श्रीभाष्यम् 01-03-18 द्युभ्वाद्यधिकरणम्

श्रीशारिकमीमांसाश्रीभाष्ये

अन्ययोगव्यवच्छेदत्रिपाद्यन्तर्गतः स्पष्टजीवादिलिङ्गकवेदान्त-

वाक्यार्थविचारात्मकः

तृतीयः पादः

(पादार्थः – ब्रह्मैव सर्वजगत्कारणम्)

प्रथमाध्यायेतृतीयपादेद्युभ्वाद्यधिकरणम्॥१॥

(अधिकरणार्थः – द्युःपृथिव्यादीनां आयतनं परमात्मैव, न जीवः)

(अक्षरपरब्रह्मविद्या मुण्ड.उ. 1.2)

६६. द्युभ्वाद्यायतनं स्वशब्दात् ॥ ११ ॥

(विषयवाक्यम्)

आथर्वणिका अधीयतेयस्मिन्द्यौ: पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वै:। तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतु: (मुण्ड...) इति।

(अधिकरणाङ्गभूतः संशयः)

तत्र संशय: किमयं द्युपृथिव्यादीनामायतनत्वेन श्रूयमाणो जीव:, उत परमात्मा इति।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्? जीव इति। कुत: अरा इव रथनाभौ संहता यत्र नाड्यस्स एषोऽन्तश्चरते बहुधा जायमान: (मु....) इति परस्मिन् श्लोके पूर्ववाक्यप्रस्तुतं द्युपृथिव्याद्यायतनं यत्र इति पुनरपि सप्तम्यन्तेन परामृश्य तस्य नाड्याधारत्वमुक्त्वा, पुनरपि स एषोऽन्तश्चरते बहुधा जायमान: (मु...) इति तस्य बहुधाजायमानत्वं चोच्यते; नाडीसम्बन्धो देवादिरूपेण बहुधाजायमानत्वं च जीवस्यैव धर्म:। अस्मिन्नपि श्लोके ओतं मनस्सह प्राणैश्च सर्वै: (मु...) इति प्राणपञ्चकस्य मनसश्चाश्रयत्वमुच्यमानं जीवधर्म एव। एवं जीवत्वे निश्चिते सति द्युपृथिव्याद्यायतनत्वादिकं यथाकथञ्चित्सङ्गमयितव्यम्  इति।

(सयुक्तिकः सिद्धान्तः)

एवं प्राप्ते प्रचक्ष्महे द्युभ्वाद्यायतनं स्वशब्दात् द्युपृथिव्यादीनामायतनं परं ब्रह्म; कुत😕 स्वशब्दात् परब्रह्मासाधारणशब्दात्। अमृतस्यैष सेतु: (मु...) इति परस्य ब्रह्मणोऽसाधारणश्शब्द:। तमेवं विद्वानमृत इह भवति। नान्य: पन्था अयनाय विद्यते (पु.सू) इति सर्वत्रोपिनषत्सु स एवामृतत्वप्राप्तिहेतुश्श्रूयते।  सिनोतेश्च बन्धनार्थत्वात् सेतु: अमृतस्य प्रापक इत्यर्थ:। सेतुरिव वा सेतु: – नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भक: संसारार्णवपारभूतस्यामृतस्यैष प्रतिलम्भक इत्यर्थ:। आत्मशब्दश्च निरुपाधिक: परस्मिन्ब्रह्मणि मुख्यवृत्त:, आप्नोतीति ह्यात्मा; स्वेतरसमस्तस्य नियन्तृत्वेन व्याप्तिस्तस्यैव सम्भवति। अतस्सोऽपि तस्यैव शब्द:। यस्सर्वज्ञस्सर्ववित् (मु...) इत्यादयश्चोपरितना: परस्यैव ब्रह्मणश्शब्दा:। नाड्याधारत्वं तस्यापि सम्भवति सन्ततं  सिराभिस्तु लम्बत्याकोशसन्निभम् (तै.नारा.१३) इत्यारभ्य तस्याश्शिखाया मध्ये परमात्मा व्यवस्थित: (तै.नारा.१३) इति श्रवणात्।

(स्वाधीनः परमात्मनोऽवतारः)

