श्रीभाष्यम् 01-03-19 भूमाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम्॥२॥

(अधिकरणार्थः – भूमशब्दवाच्यम्, सत्यशब्दनिर्दिष्टं परं ब्रह्मैव, न जीवादिः)

(भूमविद्या – छा.उ. 7-1)

७२. भूमा सम्प्रसादादध्युपदेशात् ॥ १७ ॥

(विषयवाक्यनिर्देशः)

इदमामनन्ति छन्दोगा: यत्र नान्यपत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् (छां..२४.) इति।

(अत्र भूमशब्दार्थनिर्वचनम्)

अत्रायं भूमशब्दो भावप्रत्ययान्तो व्युत्पाद्यते। तथा हि पृथ्वादिषु बहुशब्द: पठ्यते । तत: पृथ्वादिभ्य इमनिज्वा (अष्टा...१२२) इति इमनिच्प्रत्यये कृते बहोर्लोपो भू च बहो: (अष्टा...१५८) इति प्रकृतिप्रत्यययोर्विकारे भूमेति भवति। भूमाबहुत्वमित्यर्थ:। अत्र चायं बहुशब्दो वैपुल्यवाची, न सङ्ख्यावाची; यत्रान्यत्पश्यति तदल्पम् (छां..२४.) इत्यल्पप्रतियोगित्वश्रवणात् अल्पशब्दनिर्दिष्टधर्मिप्रतियोगिप्रतिपादनपरत्वादेव धर्मिपरश्च निश्चीयते; न धर्ममात्रपर:। तदेवं भूमेति विपुल इत्यर्थ: । वैपुल्यविशेष्यश्चेहात्मेत्यवगत: तरति शोकमात्मवित् (छा...) इति प्रक्रम्य भूमविज्ञानमुपदिश्य आत्मैवेदं सर्वम् (छा..२५.) इति तस्यैवोपसंहारात्।

(अधिकरणाङ्गभूतः संशयः)

अत्र संशय्यते किमयं भूमगुणविशिष्ट: प्रत्यगात्मा, उत परमात्मा इति।

(सयुक्तिकः पूर्वः पक्षः)

किं युक्तम्? प्रत्यागात्मेति। कुत😕 श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मवित् (छा...) इत्यात्मजिज्ञासयोपसेदुषे नारदाय नामादिप्राणपर्यन्तेषूपास्यतयोपदिष्टेषु अस्ति भगवो नाम्नो भूय: (छा...) अस्ति भगवो वाचो भूय: (छां...) इत्यादय:प्रश्ना:, वाग्वाव नाम्नो भूयसी (छां...), मनो वाव वाचो भूय: (छां.) इत्यादीनि च प्रतिवचनानि, प्राणात्प्राचीनेषु दृश्यन्ते; प्राणे तु न पश्याम:। अत: प्राणपर्यन्त एवायमात्मोपदेश इति प्रतीयते। तेनेह प्राणशब्दनिर्दिष्ट: प्राणसहचारी प्रत्यगात्मैव; न वायुविशेषमात्रम्। प्राणो ह पिता प्राणो ह माता (छा..१५.) इत्यादयश्च प्राणस्य चेतनतावमगमयन्ति । पितृहामातृहा (छां..२५.) इत्यादिना सप्राणेषु पितृप्रभृतिषूपमर्दकारिणि हिंसकत्वनिमित्तोपक्रोशवचनात्तेष्वेव विगतप्राणेष्वत्यन्तोपमर्द-कारिण्यपि उपक्रोशाभाववचनाच्च हिंसायोग्यश्चेतन एव प्राणशब्दनिर्दिष्ट:। अप्राणेषु स्थावरेष्वपि चेतनेषूपमर्दभावाभावयो: हिंसातदभावदर्शनादयं हिंसायोग्यतया निर्दिष्ट: प्राण: प्रत्यगात्मैवेति निश्चीयते। अत एव च अरनाभिदृष्टान्ताद्युपन्यासेन प्राणशब्दनिर्दिष्ट: पर इति न भ्रमितव्यम्, परस्य हिंसाप्रसङ्गाभावात्, जीवादितरस्य तद्भोग्यभोगोपकरणभूतस्य कृत्स्नस्याचिद्वस्तुनो जीवायत्तस्थितित्वेन प्रत्यगात्मन्येवारनाभिदृष्टान्तोपपत्तेश्च। अयमेव च प्राणशब्दनिर्दिष्टो भूमा;  अस्ति भगव: प्राणाद्भूय: इति प्रश्नस्य अदो वाव प्राणाद्भूय: प्रतिवचनस्य चाभावाद्भूमसंशब्दनात्प्राक्प्राणप्रकरणस्याविच्छेदात्।

