स्मृत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयोद्ध्यायः

द्वितीयाध्यायस्य प्रथम पादः

स्मृत्यधिकरणम्

स्मृतयनवकाशदोषप्रसङ्ग इति

चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्

अतीतपञ्चत्रिम्शदधिकरणन्यायातिदेशरूपत्वात्सङ्गतिः।

पूर्वस्मिन्नध्याये सर्वज्ञम् सत्यसङ्कल्पम् ब्रह्मैव जगतो निमित्त-मुपादानकारणम् चेति श्रुतयः प्रतिपादयन्तीत्युक्तम्। तत्र सम्भावितसर्व-विधविरोधसमाधानेन तदेव स्थिरीकर्तुम् द्वितीयाध्याय आरभ्यते। तत्र प्रथमाधिकरणे साङ्ख्यस्मृतिविरोधेन वेदान्तानामन्यपरत्वाशङ्का निरा- क्रियते। ननु स्मृतिविरोधे श्रुतेरान्यपर्यशङ्का निरालम्बना, पूर्वतन्त्रे औदुम्बरीसर्वस्पर्शनस्मृत्या श्रुतेरन्यपरत्वस्य निरस्तत्वादिति चेन्न। वेदान्तानामतिगहननानाप्रकाराणाम् स्फुटार्थानामपि वेदार्थोऽयम् स्वयम् ज्ञातस्तत्राज्ञानम् भवेदपि। *ऋषिभिर्निश्चिते तस्मिन् का शङ्का स्यान्महात्मभिरि* त्युक्तरीत्या उपबृह्मणनिश्चेयार्थत्वे साङ्ख्यव्यासादिस्मृत्योः कया स्मृत्या उपबृह्मणम् न्याय्यमिति सम्शये साङ्ख्यस्मृत्यैवोपबृह्मणम् कार्यम्। तथा हि *सदेव सोम्येदमग्र आसीत्* (छान्.६-२-१), *असद्वा इदमग्र आसीत्*(तै.आन.७-१), *तद्धेदम् तर्ह्यव्याकृतामसीदि*(बृह.३-४-७)त्येवम् रूपश्रुतीनाम् परस्पर-विरुद्धार्थतया प्रतीयमानानाम् स्वतोऽर्थनिर्णयासमर्थानाम् तत्वप्रतिपादक-सर्वज्ञकपिलस्मृत्यनुसारेणार्थनिर्णयो वाच्यः। इतरधा साङ्ख्यस्मृते-र्मन्वादिस्मृतिवत् कर्मस्वरूपेऽप्यवकाशाभावेनानवकाशत्वरूपो दोषः प्रसज्येतेति तत्र *स्मृत्यनवकाशदोषप्रसङ्ग*(ब्र.सू.२-१-१) इति सूत्रखण्डेन पूर्वपक्षम् कृत्वा *नान्यस्मृत्यनवकाशदोषप्रसङ्गादि*(ब्र.सू.२-१-१)ति सूत्रशेषेण *इतरेषाञ्चानुपलब्धे*(ब्र.सू.२-१-२)रिति सूत्रशेषेण च सिद्धान्तः कृतः। *यद्वै किञ्च मनुरवदत्तद्भेषजमि*(तै.यजुः सम्.२-३, अष्ट.३-२)ति श्रुतिप्रतिपादितप्रामाण्यानाम् श्रुत्यविरुद्धानाम् भूयसीनाम् मन्वादि-स्मृतीनाम् प्रधानकारणवादेऽनवकाशप्रसङ्गेन श्रुतिविरुद्धाया अतादृश्या एकस्यास्साङ्ख्यस्मृतेरनादरणीयत्वमुचितम्। मन्वादिस्मृतयो हि ऐककण्ठ्येन परमात्मानमभिदधति। यथाह मनुः – *आसीदिदम् तमोभूतमि*(मनुस्मृ.१-४)त्यारभ्य ततस्स्वयम्भूर्भगवानव्यक्तो व्यञ्ज-यन्निदम्। महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ *सोऽभिध्याय शरीरा-त्स्वात्सिसृक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तास वीर्यमपासृजदि* (मनुस्मृ.१-८)ति। भगवद्गीतासुच *अहम् कृत्स्नस्य जगतः प्रभवः प्रळयस्तथा*(गी.७-६)। अहम् सर्वस्य प्रभवो मत्तस्सर्वम् प्रवर्तत*   (गी.१०-८) इति ॥ श्रीमहाभारते *कुतस्सृष्टमिदम् सर्वम् जगत्स्थावर-जङ्गमम्। प्रळये च कमप्येति तन्मे ब्रूहि पितामहे*(म.भा.शा.मो.धर्मः. ८-१-१)ति पृष्ट आह *नारायणो जगन्मूर्तिरनन्तात्मा सनातन* (म.भा.शा. मो.धर्मः.८-१-१३) इति, तथा *तस्मादव्यक्तमुत्पन्नम् त्रिगुणम् द्विजसत्तमे*(म.भा.शा.मो.धर्मः.८-१-१८)ति, *अव्यक्तम् पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयत*(म.भा.शा.मो.धर्मः.८-४-१४) इति च। आह च भगवान् पराशरः – *विष्णोस्सकाशादुद्भूतम् जगत्तत्रैव च स्थितम्। स्थितिसम्यमकर्ताऽसौ जगतोऽस्य जगच्च स*(वि.पु.१-१-३१) इति। आह चापस्तम्बः *पूः प्राणिनस्सर्व एव गुहाशयस्ये*(आप. धर्म.सू.२२-१-२) त्यारभ्य *तस्मात्कायाः प्रभवन्ति सर्वे स मूलम् शाश्वतिकस्स नित्य*(आप.धर्म.सू.१२-१-२) इति। न च मन्वादि-स्मृतीनाम् कर्मस्वरूपे सावकाशत्वम् शक्यम् वक्तुम्। कर्माराध्यपर-मात्मस्वरूपेऽपि तात्पर्यसम्भवात् ॥

