श्रीसुदर्शननामस्तोत्रम्

श्रीसुदर्शननामस्तोत्रम्

(सहस्रनामस्तोत्रमिति व्यासनारदसंवादे । परं ५७५ नामान्येव सन्ति ।)

प्रणम्य शिरसा देवं नारायणमशेषगम् ।

रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ १॥

सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः ।

हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ २॥

ज्ञानविद्याविशेषज्ञं कर्पूरधवलाकृतिम् ।

वीणावादनसन्तुष्टमानसं मरुतां परम् ॥ ३॥

हिरण्यगर्भसम्भूतं हिरण्याक्षादिसेवितम् ।

पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ४॥

व्यास उवाच-

देवर्षे नारद श्रीमन्साक्षाद्ब्रह्माङ्गसम्भव ।

भवानशेषविद्यानां पारगस्तपसां निधिः ॥ ५॥

वेदान्तपारगः सर्वशास्त्रार्थप्रतिभोज्ज्वलः ।

परब्रह्मणि निष्णातः सच्चिदानन्दविग्रहः ॥ ६॥

जगद्धिताय जनितः साक्षादेव चतुर्मुखात् ।

हन्यन्ते भवता दैत्या दैत्यारिभुजविक्रमैः ॥ ७॥

कालोऽनुग्रहकर्ता त्वं त्रैलोक्यं त्वद्वशेऽनघ ।

मनुष्या ऋषयो देवास्त्वया जीवन्ति सत्तम ॥ ८॥

कर्तृत्वे लोककार्याणां वरत्वे परिनिष्ठित ।

पृच्छामि त्वामशेषज्ञं निदानं सर्वसम्पदाम् ॥ ९॥

सर्वसंसारनिर्मुक्तं चिद्घनं शान्तमानसम् ।

यः सर्वलोकहितकृद्यं प्रशंसन्ति योगिनः ॥ १०॥

इदं चराचरं विश्वं धृतं येन महामुने ।

स्पृहयन्ति च यत्प्रीत्या यस्मै ब्रह्मादिदेवताः ॥ ११॥

निर्माणस्थितिसंहारा यतो विश्वस्य सत्तम ।

यस्य प्रसादाद्ब्रह्माद्या लभन्ते वाञ्छितं फलम् ॥ १२॥

दारिद्र्यनाशो जायेत यस्मिन् श्रुतिपथं गते ।

विवक्षितार्थनिर्वाहा मुखान् सरतीह गीः ॥ १३॥

नृपाणां राज्यहीनानां येन राज्यं भविष्यति ।

अपुत्रः पुत्रवान्येन वन्ध्या पुत्रवती भवेत् ॥ १४॥

शत्रूणामचिरान्नाशो ज्ञानं ज्ञानैषिणामपि ।

चतुर्वर्गफलं यस्य क्षणाद्भवति सुव्रत ॥ १५॥

भूतप्रेतपिशाचाद्या यक्षराक्षसपन्नगाः ।

भूतज्वरादिरोगाश्च यस्य स्मरणमात्रतः ॥ १६॥

मुच्यन्ते मुनिशार्दूल येनाखिलजगद्धृतम् ।

तदेतदिति निश्चित्य सर्वशास्त्रविशारद ॥ १७॥

सर्वलोकहितार्थाय ब्रूहि मे सकलं गुरो ।

इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा ॥ १८॥

बद्धाञ्जलिपुटो भूत्वा सादरं नारदो मुनिः ।

नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात्परम् ॥ १९॥

उवाच परमप्रीतः करुणामृतधारया ।

आप्याययन्मुनीन्सर्वान् व्यासावादीन् ब्रह्मतत्परान् ॥ २०॥

नारदः –

बहिरन्तस्तमच्छेदि ज्योतिर्वन्दे सुदर्शनम् ।

येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥ २१॥

ॐ अस्य श्रीसुदर्शनरसहस्रनामस्तोत्रमहामन्त्रस्य

अहिर्बुध्न्यो भगवानृषिः अनुष्टुप् छन्दः श्रीसुदर्शन-

महाविष्णुर्देवता रं बीजम्, हुं शक्तिः, फटञ्चकलिकम्,

रां रीं रूं रैं रौं रः इति मन्त्रः, श्रीसुदर्शनप्रसादसिद्ध्यर्थे जपे

विनियोगः । ॐ रां अङ्गुष्ठाभ्यां नमः, ॐ रीं तर्जनीभ्यां नमः,

ॐ रूं मध्यमाभ्यां नमः, ॐ रैं अनामिकाभ्यां नमः, ॐ रौं

कनिष्ठिकाभ्यां नमः, ॐ रः करतलकरपृष्ठाभ्यां नमः ।

एवं हृदयादिन्यासः – ॐ रां ज्ञानाय हृदयाय नमः

ॐ रीं ऐश्वर्याय शिरसे स्वाहा, ॐ रूं शक्त्यै शिखायै वषट्

ॐ रैं बलाय कवचाय हुं, ॐ रौं वीर्यायास्त्राय फट्, ॐ रः तेजसे

नेत्राभ्यां वौषट् इति वा ।

अथ दिग्बन्धः – ॐ ठण्ठं पूर्वां दिशं चक्रेण बध्नामि नमश्चक्राय

हुं फट् स्वाहा, ॐ ठण्ठं आग्नेयीं दिशं, ॐ ठण्ठं याम्यां दिशं,

ॐ ठण्ठं नैरृत्यां दिशं, ॐ ठण्ठं वारुणीं दिशं, ॐ ठण्ठं वायवीं

दिशं, ॐ ठण्ठं कौबेरीं दिशं, ॐ ठण्ठं ऐशानीं दिशं, ॐ ठण्ठं

ऊर्ध्वां दिशं, ॐ ठण्ठं अधरां दिशं, ॐ ठण्ठं सर्वा दिशः

चक्रेण बध्नामि नमश्चक्राय हुं फट् स्वाहा । इति दिग्बन्धः ।

ध्यानम्-

कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं

रक्ताक्षं पिङ्गकेशं रिपुकुलभयदं भीमदंष्ट्राट्टहासम् ।

शङ्खं चक्रं गदाब्जं पृथुतरमुसलं चापपाशाङ्कुशादीन्

बिभ्राणं दोर्भिराद्यं मनसि मुररिपोर्भावये चक्रराजम् ॥

शङ्खं चक्रं गदाब्जं शरमसिमिषुधिं चापपाशाङ्कुशादीन्

बिभ्राणं वज्रखेटं हलमुसललसकुन्तमत्युग्रदंष्ट्रम् ।

ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं

ध्यायेत्षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

कल्याणगुणसम्पन्नः कल्याणवसनोज्ज्वलः ।

कल्याणाचलगम्भीरः कल्याणजनरञ्जकः ॥ १॥

कल्याणदोषनाशश्च कल्याणरुचिराङ्गकः ।

कल्याणाङ्गदसम्पन्नः कल्याणाकारसन्निभः ॥ २॥