(तुशब्दस्य प्रकरणविच्छेदकत्वशङ्कापरिहारः)

किञ्च प्राणवेदिनोऽतिवादित्वमुक्त्वा तमेव एष तु वा अतिवदति (छां...) इति प्रत्यभिज्ञाप्य यस्सत्येनातिवदति (छा..१६) इति तस्य सत्यवदनं प्राणोपासनाङ्गतयोपदिश्य उपादेयस्य सत्यवदनस्य शेषितया पूर्वनिर्दिष्टप्राणयाथात्म्यविज्ञानं यदा वै विजानात्यथ सत्यं वदति (छा..१७) इत्युपदिश्य तत्सिद्ध्यर्थं च मननश्रद्धानिष्ठाप्रयत्नानुपदिश्य तदारम्भाय च प्राप्यभूतप्राणशब्दनिर्दिष्टप्रत्यगात्मस्वरूपस्य सुखरूपताज्ञानमुपदिश्य तस्य च सुखस्य विपुलता भूमा त्वेव विजिज्ञासतव्य: (छा..२३.) इत्युपदिश्यते। तदेवं प्रत्यगात्मन एवाविद्यावियुक्तं रूपं विपुलसुखमित्युपदिष्टमिति तरति शोकमात्मवित् (छा...) इत्युपक्रमाविरोधश्च। अतो भूमगुणविशिष्ट: प्रत्यगात्मा, यत एवं भूमगुणविशिष्ट: प्रत्यगात्मा, अत एवाहमर्थे प्रत्यगात्मनि अहमेवाधस्तादहमुपरिष्टात् (छां..२५.) इत्यारभ्य अहमेवेदं सर्वम् (छां..१५.) इति प्रत्यगात्मनो वैभवमुपदिशति। एवं प्रत्यगात्मत्वे निश्चिते सति तदनुगुणतया वाक्यशेषो नेतव्य इति॥

(सिद्धान्तारम्भः)

एवं प्राप्तेऽभिधीयते भूमा सम्प्रसादादध्युपदेशात्

(सूत्रार्थविवृतिः)

भूमगुणविशिष्टो न प्रत्यगात्मा;  अपि तु परमात्मा, कुत😕 सम्प्रसादादध्युपदेशात्; सम्प्रसाद: प्रत्यगात्मा एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा..१२.) इत्युपनिषत्प्रसिद्धे:। सम्प्रसादात् प्रत्यगात्मनोऽधिकतया भूमविशिष्टस्य सत्यशब्दाभिधेयस्य उपदेशादित्यर्थ:। सत्यशब्दाभिधेयं च परं ब्रह्म। एतदुक्तं भवति यथा नामादिषु प्राणपर्यन्तेषु पूर्वपूर्वाधिकतयोत्तरोत्तराभिधानात्पूर्वेभ्य उत्तरेषामर्थान्तरत्वम्, एवं प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽधिकतया निर्दिष्टस्सत्यशब्दाभिधेयस्तस्मादर्थान्तरभूत एव; सत्यशब्दनिर्दिष्ट एव भूमेति सत्याख्यं परं ब्रह्मैव भूमेत्युपदिश्यते इति। तदाह वृत्तिकार: भूमा त्वेवेति भूमा ब्रह्म नामादिपरम्परया आत्मन ऊर्ध्वमस्योपदेशात् इति। प्राणशब्दनिर्दष्टादधिकतया सत्यस्योपदेश: कथमवगम्यत इति चेत् स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति (छा..१५.) इति प्राणविदोऽतिवादित्वमुक्त्वा एष तु वा  अतिवदति यस्सत्येनातिवदति (छां..१६.) इति सत्यवेदित्वेनातिवादिनं तु शब्देन पूर्वस्मादतिवादिनो व्यावर्तयति।

(एषः इत्यस्य पूर्वप्रत्यभिज्ञापकतानिरासः)

अत एव एष तु वा अतिवदति (छा..१६.) इत्यत्र प्राणातिवादिनो न प्रत्यभिज्ञा। अतोऽस्यातिवादित्वनिमित्तं सत्यं पूर्वातिवादित्वनिमित्तात्प्राणादधिकमिति विज्ञायते।

