श्वेताश्वतरोपनिषत् तृतीयोऽध्यायः

श्वेताश्वतरोपनिषत्

अथ तृतीयोऽध्यायः

[भगवानेव मोक्षप्रद:]

 

एको जालसानीशत ईशनीभिा सर्वान् लोकानीशत ईशनीभिः

एवैक उद्भवे सम्भवे एतद्विदुरमृतास्ते भवन्ति ।। १।।

उत्तशानस्य फलमाह • एक इति । ‘अपहतपाप्मा दिव्यो देव’ (अध्यात्म उ- १) इति देवत्वेन श्रुतिप्रसिद्ध: परमात्मा प्रकृतिशब्दितमायारूपवागुरा युक्तस्सन् ईशानसमर्थाभि: ज्ञानबक्रियाशक्तिभिः मायाजालगोचरान् प्राकृतांश्च(न्)लोकानीष्टे सदगोचरान् अप्राकृतांश्च लोकान् ईष्टे । यश्च जगतः उद्भवे उत्पत्ती, सम्भवे समीत्येकीकारे लयापरपर्याये एकीभावे च (क)ईष्टे, रज्ज्ञानं मोक्षसाधनमित्यर्थः ।। १ ।।

एको हि रुद्रो द्वितीयाय तस्थुः इमान् लोकानीशत ईशनीभिः

प्रत्यङ्जनास्तिष्ठति सञ्चुकोचामलकाले संसृज्य विश्वा भुवनानि गोपाः ।। ।।

ननु य एतद्विदुरमृतास्ते भवन्ति’ इति पूर्वमन्त्रे सर्वलोकेश नारायणस्यैव मोक्षसाधनज्ञानविषयतया मोचकत्वमिति यदुक्तम्, तदयुक्तम् । जगत्कारणत्वेन प्रसिद्धानां ब्रह्मादीनां ज्ञानस्यैव मोक्षसाधनत्वमिति वक्तुमुचितत्वात् इत्याशंक्याह-एको हीति ।।हे जनाः! ‘सर्वलोकानीशत ईशनीभिः, प्रत्यक्तिष्ठति इति निर्दिष्टः विश्वा भुवनानि संसृज्य सृष्ट्वा अन्तकाले सञ्चुकोच – संहृतवान्, गोपाः – गोप्ता रक्षिता च यः, स एक एव रुद्रः – संसाररुजं द्राव(द्रव)यतीति रुद्रः – संसारमोचक इत्यर्थः । द्वितीयाय – द्वितीयत्वाय सहायतया न केऽपि तस्थुः सहायतया वा उपायान्तरतया वा केऽपि न स्थितवन्तः । मोचकोऽन्यः कोऽपि नास्ति । ‘वेदाहमेतं पुरुषं महान्तं’ (पु.सू.१६) इति महापुरुषं प्रस्तुत्य, ‘तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यते’ (पु.सू.१७) इति मार्गान्तर निषेधात् । अत्र रुद्रशब्दो (यौगिकः?); रूढ्यर्थापेक्षया प्रकृतौपयिकस्य मानान्तरा  विरुद्धस्य संसारमोचकत्वलक्षणयौगिकार्थस्य मनसि विपरिवर्तमानस्य शारीरकापशूद्रन्यायेन बलवत्वात् । अस्याश्चोपनिषदो भगवत्परत्वस्य साधयिष्यमाणत्वाञ्च नात्र चोद्यावकाशः ।। २ ।।

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्यात्

सं बाहुभ्यां नमति संपतत्रैः द्यावापृथिवी जनयन् देव एकः ।।३।।

विश्वत इति । ‘अनेकबाहूदरवक्त्रनेत्रम्’ (भ.गी.११-१६) इत्युक्तरीत्या अनन्तनयनाननपाणिपादादियुक्तनित्यदिव्यविग्रहयुक्त: असहाय एव धुपृथिव्यादिसर्वप्रपञ्च (वि) निर्माता जीवान् बाहुभ्यां पतत्रशब्दितैः पद्भिश्च संन(संध)मति संयोजयति । करणकलेबरसंयोगं करोतीत्यर्थः । सर्वेषां शरीरेन्द्रियसंबंन्धं कुर्वन् स्वयमनन्याधीनानन्त- शरीरेन्द्रियवान् इत्यर्थः ।। ३ ।।

यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः

हिरण्यगर्भ जनयामास पूर्वं नो बुद्ध्या शुभया संयुक्तु

परमात्मोपलब्धिप्रार्थनामन्त्रमाह – यो देवानामिति । ‘यान्येतानि देवत्रा क्षत्राणि, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः’ (बृ.उ.३-४-११) इति बृहदारण्यकोक्तरीत्या इन्द्रवरुणरुद्रादीनामुद्भव: उद्भवति अस्मात् इत्युद्भवः । प्रकर्षेण भवत्यस्मादिति प्रभवः । प्रकर्षेण भवनं देवाधिपतित्वादिरूपेणास्य प्रभवनम् । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (भ.गी.९-२४) इति कर्मफलदायित्वलक्षणप्रभुत्वस्य भगवद्धर्मत्वेन प्रजापतिपशुपतित्वादिप्रापकत्वलक्षणस्य प्रभवनस्य भगवदधीनत्वादिति द्रष्टव्यम् । विश्वाधिकः। “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्’ (भ.गी.१०-४२) इत्युक्तरीत्या विश्वस्य सर्वस्यापि तदेकदेशैकदेशतया तस्य विश्वाधिकत्वम् । संसाररुजां द्रावकतया रुद्रत्वम्, निरतिशयसार्वयादियुक्ततया महर्षित्वञ्च भगवतो युज्यते । एवम्भूतो भगवान्, ‘यत्राभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृड्विश्वरूपः, (महो.१-४) तत्र ब्रह्मा चतुर्मुखोऽजायत नारायणाद्ब्रह्माजायत’ (ना.उ.१) इत्युक्तरीत्या हिरण्यगर्भं सर्वेषां देवानां सृष्टेः प्राक् जनयामास सः – देव: परमात्मविषयतया शुभया बुद्ध्या योजयतु इत्यर्थः ।। ४ ।।

या ते रुद्र ! शिवा तनूरघोरा पापकाशिनी

तया स्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ।।५।।

‘अदृष्टपूर्वं हषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास’ ।। (भ.गी.११-४५) इत्युक्तरीत्या सौम्यदिव्यमङ्गलविग्रहविशिष्टतया भगवत्प्रकाशप्रार्थनामन्वमाह या ते रुद्रेति । हे रुद्र ! संसाररुग्द्रावक! प्रसिद्धरुद्रव्यावर्तनाय तं विशिनष्टि-गिरिशन्तेति । गिरिशं तनोतीति गिरिशन्तः । रुद्रस्य स्रष्टा इत्यर्थः । या शिवा अघोरापापकाशिनी पापकमशितुं शीलमस्या इति पापकाशिनी पापदाहिका वैष्णवी सात्त्विकी तनुः तादृश्या शन्तमया – सुखप्रदया अत्यन्तानुकूलया तन्वा – विग्रहेण अभिचाकशीहि – प्रकाशस्व इत्यर्थः ।। ५ ।।

यामिषुं गिरशन्त हस्ते बिभर्ष्यस्तवे ।

शिवां गिरित्र! तां कुरु मा हिंसी: पुरुषं जगत् ।। ६ ।।

यामिषुमिति । गिरित्र । गीः प्रतिपाद्यते इति वेदान्तप्रतिपाद्यत्वं गिरित्रशब्दार्थःगिरिशन्त इत्यस्य पूर्ववदर्थः । हे गिरित्र! गिरिशन्त! ते हस्ते शिवां यामिषुं बिभर्षि – यत् आयुधं बिभर्षीत्यर्थः । तामिषुम् अस्तवे – ‘असु क्षेपे’ (धा.पा.१२१०) मद्ब्रह्मज्ञानविरोधिक्षेपाय कुरु । गच्छतीति जगत्, संसारपथचङ्क्रम्यमाणं पुरुषं मा हिंसी: – संसारान्धकूपपतितं मा कार्षीरित्यर्थः ।। ६ ।।

ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढम्

विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति ।। ।।

ततः परमिति । उक्तप्रकारेण तत्प्रार्थनानन्तरम् बृहन्तं निरतिशयबृहत्वाश्रयम्, अत एव परं, यथानिकायं मशकमातङ्गादिशरीरानुरूप्येण सर्वभूतेषु अनुभूतेषु अनुप्रविश्य अन्तर्यामितया वर्तमानम् विश्वं व्याप्य स्थितं तमीश्वरं ज्ञात्वा मुक्ता भवन्ति इत्यर्थः ।। ७ ।।

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।

तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।। ८ ।।

तज्ज्ञानस्य मोक्षसाधनत्वमुक्त्वा इतरस्य तन्निषेधेति – वेदाहमेतमिति । प्रकृतेः परस्तात् ज्योति: महापुरुषं (ज्योतिर्मयवपुषं ?) तमेव पुरुषं विदित्वा मृत्युशब्दितं संसारमतिक्रामति । अयनाय तत्प्राप्तये अन्यो मार्गो नास्ति । एतमर्थमहं वेद – जानामि । अस्मिन्नर्थे विवादो नास्तीति मुनीनां परस्परं वचनमिदम् ।। ८ ।।

[नित्यनिरामयविग्रहत्वम् (परमात्मनः उत्कृष्टत्वम्)]

 यस्मात्परं नापरमस्ति किञ्चित्

यस्मानननाणीयो ज्यायोऽस्ति कश्चित्

वृक्ष इव स्तब्धो दिवि तिष्ठत्येक

स्तेनेदं पूर्णं पुरुषेण सर्वम् ।। ।।

ननु आत्मज्ञानस्यैव ‘तरति शोकमात्मवित्’ (छां.उ.७-१-३) इति मोक्षहेतुत्वमुच्यते । कथमादित्यवर्णविग्रहपुरुषज्ञानस्येत्याशङ्क्य अस्यैव पुरुषस्य व्यापकत्वात् आत्मत्वमपि तस्यैवेत्याह – यस्मादिति । ‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) इति सूत्रे, यस्मादपरं परं नास्ति । केनापि प्रकारेण उत्कृष्टं नास्तीत्यर्थः । इति भाषितम् । व्यासार्यैश्च, यस्मादित्यस्य परमित्यनेनान्वयोऽस्तु । यस्मादुत्कृष्टं नास्तीत्यर्थः । इत्यशङ्क्य, तथा सति अपरम् इत्यस्य वैयर्थ्यप्रसङ्गात् । न च परञ्चापरञ्च नास्तीति उत्कृष्टापकृष्ट- वस्तुनिषेधकत्वं शक्यशङ्कम् – नञ् आवृत्तिप्रसङ्गात् । अतो यस्मादित्यस्यापर- मित्यनेनैवान्वयः । यस्मादन्यत् सर्वोत्कृष्टं नास्तीत्यर्थाश्रयणे तदन्यस्य उत्कृष्टस्य वस्तुन एवाभावात् समाभ्यधिकनिषेधः फलति इति वर्णितम् । यदपेक्षया अतिशयेनान्त:प्रवेशयोग्यं वस्तु नास्ति, यस्माञ्चाधिकं विवृद्धं किमपि वस्तु नास्ति; यश्चाप्राकृते लोके अवाप्तसमस्तकामतया ब्रह्मादिकमपि तृणीकृत्य वृक्ष इव अप्रणतस्वभावस्तिष्टति; तेन, ‘भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेव सनातने’ ।। (पाद्मोत्तर ६-२५४-६६) इत्युक्तप्रकारेण पुरुषशब्दितेन भगवता वासुदेवेनेदं सर्वं ब्याप्तमित्यर्थः । अनेन, जीवाम केन? इति चिन्ताया निस्तारो दर्शितः । पूर्ण मिति व्याप्त्या आत्मात्वे कथिते देहभूतस्य जीववर्गस्य तदधीनजीवनत्वमुक्तं भवति ।। ९ ।।

