श्रीभाष्यम् 04-03-03 वरुणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम्॥३॥

(अधिकरणार्थः – अर्चिरादिपथगतस्य वरुणस्य विदुषोऽनन्तरमेव)

५११. तटितोऽधि वरुणस्सम्बन्धात्

(पूर्वोक्तार्थदृढीकरणपूर्वकं निरूपणीयांशोपस्थापनम्)

कौषीतकिनां,  एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति वायुलोकं वरुणलोकं आदित्यलोकं इन्द्रलोकं प्रजापतिलोकं ब्रह्मलोकम् (कौषी.१.३) इत्यत्राग्निलोकशब्दस्यार्चि: पर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूर्ध्वं निवेश उक्त: । आदित्यस्याप्यत्र प्राप्तपाठक्रमबाधेन  देवलोकादादित्यमादित्याद्वैद्युतम् (बृ.८.२.१५) इति वाजसनेयकोक्तश्रुतिक्रमाद्देवलोक-शब्दाभिहिताद्वायोरुपरि निवेशस्सिद्ध:। इदानीं वरुणेन्द्रादिषु चिन्ता।

(विचारौपयिकः संशयः)

किमेते वरुणादयो यथापाठं वायोरूर्ध्वं निवेशयितव्या:, आहोस्विद्वैद्युतोऽधीति विशये,

(युक्त्या पूर्वः पक्षः)

अर्चि: प्रभृतिषु सर्वेषु   अर्चिषोऽह: (छा.४.१५.५) इत्यादिश्रुतिक्रमोपरोधाद्विद्युत: परस्ताच्च  तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयति (छा.४.१५.५) इति विद्युत्पुरुषस्य ब्रह्मगमियतृत्व-श्रवणाच्च सर्वत्रावकाशाभावेनाप्राप्तौ च उपदेशावैयर्थ्यायावश्यं कस्यचिद्बाध्यत्वे पाठक्रमानुरोधेन वायोरनन्तरं वरुणो निवेशयितव्य:। वाय्वादित्ययो: क्रमस्य बाधितत्वेनेन्द्रप्रजापती  अपि ह्यत्रैव निवेशयितव्यौ –

(सूत्रार्थतः सिद्धान्तः)

इति प्राप्त उच्यते – तटितोऽधि वरुण: इति । वरुणस्तावद्विद्युत उपरिष्टान्निवेशयितव्य:। कुत:? सम्बन्धात् – मेघोदरवर्तित्वाद्विद्युतो वरुणेन सम्बन्धो लोकवेदयो: प्रसिद्ध:। एतदुक्तं भवति – वरुणादीनामुपदेशावैयर्थ्याय क्वचिन्निवेशयितव्यत्वे सति पाठक्रमादर्थक्रमस्य बलीयस्त्वाद्विद्युतोऽधि वरुणो निवेशयितव्य:; ततश्चामानवस्य गमयितृत्वं व्यवधानसहमित्यवगम्यते। तस्य च व्यवघानसहत्वादिन्द्रादेश्चोपदिष्टस्यावश्यनिवेशयितव्यस्य वरुणादुपर्युपदिष्टत्वादागन्तूनामन्ते निवेशयितव्यत्वाच्च वरुणादुपरीन्द्रादि: निवेशयितव्य इति ॥३॥

इति श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम्॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.