बहुधा जायमान: (मु...) इत्यपि परस्मिन् ब्रह्मणि सङ्गच्छते अजायमानो बहुधा विजायते। तस्य धीरा: परिजानन्ति योनिम् (पु.सू) इति देवादीनां समाश्रयणीयत्वाय तत्तज्जातीयरूपसंस्थानगुणकर्मसमन्वित: स्वकीयं स्वभावमजहदेव स्वेच्छया बहुधा विजायते पर: पुरुष इत्यभिधानात्। स्मृतिरपि अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया (.गी..) इति। मन:प्रभृतिजीवोपकरणाधारत्वं च सर्वाधारस्य परस्यैवोपपद्यते॥१॥

(मुक्तप्राप्यत्वं परमात्मत्वे लिङ्गम्)

इतश्च परमपुरुष: –

६७. मुक्तोपसृप्यव्यदेशाच्च ॥ १२ ॥

अयं द्युपृथिव्याद्यायतनभूत: पुरुष: संसारबन्धान्मुक्तैरपि प्राप्यतया व्यपदिश्यते यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान्पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु...) यथा नद्यस्स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् (मु...) इति। संसारबन्धनाद्विमुक्ता एव हि विधूतपुण्यपापा निरञ्जना नामरूपाभ्यां विनिर्मुक्ताश्च। पुण्यपापनिबन्धनाचित्संसर्गप्रयुक्त-नामरूपभाक्त्वमेव हि संसार:। अतो विधूतपुण्यपापैर्निरञ्जनै: प्रकृतिसंसर्गरहितै: परेण ब्रह्मणा परमं साम्यमापन्नै: प्राप्यतया निर्दिष्टो द्युपृथिव्याद्यायतनभूत: पुरुष: परं ब्रह्मैव॥२॥

(प्रकरणे जीवासाधारणशबदाभावोऽपि ज्ञापकः)

परब्रह्मासाधारणशब्दाादिभि: परमेव ब्रह्मेति प्रसाध्य, प्रत्यगात्मासाधारण शब्दाभावाच्चायं पर एवेत्याह

६८. नानुमानमतच्छब्दात्प्राणभृच्च ॥ १३ ॥

यथाऽस्मिन्प्रकरणे प्रतिपादकशब्दाभावात्प्रधानं न प्रतिपाद्यम्; एवं प्राणभृदपीत्यर्थ:। अनुमीयत इत्यनुमानं परोक्तं प्रधानमुच्यते, अनुमानप्रमितत्वादानुमानमिति वा; अतच्छशब्दात् तद्वाचिशब्दाभावादित्यर्थ:। अर्थाभावे यदव्ययम्  इत्यव्ययीभाव:॥ ३॥

(श्रुतौ जीवभेदज्ञापकः शब्दः, परमात्मत्वे लिङ्गम्)

इतश्चायं न प्रत्यगात्मा

६९. भेदव्यपदेशात् ॥ १४ ॥

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमान:। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक: (श्वेत..,मुण्ड...) इत्यादिभिर्जीवाद्विलक्षणत्वेनायं व्यपदिश्यते। अनीशया भोग्यभूतया प्रकृत्या मुह्यमानश्शोचति जीव:, अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणम्, अस्य ईश्वरस्य महिमानं च निखिलजगन्नियमनरूपं पश्यति; तदा वीतशोको भवति॥४॥

७०. प्रकरणात् ॥ १५ ॥

प्रकरणं चेदं परस्य ब्रह्मण इति अदृश्यत्वादिगुणको धर्मोक्ते: (शारी...२२) इत्यत्रैव प्रदर्शितम्। नाडीसम्बन्धबहुधाजायमानत्वमन:प्राणाधारत्वैश्च प्रकरणविच्छेदाशङ्कामात्रमत्र पर्यहार्ष्म॥५॥

७१. स्थित्यदनाभ्याञ्च ॥ १६ ॥

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो  अभिचाकशीति (श्वे..) इत्येकस्य कर्मफलादनम् अन्यस्य च कर्मफलमनश्नत एव दीप्यमानतया शरीरान्तस्स्थितिमात्रं प्रतिपाद्यते। तत्र कर्मफलमनश्नन्दीप्यमान एव सर्वज्ञोऽमृतसेतुस्सर्वात्मा द्युभ्वाद्यायतनं  भवितुमर्हाति, न पुन: कर्मफलमदन् शोचन्प्रत्यगात्मा। अतो द्युभ्वाद्यायतनं परमात्मेति  सिद्धम्॥ ६॥

इति श्रीशारीरिकमीमांसाभाष्ये द्युभ्वाद्यधिकरणम्॥१॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.