।। श्रीः ।।
कृष्णयजुर्वेदीया
श्वेताश्वतरोपनिषत्
[शान्तिपाठः]
ओम् – पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवागंसस्तनूभिः व्यशेम देवहितं यदायुः ।। सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। ।। ओं शान्तिः शान्तिः शान्तिः ।।
प्रथमोऽध्यायः
हरिः ओम् । ब्रह्मवादिनो वदन्ति’
किं कारणं ब्रह्म कुत: स्म जाता: जीवाम केन क्व च सम्प्रतिष्ठाः ।
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ।। १ ।।
प्रकाशिका
श्रीरङ्गरामानुजमुनिविरचिता
[मङ्गलम्]
अतसीगुच्छसच्छायमञ्चितोर:स्थलं श्रिया ।
अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।।
(गुरुवन्दनम्।
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
श्वेताश्वतरमन्त्राणां विवृति करवाण्यहम् ।।
स्वेतरसमस्तचेतनाचेतनविलक्षणपरमात्मस्वरूपनिर्दिधारयिषया इयमुपनिषत् आरभ्यते । विद्यास्तुत्यर्थमाख्यायिकामाह – ब्रह्मवादिनो बदन्ति इति । ब्रह्मवदनशीला मुनयः वक्ष्यमाणाप्रकारेण वदन्ति स्म इत्यर्थः । किमिति । हे ब्रह्मविदः । जगतः कारणं ब्रह्म किन्देवतारूपम्? कस्माद्ब्रह्मणोऽस्माकं जन्म स्थितिश्च संप्रतिष्ठाशब्दितो लयश्य । केन वा ब्रह्मण अधिष्ठिताः तत्परतन्त्रास्सन्तः, अनसि ऊतगोसंघवत्, जिहासितेषु दुःखरूपेषु जन्मसु विशिष्टाम् अवस्थितिमनुसृत्य वर्तामहे । सुप्रतिष्ठेति पाठेऽप्ययमेवार्थः ।
[कालादीनां ब्रह्मकारणत्वनिराकरणम्]
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् ।
संयोग एषां न त्वात्मभावादात्माऽप्यनीशः सुखदुःखहेतोः ।। २ ।।
ननु कारणं ब्रह्म सिद्धवत्कृत्य किन्देवतारूपमिति प्रश्न एवानुपपन्नः । तस्यैवानभ्युपगन्तव्यत्वात् । लोके हि कालज्ञाः कालमेव सर्वकारणमाचक्षते । लोकायतिकास्तु स्वभावमेव हेतुमाचक्षते । मीमांसकास्तु नियतिलक्षणं कर्मैव हेतुं मन्यन्ते । अपरे अहेतुकत्वलक्षणं यादृच्छिकत्वम् । अपरे पञ्चभूतानि । प्रकृति केचित् । पुरुषं केचिदाचक्षते । तेषामन्यतमः पक्षोऽस्तु । किं ब्रह्मकारणवादाभ्युपगमेन इत्याशङ्क्याह काल‘ इति । कालादीनि कारणमित्येतन्न युक्तिसहम् । दोषाणां बहूनां स्फुरणात् । चिन्त्यम् न निश्चेतुं शक्यम्। अचेतनानां चेतनस्य वा प्रत्येकं हेतुत्वासम्भवात् इत्यर्थः । ननु एषां संयोगो हेतुर्भवितुमर्हति । न च एषां संयोजकाभावः शङ्कितव्यः । तेषां मध्ये आत्मनश्चेतनस्य संयोजकस्य सद्भावेन संयोगसम्भवात् इत्याशक्य आत्मनः स्वातन्त्र्ये सुखभोक्तृत्वमेव स्यात् । न दुःखभोक्तृत्वम् । अतः सुखदुःखानुभवितः जीवस्यादि न नियन्तृत्त्वं सम्भवतीत्याह – सयोगः – हेतोः । उक्तोऽर्थः । न त्वात्यभावात् इत्या तु शब्दः एवार्थः । आत्मसद्भावात् संयोगः सम्भवतीत्येतत्रैवेत्यर्थः । ब्रह्मणोऽप्यपरिणामिन-उपादानत्वं च न सम्भवतीति भावः ।
