श्री भगवद् गुण दर्पण: 901-1000

श्री भगवद् गुण दर्पण: 901-1000(Concluded)

 

96.901   स्वस्तिदः

                *901 दशमं शतकम् एवं महन्मङ्गलं ददाति इति स्वस्तिदः ।। [नि-901. भक्तेभ्यो मङ्गलं स्वस्ति ददातः स्मृतः ।।]

96.902   स्वस्तिकृत्

                *902 स्वगुणैः स्वभोगाशिषं करोति इति स्वस्तिकृत् ।। [नि-902. स्वस्ति भेगाशिषं यस्तु करोति स्वस्तिकृत् च सः ।।]

96.903   स्वस्ति

                *903 स्वयमेव महन्मङ्गलम् स्वस्ति । “स्वस्ति शिवाशिषोः ।।” (उदा.) “सावसेः शित्” इति तिप्रत्ययः । शित्त्वात् भूभावाभावः ।। (उणा.पा.-4.180)

96.904   स्वस्तिभुक्

                *904 सर्वमे तत् स्वस्ति भुनक्ति-पालयतीति स्वस्तिभुक् ।। [नि-904. पालनात् मङ्गलस्यैव स्वस्ति भुक् च इति गम्यते ।।]

96.905   स्वस्तिदक्षिणः

                *905 अन्यदपि स्वपरिचरमानुगुणं दिव्यशरीर-शक्त्यादि स्वस्ति स्वात्मदान- दीर्घसत्रे ऋत्विग्भ्यो देया दक्षिणा अस्य इति स्वस्तिदक्षिणः ।। [नि-905. शक्त्याद्या प्रकृतिः स्वस्ति स्वात्मदानं च दक्षिणा ।। आत्मार्पणाख्ययागे तु यस्यासौ स्वस्तिदक्षिणः ।।] अरौद्रः कुण्डलो चक्रो विक्रम्यूर्जितशासनः । शब्दातिगः सब्दासहः शिशिरः शर्वरीकरः ।। 97 ।।

97.906   अरौद्रः

                *906 परमैश्वर्येऽपि गुणशीतसिम्ना अरौद्राः ।। [नि-906. सर्वैश्वर्येऽपि सुगुणः शीतलः अरौद्रः उच्यते ।।]

97.907   कुण्डली

                *907 यथोचित-नित्यदिव्यभूषणः कुण्डली ।। [नि-907. दिव्यभूषणवान् योऽसौ कुण्डली इति प्रकथ्यते ।।]

97.908   चक्री

                *908 तादृशदिव्यायुधः चक्री ।। [नि-908. नित्यदिव्यायुधः चक्री ।।]

97.909   विक्रमी

                *909 गांभीर्यानुकूलविलासः विक्रमी ।। [नि-909. स्यात् विलासी तु विक्रमी ।।]

97.910   ऊर्जितशासनः

                *910 विरिञ्चि-पुरन्दराद्यलंध्याज्ञः ऊर्जितशासनः ।। [नि-910. ब्रह्माद्यलंध्यस्वाज्ञो यः स स्यात् ऊर्जितशासनः ।।]

97.911   शब्दातिगः

                *911 अनन्तजिह्वे अनन्तेन, अनन्तशाखैः आम्नायैः साक्षात् सरस्वत्या च दुरुदाहरमहिमा शब्दातिगः ।। [नि-911. अनन्तशाखैराम्नायैः वाग्देव्याऽनन्तभोगिना । वक्तुं ह्यशक्यो महिमा यस्य शब्दातिगोऽस्ति सः । ]

97.912   शब्दसहः

                *912 अथ गजेन्द्रमोक्षणम् । अस्पष्टशब्दानां तिरश्चामपि आर्तशब्दम् अतिभारमिव सहते इति शब्दसहः । “भक्तिं तस्यानुसंचिन्त्य” इति ।। [नि-912. अतिभारमिवास्पष्टं तिरश्चां शब्दमर्जितम् । सहते यः शब्दसहः वस्वर्मो मनुरुत्तमः ।।]

97.913   शिशिरः

                *913 आर्तशब्दश्रवणानन्तरम् अतित्वरया गतः शिशिरः । “शशप्लुतगतौ” “अजिर शिशिर” इत्यादिना ‘रक्’ प्रत्ययान्तो निपातितः । (उणा.पा.-1.56) [नि-913. गजेन्द्रपालयार्थं यः शिशिरस्तरसा गतः ।।]

97.914   शर्वरीकरः

                *914 शर्वरीकरः । “शृणातेः कॄगॄशॄवृञ्चतिभ्यः ष्वरच्” इति ष्वरच् । (उणा.पा.-2.122) षित्वात् ङीप् । शर्वरी- हिंस्रा परविदारिणी पञ्चायुधी करे अस्येति ।। [नि-914. उच्यते शर्वरीशब्दात् हिंसा परविदारिणी । पञ्चायुधी करे साऽस्य इत्युदितः शर्वरीकरः ।।] अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्त्मो वीतभयः पुण्यश्रवणकीर्तनः ।। 98 ।।

