111 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायामुत्तरकाण्डे एकादशोचरशततमः सर्गः वाल्मीकिना श्रीरामायणस्यवेदसमत्वोक्तिपूर्वकं तत्पठनादेः फलनिरूपणम् ॥ १ ॥ एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् ॥ १ ॥ अस्य काव्यस्य अपवर्गान्तसाधकतया कथाशेषानुवादपूर्वकं पठनश्रवणादिषु फलमुपदिश्यते – एतावदित्यादि । सोत्तरंउत्तरकाण्डसहितं । मुख्यं सर्वाख्यानेभ्यः प्रशस्तमेतदाख्यानं । एतावदेव समर्यादं एतावच्छ्लोकसर्गकाण्डसंख्याकमेव । न न्यूनं नाधिकं ॥ १ ॥   ततः प्रतिष्ठितो विष्णुः […]

110 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दशोत्तरशततमः सर्गः श्री रामेण सकलजनैः सहस्वलोकगमनाय सरयूगमनम् ॥ १ ॥ तथा तत्रागतचतुर्मुखप्रार्थनया वैष्णवतेजःप्रवेशनम् ॥ २॥ तथा स्वान्वागतानांजनानां चतुर्मुखद्वारा सांतानिकलोकप्रापणम् ॥ ३ ॥ वानरादिभिश्चसह सरय्वामवगाहनेनस्वलोकगमनम् ॥ ४ ॥ अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः ॥ १ ॥ तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥ २ ॥ […]

109 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः प्रभातेश्रीरामेण वसिष्ठेनमाहाप्रास्थानिकविधिविधापनपूर्वकं विमलसूक्ष्माम्बरधारिणा कुशपाणिना श्रीभूदेवीविभूषितपार्श्वयुगेन पुरुषवेषधारिभिर्वेदायुधाद्यभिमानिदेवैः ऋष्यादिभिश्चानुगम्यमानेन च सता नियमात्पादचारेण निजपरमपदजिगमिषयानिजगृहान्नि -र्गमनम् ॥ १ ॥ रामस्यमहाप्रस्थानसमयेसस्त्रीबालवृद्धैः सकलजनैः खगमृगनगतृणादिप्राणिगणै -रपि परमपदजिगमिषयाहर्षात्तदनुसरणम् ॥ २ ॥ प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः । रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ १ ॥ अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः । वाजपेयातपत्रं च शोभमानं महापथे ॥ २ ॥ वाजपेयातपत्रं […]

108 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टोत्तरशततमः सर्गः दूतमुखापरलोकगमनोद्यमादिरामवृत्तान्तमवगतवताशत्रुघ्नेन पुत्रद्वयस्वराज्यद्वयेऽ -भिषेचनपूर्वकमयोध्यामेत्यरामंप्रति सप्रणामंस्वस्यानुगमनाभ्यनुज्ञानप्रार्थने रामेणतदनुज्ञानम् ॥ १ ॥ सुग्रीवेणाङ्गदस्य राज्येऽभिषेचनपूर्वकमृक्षवानरादिभिः सहाभिवादन पूर्वक रामंप्रतिसानुचरस्यस्वस्यतदनुगमनाङ्गीकरणप्रार्थनेतेनतदङ्गीकरणम् ॥ २ ॥ रामेण हनुमद्विभीषणौप्रति धरण्यामाचन्द्रार्कावस्थानचोदनपूर्वकं मैन्दद्विविदजाम्बवतां मे दिन्यांचिरावस्थानचोदना ।। ३ ।। ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं च नाध्वनि ॥ १ ॥ ते तुं त्रिभिरहोरात्रैः संप्राप्य मधुरामथ । शत्रुघ्नाय यथातत्वमाचख्युः सर्वमेव तत् […]

107 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तोत्तरशततमः सर्गः परिषदोमध्येऽद्यभरतं राज्येभिषिच्याहंवनंगच्छामीतिश्रीरामवचनम् ॥ १ ॥ तच्छ्रवणेन भरतेन राज्यगर्हणपूर्वकं कोशलेषुकुशं उत्तरकोसलेषुलवमभिषिच्यतामितिकथनम् ॥ २ ॥ ततोवसिष्ठवचनात्तथाकुशलवयोरभिषेकः ॥ ३ ॥ ततः शत्रुघ्नंप्रति श्रीरामेणदूतप्रेषणम् ॥ ४ ॥ विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांवेदमब्रवीत् ॥ १ ॥ अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ २ ॥ भरतमयोध्याधिपतिमभिषेक्ष्यामीति […]