[देवशक्तिनिर्धारणम्]
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति‘ स्वगुणैनिंगूढाम् ।
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३ ॥
ते इति । एवं ध्यायनयोगयुक्ता मुनयः, ‘अपहतपाप्मा दिव्यो देव एको नारायणः’ (अध्यात्म.उ.१) इति श्रुतिप्रसिद्धदेवशब्दितनारायणात्मिकां कार्योपयोग्य- पृथक्सिद्धविशेषणत्वेन शक्तिशब्दितां सत्त्वरजस्तमोलक्षणस्वगुणोपेतां ब्रह्मणो जगत्कारणत्वनिर्वाहिकां प्रकृतिं दृष्टवन्त इत्यर्थः । ततः परं तच्छरीरकं सर्वविधकारणं सकलकारणाधिष्ठितारं समाभ्यधिकशून्यं परमात्मानमपि दृष्टवन्तः इत्याह – य: कारणानीति । उक्तोऽर्थः ।। ३ ।।
तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः ।
अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ।। ४ ।।
चित्तावतारसौकर्याय तं चक्रत्वेन रूपयति – तमेकनेमिमिति । परमात्मानं प्रकृत्याख्यैकनेमियुक्तं सत्त्वरजस्तमोगुणैः त्रिप्रकारतया त्रिवृतं – षोडशसंख्यायुक्तान्तशब्दित- विकारापेतं वाचकभूताकारादि पञ्चाशद्वर्णलक्षणारोपेतं द्वादशमासपञ्चद्वर्यनद्वयसंवत्सरात्मक- विंशतिप्रत्यरयुक्तमित्यर्थः । प्रत्यराभिरिति लिङ्गव्यत्ययः छान्दसः । अरा हि नाभिनेमिमध्यवर्ति- काष्ठविशेषाः । प्रत्यराश्च तद्दार्ढ्यार्थनिहिताः तन्मध्यवर्तिकाष्ठविशेषाः । अष्ट कैरिति । अणिमाद्यैश्वर्याष्टकमेकम्’, प्राच्यादिदिगष्टकमपरम्; दिक्पालाष्टमेकम्’; ‘भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इतीयं में भिन्ना प्रकृतिरष्टधा’ (भ.गी.७-४) इति गीतोक्तं प्रकृत्यष्टकम्। अष्टौ प्रकृतयः इत्युक्तप्रकृत्यष्टकमन्यत् ब्रह्म प्रजापतिर्देवा गन्धर्वा यक्षराक्षसाः । पितरश्च पिशाचाश्च इति देवाष्टकमेकम्, अष्टौ वसवः । इत्युक्तवस्वष्टकम् । अपहतपाप्मत्वादि ब्राह्मगुणाष्टकम् दया सर्वभूतेषु शान्तिरनसूया शौचमनायासो मङ्गलकार्पण्यमस्पृहा इति आत्मगुणाष्टकं वा । एवमेभिः (यथार्ह ?) षड्भिरष्टकैः’ उपेतम् । विश्वरूपः विराट्पुरषः । स एव मुख्यः (एको?) पाशः । स्वाश्रितजगन्नैश्चल्यहेतुतया विराट्पुरुषः ब्रह्मचक्रस्य पाशरूप इत्यर्थः । त्रिमार्गभेदं द्विनिमित्तैकमोहं – देवयानपितृयाणक्षुद्रजन्तु-भवनलक्षणमार्गत्रययुक्तम्, तत्र च पितृयाणक्षुद्रजन्तुभवनलक्षणमार्गद्वयहेतु- भूतदेहात्मैक्यमोहमित्यर्थः अपश्यन्निति पूर्वेण सम्बन्धः ।। ४ ।।
पञ्चस्त्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोमि पञ्चबुद्ध्यादिमूलाम् ।
पञ्चावर्ता पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ।। ५ ।।