98.915   अक्रूरः

                *915 गजपरिजिहीर्षया करस्थैरपि आयुधैः ग्राहमपि झटिति अकृत्तवान्-अक्रूरः । “कृतेश्छः क्रू च” इति रक् ‘क्रू’ आदेशश्च । यथा– (उणा.पा.-2.23) “ग्राहग्रस्तं गजेन्द्रं च तं ग्राहं च जलाशयात् । उज्जहार अप्रमेयात्मा तरसा मधुसूदनः ।।” इति ।। [नि-915. योऽसौ धृतायुधैर्ग्राहम् अक्रूरो मङ्क्षु अकृत्तवान् ।।]

98.916   पेशलः

                *916 संभ्रमात् अयथायथ-स्रग्भूषाम्बर-रमणीयः-पोशलः ।। [नि-916. त्वरातिशयतः स्रस्तस्रग्भूषाभ्बरसुन्दरः । गजेन्द्ररक्षासमये योऽसौ स्यात् पेशलः स्मृतः ।।]

98.917   दक्षः

                *917 क्षिप्रम् आगन्ता दक्षः ।। [नि-917. दक्षो यो द्रुतमागन्ता रक्षणाव स उच्यते ।।]

98.918   दक्षिणः

                *918 तथा आगत्य, ‘धिह् माम्, दूरगतोऽहं त्वाम् ‘ इति सान्त्वनैः गजेन्द्रस्य अनुकूलः- दक्षिणः । “दक्ष वृद्धौ” “द्रुदक्षिभ्याम्” इति इनन् । यथा- (उणा.पा.-2.53) “प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः । भजन्तं गजराजानं मधुरं मधुसूदनः” ।। इत्यादि ।। [नि-918. गजेन्द्रस्य प्रपन्नस्य यः प्रीतो दक्षिणस्तु सः ।।]

98.919   क्षमिणां वरः

                *919 तद्दर्शनेन धृतात्मा -क्षमिणां वरः । “अभवत् तत्र देवेशः” इति ।। [नि-919. गजेन्द्रदर्शनेनासौ धृतात्मा क्षमिणां वरः ।।]

98.920   विद्वत्तमः

                *920 ततच्चिकित्सायां विद्वत्तमः । “एवमुक्त्वा कुरुश्रेष्ठ ! गजेन्द्रं मधुसूदनः । स्पर्शयामास हस्तेन” इत्यादि ।। [नि-920. गजेन्द्रार्तिचिकित्सायां विद्वान् विद्वत्तमस्तु सः ।।]

98.921   वीतभयः

                *921 [नि-921. वीतं भयं गजेन्द्रस्य यस्मात् वीतभयः च सः ।।]

98.922   पुण्यश्रवणकीर्तनः

                *922 “श्रुतेन हि कुरुश्रेष्ठ! स्मृतेन कथितेन वा । गजेन्द्रमोक्षणेनैव सद्यः पापात् प्रमुच्यते ।।” इति ।। पुण्यश्रवणकीर्तनः ।। [नि-922. गजेन्द्रमोक्षणं श्रुत्वा सद्यः पापात् प्रमुच्यते । यस्मात् तत्कीर्तनं पुण्यं श्रवणं चेति स स्मृतः । द्वादशार्णों मनुश्रेष्ठ- पुण्यश्रवणकीर्तनः ।।] उत्तारणो दृष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ।। 99 ।।

99.923   उत्तारणः

                *923 तौ सरसः उत्तारितवान्-उत्तरणः ।। [नि-923. सरसस्तौ तारितवान् इति उत्तारणः इरितः ।।]

99.924   दुष्कृतिहा

                *924 “स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।।” इति दुष्कृतिहा ।।(वि.ध.69) [नि-924. ग्राहं विदारयामास यस्मात् दुष्कृतिहा च सः ।।]

99.925   पुण्यः

                *925 अनया कीर्त्या अस्मदादीनपि पुनाति इति पुण्यः ।। [नि-925. कीर्त्याऽस्मदादीनपि यो गजेन्द्रत्राणरूपया । पुनात्यसौ भवेत् पुण्यः षडर्णः पावनत्वतः ।।]

99.926   दुःस्वप्ननाशनः

                *926 कः एवम् ? दुःस्वप्ननाशनः । यथा– “ये मां त्वां च सरश्चैव ” इत्युपक्रम्य, (वि.ध.69) “दुःस्वप्नो नश्यते तेषाम् ” इति, (वि.ध.) “दुःस्वप्नोपशमायालम्” इति च ।। (वि.ध.) [नि-926. गजेन्द्रमोक्षणाध्याय-जपात् दुःस्वप्नजं फलम् । नाशयत्यञ्जसा योऽसौ भवेत् दुःस्वप्ननाशनः ।।]

99.927   वीरहा

                *927 वीरं तद्बाधकं हतवान् वीरहा । “मोक्षयामास नगेन्द्रं पाशेभ्यः शरणागतम्” इति ।। [नि-927. वीरं तद्बाधकं मृत्युं हतवान् वीरहा मतः ।।]

99.928   रक्षणः

                *928 तं स्पर्शन-परिरंभण-सान्त्वनादिभिः रक्षितवान्-रक्षणः । “स्पर्शयामास हस्तेन” इत्यादि ।। (वि.ध.69) [नि-928. स्पर्शसंश्लेषणाद्यैस्तं रक्षतीति स रक्षणः ।।]

