श्रीभाष्यम् 03-04-05 सर्वापेक्षाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम्॥५॥ (अधिकरणार्थः – कर्माधिकृताश्रमिणां तु ब्रह्मविद्या कर्मसापेक्षैव निष्पन्ना भवेत्) ४४४. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३–४–२६ ॥ (गृहिष्वपि कर्मापेक्षाराहित्यशङ्का, तन्निरासश्च) यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति; तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हति, यज्ञादिश्रुतिरपि विविदिषन्ति (बृ.६.४.२२) इति शब्दात्कर्मणो वेदनाङ्गतां न प्रतिपादयतीति – अत आह – सर्वापेक्षा इति।  अग्निहोत्रादिसर्वकर्मापेक्षैव विद्या कर्मवत्सु गृहस्थेषु; कुत:? यज्ञादिश्रुते:। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन […]

श्रीभाष्यम् 03-04-04 अग्नीन्धनाद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अग्नीन्धनाद्यधिकरणम्॥ ४॥ (अधिकरणार्थः – परिव्राजिकानां विद्यासिद्धिः, स्वाश्रमविहितकर्मापेक्षैव, न तु अग्न्याधानपूर्वककर्मापेक्षा) ४४३. अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ३–४–२५ ॥ (पूर्वाधिकरणयोः प्रासङ्गिकता, प्रकृतसङ्गतिश्च) स्तुतिप्रसङगादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिण: सन्तीत्युक्तम्  ऊर्ध्वरेतस्सु च शब्दे हि (शारी.३.४.२७) इत्यादिभिस्सूत्रै:। (पूर्वपक्षसिद्धान्तौ) इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदङ्गिका विद्या न सम्भवतीत्याशङ्क्याह – अत एव चाग्नीन्धनाद्यनपेक्षा – इति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते  ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१)  […]

श्रीभाष्यम् 03-04-03 पारिप्लवार्थाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम्॥३॥ (अधिकरणार्थः – उपनिषत्सूपलभ्यमानानां आख्यानानां विद्याविध्यर्थत्वमेव न तु अश्वमेधाङ्गपारिप्लवनामकशस्त्रार्थत्वम्) ४४१. पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३–४–२३ ॥ (विचारणीयो विषयः ससंशयः)             प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम (कौ.३.१)  श्वेतकेतुर्हारुणेय आस (छा.६.१.१) इत्येवमादीनि वेदान्तेष्वाख्यानानि किं पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थानीति चिन्तायाम् – (पूर्वपक्षः)             आख्यानानि शंसन्ति (?) इत्याख्यानानां पारिप्लवे विनियोगान्न विद्याप्रधानत्वं न्याय्यमिति चेत् (सिद्धआन्तार्थः) न सर्वाण्याख्यानानि पारिप्लवप्रयोगे […]

श्रीभाष्यम् 03-04-02 स्तुतिमात्राधिकरणम्

श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम् ॥२॥ (अधिकरणार्थः – स एष रसानां इत्यादिवाक्यानां उद्गीथादौ रसतमादिदृष्टिविधिपरत्वमेव) ४३९. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३–४–२१ ॥ (विचारणीयो विषयः ससंशयः) इदमिदानीं चिन्त्यते  स एष रसानां रसतम: परम: परार्थ्योऽष्टमो यदुद्गीथ: (छा.१.१.३) इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि, आहोस्विदुद्गीथादिषु रसतमादिदृष्टिविधानार्थानीति । (तन्निर्धारणानियमाधिकरणस्य एतदधिकरणोपजीव्यत्वम्) अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्त:। (पूर्वः पक्षः सयुक्तिकः) किं युक्तम्? स्तुतिमात्रपराणीति । कुत:? उद्गीथाद्युपादानात्। क्रत्वङ्गभूतानि ह्युद्गीथादीन्युपादाय […]

श्रीभाष्यम् 03-04-01 पुरुषार्थाधिकरणम्

श्रीभगवद्रामानुजविरचितेश्रीशारीरकमीमांसाभाष्ये तृतीये साधनाध्याये – चतुर्थ: अङ्गपाद: (पादार्थः – मोक्षोपायतया वेदान्तविहितविद्याङ्गभूतकर्मादिविषयिणी चिन्ता) पुरुषार्थाधिकरणम्॥१॥ (अधिकरणानि – 1 – 15 सूत्राणि – 1 – 51) (अधिकरणार्थः – कर्माङ्गकादुपासनादेव परमपुरुषार्थावाप्तिः, न तु वेदनाङ्गकात् कर्मणः) ४१९. पुरुषार्थोऽतश्शब्दादिति बादरायण: ॥ ३–४–१ ॥ (ईशावास्यविद्याविचारः 3-4-33) (अस्याधिकरणस्य पूर्वपादेन सह सङ्गतिः विचारणीयोंशश्च)                 गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता; इदानीं विद्यात: पुरुषार्थ:, उत विद्याङ्गकात्कर्मण इति चिन्त्यते। (सिद्धान्त्यभिमतोऽर्थः) […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.