श्रीभाष्यम् 01-03-23 प्रमिताधिकरणम्

॥श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम्॥६॥

(अधिकरणार्थः – अङ्गुष्टपरिमाणपरिमितत्वेन श्रुत्युक्तः परमात्मैव, न कर्मवश्यो जीवः)

(अङ्गुष्टप्रमितविद्या – नाचिकेतविद्या वा कठ.उ. 4-12))

८८. शब्दादेव प्रमित: ॥ १२३ ॥

(विषयवाक्यप्रदर्शनम्)

कठवल्लीषु श्रूयते अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति।  ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वैतत् (कठ...१२) अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवाधूमक:। ईशानो भूतभव्यस्य स एवाद्य स उ श्व:। एतद्वैतत् (कठ...१३) अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट:। तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवैषीकां धैर्येण। तं विद्याच्छुक्रममृतम् (कठ.२६.१७) इति।

(संशयाकारः)

तत्र सन्दिह्यते किमयमङ्गुष्ठमात्रप्रमित: प्रत्यगात्मा, उत परमात्मा इति।

(सयुक्तिकः पूर्वः पक्षः)

किं युक्तम्? प्रत्यगात्मेति। कुत😕 जीवस्यान्यत्राङ्गुष्ठमात्रत्वश्रुते: प्राणाधिपस्सञ्चरति स्वकर्मभि:। अङ्गुष्ठमात्रो रवितुल्यरूप: सङ्कल्पाहङ्कारसमन्वितो य: (श्वे...) इति। नचान्यत्रोपासनार्थतयाऽपि परमात्मनोऽङ्गुष्ठमात्रत्वं श्रूयते। एवं निश्चिते जीवत्वे ईशानत्वं शरीरेन्द्रियभोग्यभोगोपकरणापेक्षयाऽपि भविष्यति॥:

(सिद्धान्तारम्भः)

इति प्राप्ते ब्रूम: शब्दादेव प्रमित: अङ्गुष्ठप्रमित: परमात्मा; कुत😕 ईशानो भूतभव्यस्य (कठ...१३) इति शब्दादेव; न च भूतभव्यस्य सर्वस्येशितृत्वं कर्मपरवशस्य जीवस्योपपद्यते॥२३॥

(उत्तरसूत्रार्थशङ्का)

कथं तर्हि परमात्मनोऽङ्गुष्ठमात्रत्वमित्यत्राह

८९. हृद्यपेक्षया तु मनुष्याधिकारत्वात्  ॥ १२४ ॥

(परमात्मनः अङ्गुष्टप्रमिततानिदानम्)

परमात्मन उपासनार्थमुपासकहृदये वर्तमानत्वादुपासकहृदयस्याङ्गुष्ठप्रमाणत्वात्तदपेक्षयेदं अङ्गुष्ठप्रमितत्वमुपपद्यते, जीवस्याप्यङ्गुष्ठप्रमितत्वं हृदयान्तर्वर्तित्वात्तदपेक्षमेव; तस्याराग्रमात्रत्व-श्रुते:। मनुष्याणामेवोपासकत्वसम्भावनाया शास्त्रस्य मनुष्याधिकारत्वान्मनुष्य-हृद्यस्य च तत्तदङ्गुष्ठप्रमितत्वात्खरतुरगभुजगादीनामनङ्गुष्ठप्रमितत्वेऽपि न कश्चिद्दोष: । स्थितं तावदुत्तरत्र समापयिष्यते॥२४॥

इति श्रीशारीरिकमीमांसाभाष्ये  प्रमिताधिकरणम्॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.