श्रीभाष्यम् 04-03-01 अर्चिराद्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये तृतीयः गतिपाद:

(पातार्थः – मुमुक्षोः तदर्थं निष्पन्नोपासनस्य हार्दानुग्रहात् मूर्धन्यनाड्या उत्क्रान्तस्य परप्राप्तये गमनमार्गविचारः)

अर्चिराद्यधिकरणम् ॥१॥

(अधिकरणार्थः – परं प्राप्नुवतः पुरुषस्य अर्चिरादिरेक एव मार्गः नियतश्चिन्तनीयः, नान्यः)

५०९. अर्चिरादिना तत्प्रथिते:

(पादसङ्गतिः पादविचार्योऽर्थश्च)

विदुष उत्क्रान्तस्य नाडीविशेषेण हार्दानुग्रहाद्गत्युपक्रम उक्त: । तस्य गच्छतो मार्ग इदानीं निर्णीयते ॥

(विचारविषयस्योपस्थापनम्)

तत्र श्रुतिषु मार्गप्रकारा: बहुधा आम्नायन्ते; छान्दोग्ये तावत्  यथा पुष्करपलाश आपो श्लिष्यन्ते एवमेवंविदि पापं कर्म श्लिष्यते (छा.४.१४.३) इत्युपक्रम्य ब्रह्मविद्यामुपदिश्याम्नायते  अथ यदुचैवास्मिन् शव्यं कुर्वन्ति यदु   अर्चिषमेवाभिसम्भवन्ति  अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् मासेभ्य: संवत्सरं संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानव: एनान् ब्रह्म गमयत्येष देवपथो ब्रह्म पथ: एतेन प्रतिप्रद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा.४.१५.५,६) इति । तथाऽत्रैवाष्टमे  अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते (छा.८.६.५) इति । कौषीतकिनश्च देवयानमार्गमन्यथाऽधीयते  एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति वायुलोकं वरुणलोकं आदित्यलोकं इन्द्रलोकं प्रजापतिलोकं ब्रह्मलोकम् (कोषी.१.३) इति । तथा बृहदारण्यके – एवमेतद्विदुर्येचेमेऽरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति  अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं वैद्युतात्पुरुषोऽमानवस्स एत्य ब्रह्मलोकान् गमयति (बृह.६.८.२५) इति । तत्रैव पुनरन्यथा यदा वै पुरुषोऽस्माल्लोकांत्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् तेन ऊर्ध्वमाक्रमते आदित्यमागच्छति तस्मै तत्र विजिहीते यथा आडम्बरस्य खम् तेन ऊर्ध्वमाक्रमते चन्द्रमसमागच्छति तस्मै तत्र विजिहीते यथा दुन्दुभे: खम् (बृ.७.१०.१) इत्यादि  ॥

(विचारोपयोगी संशयः)

तत्र संशय: – किमर्चिरादिरेक एव मार्ग: आभिश्श्रुतिभि: प्रतिपाद्यत इति, तेनैव ब्रह्म गच्छति विद्वान् उत तस्मादन्येऽन्यत्र मार्गा इति, तैर्वाऽनेन वेत्यनियम: – इति।

(यौक्तिकः पूर्वपक्षः)

किं युक्तम्?  अनियम इति। कुत:? अनेकरूपत्वान्नैरपेक्ष्याच्चैति॥

(सूत्रतः सिद्धान्तार्थः)

एवं प्राप्तेऽभिधीयते – अर्चिरादिना – इति।  अर्चिरादिरेक एव मार्गस्सर्वत्र प्रतिपाद्यते। अतोऽर्चिरादिनैव गच्छति । कुत:? तत्प्रथिते: – तस्यैव सर्वत्र प्रथिते:। प्रथिति: – प्रसिद्धि:, तस्यैव सर्वत्र प्रत्यभिज्ञानादित्यर्थ: । प्रत्यभिज्ञानात्स एव मार्गस्सर्वत्र न्यूनाधिकभावेन प्रतिपाद्यत इति विद्यागुणोपसंहारवदन्यत्रोक्तानामन्यत्रोपसंहार: क्रियते ।

(उक्तस्य प्रत्यभिज्ञानस्य प्रदर्शनम्)

छान्दोग्ये तावदुपकोसलविद्यायां पञ्चाग्निविद्यायां चैकरूप एवाम्नायते; वाजसनेयके च पञ्चाग्निविद्यायां तथैवार्चिरादि: अल्पान्तर आम्नायते; अतस्तत्रापि स एवेति प्रतीयते । अन्यत्रापि सर्वत्राग्न्यादित्यादय: प्रत्यभिज्ञायन्ते ॥१॥

इति श्रीशारीरकमीमांसाभाष्ये अर्चिराद्यधिकरणम्॥१॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.