श्रीभाष्यम् 03-04-06 शमदमद्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शमदमाद्यधिकरणम्॥६॥

(अधिकरणार्थः – गृहस्थस्य यज्ञादिवत् विद्याङ्गतया शमदमादयोप्यनुष्ठेया एव)

४४५. शमदमाद्युपेतस्स्यात्तथापि तु  तद्विधे:

तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् २७

(प्रकृतविचाराङ्गः संशयः, पूर्वपक्षश्च)

गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि, उत नेति चिन्तायाम् – आन्तर-बाह्यकरणव्यापाररूपत्वात्कर्मानुष्ठानस्य, शमदमादीनां  तद्विपरीतरूपत्वाच्चाननुष्ठेयानि –

 (सिद्धान्तार्थः)

इति प्राप्त उच्यते ॥ यद्यपि गृहस्थ: करणव्यापाररूपकर्मसु प्रवृत्त:, तथाऽपि स विद्वान् शमदमाद्युपेतस्स्यात् कुत:? तदङ्गतया  तद्विधे: – विद्याङ्गतया तेषां विधे:  तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत् (बृ.६.४.२३) इति । विद्योत्पत्तेश्चित्तसमाधानरूपत्वेन दृष्टपरिकरत्वाच्छमादीनां, विद्यानिर्वृत्तये तेषां – शमादीनामप्यवश्यानुष्ठेयत्वाच्च तान्यप्यनुष्ठेयानि ।

(विरोधतत्परिहारौ)

न च करणव्यापारतद्विपर्ययरूपत्वेन कर्मणां शमदमादीनां च परस्परविरोध: भिन्नविषयत्वात् विहितेषु करणव्यापार:;  अविहितेषु प्रयोजनशून्येषु च तदुपशम इति । न च करणव्यापाररूपकर्मसु वर्तमानस्य वासनावशाच्छमादीनामुपादेयत्वासम्भव:; विहितानां कर्मणां परमपुरुषाराधनतया तत्प्रसादद्वारेण निखिलविपरीतवासनोच्छेदहेतुत्वात् । अतो गृहस्थस्य शमदमादयोऽप्यनुष्ठेया:॥२७॥

इति श्रीशारीरकमीमांसाभाष्ये शमदमद्यधिकरणम् ॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.