श्वेताश्वतरोपनिषत् पञ्चमोऽध्यायः

श्वेताश्वतरोपनिषत्

अथ पञ्चमोऽध्यायः

[विद्याविद्ययो: लक्षणम्]

द्वे अक्षरे ब्रह्मपरे त्वनन्ते

विद्याविद्ये निहिते यत्र गूढे

क्षरं त्वविद्या ह्यमृतं तु विद्या

विद्याविद्ये ईशते यस्तु सोऽन्यः ।।।।

 

पुनरपि ब्रह्ममाहात्म्यं (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति – द्वे अक्षरे इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते – असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया (क्षरामृतशब्दिते) विद्याविद्याशब्दिते (ते?) ज्ञानरूपकर्मरूपे (द्वे?) यत्र अक्षरे – आत्मनि दुर्मोचतया लग्ने, सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्यः इत्यर्थः ।। १ ।।

यो योनिं योनिमधितिष्ठत्येको

विश्वानि रूपाणि योनीश्च सर्वाः

ऋषिं प्रसूतं कपिलं यस्तमग्रे

ज्ञानैर्बिभर्ति जायमानं पश्येत् ।। ।।

योनिमिति । सर्वाणि समष्टिव्यष्टिरूपाणि तत्तद्योनीश्च सर्वाः योऽधितिष्ठति, यस्तु अग्रे – सृष्टि-पूर्वसमये प्रसूतं कपिलं ज्ञानादियुक्तं बिभर्ति – कृतवान् जायमानदशायाञ्च सानुग्रहमेक्षतः सोऽप्यन्य इति पूर्वेण संबन्धः ।। २ ।।

एकैकं जालं बहुधा विकुर्वन्न

स्मिन् क्षेत्रे संहरत्येष देवः

भूयस्सृष्ट्वा पतयस्तथेशः

सर्वाधिपत्यं कुरुते महात्मा

एकैकमिति । यस्मिन् क्षेत्रे प्रकृतिरूपे जालवद् बन्धके महदादिकार्यवर्ग विविधतया कुर्वन् पुनश्च संहरति; तस्मिन्नेव प्रकृतिरूपे क्षेत्रे कल्पान्तरेऽपि भूयः प्रजापत्युपलक्षितं प्रपञ्चं सृष्ट्वा सर्वदा सर्वेषां नियन्तृतया आस्ते यतोऽसौ (ततो?) महामहिमशाल्यात्मा इत्यर्थः ।। ३ ।।

सर्वा दिश ऊर्ध्वमधश्चतिर्यक्

प्रकाशयन् भ्राजते यद्वनड्वान्

एवं देवो भगवान् वरेण्यो

योनिस्वभावानाधितिष्ठत्येकः ।। ।।

ननु एतस्य कथं युगपत् सर्वयोन्यधिष्ठातृत्वम् उपपद्यत इत्यत्राह – सर्वा दिश इति । कालचक्र परिवर्तनहेतुतया अनुडुच्छब्दवाच्यः सूर्यः तिर्यगूर्ध्वमधश्च युगपद्भासयन् यत् – यथा भासते; तथा मुमुक्षुभिर्वरणीयो भजनीयो भगवानेक एव सर्वयोन्यधितिष्ठति भवतीत्यर्थः ।। ४ ।।

 [सर्वदेवोपास्यत्वम्]

च्च स्वभावं पचति विश्वयोनिः

पाच्यांर्श्च सर्वान् परिणामयेत् यः

सर्वमेतद्विश्वमधितिष्ठत्येको

गुणाँश्च सर्वान् विनियोजयेद्यः ।। ।।

 तद्वेदगुह्योपनिषत्सु गूढं

तद्ब्रह्मा वेदते ब्रह्म योनिम् ।।

ये पूर्वं देवा ऋषयश्च तद्विदु

स्ते तन्मया अमृता वै बभूवुः ।। ।।

यच्चेति । यच्चेति लिङ्गव्यत्ययश्छान्दसः । यः सर्वेषामग्निजलादिवस्तूनाम् उष्णानुगुणस्वभावं पचति सङ्कल्पलक्षणपाकेन निर्वर्तयति; यश्च पाच्यान् परिणामयोग्यान् परिणामयति । सत्वा (सत्या) दींश्च गुणान् प्रवर्तयति, स परमात्मा सर्वप्रकृत्यधिष्ठाता इत्यर्थः । तद्वेदेति तेषु – प्रसिद्धेषु वेदेषु गुह्योपनिषत्सु (च) तात्पर्यविषयतया प्रतिपाद्यं ब्रह्मणो वेदस्य योनिभूतं तत् परं ब्रह्म सकलवेदप्रवर्तकः ब्रह्मा चतुर्मुखः वेदते – जानाति । अतादृशो न जानाति । ये पूर्वं देवा ऋषयश्च तत् ज्ञातवन्तः, ते सर्वे (तत्स?) समानाकारा मुक्ता बभूवुः इत्यर्थः ।। ५, ६ ।।