ननु कपिलेन मन्वाद्यभिमतस्य परमात्मनोऽनुपलब्धेः तत्राप्रामा-णिकत्वमिति चेत्तत्राह –

इतरेषाम् चानुलब्धेः

इतरेषाम् मन्वादीनाम् बहूनाम् वैदिकानाम् साङ्ख्योक्तप्रकारेण तत्वानुपलब्धेः साङ्ख्यस्मृतिर्नानुरोद्धव्येति। न च श्रुतीनाम् सदसद-व्याकृतादिना कारणत्वप्रतिपादकत्वदर्शनात् साङ्ख्यस्मृतिप्रतिपादित-प्रधानकारणत्वाश्रयणम् न युक्तमिति वाच्यम्। *असद्वा इदमग्र आसीत्*(तै.आन.७-१) इत्यत्र *सोऽकामयते*(तै.आन.७-१)ति प्रकृतस्य ब्रह्मण एव *तदप्येष श्लोको भवती*(तै.आन.७-१)ति समाकृष्य *असद्वा इदमग्र आसीदि*(तै.आन.७-१)त्यभिधानादसच्छब्दस्सूक्ष्मचिदचिद्विशिष्ट- ब्रह्मपर इति *तद्वेदम् तर्ह्यव्याकृतमासीदि*(बृह.३-४-७)त्यत्रापि अव्याकृतस्य *स एष इह प्रविष्ट आनखाग्रेभ्यः*(बृह.३-४-७) *पश्यत्यचक्षुस्सश्रृणोत्यकर्ण*(श्वेत.३-१२) इत्यादिनोत्तरत्र समाकृष्यमाणत्वात् पश्यत्वादीनामचेतने अभावात् अव्वाकृतशब्दोऽपि अव्याकृतशब्दिताव्यक्तशरीरकपरमात्मपर इति च वक्तुमुचितत्वान्नास्या-श्शङ्काया अवकाश इति न साङ्ख्यस्मृतिरनुरोद्धव्येति।

इति स्मृत्यधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.