99.929   सन्तः

                *929 एवम् आश्रितान् सन्तनोतीति सन्तः । “अन्येष्वपि दृश्यते” इति डः । तेषामस्तीति वा सन्तः । वचनव्यत्ययः । तेभ्यः इष्टं दत्तवान् इति वा । सनोतेः निष्ठा । (अष्टा.-3.2.101) “जन सन” इत्यादिना आत्वविकल्पः ।। (अष्टा.-6.4.42) तेभ्य इष्टं दत्तवान् वा सनोतेः सन्तः उच्यते ।।]

99.930   जीवनः

                *930 स्वहस्तेन हननात् ग्राहमपि गन्धर्वत्वेन जीवयन्-जीवनः । “स हि देवलशापेन हूहूः गन्धर्वसत्तमः । ग्राहत्वमगमत् कृष्णात् वधं प्राप्य दिवं गतः ।।” इति ।। (वि.ध.69) [नि-930. स्वहस्तेन हतं ग्राहं गन्धर्वत्वेन जीवयन् । पूर्वशापं विरस्याथ यस्तिष्ठति स जीवनः ।।]

99.931   पर्यवस्थितः

                *931 वात्सल्यात् गजेन्द्रं, परि-परितः, अवस्थितः इति पर्यवस्थितः । “प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः” इति ।। (वि.ध.) [नि-931. वात्सल्यात् तं गजेन्द्रं तु परितोऽवस्थितश्च सः । पर्यवस्थित आख्यातो नवार्णो ह्यमितप्रदः ।।] अनन्तरूपोऽनन्तश्रीः जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ।। 100 ।।

100.932 अनन्तरूपः

                *932 ईदृंशि सद्यः संपाद्यानि अनन्तानि रूपाणि अस्य इति अनन्तरूपः ।। [नि-932. अनन्तरूपः स स्याद्वै यस्य असंख्येयविग्रहाः ।।]

100.933 अनन्तश्रीः

                *933 तेभ्यो देयाः स्वप्राप्तिपर्यन्ताः अनन्ताः श्रियोऽपि अस्येति अनन्तश्रीः । “ततो दिव्यवपुर्भूत्वा हस्तिराट् परमं पदम् । जगाम” इति ।। [नि-933. देयाः स्वप्राप्तिपर्यन्ताः श्रियोऽनन्ताश्च नित्यशः । प्रपन्नेभ्यो यस्य सन्ति सः अनन्तश्रीः इति स्मृतः ।।]

100.934 जितमन्युः

                *934 यःस शरणागत-गजेन्द्र-द्वेषिणे जलकीटाय क्रोधः सः इदानीं जितः इति जितमन्युः ।। [नि-934. गजेन्द्रद्वेषिणे क्रोधो जलकीटाय यः स्थितः । तं मन्युं जितवान् योऽसौ जितमन्युः प्रकथ्यते ।। ]

100.935 भयापहः

                *935 अस्मदादीनामपि स्ववात्सल्येन तादृशानाथत्वभयं वध्यात् इति आशंसनाईः-भयापहः । “आशिषि हनः” इति डः । (अष्टा.-3.2.49) “भये महति मग्नांश्च त्राति नित्यं जनार्दनः” इति ।। [नि-935. अनाथत्वभयं हन्ति वात्सल्येनैव मादृशाम् । भयापहः समाख्यातो बस्वर्णो मनुरुत्तमः ।।]

100.936 चतुरश्रः

                *936 यद्यपि स्वमहिमोचितं गर्जते गजाय श्लथाम्बराभरणमालं जगाम, यद्यपि क्षुद्रजल- कीटाय चुक्रोध, तथाऽपि चतुरश्रः- समवेतकारी, आश्रितार्थः संभ्रमो हि सांप्रतम् ।। [नि-936. युक्तकारी सर्वसमः चतुरश्रः स कीर्तितः ।।]

100.937 गभीरात्मा

                *937 अन्येषां चतुर्मुखमुखानाम् अप्रधृष्यगांभीर्यः गभीरात्मा ।। [नि-937. धात्रादीनामप्रधृष्यं गांभीर्यं यस्य विद्यते ।

100.938 विदिशः

                *938 तेषां विनयगद्गद-स्तुतुगिराम् अस्य दूरे विविधा दिशाः- देशाः इति विदिशः ।। [नि-938. विनयात् गद्गदस्तोत्रगिरामपि दिवौकसाम् । दूरेऽस्य विविधा देशाः विदिशः स तु कीर्तितः ।।]

100.939 व्यादिशः

                *939 तेषामभिमतं तत्तत्पदम् अतिसृजतीति व्यादिशः । इगुपधत्वात् कः ।। [नि-939. ब्रह्माद्यभिमतस्थानातिसृष्ट्या व्यादिशः च सः ।।]

100.940 दिशः

                *940 न तान् गजेन्द्रवत् अन्तरङ्गीकरोति, किं तु आज्ञापयति इति दिशः । पूर्ववत् कः । “गजेन्द्रमोक्षणं दृष्ट्वा सर्वे सेन्द्रपुरोगमाः । ब्रह्माणमग्रतः कृत्वा देवाः प्राञ्जलयस्तदा ।।” “ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् । विस्मयोत्फुल्लनयनाः प्रजापतिपुरस्सराः ।।” इति । (वि.ध.69) श्रीपौष्करेः- “गजेन्द्रग्राहमोक्षी च संसारोत्तारलक्षणः” इति ।। [नि-940. धात्रादीन् सर्वकृत्येषु हि आज्ञापयति यः सदा । दिशः स तु समाख्यातः षडर्णो मनुरुत्तमः ।।] अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिः भीमो भीमपराक्रमः ।।

