श्वेताश्वतरोपनिषत् चतुर्थोऽध्यायः

श्वेताश्वतरोपनिषत्

अथ चतुर्थोऽध्यायः

एको वर्णो बहुधा शक्तियोगात्

वर्णाननेकान् निहितार्थो दधाति

विचैति चान्ते विश्वमादौ देवः

नो बुद्ध्या शुभया संयुनक्तु ।। ।।

ब्रह्मणः सर्वविधकारणत्वं प्रपञ्चयिष्यन् तद्विषयबुद्धिप्रार्थनामन्त्रमाह – य एक इति । ‘अकारो वै सर्वा वाक् । सैषा स्पर्शीष्मभिरभिव्यज्यमाना बह्वी नानाविधा भवति’ (ऐ.उ.३-६-७) इति ऐतरेयश्रुतेः, एकः अवर्णः निहितार्थः अर्थः – परं ब्रह्म स्ववाच्यत्वेन निहित: यस्मिन् तथोक्तः परमपुरुषार्थभूतब्रह्मवाचकः – ‘अकारेणोच्यते विष्णुः’ (पाञ्चरात्रे) इति श्रुतेः तादृशो अवर्णः सर्वान् वर्णान् दधाति उत्पादयति । सः विश्वंकृत्स्नप्रपञ्चम् अन्तकाले व्येति – अन्तर्भावितण्यर्थोऽयम् – गमयति नाशयति । स देवः शुभया बुद्ध्या योजयतु । अत्र वाच्यवाचकयोरभेदोपचारात् देव इत्युक्तिः ।। १ ।।

तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः

तदेव शुक्रं तद्ब्रह्म तदापस्तत् प्रजापतिः ।। ।।

तस्य देवस्य सर्वात्म्यमाह – तदेवाग्निरिति शुक्रं – रोचिष्ठम् । नक्षत्रमण्डलमित्यर्थः । शिष्टं स्पष्टम् ।। २ ।।

त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी

त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ।। ।।

तदेव सार्वात्म्यं संबोधनेनाह – त्वं स्त्रीति दण्डेन आलम्बनेन जीर्णः वृद्धस्सन् वञ्चसि – सञ्चरसि । अत्यल्पमिदमुच्यते । त्वमेव सर्वरूपो जातोऽसीत्यर्थः ।। ३ ।।

नीलः पतङ्गो हरितो लोहिताक्षः

तडिद्गर्भ ऋतवः समुद्राः

अनादिमत्त्वं विभुत्वेन वर्तसे

यतो जातानि भुवनानि विश्वा ।। ।।

नील इति । नील हरितः – लोहिताक्षभेदभिन्नः पतङ्गः – पक्षी त्वमेव: (तटिद्गर्भः?) ऋतब: समुद्राश्च । त्वमेव अनादिः । यतो विश्वानि भूतानि जातानि, तदपि त्वमेव; निखिलजगत्कारणमपि त्वमेवेत्यर्थः । नीलपतङ्गाद्यात्मत्वमपि न स्वरूपेण अपि तु व्यापकत्वेनात्मत्वादित्येतत् प्रदर्शयति – विभुत्वेन वर्तस इति । यतस्त्वं व्याप्य आत्मतया वर्तसे, तत सर्वात्मत्वमित्यर्थः ।। ४ ।।

[चिदचिद्विवेकः]

अजामेकां लोहितशुक्लकृष्णां

बह्वीः प्रजाः सृजमानां सरूपाः

अजो ह्येको जुषमाणोऽनु शेते

जहात्येनां भुक्तभोगामजोऽन्यः

‘भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१-१२) ‘क्षरं प्रधानम् अमृताक्षरम्’ इति पूर्वनिर्दिष्टचिदचिद्विवेकं दर्शति – अजामेकामिति । तेजोबन्नलक्षणविकारगतलोहित- शुक्लकृष्णरूपयुक्तां स्वसमानरूपविविधभूतभौतिकस्रष्टीम् उत्पत्तिरहितां काञ्चन कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् तत्राहम्बुद्धया सेवमानः तामनुसृत्य शेते तिष्ठति । अपरो विद्वान् । कञ्चित् कालं भुक्त्वा उत्पन्नवैराग्यः त्यजतीत्यर्थः ।