ननु च प्राणवेदिन एव सत्यवदनमङ्गत्वेनोपदिष्टम्, अत: प्राणप्रकरणाविच्छेद इत्युक्तम्। नैतद्युक्तम् तु शब्देन ह्यतिवाद्येवान्य: प्रतीयते, न तु तस्यैवातिवादिनस्सत्यवदनाङ्ग-शिष्टतामात्रम्।

(दृष्टान्तापेक्षया वैलक्षण्योपपादनम्)

एष तु वा अग्निहोत्री यस्सत्यं वदति इत्यादिष्वग्निहोत्र्यन्तराप्रतीते:; प्रतीतस्यैव अग्निहोत्रिण: सत्यवदनाङ्गविधानमिति  क्लिष्टा गतिराश्रीयते; अत्र त्वतिवाद्यन्तरत्वनिमित्तं सत्यशब्दाभिधेयं परं ब्रह्म प्रतीयते। सत्यशब्दश्च सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन..अनु) इत्यादिषु परस्मिन्ब्रह्मणि प्रयुक्त:

(तुशब्दस्वारस्यफलितार्थः)

अतस्तन्निष्ठस्यातिवादिन: पूर्वस्मादधिकत्वं सम्भवतीति वाक्यस्वरससिद्धमन्यत्वं न बाधितव्यम्।  अतिवादित्वं हि वस्त्वन्तरात्पुरुषार्थतयाऽतिक्रान्तस्वोपास्यवस्तुवादित्वम्; नामाद्याशापर्यन्तोपास्यवस्त्वतिक्रान्तस्वोपास्यप्राणशब्दनिर्दिष्टप्रत्यगात्मवादित्वात् प्राणविदः अतिवादित्वम्; तस्यापि सातिशयपुरुषार्थत्वान्निरतिशयपुरुषार्थतयोपास्यपरब्रह्मवादिन एव साक्षादतिवादित्वमिति एष तु वा  अतिवदति यस्सत्येनातिवदति (छां..२६.) इत्युक्तम्।

(अधिकरणद्वयार्थनिगमनम्)

सत्येनेतीत्थम्भूतलक्षणे तृतीया; सत्येन परेण ब्रह्मणोपास्येनोपलक्षितो योऽतिवदतीत्यर्थ:। अत एवैवं शिष्य: प्रार्थयते सोऽहं भगवस्सत्येनातिवदानि (छां..२६.) इति। आचार्यश्च सत्यं त्वेव विजिज्ञासितव्यम् (छां..२६.) इत्याह  ॥

(आत्मप्राणौ मिथो भिन्नौ)

आत्मन: प्राण: (छा..२६.) इति च प्राणशब्दनिर्दिष्टस्याऽत्मन उत्पत्तिरुच्यते। अत: तरति शोकमात्मवित् (छा...) इति प्रक्रान्त आत्मा प्राणशब्दनिर्दिष्टादन्य इति गम्यते।

(पूर्वपक्षार्थानुवादतन्निराकरणे)

यदुक्तं अस्ति भगव: प्राणाद्भूय:  इति प्रश्नस्य अदो वाव प्राणाद्भूय: इति प्रतिवचनस्य चादर्शनात्प्रक्रान्त: आत्मोपदेश: प्राणोपदेशपर्यवसानो गम्यत इति; तदयुक्तम्; न हि प्रश्नप्रतिवचनाभ्यामेवार्थान्तरत्वं गम्यते; प्रमाणान्तरेणापि तत्सम्भवात्। उक्तञ्च प्रमाणान्तरम्।

(प्रश्नविशेषाभावाशयः)

अस्ति भगव: प्राणाद्भूय: इत्यपृच्छतोऽयमभिप्राय: नामादिष्वाशापर्यन्तेष्वचेतनेषु पुरुषार्थभूयस्तया पूर्वपूर्वमतिक्रान्तेष्वप्युत्तरोत्तरेषूपदिष्टेषु तत्तद्वेदिन आचार्येणातिवादित्वं नोक्तम्; प्राणशब्दनिर्दिष्टप्रत्यगात्मयाथात्म्यवेदिनस्तु पुरुषार्थभूयस्त्वातिशयं मन्वानेन स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति (छा..१५.) इति  अतिक्रान्तवस्तुवादित्वमुक्तम्। अतोऽत्रैव आत्मोपदेशस्समाप्त इति मत्वा शिष्यो भूयो न पप्रच्छ।

(आचार्याभिप्रायः)