101.941 अनादिः

                *941 एवं तिर्यक्ष्वपि भक्तेषु विवशो ब्रह्मादिषु फल्गु फलमेव प्रयच्छति, यस्मात् अनादिः । तैः अन्यपरैः न स्वामित्वेन आदीयते इति ।। [नि-941. देवतान्तरभक्तैर्यः देवताभिश्च सर्वदा । नादीयते स्वामितयेति अनादिः परिकीर्तितः ।। ]

101.942 भूर्भुवः

                *942 भवति इति भूः-स्वदास्यज्ञानेन आत्मलाभवान्; तस्य भुवः, स्वयमेव, भूः- पदं भवति इति भूर्भुवः । “निवसिषयसि मय्येव अत ऊर्ध्वं न संशयः” इति ।। [नि-942. तथ्यस्वदास्यज्ञानेन हि आत्मलाभवतः पदम् । भवति स्वयमेवेति भूर्भुवः स च कथ्यते ।। ]

101.943 लक्ष्मीः

                *943 तेषां लक्ष्मीः- सर्वा समपच्च । “भवद्गतं मे राज्यं च जीवितं च सुखानिच” इति , (राम.यु.16.6) “कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः । कृष्णः परायणं तेषां ज्योतिषामिव चन्द्रमाः ।।” इति च ।। (भार.द्रो.183.24) [नि-943. आत्मलाभवतां सर्वसंपत् लक्ष्मीः सः यत् स्मृतः ।]

101.944 सुवीरः

                *944 तेषां विनिपातपिरतीकारः- सुवीरः ।। [नि-944. तेषां यो विनिपातस्य प्रतीकारं करोति सः । सुवीर इति विखियातः सप्तार्णो मनुरुत्तमः ।।]

101.945 रुचिराङ्गदः

                *945 यथा- “न ते रूपम्” इत्यादि ।। (जितंते) [नि-945. प्रपन्नेभ्यः स्वानुभवयोग्यमह्गं मनोहरम् । अप्राकृतं सदा दत्ते योऽसौ स्यात् रुचिराङ्गदः ।।]

101.946 जननः

                *946 अथ सर्व भगवद्व्यापाराणां प्रयोजनम्-तदनुभवक्षम-करण-युक्तान् अन्यानपि जनयति इति जननः ।। [नि-946. अतोच्यतेऽत्र भगलद्व्यापाराणां प्रयोजनम् । जननः स्वानुभूत्यर्ह करणोपेतसर्जनात् ।।]

101.947 जनजन्मादिः

                *947 तेषां जनानां जन्मन आदिः निमित्तं प्रयोजनम् इति जनजन्मादिः । यथा- “अद्य मे सफलं जन्म ” (वि.पु.5.1.73) “जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया ।”, “सुजन्म देहमत्यन्तं तदेवाशेषजन्तुषु । यदेव पुलकोद्भासि विष्णुनामनि कीर्तिते ।।” “अद्य जन्म यथार्थ मे” इत्यादि ।। [नि-947. जनानां जनजन्मादिः जन्मनो यत् फलं स्वयम् ।।]

101.948 भीमः

                *948 एवंविध-महानुग्रह-विमुखानां भीमः-गर्भ-नरकादि-हेतुः । स हि अनात्मनीसान् हितबुदिध्या शत्रुवत् भावयते । “तानहं द्विषतः” इति ।। (गीता.16.19) [नि-948. एवं विधानुग्रहस्य विमुखानां निरन्तरम् । गर्भदन्मादिहेतुत्वात् भीम इत्युच्यते बुधैः ।।]

101.949 भीमपराक्रमः

                *949 अन्येषवपि जगदहितनिरतेषु हिरम्यादिषु भीमपराक्तमः । भयमपि अनुग्रह एव, यथा उन्मादिनो निगसादिनिग्रहः तस्य तद्वाध्यानां चचानुग्रहः ।। [नि-949. लोकाहितेषु नितरां हिरण्यादिषु सर्वदा । भीमः पराक्रमो यस्य स स्यात् भामपराक्रमः ।।] आधारनिलयो धाताः पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणव पणः ।।102 ।।

102.950 आधारनिलयः

                *950 धार्मिकतया जगदाधारः प्रह्लादः-विभीषण-पाण्डवादयः । तेषां निलयः-आदारनिलयः । ते हि आधाराः यथा श्रीविष्णुस्मृतौ– “वर्णाश्रमाचारपराः सन्तः शास्त्रैकतत्पराः । त्वां धरे ! धारयिष्यन्ति तेषु त्वद्भारमाहितम् ।” इति ।। [नि-950. धार्मिका जगदाधाराः प्रह्लादाद्या विशेषतः । तेषां तु निलयः स्थानम् आधारनुलयस्तु सः ।।]