[अजामन्त्रार्थविचारः]

ननु अस्मिन् अजामन्त्रे स्वरसत एतावान् अर्थः प्रतीयते – काञ्चित् छार्गी त्रिवणां स्वसरूपबहुप्रकाराम् (प्रजाकरीम्?) एकश्छागः प्रीयमाणोऽनुवर्तते, अन्यः तामुपभुक्तां त्यजतीति । कथं भवदुक्तप्रकृतिरूपार्थग्रहणम्? यदि च अध्यात्मशास्त्रे लौकिकार्थप्रतिपादनानौचित्यात् आध्यात्मिकार्थे पर्यवसानं कर्तव्यमिति, तर्हि ‘द्वा सुपर्णा’ इति मन्त्रो वृक्षसुपर्णपिप्पलशब्दैः शरीरजीवकर्मफलानां गोण्या वृत्त्या ग्रहणवत्, ‘गौरनाद्यन्तवती’ (मन्त्रि.उ.१-५) इत्यत्र गोशब्देन गौण्या वृत्त्या प्रकृतिग्रहणवत् इहापि अजाशब्देन गौण्या वृत्त्या प्रकृतिग्रहणं युक्तम् । न तु यौगिकार्थग्रहणम् । रूढिपूर्वकलक्षणाविशेषरूपगौण्यपेक्षया योगदौर्बल्यस्य प्रोद्गात्रधिकरणे’ स्थितत्वात् । ‘इतरथा प्रैतु होतुश्चमसः प्रोद्गातृणाम्’ इत्यत्रापि यौगिकवृत्त्या उद्गात्रादीनां चतुर्णां ग्रहणं स्यादिति चेन्न – मुख्यार्थानुपपत्तौ हि गौणार्थाश्रयणं युज्यते । उपपद्यते च अजाशब्दे यौगिकार्थस्य मुख्यस्य ग्रहणम् । न चैव प्रोद्गातॄन्यायविरोधः । तत्र पाशन्यायेन बहुत्वाविवक्षा नास्ति; प्रोद्गातृशब्दयौगिकार्थबहुत्वस्य सम्भवात् । ‘अदितिः पाशान् प्रमुमोक्तु’ (पू.मी.सू.९-३-५) इत्यत्र रूढ्यर्थस्य वा यौगिकार्थस्य वा पाशशब्दार्थस्य बन्धनसाधनस्यासम्भवात् बहुत्वाविवक्षा । इह तु तत्सम्भवात् नाविवक्षेत्येवं (व?) तदधिकरणस्थितिः । न तु रूढिपूर्वकलक्षणापेक्षया योगस्य जघन्यत्वमित्यपि । नन्वेवं सुब्रह्मण्यस्यापि गानकारितया योगार्थत्वात् तस्यापि ग्रहणप्रसङ्ग इति चेन्न – तस्य सदसि स्थित्यभावेन तत्साधारण्याभावात् । मीमांसेकैकदेशिभिः तत्साधारण्यस्याभ्युपेतत्वाञ्च । ततश्च यौगिकार्थस्य मुख्यस्य अजाशब्दार्थस्य सम्भवे पररीत्या छागत्वरूपणं गौणवृत्याश्रयणञ्च अयुक्तम् । ‘गोरनाद्यन्तवती’ इत्यत्र गोशब्दे यौगिकार्थास्फुरणात्, ‘सर्वकामदुधाम्’ इति दोहनस्य गोशब्दरूढ्यर्थग्रहणनियामकस्य सत्त्वाञ्च तत्र तथा; इह तु योगार्थस्फूर्तेः रूढ्यर्थग्रहणनियामकशब्दान्तरसमभिव्याहाराभावाञ्च यौगिकार्थ एव ग्राह्यः । किञ्च इह रूढ्यर्थग्रहणे समभिव्याहतानाम्, ‘बह्वीः प्रजासृजमानाम्’ (मैत्रा.उ.२-६) इत्यादीनां सङ्कोचः स्यात् । छाग्याः प्रकृतिवत् सकलप्रजास्रष्ट्त्वासम्भवात् । सकलप्रजासर्गकरप्रकृत्यामल्पप्रजासर्गकारिच्छागीत्वपरिकल्पनस्य विच्छित्तिविशेषाहेतुत्वात् । न चैवम् ‘आत्मानं रथिनं विद्धि’ (कठ.उ.१-३) इत्यादौ आत्मशरीरादौ रथिरथत्वादिकल्पनमपि न विच्छित्तिविशेषजनकं स्यादिति वाच्यम् । तत्र रूप्यरूपकवाचिपदद्वयश्रवणबलेन वशीकार्यताप्रतीत्युपयुक्ततया च रूपणमङ्गीक्रियते । प्रकृते तु रूप्यरूपकवाचिपदद्वयाश्रवणात् तद्वदत्रोपयोगाभावाञ्च न छागत्वपरिकल्पनम् । ‘द्वा सुपर्णेति’ (श्वे.उ.४-६) मन्त्रेऽपि वृक्षादिशब्दैर्योगवृत्त्या अर्थग्रहणं युक्तम् । समासोक्तया अर्थान्तर स्फूर्त्या विच्छित्तिविशेषोऽस्तीत्येतावन्मात्रम् । यदि च न वृक्षादिशब्दैः यौगिकार्थग्रहणम् तर्हि, ‘गौरनाद्यन्तवतीतिवदस्तु । प्रकृते तु अजाशब्देन यौगिकार्थस्य स्फुटप्रतीतेः योग एव ग्राह्यः । एतत् सर्वं ‘कल्पनोपदेशात्’ (ब्र.सू.