श्रीभाष्यम् 04-03-05 कार्याधिकरणम्
श्री शारीरकमीमांसाभाष्ये कार्याधिकरणम्॥६॥ (अधिकरणार्थः – अर्चिरादिरातिवाहिको गणः ब्रह्मात्मकं प्रकृतिवियुक्तात्मानं च उपासीनानेव ब्रह्मपदं नयति, न तु कार्यं हिरण्यगर्भादिकमुपासीनान्) ५१४. कार्यं बादरिरस्य गत्युपपत्ते: ॥ ४–३–६ ॥ (अवान्तरसङ्गतिप्रदर्शनम्) अर्चिरादिनैव गच्छति विद्वान्; अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्युक्तम्। (प्रकृताधिकरणार्था चिन्ता) इदमिदानीं चिन्त्यते । किमयमर्चिरादिको गण: कार्यं हिरण्यगर्भमुपासीनान्नयति, उत परमेव ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्च – इति विशये – […]
श्रीभाष्यम् 04-03-04 आतिवाहिकाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम् (अधिकरणार्थः – ब्रह्मप्रेप्सोर्मध्येमार्गं श्रुतानामर्चिरादीनाम्, अतिवोढृदेवताविशेषत्वमेव न मार्गचिह्नत्वं, नापि भोगभूमित्वम्) ५१२. आतिवाहिकास्तल्लिङ्गात् ॥ ४–३–४ ॥ (अधिकरणोपयोगिनी चिन्ता) इदमिदानीं चिन्त्यते – किमर्चिरादयो मार्गचिह्नभूता:, उत भोगभूमय:, अथवा विदुषां ब्रह्म प्रेप्सतामतिवोढार: इति किं तावद्युक्तम्? मार्गचिह्नभूता इति । कुत:? उपदेशस्य तथाविधत्वात्; दृश्यते हि लोके ग्रामादीन् प्रति गन्तॄणामेवंविधो देशिकैरुपदेश: – इतो निष्क्रम्यामुकं वृक्षममुकां नदीममुकं च पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ […]
श्रीभाष्यम् 04-03-03 वरुणाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम्॥३॥ (अधिकरणार्थः – अर्चिरादिपथगतस्य वरुणस्य विदुषोऽनन्तरमेव) ५११. तटितोऽधि वरुणस्सम्बन्धात् ॥ ४–३–३ ॥ (पूर्वोक्तार्थदृढीकरणपूर्वकं निरूपणीयांशोपस्थापनम्) कौषीतकिनां, स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् (कौषी.१.३) इत्यत्राग्निलोकशब्दस्यार्चि: पर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूर्ध्वं निवेश उक्त: । आदित्यस्याप्यत्र प्राप्तपाठक्रमबाधेन देवलोकादादित्यमादित्याद्वैद्युतम् (बृ.८.२.१५) इति वाजसनेयकोक्तश्रुतिक्रमाद्देवलोक-शब्दाभिहिताद्वायोरुपरि निवेशस्सिद्ध:। इदानीं वरुणेन्द्रादिषु चिन्ता। (विचारौपयिकः संशयः) किमेते […]
श्रीभाष्यम् 04-03-02 वाय्वधिकरणम्
श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम्॥२॥ (अधिकरणस्यार्थः – अर्चिरादिपथगत वायु-देवलोक शब्दयोरेकार्थता, अतः तत्र गच्छतां आदित्यतः पूर्वं वायोरेव प्राप्तिः) ५१०. वायुमब्दादविशेषविशेषाभ्याम् ॥४–३–२॥ (विचारणीयविषयोपस्थापनम् तदर्थं विषयशोधनं च) अर्चिरादिनैव गच्छन्ति विद्वांस इत्युक्तम्; तत्रार्चिरादिके मार्गे छन्दोगा: मासादित्ययोरन्तराले संवत्सरमधीयते, मासेभ्य: संवत्सरं संवत्सरादादित्यम् (छा.४.१५.५) इति। वाजसनेयिनस्तु तयोरेवान्तराले देवलोकं मासेभ्यो देवलोकं देवलोकादादित्यम् (बृ.८.२.१५) इति। उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोपसंहार्यौ। तत्र मासादूर्ध्वमभिहितयोस्संवत्सरदेवलोकयो: पञ्चम्याऽभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान् (छां.४.१५.५) इत्यधिककालानां […]
श्रीभाष्यम् 04-03-01 अर्चिराद्यधिकरणम्
श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये – तृतीयः गतिपाद: (पातार्थः – मुमुक्षोः तदर्थं निष्पन्नोपासनस्य हार्दानुग्रहात् मूर्धन्यनाड्या उत्क्रान्तस्य परप्राप्तये गमनमार्गविचारः) अर्चिराद्यधिकरणम् ॥१॥ (अधिकरणार्थः – परं प्राप्नुवतः पुरुषस्य अर्चिरादिरेक एव मार्गः नियतश्चिन्तनीयः, नान्यः) ५०९. अर्चिरादिना तत्प्रथिते: ॥ ४–३–१ ॥ (पादसङ्गतिः पादविचार्योऽर्थश्च) विदुष उत्क्रान्तस्य नाडीविशेषेण हार्दानुग्रहाद्गत्युपक्रम उक्त: । तस्य गच्छतो मार्ग इदानीं निर्णीयते ॥ (विचारविषयस्योपस्थापनम्) तत्र श्रुतिषु मार्गप्रकारा: बहुधा आम्नायन्ते; छान्दोग्ये […]