करालवदनोऽत्रासी करालाङ्गोऽभयङ्करः ।

करालतनुजोद्दामः करालतनुभेदकः ॥ ३॥

करञ्जवनमध्यस्थः करञ्जदधिभोजनः ।

करञ्जासुरसंहर्ता करञ्जमधुराङ्गकः ॥ ४॥

खञ्जनानन्दजनकः खञ्जनाहारजूषितः ।

खञ्जनायुधभृद्दिव्यखञ्जनाखण्डगर्वहृत् ॥ ५॥

खरान्तकः खररुचिः खरदुःखैरसेवितः ।

खरान्तकः खरोदारः खरासुरविभञ्जनः ॥ ६॥

गोपालो गोपतिर्गोप्ता गोपस्त्रीनाथरञ्जकः ।

गोजारुणतनुर्गोजो गोजारतिकृतोत्सवः ॥ ७॥

गम्भीरनाभिर्गम्भीरो गम्भीरार्थसमन्वितः ।

गम्भीरवैद्यमरुतो गम्भीरगुणभूषितः ॥ ८॥

घनरावो घनरुचिर्घनगम्भीरनिःस्वनः ।

घनाधनौघनाशी च घनसन्तानदायकः ॥ ९॥

घनरोचिर्धनचरो घनचन्दनचर्चितः ।

घनहेतिर्घनभुजो घनोऽखिलसुरार्चितः ॥ १०॥

ङकारावधिविभवो ङकारो मुनिसम्मतः ।

ङकारवीतसहितो ङकाराकारभूषितः ॥ ११॥

चक्रराजश्चक्रपतिश्चक्राधीशः सुचक्रभूः ।

चक्रसेव्यश्चक्रधरश्चक्रभूषणभूषितः ॥ १२॥

चक्रराजरुचिश्चक्रश्चक्रपालनतत्परः ।

चक्रधृच्चक्रवरदश्चक्रभूषणभूषितः ॥ १३॥

सुचक्रधीः सुचक्राख्यः सुचक्रगुणभूषितः ।

विचक्रश्चक्रनिरतश्चक्रसम्पन्नवैभवः ॥ १४॥

चक्रदोश्चक्रदश्चक्रश्चक्रराजपराक्रमः ।

चक्रनादश्चक्रचरश्चक्रगश्चक्रपाशकृत् ॥ १५॥

चक्रव्यापी चक्रगुरुश्चक्रहारी विचक्रभृत् ।

चक्राङ्गश्चक्रमहितश्चक्रवाकगुणाकरः ॥ १६॥

आचक्रश्चक्रधर्मज्ञश्चक्रकश्चक्रमर्दनः ।

आचक्रनियमश्चक्रः सर्वपापविधूननः ॥ १७॥

चक्रज्वालश्चक्रधरश्चक्रपालितविग्रहः ।

चक्रवर्ती चक्रदायी चक्रकारी मदापहः ॥ १८॥

चक्रकोटिमहानादश्चक्रकोटिसमप्रभः ।

चक्रराजावनचरश्चक्रराजान्तरोज्ज्वलः ॥ १९॥

चश्चलारातिदमनश्चञ्चलस्वान्तरोमकृत् ।

चश्चलो मानसोल्लासी चञ्चलाचलभासुरः ॥ २०॥

चञ्चलारातिनिरतश्चञ्चलाधिकचञ्चलः ।

छाययाखिलतापध्नश्छायामदविभञ्जनः ॥ २१॥

छायाप्रियोऽधिकरुचिच्छायावृक्षसमाश्रयः ।

छायान्वितश्छाययार्च्यश्छायाधिकसुखप्रदः ॥ २२॥

छायाम्बरपरीधानश्छायात्मजनमुञ्चितः ।

जलजाक्षीप्रियकरो जलजानन्ददायकः ॥ २३॥

जलजासिद्धिरुचिरो जलजालसमो भरः ।

जलजालापसंस्तुत्यो जलजाताय मोदकृत् ॥ २४॥

जलजाहारचतुरो जलजाराधनोत्सुकः ।

जनकस्तुतिसन्तुष्टो जनकाराधिताधिकः ॥ २५॥

जनकामोदनपरो जनकानन्ददायकः ।

