प्रयोजनवत्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ प्रयोजनवत्वाधिकरणम्॥१०॥ न प्रयोजनवत्त्वात् ॥२–१–३२॥ जन्मजरामरणादिदुःखबहुळम् जगत्सृजतोऽवाप्तसमस्तकामस्य परमात्मनः प्रवृत्तेः स्वार्थत्वपरार्थत्वासम्भवात् प्रयोजनानुद्देशेन प्रेक्षावत्प्रवृत्तेरयोगात् प्रवृत्तिर्नोपपद्यत इति पूर्वः पक्षः। सिद्धान्तस्तु – लोकवत्तु लीलाकैवल्यम् ॥२–१–३३॥ यथा महाराजस्यापि केवललीलाप्रयोजनाः कन्दुकादिक्रीडा दृष्टाः एवम् परमात्मनोऽपि केवललीलार्था जगत्सृष्ट्यादिप्रवृत्तिरिति। वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥२–१–३४॥ ननु विषमम् देवमनुष्यतिर्यगादि सृजतः परमात्मनो वैषम्यम् प्रसजेत्, अतिघोरनरकादिसृष्ट्या […]
कृत्स्नप्रसक्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ कृत्स्नप्रसक्त्यधिकरणम् ॥९॥ कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२–१–२६॥ दृष्टान्ततयोपन्यस्तस्य क्षीरजलादेस्सावयवत्वदर्शनात् तद्वद्ब्रह्मणोऽपि सावयवत्वम् स्यात्, निरवयवत्वे कृत्स्नप्रसक्तिर्वा स्यादिति शङ्कया-सङ्गतिः। कारणावस्थायाम् निरस्तचिदचिद्विभागतया निरवयवमेव ब्रह्म कार्या-वस्थायाम् *बहुस्यामि*(छान्.६-२-२)ति सङ्कल्प्य आकाशवाय्वाद्य-चिद्विभागम् ब्रह्मादिस्तम्बपर्यन्त क्षेत्रज्ञविभागम् चाभवदित्युक्तम्। एवम् सति परम् ब्रह्म कृत्स्नम् कार्यत्वेनोपयुक्तमित्यङ्गीकार्यम्। यदि ब्रह्मणि अम्शभेदम् परिकल्प्य चिदम्शस्य क्षेत्रज्ञविभागविभक्तत्वम्, अचिदम्श-स्याकाशादिविभागविभक्तत्वम् परिकल्प्यते, तदा कारणीभूतस्य ब्रह्मणो निरवयवत्ववादिनीनाम् श्रुतीनाम् […]
उपसम्हारदर्शनाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ उपसम्हारदर्शनाधिकरणम् ॥८॥ उपसम्हारदर्शनान्नेति चेन्न क्षीरवद्धि ॥२–१–२४॥ सत्यसङ्कल्पत्वादिभिः परस्य ब्रह्मणः वैलक्षण्यम् प्रतिपादितम्। तत्र सङ्कल्पमात्रपरिकरत्वम् ब्रह्मणो जगत्सृष्टावनुपपन्नमिति शङ्काया उत्थानात् सङ्गतिः। लोके तत्तत्कार्यजननोपयोगिसामर्थ्यवतोऽपि तत्तदुपकरणसापेक्षत्व-दर्शनात् सर्वशक्तेः परब्रह्मणः *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-१) त्यादि श्रुतिभिस्सृष्टेः प्रागसहायत्वात् उपकरणशून्यत्वेन उपकरण-निरपेक्षजगत्स्रष्टृत्वम् न सम्भवतीति चेन्न। क्षीरजलादेः दधिहिमादि-जननशक्तस्य दधिहेमादिजनने यथा वा नोपकरणाद्यपेक्षत्वम् तथा ब्रह्मणस्सर्वशक्तेरुपकरणनिरपेक्षम् सर्वजगत्स्रष्टृत्वमुपपद्यते। क्षीरादि-ष्वातञ्चनाद्यपेक्षा […]