१-४-१०) इति सूत्रभाष्यश्रुतप्रकाशिकयोः स्पष्टम् । अनेन प्रकृतिस्वरूपं बद्धमुक्तस्वरूपञ्च उक्तम् । ननु अजाशब्देन अकार्यत्वप्रतिपादनात् सृजमानाम् इति कर्त्रर्थशानचा स्वातन्त्र्यलक्षणकर्तृत्वप्रतीतेः अब्रह्मात्मिकैव प्रकृतिरनेन मन्त्रेण अभिधीयतामिति चेत् एवमेव समन्वयाध्याये पूर्वपक्षे प्राप्ते उच्यते – ‘चमसवदविशेषात्’ (ब्र.सू.१-४-८) । ‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्न: तस्मिन् यशोनिहितं विश्वरूपाम्’ (बृ.उ.४-२-३) इति मन्त्रे, ‘अग्बिलश्चमस’ इति ऊर्ध्वबिलतिर्यग्बुध्नप्रसिद्धचमसव्यावर्तकस्य शिरसश्चमसत्वप्रत्यायकस्य वाक्यशेषस्य सद्भाववत् इह अस्वतन्त्रप्रकृतिव्यावर्तकस्य सांख्याभिमतस्वतन्त्रप्रकृतिप्रतिपादकस्य वाक्यशेषस्य अभावेन स्वतन्त्रा प्रकृतिरिहाभिधीयत इति निर्णयासंभवात् । ब्रह्मात्मकत्वेऽपि जनिराहित्यस्योपपत्तेः । परतन्त्रेऽपि तक्षादौ, ‘तक्षति काष्ठम्’ इति कर्त्रर्थप्रत्ययदर्शनेन तावन्मात्रेण अपरतन्त्रप्रकृतित्वनिश्चयासंभवात् । ननु ब्रह्मात्मकप्रकृतिग्रहणेऽपि नियामकाभावात् सन्देह एव स्यात् । तत्राह, ‘ज्योतिरुपक्रमा तु तथा ह्यधीयत एके’ (ब्र.सू.१-४-९) । ‘अथ यदतः परा दिवो ज्योतिर्दीप्यते’ (छां.उ.३-१३-७) इत्यादौ ज्योतिश्शब्देन ब्रह्मनिर्देशदर्शनात् इह सूत्रेऽपि ज्योतिश्शब्देन ब्रह्मोच्यते । उपक्रमशब्दः कारणत्वार्थकस्सन् आत्मत्वं लक्षयति । मृत्कारणकस्य घटादेः मृदात्मकत्वदर्शनात् । तथा च (ततश्च) ज्योतिरुपक्रमा ब्रह्मात्मिका इत्यर्थः । ब्रह्मात्मिकैवाजेह मन्त्रे ग्राह्या । उपक्रमे – ‘देवात्मशक्तिं स्वगुणैः, निरूढाम्’ इति ब्रह्मात्मकाजाया एव प्रतिपादितत्वात् । तैत्तिरीये, ‘अणोरणीयान् महतो महीयान्’ (तै.ना.८१) इति ब्रह्म प्रस्तुत्य, ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ (तै.ना.४-२) इति प्राणोपलक्षितसकलप्रपञ्चोत्पत्तिमभिधाय निर्विकारस्य ब्रह्मणः अपरिणामितया सकलप्रपञ्चोपादानत्वं न सम्भवतीति शङकावारणाय पठितस्यास्य मन्त्रस्य ब्रह्मात्मकप्रकृतिपरत्वस्य वक्तव्यतया इहापि तथात्वावश्यम्भावाञ्च ब्रह्मात्मिकैव प्रकृतिः अजामन्त्रप्रतिपाद्या । ननु आकाशादीनां ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्ववत् प्रकृतेरपि ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्वस्य वक्तव्यतया अनुत्पन्नायाश्च तस्याः ब्रह्मोपादानकत्वासम्भवेन ब्रह्मात्मकत्वासम्भव इत्याशङ्क्याह, – ‘कल्पनोपदेशाच्च मध्वादिवदविरोध:’ (ब्र.सू.१-४-१०) । कल्पनं सृष्टिः । ‘धाता यथा पूर्वमकल्पयत्’ (तै.आर.१०-१-१४) इति प्रयोगदर्शनात् । अस्मान्मायी सृजते विश्वमेतत्’ (श्वे.उ.४-९) इति मायाशब्दितप्रकृतेः ब्रह्मोपादेयप्रपञ्चसृष्टौ हेतुत्वावेदनात् इत्यर्थः । प्रकृतेरब्रह्मात्मकत्वे च तस्याः ब्रह्मात्मकत्वं सिद्धम् । अपृथक्सिद्धत्वाधारत्वमात्रेणापि आत्मत्वोपपत्त्या अजन्याया अपि प्रकृतेः ब्रह्मात्मकत्वं सम्भवत्येवेति ब्रह्मात्मकत्वमविरुद्धम् । मध्वादिवत् । अत्र मधुशब्देन, ‘असावादित्यो देवमधु’ (छां.उ.३-१-१) इति निर्दिष्टो आदित्य उच्यते । आदित्यवदित्यर्थः । यथा आदित्यस्य ‘नैवोदेता नास्तमेता’ इत्यकार्यतया श्रुतस्यैव, ‘य आदित्ये तिष्ठन्’ (बृ.उ.५-७-१३) इत्यादिना ब्रह्मात्मकत्वञ्च, एवमनादेरप्युपपद्यते ब्रह्मात्मकत्वमिति स्थितम् । प्रकृतमनुसरामः ।। ५ ।।