106 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षडुत्तरशततमः सर्गः सौमित्रिणा रामंप्रति स्वहननेनस्वप्रतिज्ञापालनकरणनिवेदने तेनतंप्रति त्यागस्यवध -प्रतिनिधित्वकथनेन तत्त्यागः ॥ १ ॥ सौमित्रिणा स्वगृहाप्रवेशेनैव सरयूनद्यामवगाहनेन स्वर्गगमनम् ॥ २ ॥ अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥ १ ॥ आप्लुतं राहुग्रस्तं । हृष्ट इति । सुमन्त्रवाक्यतः पूर्वमेव रामेण स्वपरित्यागस्यावगतत्वाद -विषाद इत्यर्थः ॥ १ ॥ न संतापं महाबाहो मदर्थं […]

105 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चोत्तरशततमः सर्गः रामरुसंवादसमये रामदर्शनार्थं दुर्वाससः समागमे शापदानभीत्यारामेतदागमन निवेदनम् ॥ १ ॥ रुद्रविसर्जनपूर्वकं स्वदर्शनार्थमागतं रामंप्रति दुर्वाससा बुभुक्षापरिहारायअन्नयाचने तेनतस्मै तत्कालसिद्धान्नदानम् ॥ २ ॥ प्रतिगतेचदुर्वाससि रामेणरुद्रचोदनया स्वकृतप्रतिज्ञा -स्मरणेन दुःखाधिगमः ॥ ३ ॥ तथा तयोः संवदतोर्दुर्वासा भगवानृषिः । रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥ १ ॥ सोभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः । रामं दर्शय मे शीघ्रं पुरा मेऽर्थोतिवर्तते […]

104 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरुत्तरशततमः सर्गः रुद्रेण रामंप्रति तस्यजगत्सृष्ट्यादिकर्तृत्वगुणवर्णनपूर्वकं रामावतारप्रयोजनभूतरावणवध -स्य निर्वृत्तत्वोक्तिपूर्वकस्वावासप्रतिनिवर्तनप्रार्थनारूपचतुर्मुखसंदेशनिवेदने तेनतदभ्युपगमः ॥ १ ॥ शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितोस्मि महाबल ।। १ ॥ येन संदेशः कृतः स पितामह एवेत्याह – पितामहेनेति ॥ १ ॥   तवाहं पूर्वसद्भावे पुत्रः परपुरंजय । मायासंभावितो वीर कालः सर्वसमाहरः ॥ २ ॥ अहं च न तापसः […]

103 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्युत्तरशततमः सर्गः कदाचनतापसरूपिणारुद्रेण राममेत्य रहस्यवृत्तान्तकथनायस्वागमनस्यनिवेदने रामेण तच्चोदनयामन्त्रणसमये तच्छ्रोतुस्तयोर्निरीक्षमाणस्य च स्वेनहननप्रतिज्ञाकरणेन सौमित्रेर्द्वार -रक्षकत्वेनस्थापनपूर्वक तंप्रतिरहस्यकथनचोदना ॥ १ ॥ कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते । कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १ ॥ सोब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् । मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥ कालस्य कस्यचित् गमनानन्तरमिति शेषः ।। १-२ ।।   दूतोस्म्यतिबलस्याहं महर्षेरमितौजसः […]

102 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्व्युत्तरशततमः सर्गः भरतवाक्यश्रवणतुष्टेनरामेण सौमित्रिंप्रति तत्पुत्रयोरङ्गदचन्द्र केत्वोर्निवासायदेशा -न्वेषणचोदने भरतेनरामंप्रति कारुपथदेशस्थयोरङ्गदीयचन्द्रकान्ता ख्यपुरयोर्वासार्हत्वकथनम् ॥ १ ॥ रामेणाङ्गदीय चन्द्रकान्ताख्यपुरयोः क्रमेणाङ्गदचन्द्रकेत्वोरभिषेककरणपूर्वकं -प्रस्थापने तदनुगताभ्यांसौमित्रिभरताभ्यां तत्रसंवत्सरमधिवासेन पुनरयोध्यांप्रत्यागमनम् ॥ ३ ॥ तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह । वाक्यं चाद्भुतसंकाशं तदा प्रोवाच लक्ष्मणम् ॥ १ ॥ इमौ कुमारौ सौमित्रे तव धर्मविशारदौ । अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ २ ॥ इमौ राज्येऽभिषेक्ष्यामि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.