102.951 धाता

                *951 स्वयं च धर्मांवार्यकेण धाता । “न मे पार्थ ! अस्ति कर्तव्यम्” इत्यादि ।। (गीता.3.21) [नि-951. स्वयं च धर्माचार्यत्वात् धाता इति परिकीर्त्यते ।।]

102.952 पुष्पहासः

                *952 इति पुष्पहासः ।। [नि-952. स्वात्मानुभवशक्तीनां सायं पुष्पवदस्य वै । हासोऽस्ति भोग्यतोल्लासः पुष्पहास इति स्मृतः ।।]

102.953 प्रजागरः

                *953 सस्येष्विव कृषीवलः, तेषु रात्रिं दिवं प्रजागर्ति इति प्रजागरः । “य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः” इति ।। [नि-953. रात्रिं दिवं प्रजागर्ति सस्येष्विव कृषीवलः । भक्तेषु नितरां योऽसौ प्रजागर इहोच्यते ।।]

102.954 ऊर्ध्वगः

                *954 कुतस्तदर्थम् अनिद्रः? यतः ऊर्ध्वगः- स्वभावतुङ्गः । यथा- “महात्मनां संश्रयमभ्युपेतो नैवावसीदति अतिदुर्गतोऽपि” इति ।। [नि-954. योऽसौ स्वभावतस्तुङ्गः ऊर्ध्वगः परिकीर्तितः ।।]

102.955 सत्पथाचारः

                *955 तन्महत्त्वफलं सत्पथे- स्वाभाविकदास्यमार्गे आचारणं- तेषां प्रवर्तनम् अस्येति सत्पथाचारः । “अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्” इत्यादि ।। (गीता 9.33) [नि-955. सत्पथाचार इत्युक्तः सन्मार्गे तत्प्रवर्तनात् ।।]

102.956 प्राणदः

                *956 एवं विषयविषमूर्छित-नष्टात्मभ्यः आत्मोज्जीवनं ददाति इति प्राणदः ।। [नि-956. कान्तचीदिविषयासक्त्या नष्टात्मभ्यः कृपावशात् । सदात्मोज्जीवनं योऽसौ ददाति प्राणदः तु अयम् ।।]

102.957 प्रणवः

                *957 प्रणवेन ईदृशसंबन्धम् उद्वोध्य “मां नमस्कुरु” इति स्वचरणारविन्दयोः तान् प्रणमयतीति प्रणवः । “प्राणान् सर्वान् परमात्मनि प्रणामयति, एतस्मात् प्रणवः” इति अथर्वशिरसि ।। [नि-957. आत्मोज्जीवनसंबन्धमुद्वोध्य प्रणवेन वै । पादारविन्दयोस्तान् यः प्रणामयति नित्यशः । प्रणवः स समाख्यातः सप्तार्णो मोक्षदो मनुः ।।]

102.958 पणः

                *958 एवं तेषां स्वाम्य-दास्य व्यतिहारेण व्यवहारेण व्यवहरति इति पणः । “पण व्यवहारे” ।। [नि-958. स्वाम्य-दास्य-व्यतीहार-व्यवहारात् पणः स्मृतः ।।] प्रमाणं प्राणनिलयः प्राणधृत् प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ।। 103 ।।

103.959 प्रमाणम्

                *959 एवं निःस्शयविपर्यय-वेदरहस्य-परमार्थ-प्रत्यायकत्वात् प्रमाणम् ।। [नि-959. परमार्थत्रयीसारप्रत्यायकतया स्वयम् । प्रमाणमिति विख्यातः सप्तार्णो मनुरुत्तमः ।। ]

103.960 प्राणनिलयः

                *960 अस्मिन् लीयन्ते इति प्राणनिलयः । “पुंसि संज्ञायाम्” इत्यादिना घः ।। (अष्टा.- 3.3.118) [नि-960. यस्मिन् नित्यं प्रलीयन्ते प्राणा जीवाः सदाऽग्रजे । शकुन्ता इव नीडे स्वे स प्राणनिलयः स्मृतः ।।]

103.961 प्राणधृत्

                *961 तान् मातृवत् धारयति च इति प्राणधृत् ।। [नि-961. तान् मातृवत् धारयति प्राणधृत् स स्मृतो बुधैः ।।]

103.962 प्राणजीवनः

                *962 तान् अन्नपानीयादिवत् जीवयतीति प्राणजीवनः ।। [नि-962. जीवयति अन्नवत् जीवान् स उक्तः प्राणजीवनः ।।]

103.963 तत्त्वम्

                *963 दधिदुग्धयोरिव दधिसारः चिदचितोः व्याप्तिप्रयोजनाभ्यां साराशः तत्त्वम् । यथा– “परमार्थम् अशेषस्य जगतः प्रभवाप्ययम् । शरण्यं शरणं गच्छन् गोविन्दं नावसीदति ।।” “एकतो वा जगत् कृत्स्नम् एकतो वा जनार्दनः । सारतो जगतः कृत्स्नात् अतिरिक्तो जनार्दनः ।।” इति ।। [नि-963. सारांशभूतो जगतो योऽसौ तत्त्वमिति स्मृतः ।।]

103.964 तत्त्ववित्

                *964 तथा तत्वमात्मनो वेति इति तत्त्ववित् । “त्वमेव त्वां वेत्थ” इति, “स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम” इति ।। [नि-964. वेत्ति यः स्वात्मनस्तत्त्वं तत्त्ववित् स च कथ्यते ।।]