जनकाध्यानसन्तुष्टहृदयो जनकार्चितः ॥ २६॥

जनकानन्दजननो जनकृद्धृदयाम्बुजः ।

झञ्झामारुतवेगाढ्यो झञ्झामारुतसङ्गरः ॥ २७॥

झञ्झामारुतसरावो झञ्झामारुतविक्रमः ।

ञकाराम्बुजमध्यस्थो ञकारकृतसन्निधिः ॥ २८॥

टङ्कधारी टङ्कवपुष्टङ्कसंहारकारकः ।

टङ्कच्छिन्नसुवर्णाभष्टङ्कारधनुरुज्ज्वलः ॥ २९॥

टङ्काराग्निसमाकारष्टङ्काररवमेदुरः ।

टङ्कारकीर्तिभरितष्टङ्कारानन्दवर्धनः ॥ ३०॥

डम्भसंहतिसंहर्ता डम्भसन्ततिवर्धनः ।

डम्भधृग्डम्भहृदयो डम्भदण्डनतत्परः ॥ ३१॥

डिम्भधृग्डिम्भकृड्डिम्भो डिम्भसूदनतत्परः ।

डिम्भपापहरो डिम्भसम्भावितपदाम्बुजः ॥ ३२॥

डिम्भरोद्यत्कटम्बाजो डमरुध्यानतत्परः ।

डमरूद्भवसंहर्ता डमरूद्भवनन्दनः ॥ ३३॥

डाडिमीवनमध्यस्थो डाडिमीकुसुमप्रियः ।

डाडिमीफलसन्तुष्टो डाडिमीफलवर्जितः ॥ ३४॥

ढक्कामनोहरवपुर्ढक्कारवविराजितः ।

ढक्कावाद्येषु निरतो ढकाधारणतत्परः ॥ ३५॥

ढकारबीज्जसम्पन्नो ढकाराक्षरमेदुरः ।

ढकारमध्यसदनो ढकारविहितान्त्रकः ॥ ३६॥

णकारबीजवसतिर्णकारवसनोज्ज्वलः ।

णकारातिगभीराङ्गो णकाराराधनप्रियः ॥ ३७॥

तरलाक्षीमहाहर्ता तारकासुरहृत्तरिः ।

तरलोज्ज्वलहाराढ्यस्तरलस्वान्तरञ्जकः ॥ ३८॥

तारकासुरसंसेव्यस्तारकासुरमानितः ।

तुरङ्गवदनस्तोत्रसन्तुष्टहृदयाभ्युजः ॥ ३९॥

तुरङ्गवदनः श्रीमांस्तुरङ्गवदनस्तुतः ।

तमःपटलसञ्छन्नस्तमःसन्ततिमर्दनः ॥ ४०॥

तमोनुदो जलशयस्तमःसंवर्धनो हरः ।

थवर्णमध्यसंवासी थवर्णवरभूषितः ॥ ४१॥

थवर्णबीजसम्पन्नस्थवर्णरुचिरालयः ।

दरभृद्दरसाराक्षो दरहृद्दरवञ्चकः ॥ ४२॥

दरफुल्लाम्बुजरुचिर्दरचक्रविराजितः ।

दधिसङ्ग्रहणव्यग्रो दधिपाण्डरकीर्तिभृत् ॥ ४३॥

दध्यन्नपूजनरतो दधिवामनमोदकृत् ।

धन्वी धनप्रियो धन्यो धनाधिपसमञ्चितः ॥ ४४॥

धरो धरावनरतो धनधान्यसमृद्धिदः ।

धनन्वयो धनाध्यक्षो धनदो धनवर्जितः ॥ ४५॥

धनग्रहणसम्पन्नो धनसम्मतमानसः ।

धनराजवनासक्तो धनराजयशोभरः ॥ ४६॥

धनराजमदाहर्ता धनराजसमीडितः ।

धर्मकृद्धर्मभृद्धर्मी धर्मनन्दनसन्नुतः ॥ ४७॥

धर्मराजो धनासक्तो धर्मज्ञाकल्पितस्तुतिः ।

नरराजावनायत्तो नरराजाय निर्भरः ॥ ४८॥

नरराजस्तुतगुणो नरराजसमुज्ज्वलः ।

नवतामरसोदारो नवतामरसेक्षणः ॥ ४९॥

नवतामरसाहारो नवतामरसारुणः ।

