श्रीभाष्यम् 01-03-26A प्रमिताधिकरणशेष:

(श्रीशारीरकमीमासांभाष्ये प्रमिताधिकरणशेष🙂

(पूर्वेणाधिकरणेन प्रसक्तिः)

तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठप्रमितस्य भूतभव्येशितृत्वावगत परब्रह्मभावोत्तम्भनं हेत्वन्तरमाह

१०५. कम्पनात् ॥ १४० ॥

(सूत्रार्थविवृतिः)

अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति (कठ...१२) अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा (कठ...१७) इत्यनयोर्वाक्ययोर्मध्ये यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्। महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते  भवन्ति। भयादस्याग्निस्तपति भयात्तपति सूर्य:। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम: (कठ...,) इति कृत्स्नस्य जगतोऽग्निसूर्यादीनां चास्मिन्नङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्सृतानां तस्मात्सञ्जातमहाभयनिमित्तम् एजनं कम्पनं श्रूयते। तच्छासनातिवृत्तौ किं भविष्यतीति महतो भयाद्वज्रादिवोद्यतात्कृत्स्नं जगत्कम्पत इत्यर्थ:

(विषयवाक्यस्य योजनायाः अनुशासनात्सिद्धिः)

भयादस्याग्निस्तपति (कठ.सू...) इत्यनेनैकार्थ्यात् महद्भयं वज्रमुद्यतम् (कठ...) इति पञ्चम्यर्थे प्रथमा। अयञ्च परस्य ब्रह्मणस्स्वभाव: एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत: (बृ...), भीषाऽस्माद्वात: पवते भीषोदेति सूर्य:। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम: (तै...) इति परस्य ब्रह्मण: पुरुषोत्तमस्यैवं-विधैश्वर्यावगते:॥ ४०॥

इतश्चाङ्गुष्ठप्रमित: पुरुषोत्तम:

१०६. ज्योतिर्दर्शनात् ॥ १४१ ॥

(सूत्रार्थविवृतिः, परस्य ब्रह्मणः ज्योतिष्ट्वं च)

तयोरेवाङ्गुष्ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं चाङ्गुष्ठप्रमितस्य ज्योतिर्दृश्यते न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्नि:। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ (कठ...१५) इति। अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते। परज्योतिष्ठ्वं च सर्वत्र परस्य ब्रह्मणश्श्रूयते। यथा परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा..१२.) तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् (बृ...१६) अथ यदत: परो दिवो ज्योतिर्दीप्यते (छां..१३.) इत्यादिषु। अतो अङ्गुष्ठप्रमित: परं ब्रह्म॥ ४१॥

इति श्रीशारीरकमीमांभाष्ये प्रमिताधिकरणशेष: ॥६॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.