ततो यदुत्तरतरं तदरूपमनामयम्

एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियंति ।। १० ।।

यस्माद्धेतोः पुरुषापेक्षयोत्कृष्टं वा समं वा नास्ति । तस्मात् तदेव सर्वोत्तरं कर्मकृतरूपरहितं तत्कृतामयशब्दितदुःखशून्यञ्च । तज्ज्ञानमेव मोक्षसाधनमित्युपसंहरति- ततो यदिति । ‘तथान्यप्रतिषेधात्’ (ब्र.सू.३-२-३५) इति सूत्रे, ततो यदुत्तरमिति पूर्वनिर्दिष्टात् पुरुषात् अधिकं वस्तु न प्रतिपाद्यते इत्युक्त्वा तर्हि, ततो यदुत्तरमिति किमुच्यते इति परिचोद्य, पूर्वत्र ‘वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे.उ.३-८) इति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम्, नाऽन्योऽमृतत्वस्य पन्था इत्युपदिश्य, तदुपपादनाय, ‘यस्मात् परन्नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ (श्वे.उ.३-९) इति पुरुषस्य परत्वं तद्व्यतिरिक्तस्य परत्वासम्भवञ्च प्रतिपाद्य, ‘ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति’ (श्वे.उ.३-२) इति पूर्वोक्तमर्थं हेतुतो निमगयति । यत् उत्तरतरं पुरुषतत्त्वं, तदेवारूपमनामयं यतः, ततो ये एतत् पुरुषतत्त्वं विदुः, एवामृता भवन्ति; अथेतरे दुःखमेवापियन्ति इति भाषितम् । अत्र ततश्शब्दः पूर्वोक्तहेतूपसंहारार्थः । न तु पूर्वप्रतिपादितपुरुषस्य प्रतिपिपादयिषितवस्त्वन्तरावधित्वप्रतिपादनपर इति द्रष्टव्यम् । केचिदाचार्याः, ‘तेनेदं पूर्णमिति पूर्ववाक्ये सर्वमिदमिति प्रथमान्तनिर्दिष्टतया प्रधानस्य जगत एव, ततो यदुत्तरतरम् इत्यत्र तच्छब्देन ग्रहणमित्युक्तः । तदपि युक्तमिति वेदार्थसंग्रहव्याख्यानेऽप्युक्तम् ।। १० ।।

सर्वाननशिग्रीवः सर्वभूतगहाशयः

सर्वव्यापी भगवाँस्तस्मात् सर्वगनश्शिव: ।। १५ ।।

नन् ‘तेने पूर्णं पुरुषेण सर्वमिति’ (श्वे.उ.३.१) सर्वशरीरसम्बन्धावगमात् हेयसाबन्धोऽवर्जनीय हत्याशङ्क्याह । सर्वाननेति । सर्वशरीराणां तच्छरीरत्वेन सर्वाननीशीरोग्रीवत्वम् । सर्वभूतहृदयगुहाश्रयत्वात् सर्वभूतगुहाशयत्वम् । अनेनाऽऽकारेण सर्वव्याप्यपि यतो भगवान्, (तस्मात् ?) ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषत: भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।। (बि.पु ६-५-७९) इति हेय. प्रतिभटत्ववाचिभगवच्छब्दार्थतया तस्य पुरुषस्य सर्वगतत्वेऽपि शिवत्वमेव न त्वशुभ सम्बध इति भावः ।। ११ ।।

महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः

सुनिर्मलामिमां शान्तिमीशानो ज्योतिरव्ययः ।। १२ ।।

तज्ज्ञानस्यैव मोक्षसाधनत्वमित्येतत् द्रढयति – महान् इति । वैशब्दोऽवधारणे । पुरुष एव महान् प्रभुः – फलप्रदानसमर्थः । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च’ (भ.गी.९-२४) इत्युक्तः (इत्यत्र?) प्रभुः – फलप्रदः इति भगवता भाष्यकृता व्याख्यातत्वात् प्रकृते मोक्षरूपफलस्य प्रस्तुतत्वात् महच्छब्दसमभिव्याहाराञ्च महाफलरूपमोक्षप्रदः स एवेति तस्य मोक्षहेतुत्वं पूर्वोक्तं स्थिरमिति तत्र हेतुमाह – सत्त्वस्यैष प्रवर्तक इति । ‘जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः’ ।। (महा.भा.मो.प.३४९-७३) इत्युक्तरीत्या मोक्षार्थज्ञानहेतुसत्त्वगुणोन्मेषहेतुभूतकटाक्षशालितया स एव मोक्षप्रद इत्यर्थः । अत एव ज्योतीरूपनिरतिशयदीप्तियुक्तादित्य (वर्णविग्रहः?) पुरुषो अव्ययो भगवानेव सुनिर्मलामिमां – मोक्षरूपां रागाद्युपद्रवशान्तिम् ईशानः – ईष्टे इत्यर्थः ।। १२ ।।