[जीवब्रह्मवैलक्षण्यम्]

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ।। ।।

प्रकृतिसम्बन्धाविशेषेऽपि जीवस्य भोक्तृत्वम् न परमात्मन इत्येतत् दृष्टान्तमुखेन प्रदर्शयति – द्वा सुपर्णेति । युज्यते इति युक्छब्दो गुणपरः । समानगुणक:  सयुक् इति व्यासार्येविवृतत्वात् । सखायौ परस्पराविनाभूतौ गमनसाधनत्वेन पर्णशब्दितपक्षसदृशज्ञानादिगुणवन्तौ समानम् एकं वृक्षं – वृक्षवत् छेदनार्हं शरीरं समाश्रितौ । तयोर्मध्ये एको जीवः परिपक्वं पिप्पलंअश्वत्थफलसदृशं कर्मफलम् अश्नाति । इतरस्तु परमात्मा अनश्नन्नेव अपहतपाप्मत्वादि महामहिमशाली वर्तत इत्यर्थः । अत्र शरीर तदाश्रयजीव परवाचिशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिशब्दैवृक्षत्वाद्यध्यवसानलक्षणारूपकातिशयोक्तिः विच्छित्तिविशेषायेति केचित् । वृक्षादिशब्देन योगवशात् शरीरादिप्रतीतिः; न तु रूपकातिशयोक्तिरित्यन्ये ।। ६ ।।

