श्रीभाष्यम् 01-03-27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

अर्थान्तरत्वादिव्यपदेशाधिकरणम् (अधिकरणार्थः – नाम-रूपनिर्वोढा आकाशः, परमात्मा) (दहरविद्याशेषभूतम्  छा.उ. 8-14) १०७. आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ १–३–४२ ॥ (विषयवाक्यप्रदर्शनम्) छान्दोग्ये श्रूयते आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा (छां.८.१४.१) इति । (संशयाकारः) तत्र संशय: – किमयमाकाशशब्दनिर्दिष्टो मुक्तात्मा, उत परमात्मा – इति। (पूर्वपक्षः) किं युक्तं? मुक्तात्मेति। कुत😕 अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं […]

श्रीभाष्यम् 01-03-26A प्रमिताधिकरणशेष:

(श्रीशारीरकमीमासांभाष्ये प्रमिताधिकरणशेष🙂 (पूर्वेणाधिकरणेन प्रसक्तिः) तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठप्रमितस्य भूतभव्येशितृत्वावगत परब्रह्मभावोत्तम्भनं हेत्वन्तरमाह – १०५. कम्पनात् ॥ १–३–४० ॥ (सूत्रार्थविवृतिः) अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति (कठ.२.४.१२) अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा (कठ.२.६.१७) इत्यनयोर्वाक्ययोर्मध्ये यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते  भवन्ति। भयादस्याग्निस्तपति भयात्तपति सूर्य:। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम: (कठ.२.६.४,२) इति कृत्स्नस्य जगतोऽग्निसूर्यादीनां चास्मिन्नङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां […]

श्रीभाष्यम् 01-03-26 अपशूद्राधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम्॥ (अधिकरणार्थः – त्रैवर्णिकेतरेषां ब्रह्मविद्यासु अनधिकारः) (संवर्गविद्या, छा.उ. 4-1,2,3) ९८. शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ १–३–३३ ॥ (विषयसंशययोः स्वरूपम्) ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति न वेति विचार्यते; किं युक्तम्? अस्तीति। कुत:  अर्थित्वसामर्थ्यप्रयुक्तत्वादधिकारस्य, शूद्रस्यापि तत्सम्भवात्। (शूद्रेषु कर्मानधिकारः-विद्याधिकारयोः उपपत्तिः) यद्यप्यग्निविद्यासाध्येषु कर्मस्वनग्निविद्यत्वाच्छूद्रस्यानधिकार:; तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य तत्राधिकारोऽस्त्येव, शास्त्रीयक्रियापेक्षत्वेऽप्युपासनस्य तत्तद्वर्णाश्रमोचितक्रियाया एवापेक्षितत्वाच्छूद्रस्यापि स्ववर्णोचितपूर्ववर्णशुश्रूषैव क्रिया भविष्यति। तस्माच्छूद्रो यज्ञेऽनवकॢप्त: (यजु.का.७.१.१.१) इत्यप्यग्निविद्यासाध्ययज्ञादिकर्मानधिकार एव न्यायसिद्धोऽनूद्यते। (अश्रुत-वेदवेदान्तस्यापि शूद्रस्य उपासनोपपत्तिः) नन्वनधीतवेदस्याश्रुतवेदान्तस्य […]

श्रीभाष्यम् 01-03-25 मध्वधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥ (अधिकरणार्थः – वस्वादिपदं प्राप्तानामपि मधुविद्यादिषु अधिकारः) (मधुविद्या (छा.उ. 3-1), ज्योतिषां ज्योतिर्विद्या च) ९५. मध्वादिष्वसम्भवादनधिकारं जैमिनि: ॥ १–३–३०॥ (पूर्वोत्तरार्थयोः साङ्गत्यं, प्रकृतो विषयश्च) ब्रह्मविद्यायां देवादीनामधिकारोऽस्तीत्युक्तम्  ॥ (संशयाकारः) इदमिदानीं चिन्त्यते – येषूपासनेषु या देवता एवोपास्या: तेषु तासामधिकारोऽस्ति न इति, (जैमिनेर्मतम्) (पूर्वः पक्षः) किं प्राप्तम्? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते; कुत😕 असम्भवात् – नह्यादित्यवस्वादिभिरुपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति। न च वस्वादीनां […]

श्रीभाष्यम् 01-03-24 देवताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये एतद्गर्भे देवताधिकरणम्॥७॥ (अधिकरणार्थः – श्रुत्युक्तब्रह्मोपासनाधिकारः देवानामप्यस्त्येव) (विद्यासामान्यसम्बन्धि) ९०. तदुपर्यपि बादरायणस्सम्भवात् ॥ १–३–२५ ॥ (विषयसंशययोः प्रदर्शनम्) परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम्। तत्प्रसङ्गेनेदानीं ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति नास्तीति विचार्यते। (पूर्वपक्षः सयुक्तिकः) किं तावद्युक्तम्? नास्ति देवादीनामधिकार इति। कुत😕 सामर्थ्याभावात् । न ह्यशरीराणां देवादीनां विवेकविमोकादिसाधनसप्तकानुगृहीत–ब्रह्मोपासनोपसंहारसामर्थ्यमस्ति। न च देवादीनां सशरीरत्वे प्रमाणमुपलभामहे। (देवादीनां विग्रहसम्बन्धस्य प्रमाणतोऽसिद्धिः) यद्यपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्तिसम्भावनया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; […]