अङ् गुष्टमात्रः पुरुषोऽन्तरात्मा

सदाजनानाँ हृदये सन्निविष्टः

हृदा मनीषा मनसाभिक्लुप्तो

एतद्विदुरमृतास्ते भवन्ति ।। १३ ।।

तज्ज्ञानसाधनमाह अङ् गुष्टमात्र इति । सर्वेषामन्तरात्मा असो हृदयगुहानिहितत्वनिबन्धनाङ्गुष्टपरिमाणयुक्तः पुरुषः हृदा – भक्त्या मनीषा – धृत्या युक्तेनं मनसा अभिक्लुप्तः ग्राह्यः हृन्मनीषशब्दयोः भक्तिधृतिपरत्वम् ‘सर्वत्र प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) इत्यत्र व्यासार्यै: वर्णितम् । शिष्टं स्पष्टम् ।। १३ ।।

[परमपुरुषस्य महिमा]

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्

भूमिं विश्वतो वृत्वाऽत्यतिष्ठत् दशाङ् गुलम् ।। १४ ।।

अङ् गुष्ठमात्रशब्दश्रवणकृतपरिच्छेदभ्रान्तिं व्युदस्यति सहस्रति । अनन्तशिरोनयनादिदिव्यविग्रहयुक्तविराड्रूपि सन् – दशाङ् गुलशब्देनावयवो लक्ष्यते |भूमिशब्देन ब्रह्माण्डम् पञ्चभूतपञ्चतन्मात्रारूपदशावयवयुक्तब्रह्माणमतिक्रम्य परमपदे स्थित इत्यर्थः ।

(सर्वं पुरुषात्मकम् ]

पुरुष एवेदँ सर्वं यद्भूतं यच्च भव्यम्।

उतामृतत्वस्येशानी यदन्नेनातिरोहति ।। १५ ।।

यस्मात् पुरुषेण व्याप्तमिदं सर्वम्, अतः भूतभव्योपलक्षितं प्रपञ्चजातं पुरुषात्मकमेवेत्याह · पुरुष एवेति । (उक्तोऽर्थः) उताऽमृतेति । अत्रामृतशब्देन मुक्तिवाचिना मुक्तिस्थानं लक्ष्यते । अप्राकृतभोग्यभोगोपकरणसमृद्धं यदमृतवं परमपदम् अन्ने प्रकृतिप्राकृतसम्बन्धे नातिरोहति – नोत्पद्यते; तस्याप्यमृतत्वस्यासौ ईशान इत्यर्थः । अतश्चोभयविभूतिनायकत्वमुक्तं भवति ।। १५ ।।

सर्वतः पाणिपादं तत् सर्वतोक्षिशिरोमुखम्

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १६ ।।

सर्वत इति । सर्वतः पाणिपादादिकार्यकारि तत्तत्कार्यमुखेन सर्वमावृत्य तिष्ठतीत्यर्थः । गीताभाष्ये च ‘सर्वतः पाणिपादं तत्’ (भ.गी.१३-१३) इति श्लोकव्याख्यानसमये, ‘परस्य ब्रह्मणः अपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनोऽपि पॅरिशुद्धस्य तत्साम्यापत्या सर्वतः पाणिपादादिकार्यकृत्वं श्रुतिसिद्धमेव; ‘निरञ्जनः परमं साम्यमुपैति’ (मुं.उ.३-१-३) इति हि श्रूयते’ – इति भाषितम् ।। १६ ।।

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहत् ।। १७ ।।

सर्वेन्द्रियेति सर्वेन्द्रियगुणै: – सर्वेन्द्रियजन्यज्ञानै: आभासः प्रकाशो यस्य तत् तथोक्तम् ।  इन्द्रियवृत्या विज्ञातुं समर्थमित्यर्थः । सर्वेन्द्रियवत्वमप्यैच्छिकमेव न स्वाभाविकमित्याह – सर्वेन्द्रियविवर्जितमितिसर्वस्य प्रभुमिति । प्रभुत्वं सेवाफलप्रदत्वेन, ईशानत्वं नियन्तृतया इति द्रष्टव्यम् । ‘निवासः शरणं सुहृद्गतिः नारायणः’ (सुबा.उ. ६ खं) इति श्रुतेः निरवधिकवात्सल्यशालि प्राप्यञ्च इत्यर्थः । अत्र ईशानशब्दस्य नपुंसकलिङ्गत्वात् न देवताविशेषप्रत्यायकत्वशङ्कावकाश इति व्यासार्वैर्वर्णितम् ।। १७ ।।