इतरव्यपदेशाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ इतरव्यपदेशाधिकरणम् ॥७॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥२–१–२१॥ जगतो ब्रह्मानन्यत्वप्रतिपादकैः *तत्वमसी*(छान्.६-८-७) त्यादिभिः जीवस्यापि ब्रह्मानन्यत्वम् प्रतिपाद्यत इत्युक्तम्। तत्रेदम् चोद्यते – यदीतरस्य जीवस्य ब्रह्मभावः एतद्वाक्यप्रतिपाद्यः, तदा ब्रह्मणस्सार्व-ज्ञ्यादिविशिष्टस्य हितरूपजगत्सृष्टिः अहितरूपजगदसृष्टिरित्यादि-दोषप्रसङ्गः। अतः ब्रह्मणो जगत्कारणत्वम् न सम्भवतीति पूर्वःपक्षः। सिद्धान्तस्तु – अधिकन्तु भेदनिर्देशात् ॥२.१.२२॥ तुशब्दः पक्षम् व्यावर्तयति। आध्यात्मिकादिदुःखयोगार्हात् प्रत्य-गात्मनः अधिकमर्थान्तरभूतम् ब्रह्म। कुतः? भेदनिर्देशात्। *य […]
आरम्भणाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ आरम्भणाधिकरणम् ॥७॥ नविलक्षणत्वाधिकरणे कारणस्य ब्रह्मणः कार्यस्य जगतो वैलक्षण्येऽपि साङ्ख्यम् प्रत्यनन्यत्वम् साधितम्। वैलक्षण्यस्य भेदव्याप्तत्वात्। अत एव कुण्डलहिरण्ययोरप्यनन्यत्वमसिद्धम्। सर्वत्र कार्यकारणयोर्बुद्धिशब्दादिभिर्भेदावश्यम् भावादिति वदतो वैशेषिकस्य मतमास्थायानन्यत्वमाक्षिप्येदानीम् समाधीयत इति सङ्गतिः। अत्र उपादेयमुपादानादन्यदेव। घटेनोदकमाह्रियते मृत्पिण्डेन घटादिकम् निर्मीयत इति कार्यभेदात्, घटस्य दण्डचक्रादिकम् कारणम् मृत्पिण्डस्य जलसम्योजनमर्दनादीति कारणभेदात्, तथा घटः पृथुबुध्नो-दराकारः मृत्पिण्डस्त्वतदाकार […]
भोक्त्रापत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ भोक्त्रापत्त्यधिकरणम् ॥५॥ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥२–१–१४॥ पूर्वाधिकरणस्यातिदेशाधिकरणत्वात्तत्पूर्वाधिकरणेन सङ्गत-मिदमधिकरणम्। तत्र हि *न तु दृष्टान्तभावादि*(ब्र.सू.२-१-९)ति सूत्रेण शरीरगतबालत्वयुवत्वादीनाम् शरीरिण्यप्रसक्तिम् दृष्टान्तीकृत्य चिदचिच्छरीरकम् ब्रह्मेति तद्गतदोषाणाम् ब्रह्मण्यप्रसक्तिरुक्ता। इयमनुप-पन्ना। जीववच्छरीरित्वे तत्कृतसुखदुःखावश्यम्भावात् इत्याक्षेपिकी सङ्गतिः। *यस्यात्मा शरीरम्*(बृह.५-६-२१) *यस्य पृथिवी शरीर*(बृह.५-७-१) मित्यादिना सर्वस्यापि परमात्मशरीरतया जीववत्परमात्मनोऽपि शरीरम् प्रति स्वामित्वे सति *न ह वै सशरीरस्ये*(छान्.८-१२-१)त्यादिना परमात्मनोऽपि प्रियाप्रियभोक्तृत्वमवर्जनीयमिति जीवेश्वरस्वभावाविभाग […]
शिष्टापरिग्रहाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ शिष्टापरिग्रहाधिकरणम् ॥४॥ प्रधानकारणवादिसाङ्ख्यतर्कमात्रेण समन्वयभङ्गाभावेऽपि परमाणु-कारणवादिकणभक्षाक्षचरणक्षपणकादिबहुतान्त्रिकाभिमततर्कै स्समन्वय भङ्गस्स्यादिति अधिकाशङ्कानिरासाय पूर्वन्यायातिदेशार्थमिदमधि-करणम्। परमाणुकारणवादिनाम् तर्कैस्समन्वयभङ्गस्सम्भवति न वेति विशये सम्भवत्येव समन्वयभङ्गः। न च तेषाम् तर्काणाम् परस्परविरोध-सम्भवेन तद्भञ्जनसामर्थ्यम् नास्तीति शक्यम् वक्तुम्। यथा शुनाम् परस्परविरोधसत्त्वेऽपि एकम् वराहमैकमत्येन मारयितुम् तद्भक्षण-लिप्सया प्रवृत्तानाम् सर्वेषाम् शुनाम् तदलाभेऽपि वराहस्य मारणम् भवति, एवम् परमाणवस्सत्याः शून्याः विज्ञानात्मकाश्चतुर्विधा […]