103.965 एकात्मा

                *965 सर्वस्य चिदचिद्वर्गस्य अयम् एक एव शेषी भोक्ता अभिमानी च इति एकात्मा ।। [नि-965. शेषी भोक्ताऽभिमानी चापि एकश्चिदचितोस्तु यः । अकात्मा इति सप्तार्णः सर्वप्राणप्रदो मनुः ।। ]

103.966 जन्ममृत्युजरातिगः

                *966 तथापि तदुभय-विधर्मात्मा जन्ममृत्युजरातिगः ।। [नि-966. चिदचिद्धर्महीनो यो जन्ममृत्युजरातिगः ।।] भूर्भुवस्वस्तरुः तारः सविता प्रपितामहः ।। यज्ञो यज्ञपतिर्यझ्वा यज्ञाङ्गो यज्ञवाहनः ।। 104 ।।

104.967 भूर्भुवः स्वस्तरुः

                *967 भूर्भुवःस्वरूपलक्षितैः पक्षिपथिकैरिव प्राणिभिः उपजीव्यमानच्छाय-पत्रल- पारिजातः भूर्भुवस्वस्तरुः ।। “समाश्रितात् ब्रह्मतरोः अनन्तात् । निस्संशयः पक्लफलप्रपातः” इति ।। [नि-967. भूरादिभिः लक्षितानां जीवानां यः समाश्रयः ।

104.968 तारः

                *968 तेषां संसारतारणात् तारः ।। [नि-968. संसारतारणात् तेषां स्यात् प्राणिनां सदा ।।]

104.969 सविता

                *969 सर्वेषां साक्षात् जनयिता सविता ।। [नि-969. साक्षात् जनयिता योऽसौ सर्वस्य सविता स्मृतः ।।]

104.970 प्रपितामहः

                *970 पितामहस्यापि जनकत्वात् प्रपितामहः ।। [नि-970. पितामहस्य जनकः प्रपितामहः उच्यते ।।]

104.971 यज्ञः

                *971 स्वाराधनधर्मसमृद्धिरिक्तानां तदभिनां स्वयमोव यज्ञः ।। [नि-971. रिक्तानां स स्वयं यज्ञो यज्ञ इत्युच्यते बुधैः ।।]

104.972 यज्ञपतिः

                *972 स्वयज्ञफलप्रदः यज्ञपतिः ।। [नि-972. यज्ञस्य फलदो यस्मात् तस्मात् यज्ञपतिः स्मृतः ।।]

104.973 यज्वा

                *973 अशक्तानां स्वयमेव यजमानः यज्वा । “सुयजोः ङ्वनिप् ।” (अष्टा.-3.2.103) आश्वमेधिके वाष्णवे धर्मे भगवान्– “तेषां तु पावनायाहं नित्यमेव युधिष्ठिर ! । उभेसन्ध्ये अनुतिष्ठाम् हि अस्कन्नं तद् व्रतं मम ।।” इति (भार.आश्व.) [नि-973. अशक्तविषये यष्टा स्वयं यज्वा इति कथ्यते ।।]

104.974 यज्ञाङ्गः

                *974 समर्थानुष्ठितमपि यज्ञान्तरम् अस्य शेषभूतमिति यज्ञाङ्गः ।। [नि-974. शेषः शक्तकृतो यज्ञोऽस्येति यज्ञाङ्ग उच्यते ।।]

104.975 यज्ञवाहनः

                *975 तेषां शक्ति-श्रद्धा-अधिकारदानेन यज्ञं वाहयति इति यज्ञवाहनः ।। [नि-975. तेषां श्रध्धाधिकारादिदानात् स्यात् यज्ञवाहनः ।।] यज्ञभृत् यज्ञकृत् यज्ञो यज्ञभुक् यज्ञसाधनः । यज्ञान्तकृत् यज्ञगुह्यम् अन्नम् अन्नाद एव च ।।105 ।।

105.976 यज्ञभृत्

                *976 विकलमपि यज्ञं स्वस्मरण-पूर्णाहुतिभ्यां पुष्णाति इति यज्ञभृत् । यथा– “प्रमादात् कुर्वतां कर्म प्रट्यवत्यध्वरेषु यत् । स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ।।” इति ।। [नि-976. पूर्णाहुति स्वस्मृतिभ्यां विउलं यज्ञमप्युत । पुष्णाति यज्ञभृत् स स्यात् सप्तार्णो मनुरुत्तमः ।।]

105.977 यज्ञकृत्

                *977 जगद्धिताय यज्ञमादो सृजतीति यज्ञकृत् ।।

105.978 यज्ञी

                *978 सर्वयज्ञानां शेषी-यज्ञी ।। [नि-978. यः सर्वेषां तु यज्ञानां शेषी यज्ञी इति कथ्यते ।।]

105.979 यज्ञभुक्

                *979 तान् भुंक्ते भुनक्ति वा इति यज्ञभुक् ।। [नि-979. भुंक्ते तान् स भुनक्त्येवं यज्ञभुक् स निगद्यते ।।]

105.980 यज्ञसाधनः

                *980 ते अस्य ज्ञानद्वारा सिद्ध्युपाया इति यज्ञसाधनः ।। [नि-980. ज्ञानद्वारा यस्य यज्ञः साधनं यज्ञसाधनः ।।]

