श्रीभाष्यम् 03-04-11 स्वाम्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये स्वाम्यधिकरणम्॥११॥

(अधिकरणार्थः – कर्माङ्गाश्रयोद्गीथाद्युपासनानां ऋत्विजैवानुष्ठेयत्वम्, फलश्रुत्यादिविरोधश्च)

४६२. स्वामिन: फलश्रुतेरित्यात्रेय: ४४

(विचारणीयार्थोपस्थापनम् ससंशयम्)

कर्माङ्गाश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्तृकाणि, उत ऋत्विक्कर्तृकाणीति चिन्तायां –

(सयुक्तिकः आत्रेयाभिमतः, पूर्वः पक्षः)

यजमानकर्तृकाणीत्यात्रेयो मन्यते; कुत:? फलश्रुते: – वेदान्तविहितेषु दहराद्युपासनेषु फलोपासनयोरेकाश्रयत्वदर्शनादिह च क्रतुफलाप्रतिबन्धरूपस्योद्गीथोपासनफलस्य यजमानाश्रयत्व-  श्रवणादित्यर्थ: ।

(अङ्गाश्रयत्वादुपासनस्य यजमानकार्याभावत्वशङ्का-निरासौ)

न च गोदोहनादिवदङ्गाश्रयत्वेन यजमानकर्तृकत्वासम्भव:; गोदोहनादिषु ह्यध्वर्युकर्तृकप्रणयनाश्रयगोदोहनोपादानमन्येनाशक्यम्; इह तूद्गातृकर्तृकेऽप्युद्गीथे तस्योद्गीथादे: रसतमत्वानुसन्धानं यजमानेनैव कर्तुं शक्यते ॥४४॥

(औडुलोमिमतेन सिद्धान्तवर्णनम्)

इति प्राप्तेऽभिधीयते –

४६३. आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ४५

आर्त्विज्यम् – ऋत्विज: कर्मोद्गीथाद्युपासनमित्यौडुलोमिराचार्यो मन्यते, कुत:? तस्मै हि – प्रयोजनाय ऋत्विक्परिक्रियते, फलसाधनभूतस्य साङ्गस्य क्रतोरुपादानायेत्यर्थ:।

कर्मविधिषु  ऋत्विजो वृणीते (तै.सं. ६-३-७)  ऋत्विग्भ्यो दक्षिणां ददाति इति ऋत्विक्कर्तृकत्वशास्त्रेण फलसाधनभूतं साङ्गं कर्म ऋत्विग्भिरनुष्ठेयमित्यवगम्यते, तदन्तर्गतानि कायिकानि मानसानि च कर्माणि ऋत्विक्कर्तृकाण्येव; न च शक्त्यशक्ती तस्य निबन्धनम्।

(पुरुषार्थत्वऋत्विक्कर्तृकत्वयोरविरोधः)

यद्यप्युद्गीथाद्युपासनं पुरुषार्थ:, तथापि क्रत्वधिकृताधिकारत्वात्क्रतोश्च साङ्गस्य ऋत्विक्कर्तृकत्वात्,  यदेव विद्यया करोतितदेव वीर्यवत्तरम् (छा.१.१.१०) इति ऋत्त्विक्कर्तृकक्रियोपयोगित्वेन विद्यायास्तदेककर्तृकत्वश्रवणात्, ऋत्विक्कर्तृकाण्येतानि; दहरादिषूपासनेषु ऋत्विक्कर्तृकत्वाश्रवणात्  शास्त्रफलं प्रयोक्तरि (जै.मी.सू.३.७.१८) इति न्यायाच्च फलिकर्तृकत्वमेव ॥४५॥

इति श्रीशारीरकमीमांसाभाष्ये स्वाम्यधिकरणम्॥११॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.