विलक्षणत्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ विलक्षणत्वाधिकरणम् ॥३॥ मन्वादिस्मृतिभिरेवोपबृम्हणम् कार्यमित्युक्तमयुक्तम् तासाम् तर्क विरुद्धत्वात्। अतस्तर्कानुगृहीतया साङ्ख्यस्मृत्यैवोपबृम्हणम् कार्यमिति प्रत्यवस्थानात्सङ्गतिः। न विलक्षणत्वादस्य तथात्वम् च शब्दात् ॥२–१–४॥ ब्रह्मणो जगद्विलक्षणत्वेनोपादानत्वम् न सम्भवति। घटरुचकादिषु सलक्षणानामेव मृत्सुवर्णादीनामुपादानत्वम् दृष्टम्। प्रकृते च ब्रह्मजगतो-र्विलक्षणत्वम् *विज्ञानञ्चाविज्ञानञ्चे*( तै.आन.६-३)ति विज्ञानत्व-प्रतिपादकशब्दादेवावगम्यते ननु जगतोऽचेतनत्वेन *तम् पृथिव्यब्रवीदि*(तै.यजुः सम्.५-५-२) ति अचेतनाया मृदो वक्तृत्वम् नोपपद्यते तत्राह – अभिमानिव्यपदेशस्तु […]
योगप्रत्युक्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ योगप्रत्युक्त्यधिकरणम् ॥२॥ अत्रापि विषयसम्शयपूर्वपक्षसिद्धान्तहेतवः पूर्ववद्द्रष्टव्याः। हिरण्यगर्भस्य भ्रमासम्भवात् तत्कृतशास्त्रस्येश्वराभ्युपगमेन श्वेताश्वत-रोपनिषदाद्युक्त योगानुष्ठानवर्णनेन च कपिलादि स्मृतिवैलक्षण्येन च वेदान्तान्तरङ्गत्वात्तेनोपबृह्मणम् कार्यमित्यधिकाशङ्का। ईश्वराधिष्ठित – प्रधानकारणतया च ब्रह्मकारणत्वमपि युक्तमित्ये-तदयुक्तम्। हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रमसम्भवात् तत्कृतशास्त्रा-स्यापि भ्रममूलत्वसम्भवादब्रह्मात्मकप्रधानकारणवादस्य निमित्तमात्रे-श्वरस्याभ्युपगमाद्वेदान्तोदितध्येयापेक्षया विलक्षणध्येयविधानाच्च विरुद्धत्वेन न हिरण्यगर्भस्मृतिरनुरोद्धव्येति परिहारश्च द्रष्टव्यः। एतेन योगः प्रत्युक्तः ॥२–१–३॥ एतेन निमित्तोपादानभेदनिराकरणेनैव हिरण्यगर्भमतमनादर-णीयमिति सूत्रार्थः ॥ […]
स्मृत्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयोऽद्ध्यायः ॥ द्वितीयाध्यायस्य प्रथम पादः ॥ स्मृत्यधिकरणम् ॥१॥ स्मृतयनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥२–१–१॥ अतीतपञ्चत्रिम्शदधिकरणन्यायातिदेशरूपत्वात्सङ्गतिः। पूर्वस्मिन्नध्याये सर्वज्ञम् सत्यसङ्कल्पम् ब्रह्मैव जगतो निमित्त-मुपादानकारणम् चेति श्रुतयः प्रतिपादयन्तीत्युक्तम्। तत्र सम्भावितसर्व-विधविरोधसमाधानेन तदेव स्थिरीकर्तुम् द्वितीयाध्याय आरभ्यते। तत्र प्रथमाधिकरणे साङ्ख्यस्मृतिविरोधेन वेदान्तानामन्यपरत्वाशङ्का निरा- क्रियते। ननु स्मृतिविरोधे श्रुतेरान्यपर्यशङ्का निरालम्बना, पूर्वतन्त्रे औदुम्बरीसर्वस्पर्शनस्मृत्या श्रुतेरन्यपरत्वस्य निरस्तत्वादिति चेन्न। वेदान्तानामतिगहननानाप्रकाराणाम् स्फुटार्थानामपि वेदार्थोऽयम् स्वयम् ज्ञातस्तत्राज्ञानम् […]