श्रीभाष्यम् 03-04-05 सर्वापेक्षाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम्॥५॥

(अधिकरणार्थः – कर्माधिकृताश्रमिणां तु ब्रह्मविद्या कर्मसापेक्षैव निष्पन्ना भवेत्)

४४४. सर्वापेक्षा यज्ञादिश्रुतेरश्ववत् २६

(गृहिष्वपि कर्मापेक्षाराहित्यशङ्का, तन्निरासश्च)

यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति; तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हति, यज्ञादिश्रुतिरपि विविदिषन्ति (बृ.६.४.२२) इति शब्दात्कर्मणो वेदनाङ्गतां न प्रतिपादयतीति –

अत आह – सर्वापेक्षा इति।  अग्निहोत्रादिसर्वकर्मापेक्षैव विद्या कर्मवत्सु गृहस्थेषु; कुत:? यज्ञादिश्रुते:। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.६.४.२२) इत्यादिना यज्ञादयो हि विद्याङ्गत्वेन श्रूयन्ते। यज्ञादिना विविदिषन्ति वेदितुमिच्छन्ति, यज्ञादिभिर्वेदनं प्राप्तुमिच्छन्तीत्यर्थ:। यज्ञादीनां ज्ञानसाधनत्वे सत्येव यज्ञादिभि: ज्ञानं प्राप्तुमिच्छन्तीति व्यपदेश उपपद्यते; यथा असेर्हाननसाधनत्वे सति असिना जिघांसतीति व्यपदेश:। अतो यज्ञादीनां ज्ञानसाधनत्वमवगम्यते  ॥

(मोक्षोपायतया अवगतं विशिष्टं ज्ञानम्)

ज्ञानं च वाक्यार्थज्ञानादर्थान्तरभूतं ध्यानोपासनादिशब्दवाच्यं विशदतमप्रत्यक्षतापन्न-स्मृतिरूपं निरतिशयप्रियमहरहरभ्यासाधेयातिशयमाप्रयाणादनुवर्तमानं मोक्षसाधनमित्युक्तमस्माभि: पूर्वमेव; वक्ष्यति च आवृत्तिरसकृदुपदेशात् (ब्र.सू.४.१.१) इत्यादिना।

(ज्ञानं प्रति कर्मणां सहकारित्वप्रकारः)

एवं रूपं च ध्यानमहरहरनुष्ठीयमानैर्नित्यनैमित्तिककर्मभि: परमपुरुषाराधनरूपै: परमपुरुषप्रसादद्वारेण जायत इति यज्ञादिना विविदिषन्तीति शास्त्रेण प्रतिपाद्यते । अत: कर्मवत्सु गृहस्थेषु यज्ञादिनित्यनैमित्तिकसर्वकर्मापेक्षा विद्या। अश्ववत् – यथा गमनसाधनभूतोऽश्व: स्वपरिकरबन्ध-परिकर्मापेक्ष:; एवं मोक्षसाधनभूताऽपि विद्या नित्यनैमित्तिककर्मपरिकरापेक्षा । तदिदमाह स्वयमेव भगवान् यज्ञदानतप: कर्म त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् (भ.गी.१८.५) यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: (भ.गी.१८.४६) इति ॥२६॥

इति श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम्॥ ५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.