नवसौवर्णवसनो नवनाथदयापरः ॥ ५०॥

नवनाथस्तुतनदो नवनाथसमाकृतिः ।

नालिकानेत्रमहितो नालिकावलिराजितः ॥ ५१॥

नालिकागतिमध्यस्थो नालिकासनसेवितः

पुण्डरीकाक्षरुचिरः पुण्डरीकमदापहः ॥ ५२॥

पुण्डरकिमुनिस्तुत्यः पुण्डरीकसुहृद्युतिः ।

पुण्डरीकप्रभारम्यः पुण्डरीकनिभाननः ॥ ५३॥

पुण्डरीकाक्षसन्मानः पुण्डरीकदयापरः ।

परः परागतिवपुः परानन्दः परात्परः ॥ ५४॥

परमानन्दजनकः परमान्नाधिकप्रियः ।

पुष्कराक्षकरोदारः पुष्कराक्षः शिवङ्करः ॥ ५५॥

पुष्करव्रातसहितः पुष्करारवसंयुतः ।

फट्कारतः स्तूयमानः फट्काराक्षरमध्यगः ॥ ५६॥

फट्कारध्वस्तदनुजः फट्कारासनसङ्गतः ।

फलाहारः स्तुतफलः फलपूजाकृतोत्सवः ॥ ५७॥

फलदानरतोऽत्यन्तफलसम्पूर्णमानसः ।

बलस्तुतिर्बलाधारो बलभद्रप्रियङ्करः ॥ ५८॥

बलवान्बलहारी च बलयुग्वैरिभञ्जनः ।

बलदाता बलधरो बलराजितविग्रहः ॥ ५९॥

बलाद्वलो बलकरो बलासुरनिषूदनः ।

बलरक्षणनिष्णातो बलसम्मोददायकः ॥ ६०॥

बलसम्पूर्पाहृदयो बलसंहारदीक्षितः ।

भवस्तुतो भवपतिर्भवसन्तानदायकः ॥ ६१॥

भवध्वंसी भवहरो भवस्तम्भनतत्परः ।

भवरक्षणनिष्णातो भवसन्तोषकारकः ॥ ६२॥

भवसागरसञ्छेत्ता भवसिन्धुसुखप्रदः ।

भद्रदो भद्रहदयो भद्रकार्यसमाश्रितः ॥ ६३॥

भद्रश्रीचर्चिततनुर्भद्रश्रीदानदीक्षितः ।

भद्रपादप्रियो भद्रो ह्यभद्रवनभञ्जनः ॥ ६४॥

भद्रश्रीगानसरसो भद्रमण्डलमण्डितः ।

भरद्वाजस्तुतपदो भरद्वाजसमाश्रितः ॥ ६५॥

भरद्वाजाश्रमरतो भरद्वाजदयाकरः ।

मसारनीलरुचिरो मसारचरणोज्ज्वलः ॥ ६६॥

मसारसारसत्कार्यो मसारांशुकभूषितः ।

माकन्दवनसञ्चारी माकन्दजनरञ्जकः ॥ ६७॥

माकन्दानन्दमन्दारो माकन्दानन्दबन्धुरः ।

मण्डलो मण्डलाधीशो मण्डलात्मा सुमण्डलः ॥ ६८॥

मण्डलेशो मण्डलान्तर्मण्डलार्चितमण्डलः ।

मण्डलावननिष्णातो मण्डलावरणी घनः ॥ ६९॥

मण्डलस्थो मण्डलाग्र्यो मण्डलाभरणाङ्कितः ।

मधुदानवसंहर्ता मधुमञ्जुलवाग्भरः ॥ ७०॥

मधुदानाधिकरतो मधुमङ्गलवैभवः ।

मधुजेता मधुकरो मधुरो मधुराधिपः ॥ ७१॥

मधुवारणसंहर्ता मधुसन्तानकारकः ।

मधुमासातिरुचिरो मधुमासविराजितः ॥ ७२॥

मधुपुष्टो मधुतनुर्मधुगो मधुसंवरः ।

मधुरो मधुराकारो मधुराम्बरभूषितः ॥ ७३॥

मधुरानगरीनाथो मधुरासुरभञ्जनः ।

