श्रीभगवद्यामुनमुनिभिरनुगृहीता
॥ चतुःश्लोकी ॥
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजस्सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १॥
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु- र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयान्ते विदन् ॥ २॥
ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम् ।
श्रेयो नह्यरविन्दलोचनमनः कान्ताप्रसादादृते संसृत्याक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ॥ ३॥
शान्तानन्तमहाविभूतिपरमं यद्ब्रह्मरूपं हरे- र्मूर्ते ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणितान्- याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४॥
आकारत्रयसम्पन्नामार्विन्दनिवासिनीम् ॥ अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥ ५॥
॥ इति चतुःश्लोकी समाप्ता ।।