समाने वृक्षे पुरुषो निमग्नोऽ

नीशया शोचति मुह्यमानः

जुष्टं यदा पश्यत्यन्यमीश

मस्य महिमानमिति वीतशोकः ।। ।।

समान इति । अनीशया भोग्यभूतया प्रकृत्या मुह्यमान: – ‘पराभिध्यानात्तु तिरोहितम्’ (ब्र.सू.३-२-४) इति सूत्रोक्तन्यायेन ति रोहितपरमात्माशेषत्वज्ञानानन्द- लक्षणस्वस्वरूपस्सन् वृक्षवच्छेदनार्हे एकस्मिन् शरीरे जीवः, ‘स्थूलोऽहं’ ‘कृशोऽहं’ इति तादात्म्यबुद्ध्या पांसूदकवत् तदेकतामापन्नस्सन् तत्संसर्गकृतानि दुःखान्यनुभवति । यदा असौ जीवो निमग्नात् स्वस्मात् धारकत्वनियन्तृत्वशेषत्वादिना विलक्षणं स्वकर्मभिः- प्रीतं परमात्मानम्,अखिलजगदीशानलक्षणमस्य महिमानञ्च पश्यति; तदा वीतशोको भवतीत्यर्थः । केचित्तु – अनीशया – अनीशत्वेन असमर्थत्वेन शोचन् स्वोद्धरणसमर्थं स्वयं पङ्कादौ अनिमग्नं स्वस्मिन् प्रतीतिमन्तं तदुद्धरणसामर्थ्यलक्षणमहिमानं च दृष्ट्वा वीतशोको भवति । तत्समाधिरत्रानुसन्धेय: । ‘अनीशया प्रकृत्या’ इति भाष्यमपि अर्थतो व्याख्यानपरम् । न त्वनीशाशब्दार्थतयेति वदन्ति ।। ७ ।।

 

ऋचोऽक्षरे परमे व्योमन्

यस्मिन् देवा अधि विश्वे निषेदुः

यस्तन्न वेद किमृचा करिष्यति

इत् तद् विदुस्त इमे समासते ।। ।।

ऋच इति । न क्षरतीत्यक्षरम् । तादृशे ऋच: ऋक्छब्दोपलक्षितवेदजातस्य परमे व्योमन् परमाकाशे परमतात्पर्यविषये यस्मिन्नक्षरे सर्वे देवाः समाश्रिताः, तत् अक्षरं यो न वेद; स अधीतेन ऋग्वेदादिना किं करिष्यति? ‘स्थाणुरयं भारवाह: (हारः) किलाभूदधीत्य वेदं न विजानाति योऽर्थम्’ । ‘एतद्वै तदक्षरं गार्गि अविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद् भवतीति’ (बृ.उ.५-८-८) श्रुतेः । ये च तदक्षरं जानन्ति, ते निरस्तप्रतिकूला: सुखमासते इत्यर्थः । इमं मन्त्रं विश्वदेवशब्दितनित्यसूर्याश्रयपरमस्थानपरतयापि योजयन्ति । तदक्षरे परमे व्योमन्’ (तै.ना.१-२) इत्यस्य वेदार्थसङ्ग्रहे स्थानपरतया योजितत्वात् ।। ८ ।।

 

छन्दांसि यज्ञाः क्रतवो व्रतानि

भूतं भव्यं यच्च वेदा वदन्ति

अस्मान्मायी सृजते विश्वमेतत्

तस्मिँश्चान्यो मायया संनिरुद्धः ।। ।।

छन्दांसीति । वेदं वैदिकमर्थजातं मायाप्रेरकः परमात्मा अस्मात् मायाशब्दितात् साधनात् सृजते । अतश्च अपरिणामिनोऽप्युपादानत्वमविरुद्धम् । ननु जीवस्य स्रष्टत्वं किं न स्यात् इत्याशङ्क्याह – तस्मिंश्चान्यो मायया संनिरुद्धः अन्यो जीवः तदाश्रितमायामोहितः । अतः तस्य मायाप्रेरकत्वाभावान्न स्रष्टुत्वमिति भावः ।। ९ ।।

