. व्यूहमूलपरावस्थ-निरुपाधिकरूपतः । चत्वारो बाहवो यस्य स चतुर्बाहुः उच्चते ।।]

82.773   चतुर्व्यूहः

                *773 अत्रापि तथैव समस्त-व्यस्त षाडिगुण्य-व्यवस्थत्वात् चतुर्व्यूहः ।। चतुर्व्यूह इति ख्यातः चतुर्वर्गप्रदो मनुः ।।]

82.774   चतुर्गतिः

                *774 उपासकाभियोग-तारतम्य-कृतक्रमात् चतस्रः प्राप्तयः अस्मिन् इति चतुर्गतिः ।। [नि-774. चतस्रः प्राप्तयो यस्मिन् भक्तानां स चतुर्गतिः ।।]

82.775   चतुरात्मा

                *775 139. तेनैव अधिकारि-तारतम्येन प्रादुष्कृत-स्थूलसूक्ष्म-जागिरदादि- चीतुरात्म्य-स्फुटीकरणात् चत्वारः आत्मानः अस्य इति चतुरात्मा ।। [नि-775. जाग्रजाजि स्थूलसूक्ष्म-चातुरात्म्य प्रकाशनात् । चतुरात्मा स विज्ञेयः वस्वर्णो मनुरुत्तमः ।।]

82.776   चतुर्भावः

                *776 एवं षोडशात्त्मनि चतुर्व्यूहे अधिकृत-जगज्व्यापार-शास्त्रदानादि-स्थूल क्ष्म-व्यूह-प्रयोजन-पुंञ्जव्यंञ्जनात् चतुर्भावः । भावः- भावना अभिव्यञ्जनम् ।। [नि-776. शास्त्रदानादि-कृत्याभिव्यञ्जनात् स्थूलसूक्ष्मतः । चतुर्भावः समाख्यातः मुन्यर्णश्च गतिप्रदः ।।]

82.777   चतुर्वेदवित्

                *777 व्यूहविभवयोः विभावितमिदं महावैभवं महाविभूति-महार्णव-लवमात्रं परापरविभव- कोविदानां चतुर्वेदविदां प्रतिभाति इति ।। चतुर्वेदवित् ।। [नि-777. चतुर्वेदप्रज्ञनिष्ठा वित्तिर्यद्विषये स तु । चतुर्वेदवित् इत्युक्तः नवार्णो निगमप्रदः ।।]

82.778   एकपात्

                *778 एकपात् । अतो हि एवमाहुः — “अंशावतारो ब्रह्मर्षे ! योऽयं यदुकुलोद्भवः “, (वि.पु.5.1.2) “अंशांशेन अवतीर्य उर्व्याम्”, (वि.पु.5.1.3), “विष्णोर्भागम् अमीमांस्यम्”, (राम.यु.59.122), “साक्षात् विष्णोः चतुर्णागः” इति ।। (राम.बा.18.13) [नि-778. एकांशेन अवतीर्णत्वात् एकपात् इति कथ्यते ।।] समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ।। 83 ।।

83.779   समावर्तः

                *779 एतादृशं सदा सर्वत्र सर्वथा समन्तात् वैयूहवैभवावर्तनम् अस्य इति समावर्तः ।। [नि-779. एतादृशं हि सर्वत्र सर्वदा सर्वथाऽपि च । व्यूहस्य विभवस्यापि यस्यास्त्यावर्तनं स तु । समावर्तः समाख्यातः वस्वर्णो जन्मनाशकः ।।]

83.780   निवृत्तात्मा

                *780 कृपालतया एषः जगत्संवलितोऽधिकारः स्वतस्तु तदस्मतमनाः निवृत्तात्मा । यथा “अवाकी अनादरः” इति ।। (छा-3.14) [नि-780. निवृत्तात्मा मनो यस्य सदा जगदमिश्रितम् ।।]

83.781   दुर्जयः

                *781 सुरनरादिशक्त्या अशक्यो वशीकर्तुम् । “यन्न दर्शितवान् एष कस्तदन्वेष्टुमर्हति” इति दुर्जयः ।। अन्वेष्टुं वाऽपि यः स स्यात् दुर्जयः सर्ववर्णकः ।। ]