एवं चक्रत्वेन रूपयित्वा तच्छक्तित्वेन निर्दिष्टां प्रकृतिं वैराग्याय नदीत्वेन रूपयति – पञ्चस्रोतः इति । स्रोतोरूपेणाविच्छिन्नतया प्रवर्तमानानि तमोक्षराव्यक्त- महदहङ्काररूपाणि अम्बुस्थानीयानि यस्याः सा तथोक्ता । महाभूतोपादानतया योनिभूतानि पञ्च तन्मात्राण्येव उग्रवक्त्राणि प्रवाहमुखरूपाणि यस्याः सा पञ्चयोन्युग्रवक्त्रा । प्राणापानादय: पञ्च ऊर्मिस्थानीया यस्याः सा पञ्चप्राणोर्भि: । बुद्धेः ज्ञानस्यादिभूतानि पञ्च ऊर्मिस्थानीया यस्या सा पञ्चबुद्ध्यादिमूला । पञ्च कर्मेन्द्रियाणि आवर्तस्थानीयानि यस्याः सा पञ्चावर्ता । पञ्च महाभूतानि अत्यन्तप्रतिकूलतया प्रवर्तमानानि अत्यन्तप्रतिकूलतया प्रवर्तमानानि ओघ वेगस्थानीयानि यस्याः सा पञ्चदुःखौघवेगा । अकारादिपञ्चादशद्वर्ण- लक्षणनामभेदयुक्ताम् ; ‘तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः” (भवसं.उ-१०) इति पुराणप्रसिद्धपञ्चसृष्टिलक्षणपर्वपञ्चकयुक्तां ब्रह्मात्मिकां प्रकृतिं तदधिष्ठितारञ्च परमात्मानम् अधीम: – स्मराम इति अपश्यन् इति पूर्वेणान्वयः ।। ५ ।।
सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे ।
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ।। ६ ।।
एवं, किं कारणं ब्रह्म? कुतः स्म जाता? इति चिन्तायाः, देवात्मशक्तिं, यः कारणानि निखिलानि तानि इत्यनेन च देवशब्दितनारायण एव सर्वकारणम्, अपरिणामिनोऽपि तस्य कारणत्वनिर्वाहिका प्रकृतिरिति निस्तारो दर्शितः । अधिष्ठिता: केन सुखेतरेषु इति चिन्तायाः निस्तारं दर्शयति – सर्वाजीवे इति । सर्वान् आजीवयतीति सर्वाजीवम् । अनेन, जीवाम केन इत्यस्योत्तरमुक्तं भवति । बृहन्ते – बृहतीत्यर्थः । अतश्च निरतिशयबृहत्वादेव सर्वसंस्थत्वादिकं युज्यते इति भावः । तादृशे ब्रह्मरूपे चक्रे, हन्ति-गच्छति अनेकजन्मसहस्रसञ्चरणशील इति हंस: जीवः परवशतया, ‘भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया’ (भ.गी.१८-६१) इत्युक्तरीत्या ब्रह्मचक्रेण भ्राम्यमाणोऽयं भ्रमयतीत्यर्थः । एतज्ज्ञानस्य फलमाह-पृथगात्मानमिति‘ । उक्तरीत्या भ्रमयितृत्वेन परमात्मानम् , तेन – भ्राम्यमाणं तच्छरीरभूतञ्च स्वात्मानं मत्वा – तज्ज्ञानप्रीतेन परमात्मना प्रसन्नेन जुष्ट: – प्रीत्या विषयीकृतस्सन् मुक्तिं प्राप्नोतीत्यर्थः । ततश्च अमृतत्वं फलप्राप्तिहेतुभूतज्ञानविषयस्य प्रेर्यप्रेरकलक्षणजीवपरभेदस्य परमार्थत्वमुक्तं भवति । अपरमार्थज्ञानस्य मोक्षहेतुत्वासम्भवादिति द्रष्टव्यम् ।। ६ ।।
उद्गीतमेतत् परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाक्षरं च ।
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ।। ७ ।।