श्रीभाष्यम् 01-03-23 प्रमिताधिकरणम्

॥श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम्॥६॥ (अधिकरणार्थः – अङ्गुष्टपरिमाणपरिमितत्वेन श्रुत्युक्तः परमात्मैव, न कर्मवश्यो जीवः) (अङ्गुष्टप्रमितविद्या – नाचिकेतविद्या वा कठ.उ. 4-12)) ८८. शब्दादेव प्रमित: ॥ १–३–२३ ॥ (विषयवाक्यप्रदर्शनम्) कठवल्लीषु श्रूयते अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति।  ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वैतत् (कठ.२.४.१२) अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवाधूमक:। ईशानो भूतभव्यस्य स एवाद्य स उ श्व:। एतद्वैतत् (कठ.२.४.१३) अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट:। […]

श्रीभाष्यम् 01-03-22 दहराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम्॥५॥ (अधिकरणार्थः – दहराकाशशब्दवाच्यः परमात्मैव, न भूताकाशः, नापि प्रत्यगात्मा) (दहरविद्या – छा.उ. 8-1) ७८. दहर उत्तरेभ्य: ॥ १–३–१३ ॥ (विषयवाक्यप्रदर्शनम्) इदमामनन्ति छन्दोगा: अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासतिव्यम् (छां.८.१.१) इति। (संशयाकारप्रदर्शनम्) तत्र सन्देह: – किमसौ हृदय पुण्डरीकमध्यवर्ती दहराकाशो महाभूतविशेष:, उत प्रत्यगात्मा, अथ परमात्मा – इति। (पूर्वपक्षः) किं तावद्युक्तम्? महाभूतिविशेष इति। कुत😕 आकाशशब्दस्य […]

श्रीभाष्यम् 01-03-21 ईक्षतिकर्माधिकरणम्

श्रीशारीरमीमांसाभाष्ये ईक्षतिकर्माधिकरणम्॥४॥ (अधिकरणार्थः – पुरुषमीक्षते इत्युक्तेक्षणक्रियाकर्मभूतः पुरुषशब्दवाच्योऽर्थः परमात्मैव, न समष्टिपुरुषः) (त्रिमात्रप्रणवपुरुषविद्या – प्रश्न.उ. 5-5) ७७. ईक्षितकर्म व्यपदेशात्स: ॥ १–३–१२ ॥ (विषयवाक्यप्रदर्शनम्) आथर्वणिकास्सत्यकामप्रश्नेऽधीयते – य: पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्न:। यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तस्स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते (प्रश्न.५.५) इति। (ध्यै धातोः ईक्षण धातोश्च अत्र समानकर्मकता) […]

श्रीभाष्यम् 01-03-20 अक्षराधिकरम्

श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरणम् (अधिकरणार्थः – अक्षरशब्दवाच्यः प्रधानस्यापि आधारतया निर्दिष्टः परमात्मैव) (गार्ग्यक्षरविद्या बृ.उ. 5-8) ७४. अक्षरमम्बरान्तधृते: ॥ १–३–९ ॥ (विषयवाक्यप्रदर्शनम्) वाजसनेयिनो गार्गीप्रश्ने समामनन्ति सहोवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु अह्रस्वमदीर्घमलोहितमस्नेहमच्छायम् (बृ.५.८.८) इत्यादि। (संशयप्रकारः) तत्र संशय: – किमेतदक्षरं प्रधानम्, जीवो वा उत परमात्मा इति। किं युक्तम्? प्रधानमिति। कुत😕 अक्षरात्परत: पर: (मु.२.१.२) इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात्। (सिद्धान्तिनः पार्श्वस्थस्य […]

श्रीभाष्यम् 01-03-19 भूमाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम्॥२॥ (अधिकरणार्थः – भूमशब्दवाच्यम्, सत्यशब्दनिर्दिष्टं परं ब्रह्मैव, न जीवादिः) (भूमविद्या – छा.उ. 7-1) ७२. भूमा सम्प्रसादादध्युपदेशात् ॥ १–३–७ ॥ (विषयवाक्यनिर्देशः) इदमामनन्ति छन्दोगा: यत्र नान्यपत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् (छां.७.२४.१) इति। (अत्र भूमशब्दार्थनिर्वचनम्) अत्रायं भूमशब्दो भावप्रत्ययान्तो व्युत्पाद्यते। तथा हि पृथ्वादिषु बहुशब्द: पठ्यते । तत: पृथ्वादिभ्य इमनिज्वा (अष्टा.५.१.१२२) इति इमनिच्प्रत्यये कृते बहोर्लोपो भू […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.