मधुराहारनिरतो मधुराह्लाददक्षिणः ॥ ७४॥

मधुराम्भोजनयनो मधुराधिपसङ्गतः ।

मधुरानन्दचतुरो मधुरारातिसङ्गतः ॥ ७५॥

मधुराभरणोल्लासी मधुराङ्गदभूषितः ।

मृगराजवनीसक्तो मृगमण्डलमण्डितः ॥ ७६॥

मूगादरो मृगपतिर्मृगारातिविदारणः ।

यज्ञप्रियो यशवपुर्यशसम्प्रीतमानसः ॥ ७७॥

यज्ञसन्ताननिरतो यज्ञसम्भारसम्भ्रमः ।

यज्ञयज्ञो यज्ञपदो यज्ञसम्पादनोत्सुकः ॥ ७८॥

यज्ञशालाकृतावासो यज्ञसम्भावितान्नकः ।

रसेन्द्रो रससम्पन्नो रसराजो रसोत्सुकः ॥ ७९॥

रसान्वितो रसधरो रसचेलो रसाकरः ।

रसजेता रसश्रेष्ठो रसराजाभिरञ्जितः ॥ ८०॥

रसतत्त्वसमासक्तो रसदारपराक्रमः ।

रसराजो रसधरो रसेशो रसवल्लभः ॥ ८१॥

रसनेता रसावासो रसोत्करविराजितः ।

लवङ्गपुष्पसन्तुष्टो लवङ्गकुसुमोचितः ॥ ८२॥

लवङ्गवनमध्यस्थो लवङ्गकुसुमोत्सुकः ।

लतावलिसमायुक्तो लतारससमर्चितः ॥ ८३॥

लताभिरामतनुभृल्लतातिलकभूषितः ।

वीरस्तुतपदाम्भोजो विराजगमनोत्सुकः ॥ ८४॥

विराजपत्रमध्यस्थो विराजरससेवितः ।

वरदो वरसम्पन्नो वरो वरसमुन्नतः ॥ ८५॥

वरस्तुतिर्वर्धमानो वरधृद्वरसम्भवः ।

वरदानरतो वर्यो वरदानसमुत्सुकः ॥ ८६॥

वरदानार्द्रहृदयो वरवारणसंयुतः ।

शारदास्तुतपादाब्जः शारदाम्भोजकीर्तिभृत् ॥ ८७॥

शारदाम्भोज्जनयनः शारदाध्यक्षसेवितः ।

शारदापीठवसतिः शारदाधिपसन्नुतः ॥ ८८॥

शारदावासदमनः शारदावासभासुरः ।

शतक्रतुस्तूयमानः शतक्रतुपराक्रमः ॥ ८९॥

शतक्रतुसमैश्वर्यः शतक्रतुमदापहः ।

शरचापधरः श्रीमान् शरसम्भववैभवः ॥ ९०॥

शरपाण्डरकीर्तिश्रीः शरत्सारसलोचनः ।

शरसङ्गमसम्पन्नः शरमण्डलमण्डितः ॥ ९१॥

शरातिगः शरधरः शरलालनलालसः ।

शरोद्भवसमाकारः शरयुद्धविशारदः ॥ ९२॥

शरवृन्दावनरतिः शरसम्मतविक्रमः ।

षट्पदः षट्पदाकारः षट्पदावलिसेवितः ॥ ९३॥

षट्पदाकारमधुरः षट्पदी षट्पदोद्धतः ।

षडङ्गवेदविनुतः षडङ्गपदमेदुरः ॥ ९४॥

षट्पद्मकवितावासः षड्बिन्दुरचितद्युतिः ।

षड्बिन्दुमध्यवसतिः षड्बिन्दुविशदीकृतः ॥ ९५॥

षडाम्नायस्तूयमानः षडाम्नायान्तरस्थितः ।

षट्छक्तिमङ्गलवृतः षट्चक्रकृतशेखरः ॥ ९६॥

सारसारसरक्ताङ्गः सारसारसलोचनः ।

सारदीप्तिः सारतनुः सारसाक्षकरप्रियः ॥ ९७॥

सारदीपी सारकृपः सारसावनकृज्ज्वलः ।

सारङ्गसारदमनः सारकल्पितकुण्डलः ॥ ९८॥