105.981 यज्ञान्तकृत्

                *981 “सर्वं कर्म अखिलं पार्थ ! ज्ञाने परिसमाप्यते” इति यज्ञपर्यवसानं स्वत्तत्वज्ञानं करोति इति यज्ञान्तकृत् ।। (गीता.4.33) [नि-981. अन्तं पर्यवसानं यो यज्ञानां कुरुते स्वयम् । स्वतत्त्वज्ञानरूपं तु स यज्ञान्तकृत् उच्यते ।।]

105.982 यज्ञगुह्यम्

                *982 यन्निरपेक्षोऽपि सापोक्षवत् यज्ञेषु पुरोडाशादिकं भुक्त्वा तृप्यन् तर्पयति, तद्यज्ञविधिगतिसाधनविद एव विदन्ति, न स्थूलदृश इति यज्ञगुह्यम् । यथा वेद्युदाहरणे– “सर्वे वेदाः सर्ववेद्याः सशास्त्राः सर्वे यज्ञाः सर्व इज्यश्च कृष्णः । विदुः कृष्णं ब्रह्मणास्तत्वतो ये तेषां राजन् सर्वयज्ञाः समाप्ताः ।। ” “ज्योतीषि शुक्राणि च यानि लोके त्रयो लोकाः लोकपालस्त्रयी च । त्रयोऽग्नयश्च आहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव ।। ” इत्यादि ।। [नि-982. यस्तपर्यति यज्ञेषु नित्यतृप्तोऽप्यतृप्तवत् । पुरोडाशादिनां भुक्त्वा तृप्यन्नन्यान् विशेषतः ।।]

105.983 अन्नम्

                *983 एवं निष्पादित-भोक्तृशक्तिभिः भृज्यते इति अन्नम् ।। [नि-983. एवं निष्पादितानन्तभोक्तृ शक्तिसमन्वितैः । भुज्यते यः सदा सोषऽयम् अन्नम् इत्युच्यते बुधैः ।। ]

105.984 अन्नादः

                *984 तांश्च तथा भुंक्ते इति अन्नादः । ‘कोऽन्य इदृशः ?’ इति एवकारः । ‘च’ शब्दः सर्वमुक्तम् एकत्र अस्मिन् समुच्चिनोति ।। [नि-984. अतॄतांश्च तथा भुंक्ते स्वयं सो अन्नादः इरितः ।।] आत्मयोनिः स्वयंजातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ।। 106 ।।

106.985 आत्मयोनिः

                *985 दुग्धेनेव सितावलयम् आत्मना भोक्तारं मिश्रयति इति आत्मयोनिः ।।

106.986 स्वयंजातः

                *986 प्रार्थन्निरपेक्षतया जातः स्वयं जातः ।। [नि-986. स्वयं जातो यतो जातः प्रार्थनाद्यनपोक्षया ।।]

106.987 वैखानः

                *987 जनित्वा भवदुःखविखननात् वैखानः । विपूर्वात् खनतेः “खनो घ च” इति घञ्, विखानः । (अष्टा.-3.3.125) “तत्र साधुः” इति अण् ।। (अष्टा.-4.4.98) [नि-987. जनित्वा भवदुःखं यो विविधं खनति स्वतः । वैखानः स च निर्दिष्टः सप्तार्णोऽखिलदुःखहा ।।]

106.988 सामगायनः

                *988 स्वप्राप्ति-मधुपानेन “हावु हावु हावु इति” सामानि गायमानो मुक्तः अस्यास्तीति सामगायनः । “ण्युट् च” इति ण्युट् । (अष्टा.-3.1.147). “एतत् साम गायन्नास्ते’ इत्यादि ।। (तै.भृगु 10.5) [नि-988. स्वप्राप्तिमधुपानेन निरताः सामगीतिषु। नित्यमुक्ताः सन्ति यस्य स उक्तः सामगायनः ।।]

106.989 देवकीनन्दनः

                *989 एवंविधो न परावस्थः किं तु देवकीनन्दनः । “य एष पृथुदीर्घाक्षः सम्बन्धी ते जनार्दनः । एष भृतं भविष्यच्च भवच्च भरतर्षभ! ।।” इति ।। [नि-989. देवक्यास्तनयत्वेन परावस्थः स जज्ञिवान् । वात्सल्यवारिधिर्योऽसौ देवकीनन्दनः स्मृतः ।।]

106.990 स्रष्टा

                *990 परास्थोऽपि स एव इति स्रष्टा ।। [नि-990. परावस्थां प्रपन्नोऽसौ सेरष्टा सर्वस्य सर्जनात् ।।]

106.991 क्षितीशः

                *991 “योऽनन्तरूपोऽखिलविश्वरूपो गर्णेष़पि लोकान् वपुषा बिभर्ति” इति सर्वेसत्वेऽपि आर्तिभूयिष्ठत्वात् भूयिष्ठं भूमेरीशः क्षितीशः ।। [नि-991. भूभारक्लेशहारी यः क्षितीशः स च कथ्यते ।।]

