श्रीभाष्यम् 03-04-02 स्तुतिमात्राधिकरणम्

श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम् ॥२॥

(अधिकरणार्थः – स एष रसानां इत्यादिवाक्यानां उद्गीथादौ रसतमादिदृष्टिविधिपरत्वमेव)

४३९. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् २१

(विचारणीयो विषयः ससंशयः)

इदमिदानीं चिन्त्यते  एष रसानां रसतम: परम: परार्थ्योऽष्टमो यदुद्गीथ: (छा.१.१.३) इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि, आहोस्विदुद्गीथादिषु रसतमादिदृष्टिविधानार्थानीति ।

(तन्निर्धारणानियमाधिकरणस्य एतदधिकरणोपजीव्यत्वम्)

अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्त:।

(पूर्वः पक्षः सयुक्तिकः)

किं युक्तम्? स्तुतिमात्रपराणीति ।

कुत:? उद्गीथाद्युपादानात्। क्रत्वङ्गभूतानि ह्युद्गीथादीन्युपादाय तेषां रसतमादित्वं प्रतिपादतम्; यथा जुह्वादीनां पृथिव्यादित्वं प्रतिपादयतो वचनस्य  इयमेव जुहू: स्वर्गो लोक आहवनीय: इत्यादिकस्य तत्स्तुतिमात्रपरत्वम्, तथेहापि । तदिदमाशङ्कते – स्तुतिमात्रमुपादानादिति चेत् – इति। उद्गीथाद्युपादानात्तत्स्तुतिमात्रमेवैषां वाक्यानां विवक्षितमिति चेत्

(सिद्धान्तार्थः सहेतुकः)

अत्रोत्तरं – नापूर्वत्वात् – इति। न स्तुतिमात्रत्वमुपपद्यते; कुत:? अपूर्वत्वात् – अप्राप्तत्वात्। न ह्युद्गीथादयो रसतमादितया प्रमाणान्तरेण प्रतिपन्ना:; येन तत्प्राशस्त्यबुद्ध्युत्पत्त्यर्थं रसतमादित्वेनानूद्येरन्। नचोद्गीथादिविधिरत्र सन्निहित:; येन इयमेव जुहूस्स्वर्गो लोक आहवनीय: इत्यादिवत्तदेकवाक्यत्वेन यया कयाचनविधया तत्स्तुतिपरत्वमाश्रीयेत । अत: क्रतुवीर्यवत्तरत्वादिफलसिद्ध्यर्थं उद्गीथादिषु रसतमादिदृष्टिविधानमेव न्याय्यम् ॥२१॥

४४०. भावशब्दाच्च २२

उपासीत (छा.१.१.१) इत्यादिभावशब्दाच्च विधिपरत्वमेव न्याय्यम् । विधिप्रत्यययुक्तो हि क्रियाशब्दो विधेयमेव स्वार्थमवगमयति । तस्मादुपासनविधानार्था एताश्श्रुतय: ॥२२॥

इति श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम्॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.