गुणान्वयो यः फलकर्मकर्ता

कृतस्य तस्यैव चोपभोक्ता

विश्वरूपस्त्रिगुणस्त्रिवर्त्मा

प्राणाधिपः संचरति स्वकर्मभिः ।। ।।

एवं परमात्मस्वरूपं तज्ज्ञानस्यामृतसाधनत्वञ्च उक्त्वा जीवस्वरूपं शोधयति . गुणान्वय इति । सत्वरजस्तमोगुणानामन्वयो यस्य स तथोक्तः । सत्वादिगुणान्वितः सन् फलसाधनभूतं कर्म यः करोति, स एव तस्यैव फलं भुङ्क्ते । एवं नियतकर्तृत्व भोक्तृत्वशाली स्थावरनरपक्ष्यादिरूपयुक्तः कामक्रोधलोभरूपगुणत्रययुक्तो देवयानपितृयाण- कष्टगतिरूपमार्गत्रययुक्तः प्राणसहचरितस्सन् कर्मपाशबद्धः सञ्चरति इत्यर्थः ।। ७ ।।

अङ् गुष्ठमात्रो रवितुल्यरूपः

सङ्कल्पाहङ्कारसमन्वितो यः

बुद्धेर्गुणेनात्मगुणेन चैव

आराग्रमात्रो ह्यवरोऽपि दृष्टः ।।।।

अङ् गुष्ठमात्र इति । बुद्धेः अन्तःकरणस्य सत्वरजस्तमोलक्षणगुणकारितेन आत्मधर्मभूतनानाविधार्थविषयकाध्यवसायेन युक्तः तत्कार्येण तत्तत्फलसंकल्पेन आढ्योऽभिजनवानस्ति इत्यहङ्कारेण (च?) युक्तस्सन् आत्मवत् स्वप्रकाशः, अङ् गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ इत्युक्तरीत्या अङ् गुष्ठपरिमाणः शास्त्रेषु दृष्टः । ततोऽपि अवरः – हीनपरिमाण: आराग्रमात्र इत्यपि दृष्टः – शास्त्रेषु दृष्ट इत्यर्थः ।। ८ ।।

[जीवात्मनः लक्षणम्]

वालाग्रशतभागस्य शतधा कल्पितस्य

भागो जीवः विज्ञेयः चानन्त्याय कल्पते ।। ।।

स्वमतमुपन्यस्यति – वालाग्रेतिवालाग्रशतांश – शतांशतुल्यपरिमाण एव जीवो मोक्षे धर्मभूतज्ञानविकासेन विभुत्वलक्षणानन्त्याय प्रभवतीत्यर्थः ।। ९ ।।

नैव स्त्री पुपानेष चैवायं नपुंसकः

यद्यच्छरीरमादत्ते तेन तेन संयुज्यते ।। १० ।।

श्रीनपुंसकत्वादिकमपि तस्य तादृशशरीरसम्बन्धकृतम् न ( स्वाभाविकम् इत्याह नैव स्त्रीति । स्पष्टोऽर्थः ।। १० ।।

सङ्कल्पनस्पर्शनदृष्टिहोमै

र्गासाम्बुवृष्ट्या ऽऽत्मविवृद्ध जन्म

कर्मानुगान्यनुक्रमेण देही

स्थानेषु रूपाप्यभिसम्प्रपद्यते ।। ११ ।।

देहप्राप्तौ हेतुमाह – सङ्कल्पेनेति । पुण्यविषयक सङ्कल्पगङ्गादिलक्षण- पुण्यवस्तुस्पर्श तादृशवस्तुदर्शन यागहोमादिभिरात्मनो विवृद्धियुक्तं जन्य उत्कृष्टं जन्य इति यावत् – अनेनक्रमेण (?) कर्मानुसारीणि रूपाणि तेषु तेषु ब्राह्मणादिषु योनिषु (अनुक्रमेण) पर्यायेण प्रपद्यत इत्यर्थः ।। ११ ।।

स्थूलानि सम्माणि बहूनि चैव

रूपाणि देही स्वगुणैर्वृणाति

क्रियागुणैरात्मगुणैश्च तेषां

संयोगहेतुरपरोऽपि दृष्ट: ।। ११ ।।

स्थूलानीति । मशकमातङ्गादिस्थूलसूक्ष्मशरीराणि  बहुविधान्यपि  तत्तत्फलाभिसन्ध्यादिलक्षणरागादिरूपात्म गुणप्रयुक्तयागादिरूपक्रियालक्षणै:  गुणैर्हेतुभि: भजते । तादृशात्मगुणयोगे च पूर्वपूर्वं कर्मैव हेतुर्दृष्ट: इत्यर्थः ।। १५ ।।

अनाद्यनन्तं कलिलस्य मध्ये

विश्वस्य स्रष्टारमनेकरूपम्

विश्वस्यैकं परिवेष्टितारं

ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। १३ ।।

अनाद्यनन्तमितिकलिलस्य – कार्यस्य मध्ये स्थित्वा हिरण्यगर्भ- प्रजापत्याद्यनेकरूपतया विश्वस्य स्रष्टारम् इत्यर्थः । शिष्टं पूर्ववत् ।। १३ ।।

भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।

कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ।। १४ ।।

।। इति पञ्चमोऽध्यायः ।।

भावेति भावग्राह्यं – भक्तिग्राह्यं अनीडत्वेन – अनिलयत्वेन अनाधारत्वेन आख्यायमानं विश्वस्य भावाभावकरं – सर्गसंहारकारकं सर्वदा अशुभासृष्टं विद्यासर्गकारणं (कारिणं?) ये पूर्व ज्ञातवन्तः, ते प्रकृतिविनिर्मुक्ता बभूवुः इत्यर्थः ।। १४ ।।

(द्विरुक्तिरध्यायसमाप्त्यर्था)

।। इति पञ्चमाध्यायप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.