106.992 पापनाशनः

                *992 अथ दधिनवनीतस्तैन्य-रासक्रीडादि-कथामृतेन परेषां पापनाशनः । अवतारेऽपि वैष्णवानां बाहाभ्यन्तरशत्रु-नाशनः ।। [नि-992. नवनीतस्तैन्यारासक्रीडाद्यात्मकथामृतैः । पापानां नाशनो लोके यः स स्यात् पापनाशनः ।।] शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ।।107 ।।

107.993 शङ्खभृत्

                *993 सर्वप्रहरणायुध ओं नमः इति । पुष्णाति इति ।। [नि-993. शंखभृत् परमैश्वर्यलक्षणायुधथारणः ।।]

107.994 नन्दकी

                *994 भगवताऽपि ‘मामयं नन्द्यात् ‘ इति प्रार्थ्यो नन्दकः । “आशिषि च” इति वुन् । सोऽस्य नित्ययोगीति नन्दकी ।। [नि-994. नन्द्यात् मामयत् इत्येवं प्रार्थयो भगवताऽपि यः । स नन्दकी नित्ययोगी यस्यासौ नन्दकी स्मृतः ।।]

107.995 चक्री

                *995 नित्यशुदर्शनः । स्वभृत्यसुर-प्रतिभट-रक्षोऽसुरशोणित-कल्माषित-ज्वलाञ्चितं चक्रमपि तथैव इति चक्री ।। [नि-995. सर्वरक्षोसुरच्छेत्त्रा नित्यं चक्रेण योगतः । चक्रीति कथ्यते सम्यक् ऋत्वर्णः शत्रुनाशकः ।।]

107.996 शार्ङ्गधन्वा

                *996 शर्ङ्ग च विष्फारित-ज्याधैष-शरवर्ष नाशित-अशेषविद्वेषि-वार्त स्वसदृशं धनुरस्य इति शार्ङ्गधन्वा ।। [नि-996. शार्ङ्गाख्यं धनुरस्योति शार्ङ्गधन्वा प्रकीर्तितः ।।]

107.997 गदाधरः

                *997 गदाधिपत्नीं च सर्वतः समुद्वान्त-कल्पान्त-अनलस्फुलिङ्रिनीं नित्यसंमोदिनीं कौमोदकीं धारयतीति गदाधरः ।। [नि-997. कौमोदकीधारणाच्च घदाधरः इतीरुतः ।।]

107.998 रथाङ्गपाणिः

                *998 यथोचितंरथाङ्ग च पाणौ अस्येति रताङ्गपाणिः । चक्री इत्यनेन स्वस्वामिभाव संबन्ध उक्तः । अद्य (?) सदोद्यतत्वाम् इत्यपनरुक्तिः ।। [नि-998. यथोदितं रताङ्ग च पाणौ यस्य सदोग्यतम् । रथाङ्गपाणि आख्यातो नवार्णो भयनांशकः ।।]

107.999 अक्षोभ्यः

                *999 प्रपन्नाभयदान-दाढ्र्यात् स्वमहिम्नाऽपि अक्षोभ्यः ।। [नि-999. प्रपन्नाभयदानार्थव्रत दाढर्यात् असौ तथा । अचाल्यः स्वमहिम्नाऽपि हि अक्षोभ्य इति कीर्तितः ।।]

107.1000              सर्वप्रहरणायुधः

                *1000 स्वनिस्ठानां सर्वानिष्टोन्मूलयितॄणि असंख्येयानि अमर्याद सामर्थ्यानि आत्मोचितामि अनन्तानि आभरणविकल्प्यानि सदा सर्वत्र सर्वथा सर्वप्रकरसमाश्रित- संरक्षदीर्धससत्रदीक्षितानि सर्वैश्वर्यधुरन्धराणि अन्यान्यपि दिव्यायुधानि अस्येति सर्वप्रहरणायुधः ।। एवम् अशोषदोषप्रत्यर्थि-उपाधिसंख्यावधि-तुङ्गमङ्गल-स्वरूप-रूपगुण-विभवचेष्टितम् अनङ्कशैश्वर्य-शौशील्यम् आपसखम् अर्थिकल्पकं प्रपन्नैक जीवातुं श्रियः पतिः भगवन्तं पुरुषोत्तमम् आश्रितानाम् आश्चर्यः सर्वसंपत्समुदायः ।। [नि-1000. पादमूलं प्रपन्नानाम् अनिष्चोन्मूलने स्वयम् । असंख्येयानि अमर्याद सामर्थ्यानि आत्मनः सदा ।। सर्वत्र सर्वथा सर्वप्रकाराश्रितरक्षणे । द्वादशार्मो महामन्त्रः सर्वदुःखविनाशकः ।। एवं श्रीशं प्रपन्नानां सर्वाः सिद्ध्यन्ति संपदः ।।]

|| नामसहस्रनिर्वचनं संपूर्णम् ।। शुभमस्तु ।।

 

||इति-श्री-हरितकुलतिलक-श्रीवत्सांकमिश्रसूनो श्रीरंगराज दिव्याज्ञालब्द-श्री पराशरभट्ट- अपर

नामधेयस्य-श्रीरंगनाथस्य- कृतौ – श्रीमत्विष्णुसहस्रनाम विवरणॆ-भगवद् गुणदर्पणे

दशमं-शतकं-समाप्तम् ||

|| श्रीकृष्णार्पणमस्तु ||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.