61 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकषष्टितमःसर्गः च्यवनेन रामंप्रति स्वकार्यनिवेदनोपक्रमः ॥ १ ॥ मधुनामकेनासुरवरेण तपस्तोपिता -न्महादेवाच्छूलदानपूर्वकं यावच्छूलधारणं सपुत्रस्यस्वस्यावध्यत्ववरसंपादनम् ॥ २ ॥ लवणनाम्नोनिजतनयस्यदौश्शील्यनिर्विण्णेनमधुना लवणेशूलार्पणपूर्वकं वरुणालयप्रवेशः ॥ ३ ॥ शूललाभदृप्तेनलवणेन रावणेनेवत्रैलोक्यपीडनारंभः ॥ ४ ॥ एवंच्यवनेन रामंप्रतिलवणासुरदौश्शील्यनिवेदनपूर्वकं तस्माल्लोकरक्षणप्रार्थना ॥ ५ ॥ एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ १ ॥ तथा ब्रुवति काकुत्स्थे भार्गवो […]

60 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः कदाचन भद्रासनमलंकुर्वाणेरामभद्रे सुमन्त्रेणतंप्रति च्यवनमुखमुनिगणस्य तद्दिदृक्षयाद्वारदेशावस्थाननिवेदनम् ॥ १ ॥ रामेण स्वचोदनयासुमन्त्रप्रवेशितानांमुनीनां -सत्कारपूर्वकं तान्प्रति तत्कार्यकरणप्रतिज्ञानपूर्वकं कार्यप्रश्नः ॥ २ ॥ मुनिभिस्तप्रतिज्ञामात्रा -न्निजकार्यनिष्पत्तिनिर्धारणेन हर्षाद्रामप्रशंसनम् ॥ ३ ॥ तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ १ ॥ ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ २ […]

प्रक्षिप्तसर्गः उत्तरकाण्डः

॥ अथाधिकपाठसर्गप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ वसिष्ठादिभिर्मन्त्रिश्रेष्ठैश्चसह प्रभातेसभांप्रविष्टेनरामेण लक्ष्मणंप्रति कार्यार्थिसमाह्वान -चोदना ॥ १ ॥ लक्ष्मणेन द्वारदेशवर्तिनः कार्यार्थिनः रामानुमत्याऽन्तः प्रवेशनम् ॥ २ ॥ ततः प्रभाते विमले कृत्वा पौर्वाह्णिकीं क्रियाम् । धर्मासनगतो राजा रामो राजीवलोचनः ॥ १ ॥ राजधर्मानवेक्षन्वै ब्राह्मणैर्नैगमैः सह । पुरोधसा वसिष्ठेन ऋषिणा कश्यपेन च ॥ २ ॥ मन्त्रिभिर्व्यवहारज्ञैस्तथाऽन्यैर्धर्मपारगैः । नीतिज्ञैरथ सभ्यैश्च […]

59 Sarga उत्तरकाण्डः

श्रीमद्रामायणे चाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनषष्टितमः सर्गः शुक्राशापाज्जरांप्राप्तेनययातिना शुक्रानुग्रहबलेनैवशर्मिष्ठापुत्रेपूरौनिजजरासंक्रमणपूर्वकं तदीययौवनस्वीकारेण चिरकालंभोगानुभवः ॥ १ ॥ ततस्तृप्तेनययातिना पूरुतोनिजजरास्वीकार -पूर्वकं तस्मिंस्तदीययौवनप्रत्यर्पणेन परितोपात्तस्यराज्येऽभि षेचनेनवनगमनम् ॥ २ ॥ श्रुत्वा तूशनसं क्रुद्धं तदार्तो नहुषात्मजः । जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ १ ॥ यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् । जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ २ ॥ न तावत्कृतकृत्योऽस्मि विषयेषु नरर्षभ […]

58 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टपञ्चाशःसर्गः निमिराजस्यवसिष्ठेऽक्षमया शापदानकथनप्रसङ्गाद्ययातिक्षमाप्रशंसनाय तत्कथा -कथनारंभः ॥ १ ॥ ययातिनाम्नोराज्ञः कनिष्टभार्यायांशर्मिष्ठायांविशेषानुरागेण रुष्टयाज्येष्ठया स्वपितरंशुकंप्रति सक्रोधंययातिनिग्रहप्रार्थने शुक्रेणपुत्रीप्रीयै ययातिंप्रतिवृद्धभावसंभव -शापदानम् ॥ २ ॥ एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ १ ॥ महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निवृत्तं राजशार्दूल वसिष्ठस्य निमेः सह ॥ २ ॥ पुण्यश्रवणत्वेन महदद्भुतं । आश्चर्यादण्याश्चर्यमित्यर्थः । निमेः […]

