श्रीभाष्यम् 03-04-08 विहितत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये विहितत्वाधिकरणम्॥ ८॥

(अधिकरणार्थः – उपासनप्रवृत्तेषु कर्मणां विद्याङ्गत्वेऽपि तद्रहितेषु केवलाश्रमाङ्गत्वमपि)

४५०. विहितत्वाच्चाश्रमकर्मापि ३२

(सङ्गतिः, संशयः पूर्वपक्षश्च)

यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम्; तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवलाश्रमिणाऽप्यनुष्ठेयानि, उत नेति चिन्तायां,

विद्याङ्गानां सतां केवलाश्रमशेषत्वे  नित्यानित्यसंयोगविरोध: प्रसज्यत इति यज्ञादीनां केवलाश्रमधर्मत्वं न सम्भवति – इति प्राप्ते

(सिद्धान्तार्थः)

उच्यते आश्रमकर्मापि – इति । आश्रमस्य कर्मापि भवति। केवलाश्रमिणापि अनुष्ठेयानीत्यर्थ:। कुत:?  यावज्जीवमग्निहोत्रं जुहोति  इत्यादिना विहितत्वात् – जीवननिमित्ततया नित्यवद्विहितत्वादित्यर्थ: ॥३२॥

(विनियोगपृथक्त्वात् उभयाङ्गत्वाविरोधः)

तथा च विद्याङ्गतया  तमेतं वेदानुवचनेन (बृह.६.४.२२)  इत्यादिना विहितत्वात् विद्याशेषतया अप्यनुष्ठेयानीत्याह –

४५१. सहकारित्वेन ३३

विद्योत्पत्तिद्वारेण विद्यासहकारितयाऽप्यनुष्ठेयानि । अग्निहोत्रादीनामिव जीवनाधिकारः स्वर्गाधिकारवत् विनियोगपृथक्त्वेनोभयार्थत्वं न विरुध्यत इत्यर्थ: ॥ ३३॥

(विद्याङ्गत्वाश्रमाङ्गत्वयोः कर्मभेदाप्रयोजकत्वम्)

तद्वदेव कर्मान्तरत्वमपि नास्तीत्याह –

४५२. सर्वथापि एवोभयिलङ्गात् ३४

सर्वथा – विद्यार्थत्वे आश्रमार्थत्वेऽपि, त एव यज्ञादय इति प्रतिपत्तव्यम्; न कर्मस्वरूपभेद इत्यर्थ:। कुत:? उभयलिङ्गात् – उभयत्र श्रुतौ यज्ञादिशब्दै: प्रत्यभिज्ञाप्य विनियोगात्, कर्मस्वरूपभेदे प्रमाणाभावाच्च ॥३४॥

(आश्रमाङ्गत्वेनानुष्ठीयमानानामेव विद्याङ्गत्वम्)

४५३. अनभिभवं दर्शयति ३५

धर्मेण पापमपनुदति (तै.ना.५०) इत्यादिभिश्च तानेव यज्ञादिधर्मान्निर्दिश्य तैर्विद्याया अनभिभवं – पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति । अहरहरनुष्ठीयमानैर्हि यज्ञादिभि: विशुद्धेऽन्त:करणे प्रत्यहं प्रकृष्यमाणा विद्योत्पद्यते । अतस्त एवोभयत्र यज्ञादय: ॥३५॥

इति श्रीशारीरकमीमांसाभाष्ये विहितत्वाधिकरणम् ॥८॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.