श्रीभाष्यम् 04-03-04 आतिवाहिकाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम्

(अधिकरणार्थः – ब्रह्मप्रेप्सोर्मध्येमार्गं श्रुतानामर्चिरादीनाम्, अतिवोढृदेवताविशेषत्वमेव न मार्गचिह्नत्वं, नापि भोगभूमित्वम्)

५१२. आतिवाहिकास्तल्लिङ्गात्

(अधिकरणोपयोगिनी चिन्ता)

इदमिदानीं चिन्त्यते – किमर्चिरादयो मार्गचिह्नभूता:, उत भोगभूमय:, अथवा विदुषां ब्रह्म प्रेप्सतामतिवोढार: इति किं तावद्युक्तम्? मार्गचिह्नभूता इति । कुत:? उपदेशस्य तथाविधत्वात्; दृश्यते हि लोके ग्रामादीन् प्रति गन्तॄणामेवंविधो देशिकैरुपदेश: – इतो निष्क्रम्यामुकं वृक्षममुकां नदीममुकं च पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ इति ।  अथवा भोगभूमय एतास्स्यु:, कालविशेषतया प्रसिद्धानामहरादीनां मार्गचिह्नत्वानुपपत्तेरन्यस्य च मार्गचिह्नभूतस्यैतेषामनभिधायकत्वात् । भोगभूमित्वं च  एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतवस्सवंत्सरा: (तै.ना.८०) इत्यहरादीनां लोकत्ववचनादुपपद्यते । अत एव च कौषीतकिन:   अग्निलोकमागच्छति (कौषी.१.३) इत्यादिना लोकशब्दानुविधानेनार्चिरादीन् पठन्तीति ॥

(सिद्धान्तार्थः सूत्रार्थतः)

एवं प्राप्ते ब्रूम:  आतिवाहिका: – इति। विदुषामतिवाहे परमपुरुषेण नियुक्ता: आतिवाहिका: देवताविशेषा एतेऽर्चिरादय:। कुत:? तल्लिङ्गात्-  अतिवहनलिङ्गात् ।  अतिवहनं हि गन्तॄणां गमयितृत्वम् । गमयितृत्वं च  तत्पुरुषोऽमानव: एनान् ब्रह्म गमयति (छा.४.१५.५,६) इत्युपसंहारे श्रूयमाणं पूर्वेषामप्यविशेषश्रुतानां स एव सम्बन्ध इति गमयति । वदन्ति चार्चिरादय: शब्दा:  अर्चिराद्यात्मभूतानभिमानिदेवताविशेषान् ।  तं पृथिव्यब्रवीत् (यजु.५.५.२) इतिवत्॥४॥

(वरुणादीनां विद्युतः परेषामपि आतिवाहिकत्वेनान्वयौचित्यम्)

यद्येवं  तत्पुरुषोऽमानवस्स एतान् ब्रह्म गमयति (छां.४.१५.५) इति वैद्युतस्यैव पुरुषस्य ब्रह्मगमयितृत्वश्रुतेर्विद्युत: परेषां वरुणादीनां कथमातिवाहिकत्वेनान्वय इत्यत्राह –

५१३. वैद्युतेनैव ततस्तच्छ्रुते:

तत: विद्युत उपरि, वैद्युतेन – अमानवेनैवातिवाहिकेन विदुषामाब्रह्मप्राप्तेर्गमनम्। कुत:? तच्छ्रुते: – एनान् ब्रह्म गमयति (छा.४.१५.५) इति तस्यैव गमयितृत्वश्रुते:। वरुणादयस्तु अनुग्राहका इति तेषामप्यातिवाहिकत्वेनान्वयो विद्यत एव॥ ५॥

इति श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम्॥५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.