सारसारण्यवसतिः सारसारवमेदुरः ।

सार(साम)गानप्रियः सारः सारसारसुपण्डितः ॥ ९९॥

सद्रक्षकः सदामोदी सदानन्दनदेशिकः ।

सद्वैद्यवन्द्यचरणः सद्वैद्योज्ज्वलमानसः ॥ १००॥

हरिजेता हरिरथो हरिसेवापरायणः ।

हरिवर्णो हरिचरो हरिगो हरिवत्सलः ॥ १०१॥

हरिद्रो हरिसंस्तोता हरिध्यानपरायणः ।

हरिकल्पान्तसंहर्ताहरिसारसमुज्ज्वलः ॥ १०२॥

हरिचन्दनलिप्ताङ्गो हरिमानससम्मतः ।

हरिकारुण्यनिरतो हंसमोचनलालसः ॥ १०३

हरिपुत्राभयकरो हरिपुत्रसमञ्चितः ।

हरिधारणसान्निध्यो हरिसम्मोददायकः ॥ १०४

हेतिराजो हेतिधरो हेतिनायकसंस्तुतः ।

हेतिर्हरिर्हेतिवपुर्हेतिहा हेतिवर्धनः ॥ १०५

हेतिहन्ता हेतियुद्धकरो हेतिविभूषणः ।

हेतिदाता हेतिपरो हेतिमार्गप्रवर्तकः ॥ १०६॥

हेतिसन्ततिसम्पूर्णो हेतिमण्डलमण्डितः ।

हेतिदानपरः सर्वहेत्युग्रपरिभूषितः ॥ १०७

हंसरूपीहंसगतिर्हंससन्नुतवैभवः ।

हंसमार्गरतो हंसरक्षको हंसनायकः ॥ १०८॥

हसदृग्गोचरतनुर्हंससङ्गीततोषितः ।

हंसजेता हंसपतिर्हंसगो हंसवाहनः ॥ १०९॥

हंसजो हंसगमनो हंसराजसुपूजितः ।

हंसवेगो हंसधरो हंससुन्दरविग्रहः ॥ ११०॥

हंसवत्सुन्दरतनुर्हंससङ्गतमानसः ।

हंसस्वरूपसारज्ञो हंससन्नतमानसः ॥ १११॥

हंससंस्तुतसामर्थ्यो हरिरक्षणतत्परः ।

हससंस्तुमाहात्ख्यो हरपुत्रपराक्रमः ॥ ११२॥

क्षीरार्णवसमुद्भूतः क्षीरसम्भवभावितः ।

क्षीराब्धिनाथसंयुक्तः क्षीरकीर्तिविभासुरः ॥ ११३॥

क्षणदारवसंहर्ता क्षणदारवसम्मतः ।

क्षणदाधीशसंयुक्तः क्षणदानकृतोत्सवः ॥ ११४॥

क्षीराभिषेकसन्तुष्टः क्षीरपानाभिलाषुकः ।

क्षीराज्यभोजनासक्तः क्षीरसम्भववर्णकः ॥ ११५॥

इत्येतत्कथितं दिव्यं सर्वपापप्रणाशनम् ।

सर्वशत्रुक्षयकरं सर्वसम्पत्प्रदायकम् ॥ ११६॥

सर्वसौभाग्यजनकं सर्वमङ्गलकारकम् ।

सर्वदारिद्र्यशमनं सर्वोपद्रवनाशनम् ॥ ११७॥

सर्वशान्तिकरं गुह्यं सर्वरोगनिवारणम् ।

अतिबन्धग्रहहरं सर्वदुःखनिवारकम् ॥ ११८॥

नाम्नां सहस्रं दिव्यानां चक्रराजस्य सत्पतेः ।

नामानि हेतिराजस्य ये पठन्तीह मानवाः ।

तेषां भवन्ति सकलाः सम्पदो नात्रसंशयः ॥ ११९॥

इति अहिर्बुध्न्यसंहितान्तर्गतं सुदर्शननामस्तोत्रं सम्पूर्णम् ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.