 

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्

तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ।। १० ।।

माया नाम का? तत्प्रेरकश्च क इत्यत्राह – मायां तु इति । त्रिगाणात्मिकां प्रकृतिं विचित्राश्चर्यसर्गहेतुतया मायाशब्दितं विद्यात् । मायाप्रेरकस्तु महेश्वर इति विद्यात् इत्यर्थः । न च महेश्वरशब्दो देवतान्तरवाचक इति शङ्क्यम् । तैत्तिरीयके – ‘यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य य परः स महेश्वरः’ ।। (तै.ना.१२-३) इत्यकारवाच्यस्यैव नारायणस्य महेश्वरशब्दार्थत्वाभिधानादिति द्रष्टव्यम् । तस्यापृथक्सिद्ध- विशेषणतया तदंशभूतैर्जीवैः सर्वमचेतनं व्याप्तम् इत्यर्थः । ततश्च जगदन्तर्गताः तदपृथक्सिद्धविशेषणतया तदंशभूता इत्यर्थः ।। १० ।।

 

यो योनिं योनिमधितिष्ठत्येको

यस्मिन्निदं सञ्च विचैति सर्वम्

तमीशानं वरदं देवमीड्यं

निचाय्येमां शान्तिमत्यन्तमेति ।। ११ ।।

यो योनिमिति । योनिशब्देन जगद्योनिभूता प्रकृतिः उच्यते इति व्यासायैर्व्याख्यातम् । न च तथा सति तस्या एकत्वात् वीप्सानुपपत्तिरिति शंक्यम् -महदादीनामपि पञ्चभूतात्मकजगद्योनित्वेन वीप्सोपपत्तेः । ततश्च जगद्योनिभूतान् प्रकृतिमहादादीन् योऽधितिष्ठति, यस्मिंश्च विश्वमेतत् उत्पत्तिकाले वियदादिरूपेण व्येति – वैविध्यम् एति; संहारकाले च समेति – ऐक्यं गच्छति । तादृशम् आश्रिताभीष्टदायिनं तमेव दर्शनसमानज्ञानेन विषयीकृत्य रागद्वेषादिप्रागभावासहकृतत्वलक्षणात्यन्तिकत्वोपेतां श्रुत्यादिसिद्धां सर्वानर्थशान्तिमाप्नोतीत्यर्थः । यस्मिन्निदं सञ्च विचैति सर्वमिति प्रतिपाद्यमानमुपादानत्वं निर्विकारस्य आत्मनः कथमिति शङ्कावारणाय, योनिं योनिमधितिष्ठति इति प्रकृत्यादिशरीरकत्वादुपपद्यत इति शिष्यानुग्रहार्थं पुनः पुनः कथनमिति द्रष्टव्यम् ।। ११ ।।

यो देवानां प्रभवश्चोद्भवश्च

विश्वाधिपो रुद्रो महर्षिः

हिरण्यगर्भं पश्यत जायमानं

नो बुद्ध्या शुभया संयुनक्तु ।। १२ ।।

तज्ज्ञाने तदनुग्रह एव कारणमिति तं प्रार्थयते – यो देवानामिति । यो देवानां जायमानं हिरण्यगर्भम्, असावप्रतिहतज्ञानादियुक्तस्स्यात् इति सानुग्रहम् ऐक्षत । स मां वीक्षतामिति भावः ।। १२ ।।

 

यो देवानामधिपो यस्मिन् लोका अधिश्रिताः

ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।। १३ ।।

यो देवानामधिप इति । सर्वचिदचित्प्रपञ्चशेषिणे सर्वाधारभूताय सकलनियन्त्रे तस्मै परमात्मने पुरोडाशादि हविषा पूजां कुर्वीमहीत्यर्थः । यज्ञादिभिः तदाराधान तदुपासनद्वारा तत्प्राप्तिसाधनमिति भावः ।। १३ ।।

 

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये

विश्वस्य स्रष्टारमनेकरूपम्

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।। १४ ।।

सूक्ष्मातिसूक्ष्ममिति । सूक्ष्मवस्तुष्यपि अन्तःप्रवेशयोग्यं कार्यब्रह्माण्डमध्ये हिरण्यगर्भप्रजापत्याद्यनेकरूपेणावस्थाय विश्वस्रष्टारं सर्वान्तर्यामित्वेऽप्यनवद्यमद्वितीयं परमात्मानं ज्ञात्वा मुक्तो भवति इत्यर्थः ।। १४ ।।

