श्रीभाष्यम् 04-03-02 वाय्वधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम्॥२॥

(अधिकरणस्यार्थः – अर्चिरादिपथगत वायु-देवलोक शब्दयोरेकार्थता, अतः तत्र गच्छतां आदित्यतः पूर्वं वायोरेव प्राप्तिः)

५१०. वायुमब्दादविशेषविशेषाभ्याम् ॥४२॥

(विचारणीयविषयोपस्थापनम् तदर्थं विषयशोधनं च)

अर्चिरादिनैव गच्छन्ति विद्वांस इत्युक्तम्; तत्रार्चिरादिके मार्गे छन्दोगा: मासादित्ययोरन्तराले संवत्सरमधीयते,  मासेभ्य: संवत्सरं संवत्सरादादित्यम् (छा.४.१५.५) इति। वाजसनेयिनस्तु तयोरेवान्तराले देवलोकं  मासेभ्यो देवलोकं देवलोकादादित्यम् (बृ.८.२.१५) इति। उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोपसंहार्यौ। तत्र मासादूर्ध्वमभिहितयोस्संवत्सरदेवलोकयो: पञ्चम्याऽभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि  अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान् (छां.४.१५.५) इत्यधिककालानां न्यूनकालेभ्य उत्तरोत्तरत्वेन निवेशदर्शनात्संवत्सरस्यैव मासादनन्तरं बुद्धौ विपरिवृत्ते: संवत्सर एव मासादूर्ध्वं निवेशयितव्य इति तत ऊर्ध्वं देवलोक इति निश्चीयते । अन्यत्र वाजसनेयिन:  यदा वै पुरुषोऽस्माल्लोकात्प्रैति वायुमागच्छति तस्मै तत्र विजिहीते यथा रथचक्रस्य खं तेन ऊर्ध्वमाक्रमते आदित्यमागच्छति (बृ.७.१०.१) इत्यादित्यात्पूर्वं वायुमधीयते। कौषीतकिनस्तु  एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति वायुलोकम् (कौ.१.३) इत्यग्निलोकशब्दनिर्दिष्टादर्चिष: परं वायुमधीयते । तत्र कौषीतकिनां पाठक्रमेणार्चिष: परत्वेन प्राप्तस्य वायोर्वाजसनेयिनां  तेन ऊर्ध्वमाक्रमते आदित्यमागच्छति (बृ.७.१०.१) इत्यूर्ध्वशब्दनिर्दिष्टश्रौतक्रमेण पाठक्रमाद्बलीयसा आदित्यात्पूर्वं प्रवेशो निश्चीयते । अत आदित्यात्पूर्वं संवत्सरादूर्ध्वं देवलोको वायुश्च प्राप्तौ।

(निर्णयौपयिकः संशयः)

तत्रेदं चिन्त्यते – किं देवलोको वायुश्चार्थान्तरभूतौ यथेष्टक्रमेण विद्वानभिगच्छेत्, उतानर्थान्तरत्वेन संवत्सरादूर्ध्वं देवलोकं सन्तं वायुमभिगच्छेत्  इति ।

(युक्त्या पूर्वः पक्षः)

किं युक्तम्? भिन्नार्थत्वम्, प्रसिद्धे:। भिन्नार्थत्वे चोर्ध्वशब्देन पञ्चम्या चोभयोस्संवत्सरादित्यान्तराले श्रुतिक्रमेण प्राप्तत्वात्, विशेषाभावाच्च यथेष्टम् –

(सिद्धान्तः)

इति प्राप्ते उच्यते – वायुमब्दात् – इति । वायुं संवत्सरादूर्ध्वमभिगच्छेत्। कुत:?  अविशेषविशेषाभ्यां वायोरेव निर्दिष्टत्वात् । देवलोकशब्दो हि अविशेषेण – सामान्येन देवानां लोक इत्यनेन रूपेण वायुमभिधत्ते ।  वायुमागच्छति तस्मै तत्र (बृ.७.१०.१) इति वायुशब्दो विशेषेण वायुमभिधत्ते । अतो देवलोकवायुशब्दाभ्याम् अविशेषविशेषाभ्यां वायुरेवाभिधीयत इति संवत्सरादूर्ध्वं वायुमेवाभिगच्छेत् । कौषीतकिनां वायुलोकशब्दश्चाग्निलोकशब्दवत् वायुश्चासौ लोकश्चेति व्युत्पत्त्या वायुमेवाभिधत्ते । वायुश्च देवानामावासभूत इत्यन्यत्र श्रूयते  योऽयं पवत एष देवानां गृहा: इति ॥२॥

इति श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम्॥ २॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.