उद्गीतमिति । एतञ्चक्ररूपतया प्राङ्निर्दिष्टमेव, ‘नारायणः परं ब्रह्म (तै.ना.१३) ‘स्वे महिम्नि प्रतिष्ठितः, (छां.उ.७-२४-२) ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’ (बृ.उ.५-८-८) इत्यादिवेदान्तवाक्येषु परब्रह्मत्वेन स्वप्रतिष्ठत्वेन अक्षरत्वेन च उद्गीतं उच्चैर्गीतम् । उद्गीथमिति पाठेऽपि स एवार्थः । तस्मिन् स्वप्रतिष्ठाक्षररूपे ब्रह्मणि प्रकृतिपुरुषकालरूपं त्रयमाश्रितमित्यर्थः । अत्रान्तरमिति । तत्पराः ब्रह्मपराः ब्रह्मेप्सवः अत्र ईदृशे (शं) प्रकृतिपुरुषकालानां विवेके (कं) तेषां परमात्मनश्च अपृथक्सिद्धतया आधाराधेयभावलक्षणम् अन्तरम् – अतिशयितं भेदं विदित्वा प्रकृतिबन्धनिर्मुक्तास्सन्तः परमं साम्यं प्राप्य भिन्नतया अदर्शनलक्षणलयं गता इत्यर्थः ।। ७ ।।
संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः ।
अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशै: ।।८।।
ननु प्रकृतिसम्मन्धे जीवपरयोरविशिष्टे सति जीवस्य कुतो बन्धः? परस्य कुतो नेत्यत्राह – संयुक्तमिति । ईश: परमात्मा व्यक्तरूपं, क्षरमचिद्वर्गम् अव्यक्तं . अक्षरं चिद्वर्गञ्च परस्परसंयुक्तं बोभर्ति; न तु बध्यते अनीशो जोवस्तु बध्यते कर्मफलभोकृत्वाभिसन्धिलक्षणभावसत्वात् । परमात्मनस्तु (परमात्मा तु?) ‘न माँ कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा’ (भ.गी.४.१४) इत्युक्तरीत्या तस्य कर्मफलस्पृहाभावेन कर्मरूपाभावात्, स्वसंयुक्ततया प्रकृतिभरणेऽपि अपहतपाप्मत्वात् प्रकृतिसम्बन्धप्रतिभटः तत्प्रतिभटज्ञाने विषयश्चेति निर्गळितार्थः ।। ८ ।।
[जीवपरमात्मकथनम्]
ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ।। ९ ।।
परस्परवैलक्षण्यमेव प्रपञ्चयति – ज्ञाज्ञौ इति । पूर्वनिर्दिष्टयोर्मध्ये एकः सर्वज्ञः अत एव ईशश्च । अपरस्तु अज्ञ: अनीशश्च । उत्पत्तिराहित्यं तु द्वयोरपि समानम् । ईशनीशौ इति दीर्घाभावः छान्दसः । भोक्तुः जीवस्य भोगरूपप्रयोजनयुक्ता उत्पत्तिरहिता काचनान्या प्रकृतिः इत्यर्थः । एवं तृतीयं उत्पत्तिराहित्येन समानमपि परस्परं विलक्षणमित्यर्थः । ननु प्रकृतेः जीवभोगोपकरणत्ववत् परमात्मनोऽपि भोगार्थत्वं कुतो न भवेत् ? प्रत्युत एकैकशरीरजीवभोगार्थत्वे सकलशरीरकपरमात्मभोगार्थत्वमवर्जनीयमेवेति; अत्राह अनन्तश्चेति । विश्वशरीरकस्यापि परमात्मनः, ‘नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते’ इत्युक्तरीत्या सत्यकामत्वाद्यनन्तगुणाश्रयस्य निरपेक्षस्य जीववत् कर्मफलाभिसन्धिपूर्वककर्तृत्वा- भावान्न तद्भोगार्थत्वं प्रकतेरिति भावः । एतादृशवैलक्षण्यज्ञानस्य फलमाह – त्रयमिति । एतत् त्रयं यदा विन्दते परस्परवैलक्षण्येन दर्शनसमानाकारध्यानेन विषयीकरोति, तदा ब्रह्म भवति-मुक्तो भवतीत्यर्थः । एवमेव व्यासार्यै:, ‘चमसवदविशेषात्’ (ब्र.सू.१-४-८) इत्यत्र व्याख्यातम् । ब्रह्ममिति छान्दसं रूपम् ।। ९ ।।