 

एव काले भुवनस्य गोप्ता

विश्वाधिपः सर्वभूतेषु गूढः

यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च

तमेवं ज्ञात्वा मृत्युपाशाँश्छिनत्ति ।। १५ ।।

एव काल इति । ब्रह्मविदो मुनयो देवताश्च यत्र मनो योजयन्ति; स एव परमात्मा कर्मपरिपाककालविशेषे जगतः गोप्ता – संसारमोचकः, कुतः? विश्वाधिपः सर्वभूतेषु गूढः । सर्वशेषित्वात् सर्वान्तर्यामित्वाञ्च इत्यर्थः । शेषशेषिभावशरीरात्मभाव- सम्बन्धसत्वात् तादृशस्य शक्तस्य मोचकत्वौचित्यादिति भावः । तमेवमिति । अनेनाऽऽकारेण तं जानन् दर्शनसमानाकारज्ञानेन विषयीकुर्वन् मुक्तो भवति इत्यर्थः ।। १५ ।।

 

घृतात्परं मण्डमिवातिसूक्ष्म

ज्ञात्वा शिवं सर्वभूतेषु गूढम्

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। १६ ।।

घृतात् इति । यथा घृतस्य सारांशः सूक्ष्मः क्षीरव्यापी एवं सर्वत्र सूक्ष्मतया दुर्ज्ञानतया वर्तमानात्वेऽप्यनवद्यतया मङ्गलभूतं भगवन्तं ज्ञात्वा मुक्तो भवतीत्यर्थः ।। १६ ।।

एष देवो विश्वकर्मा महात्मा

सदा जनानां हृदये संनिविष्टः ।

हृदा मनीषा मनसाऽभिक्लुप्तो

य एतद्विदुरमृतास्ते भवन्ति ।। १७ ।।

एष देव इति । विश्वं कर्म – क्रियते इति कर्म – कार्य यस्य स तथोक्तः । जगत्कर्ता इत्यर्थः इतरत् उक्तार्थम् ।।

 

यदा तमस्तन्न दिवा रात्रि

र्न सत्र चासच्छिव एव केवलः

तदक्षरं तत्सवितुर्वरेण्यं

प्रज्ञा तस्मात्प्रसृता पुराणी ।। १८ ।।

गायत्रीप्रतिपाद्यत्वमपि तस्यैव इत्याह यदा तम इति । यस्मिन् काले सदसच्छब्दितमूर्तामूर्तप्रपञ्चं दिवारावविभागञ्चान्तरेण तमोमात्रमवस्थितम्, तस्मिन् काले, ‘ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजङ्गमे । आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ‘एकस्तिष्ठति  विश्वात्मा स तु नारायणः प्रभुः’। (महा.भा.शा.प.२१०-२४) इत्युक्तरीत्या ज्ञानसङ्कोचलक्षणाशुभमन्तरेण केवलं शुभतयाऽवस्थितम् । तदेव क्षरणशून्यं वस्तु सवितृमण्डलमध्यवर्ति’; वरणीयं भजनीयञ्च तदेव । तस्मादेव हेतोः सृष्टिकाले प्रज्ञाना सङ्कुचितज्ञानस्य नित्यस्य प्रसरणमिति भावः । प्रज्ञा तस्मात् इत्यनेन, ‘धियो यो नः प्रचोदयात्’ (ऋ.वे.३-४-१०) इत्यशंप्रतिपाद्यत्वमपि तस्यैवेत्युक्तं भवति ।। १८ ।।

 

नैनमूर्ध्वं तिर्यञ्चं ने मध्ये परिजग्रभत्

तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ।। १९ ।।

नैनमिति । ऊर्ध्वस्थाण्वादिरूपतया, पश्वादितिर्यग्रूपतया तदुभयविलक्षण- मनुष्यादिरूपतया सन्तमत्येनं कोऽपि जनः परितः सम्यक् समन्तात् जग्रभत् – नाग्रहीत् । यद्वा ऊर्ध्वदेशादिषु न कोपि ज्ञातवान् । तस्य विभुत्वादिति भावः । यस्य महद्यश इति नाम यस्त्वपरिच्छिन्नकीर्तिः प्रसिद्धः, तस्य सदृशं किमपि वस्तु नास्ति इत्यर्थः ।। १९ ।।