83.782   दुरतिक्रमः

                *782 अथ सर्वस्य स्वपादमूलमतिक्रम्य न गत्यन्तरमिति दुरतिक्रमः । श्रूयते हि– “यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तं निगच्छति ।।” इति, (दुःखस्यान्तो भविष्यति पा.)” श्वे.6.20) “वासुदेवमनाध्य को मोक्षं समवाप्नुयात् ।।”, “न हि विष्णुमृते काचित् गतिरन्या विधीयते । इत्येव सततं वेदा गायन्ते नात्र संशयः ।।” इति ।। (लैगपु.24.43) [नि-782. अतिक्रम्य स्वपादाब्जं सर्वेषां प्रापकान्तरम् । नास्तीति सर्वपापघ्नः स स्मृतो दुरतिक्रमः ।।]

83.783   दुर्लभः

                *783 “तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः ।” (वि.ध.73.6) “अप्राप्यः केशवो राजन् ! इन्द्रियैरजितैः नृणाम्” इति दुर्लभः ।।(भार.उ.78.21) [नि-783. अजितेन्द्रियदुष्प्रापो दुर्लभः स च कथ्यते ।।]

83.784   दुर्गमः

                *784 नेत्रदुर्बलानामिवमध्याह्नभास्करः अप्रधृष्यतेजाः दण्डापूपिकया दुर्गमः ।। [नि-784. नेत्रदुर्बलवृत्तीनां मध्याह्नद्युमणेर्यंथा । दुष्प्रापाधृष्यतेजस्त्वात् दुर्गमः परिकीर्तितः ।।]

83.785   दुर्गः

                *785 अविद्याद्यावरणैः दुष्प्रवेशश्च दुर्गः । “सदुरोः अधिकरणे” इति डः ।। (अष्टा.-32.48(वर्तिक) [नि-785. दुष्प्रवेशतया दुर्गः पाविभिः सर्वथैव सः ।]

83.786   दुरावासः

                *786 एवं च दूरे दुष्करः तत्पदावास इति दुरावासः ।। [नि-786. दुष्करावासभूमित्वात् दुरावासः इतीरितः ।।]

83.787   दुरारिहा

                *787 इदं दौर्लथ्यम् अप्रपित्सु-पापविषये प्रयच्छने बुद्धावतारं नियच्छति- दुरारिहा । दुर्मार्गगामिनो दुरारिणः तान् त्रयीमार्ग-त्याजनादिभिः तैस्तैः उपायैः हतवान् इति । यथा वैष्णवे- “मायामोहेन ते दैतेयाः प्रकारैः बहुभिस्तदा । व्युत्थापिता यथा नैषां त्रयीं कश्चित् अरोचयत् ।। हताश्च तेऽसुरा देवैः सन्मार्ग-परिपन्थिनः ।।” इति ।। (वि.पु.3.18.34) [नि-787.दुरारिणस्तु दुर्मार्गगामिनस्तान् निहन्ति यः । त्रयीमार्गत्याजनाद्यैः स स्यात् नित्यं दुरारुहा ।।] शुभाङ्गो लोकसारङ्गः सुतन्तुः तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ।। 84 ।।

84.788   शुभाङ्गः

                *788 कथं तान् अनुप्रविष्टः ? शुभाङ्गः- अयं परमप्रत्ययितः इति असुरविप्रलंभक- माया-मोहनविग्रहः ।।

84.789   लोकसारङ्गः

                *789 कीट्टक् विप्रलंभः- ? लोकसारङ्गः- लोके यत् सार- न्यायादनपेतं भोगमोक्ष वर्त्म तत् गच्छति इति । “गमेः सुप्युपसंख्यानम्” “खच्च वा डिद्वक्तव्यः” इति । (अष्टा.- 3.2.28(वार्तिक) स शलु आह– “कुरुध्वं मम वाक्यानि यदु मुक्तिमभीत्सथ” इत्यादि ।। (वि.पु.3.18.5) [नि-789. न्यायानपेतं यत् सारं भोगनिर्वाणवत्मै सः । तद्गच्छति सदा लोके लोकसारंग ईरितः ।। ]

84.790   सुतन्तुः

                *790 शोभनः – न प्रतिलंध्यः तद्ग्रहण-वागुरातन्तुः तृत्रिम-शान्ति-भावनादि- रूपोस्य इति सतन्तुः ।। [नि-790. तन्तुः कृत्रिमशान्त्यादिरूपः तद्ग्रहणाय वे । शोभनोस्य सुतन्तुः स सप्तार्णो दोषनाशकः ।।]