[क्षराक्षरविवरणम्।
क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः ।
तस्याभिध्यानाद्योजनात्तत्स्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ।। १० ।।
संयुक्तमिति मन्त्रनिर्दिष्टक्षराक्षराशब्दार्थं विवृण्वन् परस्परवैलक्षण्यज्ञानमात्रेण मुक्तौ, मनननिदिध्यासनवैयर्थ्यमिति शङ्काञ्च शमयति क्षरं प्रधानमित्यादिना । ‘प्रधानं प्रकृतिः स्त्रियाम्’ (अ.को.१-४-१५८) इति प्रधानशब्दिता प्रकृति: क्षरमित्युच्यते । भोग्यमात्मनो भोगार्थं हरतीति हरो जीवः । सः अमृताक्षरम् । अमृतत्वात् मरणधर्मशून्यत्वात् अक्षरमित्यर्थः ।क्षरात्मानो…. एकः – क्षराक्षरशब्दितचेतनाचेतनवर्गेशिता, ‘अपहतपाप्मा दिव्यो देव एको नारायणः’ (अध्यात्म.उ.१) इति निर्दिष्टो नारायण इत्यर्थः । तस्याभिध्यानात् इति । अभिध्यानम् – आरम्भणसंशीलनम् । योजनं – योगः । तत्त्वभावः – तत्त्वाविर्भावः । एतैः अन्ते – शरीरावसाने भूयः समस्तप्रकृतिसम्बन्धनिवृत्तिः इत्यर्थः । ततश्च त्रयं वेदा विन्दते ब्रह्ममेतत्’ इति मन्त्रोक्ता मुक्तिः ब्रह्मोपासनकालीन-ब्रह्मानुभवरूपा इत्यर्थः ।। १० ।।
ज्ञात्वा देवं सर्वपाशापहानिः क्षीणः क्लेशर्जन्ममृत्युप्रहाणिः ।
तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ।। ११ ।।
ज्ञानसाध्यमुक्तिक्रमं दर्शयति – ज्ञात्वेति । दर्शनसमानाकारज्ञानेन विषयीकृत्य सर्वपाशशब्दितपापहानिर्भवति । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ’ (ब्र.सू.४-१-१३) इति सूत्रे दर्शनसमानाकारज्ञानारम्भसमये पूर्वोत्तरपुण्यापुण्यकर्मणाम्, ‘उपासनावसाने क्षमिष्ये’ इति भगवत्संकल्परूपाश्लेषविनाशौ भवत इत्युक्तेः । क्षीणै: क्लेशसाधनशरीरेन्द्रियादिभिः सह जन्ममृत्युप्रापककर्मणाम् , क्षान्तमिति सङ्कल्परूपा प्रकृष्टा हानिर्भवति । ‘साम्पराये तर्तव्याभावात्’ (ब्र.सू.३-३-२७) इत्यत्र सकलपुण्यापुण्यकर्मणां पूर्वं दर्शनसमानाकारज्ञानारम्भसमये, क्षमिष्ये इति भगवत्सङ्कल्पाश्लेषविनाशवतां क्षान्तमिति सङ्कल्परूपं प्रकृष्टहान्यभ्युपगमात् । तस्याभिध्यानपरमफलीभूतम-पहतपाप्मत्वादिलक्षणं विश्वातिशायि तृतीयमैश्वर्यं तु प्राकृतदेहभिन्नशुद्धसत्वमयदेहभेदे भवति । केवल: – प्रकृतिसम्बन्धविनिर्मुक्त एव देशविशेषविशिष्टं ब्रह्म प्राप्य आप्तकामो भवति; न तु प्रकृतिमण्डले इति भावः ।। ११ ।।
एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् ।