 

संदृशे तिष्ठति रूपमस्य

चक्षुषा पश्यति कश्चनैनम्

हृदा हृदिस्थं मनसा

एनमेवं विदुरमृतास्ते भवन्ति।। २० ।।

सन्दृशे तिष्ठति रूपमस्य

चक्षुषा पश्यति कश्चनैनम्

हृदा मनीषा मनसाऽभिक्लुप्तो

एनम् (एतत्) विदुरमृतास्ते भवन्ति ।। (कठ,.)

सन्दृशे तिष्ठति इति । अस्य रूपम् – स्वरूपं विग्रहो वा, व्यापकत्वादेव सन्दर्शनविषये अभिमुखतया न तिष्ठति इत्यर्थः । अथवा दृश्यं नीलरूपादिकं नास्ति इत्यर्थः । अत एव चक्षुषा पश्यति कश्चनैनम् इति । स्पष्टोऽर्थः । हृदा मनीषा इत्यादि । अयमंशः, ‘सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.१-२-१) इत्यत्र व्यासार्यै: हृदा इति भक्तिरुच्यते । मनीषा इति धृतिः । ‘ सन्दृशे तिष्ठति रूपमस्य चक्षुषा पश्यति कश्चनैनम् इति पूर्वार्धमेकरूपं पठित्वा, भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह’ (महा.भा.१२-२१-६४) इति महाभारते उक्तम् अभिक्लुप्तः – ग्राह्यः इति विवृतः । धृत्या समाहितात्मा, भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोति इत्यर्थः । ‘भक्त्या त्वनन्यया शक्यः’ (भ.गी.११-५४) इत्यनेनैकार्थ्यात् इति वेदार्थसङ्ग्रहे प्रतिपादितम्:  एनं विदुः इति स्पष्टोऽर्थः ।।

[ज्ञानप्राप्त्यर्थं ईश्वरप्रार्थना]

अजात इत्येवं कश्चिद्भीरुः प्रपद्यते

रुद्र यत् ते दक्षिणं मुखं तेन मां पाहि नित्यम् ।। २१ ।।

अजात इति । हे संसाररुग्द्रावक ! त्वम् । अजातः – जननादिलक्षणसंसारहीन इति मत्वा कश्चित् – पुरुषापशदः अहं दाक्षिण्यशालि ‘उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम्, प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम्, शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकं’ ।। मुखं प्रपद्यते – प्रपद्ये – ध्यायामि । प्रपद्यत इति पुरुषव्यत्ययः छान्दसः । तेन – ध्यानेन मां नित्यं पाहि निरस्तसंसारं कुरु इत्यर्थः । स्तनन्धयप्रजाया अवतरणमुखभूतस्तनवत् अवतरणमुखभूतं चरणारविन्दं प्रपद्य इति वाऽर्थः ।। २१ ।।

 

मा नस्तोके मा आयुषि

मानो गोषु मानो अश्वेषु रीरिष:

वीरान्मानो रुद्र बीमतो

वधीर्हविष्मन्त: सदसि त्वां हवानहे २२

इति चतुर्थोऽध्यायः 

मा स्तोक इति । अपत्यपुत्रायुर्गवाश्वादिप्रवणतया मां मा हिंसो: रिष हिंसायाम् (धा.पा.६१४) इति धातुः । हे संसाररुग्द्रावकः । त्वम् अस्मदपचारेण भामित: – कुपितस्सन् वीर्ययुक्तान् ज्ञानवैराग्यादीन् मोक्षौपयिकान् मा वधीः-मा हिंसीः । त्वत्पूजोपकरणपुरोडाशादिलक्षणहविरादियुक्ताः सन्तः त्वां सदसि हवामहे . आराधयामः । इदित्यवधारणे । त्वामेवेत्यर्थः ।। २२ ।।

।। इति चतुर्थाध्यायप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.