श्रीभाष्यम् 03-04-12 सहकार्यन्तरविध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सहकार्यन्तरविध्यधिकरणम्॥१२॥

(अधिकरणार्थः – अथ मुनिः इति मौनरूपस्य विद्यासहकार्यन्तरस्य विधानमेव, नानुवादः)

४६४. सहकार्यन्तरविधि: पक्षेण तृतीयं तद्वतो विध्यादिवत् ४६

(विचारणीयविषयसंशययोः प्रदर्शनम्)

तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं पाण्डित्यं निर्विद्याथ मुनि: (बृ.५.५.१) इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते, उतानूद्यत इति विषये –

(युक्तितः पूर्वः पक्षः)

मौनपाण्डित्यशब्दयो: ज्ञानार्थत्वात्,  पाण्डित्यं निर्विद्य (बृ.५.५.१) इति विहितमेव ज्ञानम्  अथ मुनि: (बृ.५.५.१) इत्यनूद्यते; विधिशब्दो नह्यत्र श्रूयत इति ॥

(सूत्रतः सिद्धान्तार्थदर्शनम्)

एवं प्राप्ते ब्रूम: – सहकार्यन्तरविधि: – इति। तद्वत: – विद्यावत:; विध्यादिवत् – विधीयते इति यज्ञादिस्सर्वाश्रमधर्म: शमदमादिश्च विधिशब्देनोच्यते; आदिशब्देन श्रवणमनने गृह्येते; सहकार्यन्तरविधिरित्यत्रापि विधीयत इति विधि:; सहकार्यन्तरं विधिश्चेति सहकार्यन्तरिविधि:;

(सनिदर्शनं विधित्वविशदीकरणम्, सूत्रवाक्यार्थश्च)

एतदुक्तं भवति – यथा  तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन (बृ.६.४.२२) इत्यादिना  शान्तो दान्त: (बृ.६.४.२३) इत्यादिना च सहकारी यज्ञादिश्शमदमादिश्च विधीयते; यथा च  श्रोतव्यो मन्तव्य: (बृ.४.४.५) इति श्रवणमनने चार्थप्राप्ते विद्यासहकारित्वेन गृह्येते; तथा  तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य (बृ.५.५.१) इत्यादिना पाण्डित्यं, बाल्यं, मौनमिति त्रितयं विद्यायास्सहकार्यन्तरं विधीयते – इति।

(मौनं पाण्डित्यादितरत्)

मौनं च पाण्डित्यादर्थान्तरमित्याह – पक्षेणेति। मुनिशब्दस्य पक्षेण प्रकृष्टमननशीले व्यासादौ प्रयोगदर्शनात् मौनं पाण्डित्यबाल्योर्द्वयोस्तृतीयम्।

(विधिप्रत्ययाश्रवणेऽपि मौनस्याप्राप्तत्वाद्विधित्वम्)

यद्यपि  अथ मुनि: (बृ.५.५.१) इत्यत्र विधिप्रत्ययो न श्रूयते; तथापि मौनस्याप्राप्तत्वात् विधेयत्वं अङ्गीकरणीयम् – अथ मुनिस्स्यात् – इति इदं च मौनं श्रवणप्रतिष्ठार्थान्मननात् अर्थान्तरभूतमुपासनालम्बनस्य पुन: पुनस्संशीलनं तद्भावनारूपम् ।

(वाक्यार्थनिगमनम्)