84.791   तन्तुवर्धनः

                *791 एवं पापरूचिभुः अंशुभिरिव संसारतन्तुं संतनोतीति तन्तुवर्धनः । यथा– “तानहं द्विषतः त्रूरान् संसारेषु नराधमान्” इत्यादि, (गीता.16.19) “त्रयीमार्गसमुत्सर्गमायामोहेन तेऽसुराः । कारितास्तन्मया ह्यासन् तथाऽन्ये तत्प्रचोदिताः ।। तैरप्यन्येऽपरे तैश्च तैरप्यन्ये परे च तैः ।।” (वि.पु.3.18.32) [नि-791. अंशुभिः पापरुचिभिः तन्तुं संसारनामकम् । सन्तनोति सदा यः स तन्तुवर्धन ईरितः ।।]

84.792   इन्द्रकर्मा

                *792 “तमूचुः सकला देवाः प्रणिपातपुरस्सरम् । प्रसीद नाथ ! दैत्येभ्यः त्राहीति शरणार्थिनः ।।” (वि.पु.3.17.36) इति शरणागतेन्द्राद्यर्थे एवंविधव्यापारत्वात् इन्द्रकर्मा ।। [नि-792. प्रपन्नेन्द्राद्यर्थतया दैत्यसंहाररूपकम् । कर्मं यस्यास्ति इन्द्रकर्मा सोऽष्टार्णो मनुरुत्तमः ।।]

84.793   महाकर्मा

                *793 एवं प्रपन्नपरिपालनार्थत्वात् दुराचार-दण्डनार्थत्वाच्च खलु परमकारुणिकसियैव विप्रलंभलंभवः । एवं न्यायवृत्तत्वात् महाकर्मा ।। [नि-793. एवं न्यायप्रवृत्तत्वात् महाकर्मा इति कथ्यते ।।]

84.794   कृतकर्मा

                *794 तद्विप्रलिप्सया स्वयमप्यनुष्ठित-तदाचारः कृतकर्मा ।। [नि-794. स्वनुष्ठित-तदाचारः कृतकर्मा इति कथ्यते ।।]

84.795   कृतागमः

                *795 तत्स्थेम्ने प्रणीत-बुद्धार्हतादि-सामयिकागमः कृतागमः ।। [नि-795. कृतबुद्धाद्यागमत्वात् कृतागम उदाहृतः ।।] उद्भवः सुन्दरः सुन्दो रत्नलाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ।। 85 ।।

85.796   उद्भवः

                *796 [नि-796. मोक्षोपदोशनटनात् भवात् उद्गतवत् स्थितः ।। उद्भवः स तु विज्ञेयः सप्तार्णः पापनाशकः ।।]

85.797   सुन्दरः

                *797 तद्दृष्टिमनोहरः सुन्दरः ।। [नि-797. स स्यात् सुन्दर उद्दिष्टः तेषां दृष्टिमनोहरः ।।]

85.798   सुन्दः

                *798 तेनासुरामनांसि सुष्ठु उनत्ति इति सुन्दः । पृषोदरादिः ।। [नि-798. विश्वातिशायिसौभाग्यशालित्वात् स उनति यत् । सुष्ठु चेतः क्लेदयति रक्षसां सुन्दः ईरितः ।।]

85.799   रत्ननाभः

                *799 पाण्डित्य-विडम्बन-मृष्टोदर-व्यक्त-रम्यनाभी रत्ननाभः ।। [नि-799. स रत्ननाभ इत्युक्तः यः पाणटित्य-विडम्बनात् । मृष्टोदर-व्यक्त-रम्यनाभिः सत्फलदो मनुः ।।]

85.800   सुलोचनः

                *800 तथा हृदयालु-चोर-लोचनः । यथा- “ततो दिगम्बरो मुण्डः”, (वि.पु.3.18.2) “पुनश्च रक्तांबरधृक् मायामोहोऽजितेक्षणः” इति ।। (वि.पु.3.18.16) [नि-800. सुलोचन इति प्रोक्तो दृङ्मायामोहितेक्षणः ।।] इति श्री हरिकुलतिलक-श्रीवत्सांकमिश्रसूनोः श्रीरंगराजदिव्याज्ञालब्ध श्रीपराशरभट्टापरनामधेयस्य श्रीरंगनाथस्य कृतो श्रीमद्विष्णुसहस्रनामविवरणे भगवद्गुणदर्पणे अष्टमं शतकं सम्पूर्णम् ।।

….Continued

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.