[जीवविलक्षणत्वम्]

नवद्वारे पुरे देही हंसो लेलायते बहिः

वशी सर्वस्य लोकस्य स्थावरस्य चरस्य ।। १८ ।।

ननु सर्वतः पाणिपादत्वादिकं गीतासु परिशुद्धात्मस्वरूपेण प्रसिद्धम् । ततश्च परिशुद्धस्वरूपस्यैव सर्वप्रभुत्वेशानत्वादिकमवगम्यत इति शिष्यशङ्कां शमयति नवद्वार इति । मलप्रस्रवणद्वारतया हेयैः नवभिर्द्वारैर्युक्ते पुरवत् स्वात्यन्तभिन्ने अहमित्यभिमन्यमानो नानादेहसञ्चरणजंघालतया हंसशब्दितो जीवो नानादेहेषु उच्चावचयोनिषु लेलायते – गतागतं कुर्वन् परतन्त्रतया बम्भ्रमीतीति । अतः तस्य सर्वप्रभुत्वे का प्रसक्तिः? अतः ततः बहिः – बाह्य एव स्थावरजङ्गमात्मकसर्वलोकसंसारतन्त्रवाहीत्यर्थः ।। १८ ।।

[अभेदव्यबहारनिर्वाहकत्त्वम्]

अपाणिपादो जवनो ग्रहीता

पश्यत्यचक्षुः शृणोत्यकर्णः

वेत्ति वेद्यं तस्यास्ति वेत्ता

तमाहुरग्र्यं पुरुषं महान्तम् ।। १९ ।।

अपाणीति । पाणिपादाद्यभावेऽपि तत्कार्यकारी इतरावेद्यः स्वयं सर्वज्ञः यः, तमादिकारणं महापुरुषं वदन्तीत्यर्थः ।

अणोरणीयान् महतो महीया

नात्मा गुहायां निहितोऽस्य जन्तोः

तमक्रतुं पश्यति वीतशोको

धातुः प्रसादान्महिमानमीशम्।। २० ।।

अणोरिति । सकलसूक्ष्मवस्त्वन्तःप्रवेशयोग्यसौक्ष्मवान् निरतिशयबृहत्वशाली एवम्भूतः अस्य जन्तोः प्राणिनो जीवस्य आत्मा प्रेरकस्सन् सर्वजीवस्य हृदय- गुहायामास्ते । जन्तोरित्येतत् आत्मा इत्यत्रापि च संबध्यते; आकाङ्क्षासत्त्वात् । गुहायाम् इति निर्दिष्टहृदयगुहायामपि ‘सम्बध्यते । तादृशम् अक्रतुं – कर्मलेपशून्यं महामहिमशालिनमीशं यदा पश्यति, तदा धातुः धारकस्य परमात्मनः प्रसादात् वीतशोको भवति । ‘प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः’ इति स्मृतेः । ततश्च ध्यानसाध्यपरमात्मप्रसादनिर्वर्त्यतया ज्ञाननिवर्त्यत्वेन (प्रसादनिवर्त्यतया (ज्ञाननिवर्त्यत्वेन?) बन्धस्य मिथ्यात्वं प्रत्युक्तम् ।। २० ।।

वेदाहमेतमजरं पुराणं

सर्वात्मानं सर्वगतं विभुत्वात्

जन्मनिरोधं प्रवदन्तियस्य

ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ।। २१ ।।

।। इति तृतीयोध्यायः ।।

वेदाहमिति यस्य विभुत्वेन जन्माभावं प्रकर्षेण वदन्ति, तमजरं पुरातनं सर्वगतत्वात् सर्वात्मानं अहं वेद – जाने इत्येवं ब्रह्मवादिनः नित्यं वदन्तीत्यर्थः ।। २१ ।।

।। इति तृतीयाध्याय प्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.