तदेवं वाक्यार्थ: – ब्राह्मण: – विद्यावान् पाण्डित्यं निर्विद्य – उपास्यं ब्रह्मतत्त्वं परिशुद्धं परिपूर्णं च विदित्वा श्रवणमननाभ्यामप्राप्तं वेदनं प्रतिलभ्येत्यर्थ;; तच्च भगवद्भक्तिकृतसत्त्वविवृद्धिकृतम्; यथोक्तं  नाहं वेदै: (भ.गी.११.५३) इत्यारभ्य  भक्त्या त्वनन्यया शक्य:…ज्ञातुम् (भ.गी.११.५४) इति। श्रुतिश्च  यस्य देवे परा भक्ति: (श्वे.६.२३)  नायमात्मा प्रवचनेन (कठ.२.२३) इत्यादिका। बाल्येन तिष्ठासेत्; बाल्यस्वरूपं चानन्तरमेव वक्ष्यते; बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिस्स्यात् – बाल्यपाण्डित्ये यथावदुपादाय परिशुद्धे परिपूर्णे ब्रह्मणि मननशीलो भवेत्, निदिध्यासनरूपविद्यावाप्तये । एवमेव त्रितयोपादानेन लब्धविद्यो भवतीत्याह  अमौनं मौनं निर्विद्याथ ब्राह्मण: (बृ.५.५.१) इति । अमौनं – मौनेतरसहकारिकलाप:; तं च मौनं च यथावदुपाददानो विद्याकाष्टां तदेकनिष्पाद्यां लभेतेत्यर्थ:।  ब्राह्मण: केन स्यात् (बृ.५.५.१) इति उक्तादुपायात्किमन्योऽप्युपायोऽस्तीति पृष्टे  येन स्यात्तेनेदृश एव (बृ.५-५-१) इति येन मौनपर्यन्तेन ब्राह्मणस्स्यादित्युक्तम्, तेनैवेदृशस्स्यात्; न केनाप्यन्येनोपायेनेति परिहृतम्। अतस्सर्वेष्वाश्रमेषु स्थितस्य विदुषो यज्ञादिस्वाश्रमधर्मवत्पाण्डित्यादिकं मौनतृतीयं विद्यायास्सहकार्यन्तरं विधीयते ॥४६॥

(विद्यायाः सार्वाश्रमिकत्वात् गृहिणोपसंहारौचित्यम्)

अथ स्यात् – यदि सर्वेष्वाश्रमेषु स्थितानां विदुषां तत्तदाश्रमधर्मसहकारिणी मौनतृतीयसचिवा विद्या ब्रह्मप्राप्तिसाधनमुच्यते; कथं तर्हि छान्दोग्ये अभिसमावृत्य कुटुम्बे शुचौ देशे (छा.८.१५.१) इत्यारभ्य  खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते पुनरावर्तते (छां.८.१५.२) इति यावदायुषं गार्हास्थ्यधर्मेण स्थितिदर्शनुमपपद्यते; अत आह –

४६५. कृत्स्नभावात्तु गृहिणोपसंहार: ४७

तुशब्दश्चोद्यं व्यावर्तयति; कृत्स्नभावात् – कृत्स्नेषु भावात्, कृत्स्नेष्वाश्रमेषु विद्यायास्सद्भावात् गृहिणोऽप्यस्तीति तेनोपसंसार:; तस्मात्सर्वाश्रमधर्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्राय: ॥४७॥

(सर्वाश्रमिधर्माणां विद्याङ्गताप्रदर्शनम्)

तथैतस्मिन्नपि वाक्ये  ब्राह्मण: पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरति (बृह.५.५.१) इति पारिव्राज्यैकान्तधर्मं प्रतिपाद्य  तस्माद्ब्राह्मण: पाण्डित्यं निर्विद्य (बृ.५.५.१) इत्यादिना पारिव्राज्यधर्मस्थितिहेतुकमौनतृतीयसहकारिविधानं प्रदर्शनार्थमित्याह –

४६६. मौनवदितरेषामप्युपदेशात् ४८

सर्वेषणाविनिर्मुक्तस्य भिक्षाचरणपूर्वकमौनोपदेश: सर्वेषामाश्रमधर्माणां प्रदर्शनार्थ:; कुत:? एवं विधमौनोपदेशवदितरेषामाश्रमिणामपि  त्रयो धर्मस्कन्धा: (छां.२.२३.१) इत्यारभ्य  ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१) इति ब्रह्मप्राप्त्युपदेशात्। उपपादितश्च पूर्वमेव ब्रह्मसंस्थशब्द: सर्वाश्रमिसाधारण इति। अतस्सुष्ठूक्तं – यज्ञादिसर्वाश्रमधर्मवन्मौनतृतीय: पाण्डित्यादिर्विद्या-सहकारित्वेन विधीयते – इति॥४८॥

इति श्रीशारीरकमीमांसाभाष्ये सहकार्यन्तरविध्यधिकरणम्॥१२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.