आचार्यस्त्विदमपि सातिशयं मत्वा निरतिशयपुरुषार्थभूतं सत्यशब्दाभिधेयं परं ब्रह्म एष तु वा अतिवदति यस्सत्येनातिवदति (छां..१६) इति स्वयमेवोपचिक्षेप। शिष्योऽपि परमपुरुषार्थरूपे परस्मिन्ब्रह्मण्युपक्षिप्ते तत्स्वरूपतदुपासनयाथात्म्यबुभुत्सया सोऽहं भगवस्सत्येनातिवदानि (छा..१६) इति प्रार्थयामास।

(उत्तरोपदेशस्य, विशिष्टातिवादित्वसिद्ध्यर्थता)

ततो ब्रह्मसाक्षात्कारनिमित्तातिवादित्वसिद्धये ब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनम् सत्यं त्वेव विजिज्ञासतिव्यम् (छां..१६) इत्युपदिश्य तदुपायभूतं ब्रह्ममननं मतिस्त्वेव विजिज्ञासतिव्या (छा..१८) इत्युपदिश्य श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धाम् श्रद्धात्वेव विजिज्ञासितव्या (छा..१९) इत्युपदिश्य तदुपायभूतां च तन्निष्ठाम् निष्ठात्वेव विजिज्ञासितव्या (छा..२०) इत्युपदिश्य तदुपायभूतां च तदुद्योगप्रयत्नरूपां कृतिमपि कृतिस्त्वेव विजिज्ञासितव्या (छा..२१) इत्युपदिश्य श्रवणाद्युपक्रमरूपकृतिसिद्धये प्राप्यभूतस्य सत्यशब्दाभिहितस्य ब्रह्मणस्सुखरूपता ज्ञातव्येति सुखं त्वेव विजिज्ञासितव्यम् 9छा..२२) इत्युपदिश्य निरतिशयविपुलमेव सुखं परमपुरुषार्थरूपं भवतीति तस्यैव ब्रह्मणस्सुखरूपस्य निरतिशयविपुलता ज्ञातव्येति भूमा त्वेव विजिज्ञासितव्य: (छा..२२) इत्युपदिश्य निरतिशयविपुलसुखरूपस्य ब्रह्मणो लक्षणमिदमुच्यते यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा (छा..२४.) इति।

(भूमेतरादर्शनादौ हेतुः)

अयमर्थ: – अनवधिकातिशयसुखरूपे ब्रह्मण्यनुभूयमाने ततोऽन्यत्किमपि न पश्यत्यनुभविता, ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वाच्च कृत्स्नस्य वस्तुजातस्य । अत ऐश्वर्यापरपर्यायविभूति-गुणविशिष्टं निरतिशयसुखरूपं ब्रह्मानुभवन् तद्व्यतिरिक्तस्य वस्तुनोऽभावादेव किमप्यन्यन्न पश्यति; अनुभाव्यस्य सर्वस्य सुखरूपत्वादेव दु:खं च न पश्यति, तदेव हि सुखम्, यदनुभूयमानं पुरुषानुकूलं भवति॥

(एकस्यैव जगतः सुख-दुःखोभयरूपत्वानुपपत्ति-तत्परिहारौ)

ननु चेदमेव जगत्, ब्रह्मणोऽन्यतयाऽनुभूयमानं दु:खरूपं परिमितसुखरूपं च भवत्कथमिव ब्रह्मविभूतित्वेन तदात्मकतयानुभूयमानं सुखरूपमेव भवेत्।

उच्यते  कर्मवश्यानां क्षेत्रज्ञानां ब्रह्मणोऽन्यत्वेनानुभूयमानं कृत्स्नं जगत्तत्तत्कर्मानुरूपं दु:खं च परिमितसुखं च भवति। अतो ब्रह्मणोऽन्यतया परिमितसुखत्वेन दु:खत्वेन च जगदनुभवस्य कर्मनिमित्तत्वात्कर्मरूपाविद्याविमुक्तस्य तदेव जगद्विभूतिगुणविशिष्टब्रह्मानुभवान्तर्गतं सुखमेव भवति। यथा पित्तोपहतेन पीयमानं पय: पित्ततारतम्येनाल्पसुखं विपरीतं च भवति; तदेव पय: पित्तानुपहतस्य सुखायैव भवति; यथैव राजपुत्रस्य पितुर्लीलोपकरणमतथात्वेनानुसन्धीयमानं प्रियत्वमनुपगतं तथात्वानुसन्धाने प्रियतमं भवति; तथा निरतिशयानन्दस्वरूपस्य ब्रह्मणोऽनविधकातिशयासङ्ख्येयकल्याणगुणाकरस्य लीलोपकरणं तदात्मकं चानुसन्धीयमानं जगन्निरतिशयप्रीतये भवत्येव।