57 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तपञ्चाशःसर्गः कुंभस्थमित्रावरुणतेजोभ्यां वसिष्ठोत्पत्तिः ॥ १ ॥ सुरैर्निमिराजस्य तत्प्रार्थनयासर्वप्राणि -नेत्रेपुनिवासकल्पनपूर्वकं केवलतद्देहमथनान्मिथिलराजोत्पादनम् ॥ २ ॥ तां श्रुत्वा दिव्यसंकाशां कथामद्भुतदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ १ ॥ दिव्यसंकाशां दिव्यरूपां ॥ १ ॥   निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मतुर्देवसंमतौ ॥ २ ॥ निक्षिप्तदेहौ । पुनर्देहेनेति । कुम्भे वरुणतेजोविसर्जनमुक्तं तावता प्रकृष्टदेहसिद्धिप्रश्नो […]

56 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षट्पञ्चाशःसर्गः लक्ष्मणेनरामंप्रति विदेहयोर्निमिवसिष्ठयोः पुनर्देहयोगप्रकारमश्नः ॥ १ ॥ रामेण -तत्कथनारंभः ॥ २ ॥ वसिष्ठेनपुनर्देहयोगाय ब्रह्माणंप्रतिप्रार्थने तेनतंप्रति मित्रावरुणरेतः प्रवेशचोदना ।। ३ ।। वसिष्ठेन ब्रह्मवचनेनवरुणालयगमनम् ॥ ४ ॥ अत्रान्तरे मित्रंप्रतिगच्छन्त्या -उर्वश्या स्वभोगाभिलापिणंवरुणंप्रति स्वस्यतस्मिन्भावनिवेदनेन देहस्यमैत्रीयत्वोक्तौ वरुणेनतदवलोकनेनस्कन्नस्य स्वतेजसः कुंभेस्थापनम् ॥ ५ ॥ अनन्तरंमित्रेण स्वसमीपमागता -मुर्वशींप्रति वरुणाभिलापदोषाविष्करणेन मानुषस्यपुरूरवसोभार्याभवनशापदानम् ॥ ६ ॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा । […]

55 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः रामेणलक्ष्मणंप्रति महदपराधस्यानर्थहेतुत्वेउदाहरणतया कथान्तरोदाहरणारंभः ।। १ ।। निमिनाम्नाइक्ष्वाकुवंश्येनराज्ञा स्वयाजनायस्वप्रार्थितेनवसिष्ठेन इन्द्रेणस्वस्यपूर्ववरणोक्त्याप -श्चाद्याजनोक्तौविलंबासहनेन गौतमवरणेनयागनिर्वर्तनम् ॥ २ ॥ पश्चादागतेनवासष्टेन निद्रापरवशतयास्वानभियायिनंनिर्मिंप्रतिविदेहत्वशापदानम् ॥ ३ ॥ निमिनावसिष्ठंप्रति स्वतः शापदानस्यानौचित्योक्त्या तस्यापिविदेहत्वशापदानम् ॥ ४ ॥ एष ते नृगशापस्य विस्तरोभिहितो मया । यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥ इह राजापराधविषये ॥ १ ॥   एवमुक्तस्तु रामेण सौमित्रिः […]

54 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पञ्चाशःसर्गः नृगेणराज्ञा स्वस्यकृकलासत्वप्रापक ब्राह्मणशापप्राह्यनन्तरं स्वपुत्रस्थराज्येऽभिषेचन -पूर्वकं शिल्पिभिर्हिमवर्षातपनिवार कगर्तत्रयनिर्मापणेन तत्रप्रवेशनम् ॥ १ ॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १ ॥ रामस्येत्यादि ॥ १ ॥   अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः । महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ॥ २ ॥ श्रुत्वा तु पापसंयुक्तमात्मानं पुरुषर्षभ । किमुवाच नृगो राजा द्विजौ […]

53 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशःसर्गः सीताशोकेनदिनचतुष्टयंराज्यकार्याकरणेनदूयतारामेण लक्ष्मणंप्रति राज्यकार्याविमन -स्यानर्थहेतुत्वेदृष्टान्ततया नृगोपाख्याननिवेदनपूर्वकं कार्यार्थिनांप्रतीक्षणचोदना ॥ १ ॥ लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ १ ॥ दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः । यादृशस्त्वं महाबुद्धे मम सौम्य मनोनुगः ॥ २ ॥ यच्च मे हृदयं किंचिद्वर्तते शुभलक्षण । तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ३ ॥ चत्वारो दिवसाः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.