भोक्ता भोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ।। १२ ।।
एतज्ज्ञेयं – किञ्चित् । एवम्भूतं परं ब्रहा आत्पनि अन्तर्यामितया संस्थितं ज्ञेयम् । ज्ञातवतश्च ज्ञातव्यान्तरं नावशिष्यते । भोक्ता – ग्राह्यमेतत् । ‘भोक्तशरीरकत्व भोग्यशरीरकत्वमपहतपाप्मत्वादिविशिष्टसत्यज्ञानादिस्वरूपत्वम् इति विधात्रयविशिष्टं ब्रह्म ज्ञातव्यम्’ इति वेदार्थसंग्रहे वर्णितम् । केचित्तु, भोक्ता भोग्यं प्रेरिता इत्येतत् त्रिविधं प्रोक्तमेतत् सर्वं मत्वा ब्रह्म भवति – मुक्तो भवतीत्यर्थः । इत्युपसंहारः इति बदन्ति । प्रेरिता इति वक्तव्ये प्रेरितारमिति छान्दसं रूपम् ।। १२ ।।
वह्नेर्यथा योनिगतस्य मूर्तिः न दृश्यते नैव च लिङ्गनाशः‘ ।
स भूय एवेन्धनयोनिगृह्यः तद्वोभयं वै प्रणवेन देहे ।। १३ ।।
ननु एतत् ज्ञेयं नित्यमेवात्मसंस्थम् इति अनुपपन्नम् । आत्मसंस्थस्य परस्यानुपलम्भात् इत्याशक्य, यथा अरणिगतस्य वह्नेः प्रत्यक्षेणानुपलम्भेऽपि मथने धूमोपलम्भात् न तत्सत्ता अपह्नवार्हा, एवं प्रत्यक्षाद्यग्राह्यस्याप्यात्मसंस्थस्य परमात्मनः प्रणवनिर्मथने उपलभ्यमानत्वात् न तत्सत्ता अपह्रवार्हा इत्याह-वह्नेरिति । योनिगतस्य कारणभूतारणिगतस्य मूर्तिः – स्वरूपं प्रत्यक्षेण न दृश्यते । लिङ्गं तु दृश्यते । पश्चात् मथने सति इन्धनयोनितया इन्धनप्रभवतया गृह्यते । तद्वत् प्रणवेन परमात्मशरीरभूते जीवे शोध्यमाने पूर्वमप्रतीतस्य अन्तर्यामिण: सूक्ष्मवस्राञ्चलान्तर्गतमाणिक्यवत् प्रत्यग्वस्त्वन्तर्गतस्योपलब्धिर्भवतीत्यर्थः । तद्वोभयम् इत्यत्र वाशब्दः इवार्थः ।। १३ ।।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् ।। १४ ।।
प्रणवेन प्रकाशप्रकारमेव दर्शयति – आत्मानमिति । स्वात्मनि प्रणवेन ध्यायमाने तदन्तर्गत आत्मा निगूढवत् स्थितः प्रकाशत इत्यर्थः ।। १४ ।।
तिलेषु तैलं दधनीव सर्पिरापः स्त्रोतस्स्वरणीषु चाग्निः ।
एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ।। १५ ।।
तदेव प्रपञ्चयति – तिलेषु – पश्यति । यथा तिलादिस्थिततैलादिकं यन्त्रपीडनाधुपायेन गृह्यते, एवं सत्यतपोलक्षणोपायेन परमात्मा गृह्यत इत्यर्थः ।। १५ ।।
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
आत्मविद्यातपोमूलं तत् ब्रह्मोपनिषत्परम् तद्ब्रह्मोपनिषत्परम् ।। १६ ।।
।। इति प्रथमोऽध्यायः ।।
सर्वव्यापिनमिति । क्षीरार्पितसर्पिस्समतया सर्वव्याप्तम् आत्मानं प्रत्यगात्मविद्यया तपसा च ज्ञेयमुपनिषदां परं – प्रतिपाद्यं तत् परं ब्रह्म विद्यादित्यर्थः । द्विवचनम् आदरार्थमध्यायसमाप्तिद्योतनार्थञ्च ।। १६ ।।
।। इति प्रथमाध्याय प्रकाशिका ।।
*********