प्रयोजनवत्वाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः

प्रयोजनवत्वाधिकरणम्१०

न प्रयोजनवत्त्वात्३२

  जन्मजरामरणादिदुःखबहुळम् जगत्सृजतोऽवाप्तसमस्तकामस्य परमात्मनः प्रवृत्तेः स्वार्थत्वपरार्थत्वासम्भवात् प्रयोजनानुद्देशेन प्रेक्षावत्प्रवृत्तेरयोगात् प्रवृत्तिर्नोपपद्यत इति पूर्वः पक्षः। सिद्धान्तस्तु –

लोकवत्तु लीलाकैवल्यम्३३

यथा महाराजस्यापि केवललीलाप्रयोजनाः कन्दुकादिक्रीडा दृष्टाः एवम् परमात्मनोऽपि केवललीलार्था जगत्सृष्ट्यादिप्रवृत्तिरिति।

वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति३४

ननु विषमम् देवमनुष्यतिर्यगादि सृजतः परमात्मनो वैषम्यम् प्रसजेत्, अतिघोरनरकादिसृष्ट्या निर्घृणत्वम् च प्रसजेदिति चेन्न।  तत्तत्कर्मानुसारेण कर्मसापेक्षतया सृजतो न पक्षपातादिदोषप्रसक्तिः। *साधकारी साधुर्भवति पापकारी पापी भवति*(बृह.६-४-५)। *निमित्त-मात्रमेवासौ सृज्यानाम् सर्गकर्मणि। प्रधानकारणीभूता यतो वै सृज्य-श्क्तय*(वि.पु.१-४-५०) इति श्रुतिस्मृतिप्रमाणम् दर्शयति। अतो वैषम्य-नैर्घृण्ये नेति।

न कर्माविभागादिति चेन्नानादित्वादुपपद्यते

चाप्युपलभ्यतेच३५

ननु प्रळये जीवस्य ब्रह्मणाऽविभागेन तदाश्रीतानाम् च कर्मणामभावात् सर्गाद्यसृष्टौ स्वेच्छया तरतमभावापन्नम् जगत्सृजतो वैषम्यादि-कमपरिहार्यमिति चेन्न। जीवानामनादित्वात् तदानीम् कर्मणामपि सत्वान्न वैषम्यादिप्रसङ्गः। न च जीवानामनादित्वे प्रळये *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-१)ति अविभागो नोपपद्यत इति वाच्यम्। अविभक्तनामरूपतया भेदकाकारस्फुरणमात्रेण अविभाग-व्यवहारोपपत्तेः। तदनादित्वञ्च *न जायते म्रियते वा विपश्चित्*(कठ.१-२-१८) *प्रकृतिम् पुरुषम् चैव विध्यनादी उभावपी*(गी.१३-१९)ति श्रुतिस्मृतिषूपलभ्यते।

सर्वधर्मोपपत्तेश्च३६

   प्रधानादिषु असम्भावितानामपि सृष्ट्युपयुक्तसार्वज्ञ्यसर्वशक्त्यादि- सकलधर्माणाम् परमात्मन्येवोपपत्तेः परमात्मैव जगत्कारणमिति स़ृष्टेर्लीलाप्रयोजनत्वम् सिद्धम् ॥

इति प्रयोजनवत्त्वाधिकरणम्

—————

इति श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयस्याध्यायस्य प्रथमः पादः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.