(यत्र नान्यदिति श्रुत्यर्थनिरूपणम्)

अतो जगदैश्वर्यविशिष्टं अनवधिकातिशयसुखरूपं ब्रह्मानुभवंस्ततोऽन्यत्किमपि न पश्यति; दु:खं च न पश्यति। एतदेवोपपादयति वाक्यशेष: स वा एष एवं पश्न्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दस्स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षय्यलोका  भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति (छा..२५.) इति। स्वराट् अकर्मवश्य:। अन्यराजान: कर्मवश्या:। तथा न पश्यो मृत्युं पश्यति न रोगं नोत दु:खताम्। सर्वं ह पश्य: पश्यति सर्वमाप्नोति सर्वश: इति च।

(उक्तार्थनिगमनम्)

निरतिशयसुखरूपत्वं च ब्रह्मण: आनन्दमयोऽभ्यासात् (ब्र.सू...१२) इत्यत्र प्रपञ्चितम्। अत: प्राणशब्दनिर्दिष्टात्प्रत्यगात्मनोऽर्थान्तरभूतस्य सत्यशब्दाभिधेयस्य ब्रह्मणो भूमेत्युपदेशाद्भूमा परं ब्रह्म॥ ७ ॥

७३. धर्मोपपत्तेश्च ॥ १८ ॥

(पूर्वसूत्रोक्तार्थे उपपत्तिबोधकसूत्रव्याख्या)

अस्य भूम्नो ये धर्मा आम्नायन्ते; तेऽपि परस्मिन्नेवोपपद्यन्ते। एतदमृतम् (छा..२४.)  इति स्वाभाविकममृतत्वम्, स्वे महिम्नि (छां..१४.) इत्यनन्याधारत्वम्, स एवाधस्तात् (छा..२५.) इत्यादि स एवेदं सर्वम् (छां..२५.) इति सर्वात्मकत्वम्, आत्मत: प्राण: (छा..२६.) इत्यादिप्राणप्रभृतिसर्वस्योत्पादकत्वमित्यादयो हि धर्मा: परमात्मन एव।

(पूर्वपक्षयुक्तेः परिहारः)

यत्तु अहमेवाधस्तात् (छां..२५.) इत्यादिना सर्वात्मकत्वमुपदिष्टम्, तद्भूमविशिष्टस्य ब्रह्मणोऽहङ्ग्रहेणोपासनमुपदिश्यते अथातोऽहङ्कारादेश: (छां..२५.) इत्यहङ्ग्रहोपदेशोपक्रमात्। अहमर्थस्य प्रत्यगात्मनोऽपि ह्यात्मा परमात्मेत्यन्तर्यामिब्राह्मणादिषूक्तम्। अत: प्रत्यगर्थस्य परमात्मपर्यवसानादहंशब्दोऽपि परमात्मपर्यवसायीति प्रत्यगात्मशरीरकत्वेन परमात्मानुसन्धानार्थोऽयं अहङ्ग्रहोपदेश:। परमात्मनस्सर्वशरीरतया सर्वात्मत्वात्प्रत्यगात्मनोऽप्यात्मा परमात्मा। तदेव अथात आत्मादेश: (छा..२५.) इत्यादिना आत्मैवेदं सर्वम् (छां..२५.) इत्यन्तेनोच्यते।

(उक्तार्थस्य श्रुत्या कण्ठोक्तत्वोपपादनम्)

एतदेवोपपादयितुं प्रत्यगात्मनोऽप्यात्मभूतात्परमात्मनस्सर्वस्योत्पत्तिरुच्यते तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मत: प्राण आत्मत आकाश: (छां..२६.) इत्यादिना। उपासकस्यान्तर्यामितयाऽवस्थितात्परमात्मनस्सर्वस्योत्पत्तिरित्यर्थ:। अत: परमात्मन: प्रत्यगात्मशरीरकत्वज्ञानप्रतिष्ठार्थमहङ्ग्रहोपासनं कर्तव्यम्। तस्माद्भूमविशिष्ट: परमात्मेति  सिद्धम्॥८॥

इति श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम्॥२॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.