श्रीहयग्रीवस्तोत्रम्

श्रीमते निगमान्तमहादेशिकाय नमः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि । श्रीहयग्रीवस्तोत्रम् ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।। स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैऱऩुविहितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ।। समाहारः साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।। प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा […]

पादुकासहस्रम् फलपद्धतिः

पादुकासहस्रम् फलपद्धतिः उपाख्यातां तथात्वेन वसिष्ठाद्यैर्महर्षिभिः । उपायफलयोः काष्ठामुपासे रामपादुकाम्।। 32.1 निविशेय निरन्तरं प्रतीतः त्रिदशानां विभवं तृणाय मत्वा । सविधे तव देवि ! रङ्गभर्तुः पदलीलाकमलं समुद्वहन्त्याः।। 32.2 किमहं मणिपादुके ! त्वया मे सुलभे रङ्गनिधौ श्रिया सनाथे । करणानि पुनः कदर्थयेयं कृपणद्वारदुरासिकादिदुः खैः।। 32.3 सकृदप्यनुभूय रङ्गभर्तुः त्वदुपश्लेषमनोहरं पदाब्जम् । अपुनर्भवकौतुकं तदैव प्रशमं गच्छति पादुके ! मुनीनाम्।। 32.4 […]

पादुकासहस्रम् निर्वेदपद्धतिः

पादुकासहस्रम् निर्वेदपद्धतिः प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् । यामर्पयति दीनानां दयमानो जगद्गुरुः।। 31.1 अपि जन्मनि पादुके ! परस्मिन् अनघैः कर्मभिरीदृशो भवेयम् । य इमे विनयेन रङ्गभर्तुः समये त्वां पदयोः समर्पयन्ति।। 31.2 परिवर्तयिता पितामहादीन् त्वमिवानन्तमसौ वहत्यनेहा । अधुनाऽपि न शौरिपादुके ! त्वां अनघालम्बनमभ्युपैति चित्तम्।। 31.3 कमलाध्युषिते निधौ निरीहे सुलभे तिष्ठति रङ्गकोशमध्ये । त्वयि तत्प्रतिलम्भने स्थितायां परमन्विच्छति […]

पादुकासहस्रम् चित्रपद्धतिः

पादुकासहस्रम् चित्रपद्धतिः प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः।। 30.1 शृणु ते पादुके ! चित्रं चित्राभिर्मणिभिर्विभोः । युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम्।। 30.2 सुरासुरार्चिता धन्या तुङ्गमङ्गळपालिका । चराचराश्रिता मान्या रङ्गपुङ्गवपादुका।। 30.3 पद्मेव मङ्गळसरित्पारं सं सारसन्ततेः । दुरितक्षेपिका भूयात् पादुका रङ्गभूपतेः।। 30.4 अनन्यशरणः सीदन्ननन्तक्लेशसागरे । शरणं चरणत्राणं रङ्गनाथस्य सं श्रये।। 30.5 प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् […]

पादुकासहस्रम् सुभाषितपद्धतिः

पादुकासहस्रम् सुभाषितपद्धतिः कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि । पादुका रङ्गधुर्यस्य भरताराध्यतां गता।। 28.1 सन्तः स्वदेशपरदेशविभागशून्यं हन्त स्ववृत्तिमनघां न परित्यजन्ति । राज्ये वने च रघुपुङ्गवपादरक्षा नैजं जहौ न खलु कण्टकशोधनं तत्।। 28.2 ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तं पुण्यं शरव्यमभवत् पयसान्निधिर्वा । पृथ्वीं शशास परिमुक्तपदं पदत्रं किं वा न किं भवति केळिविधौ विभूनाम्।। 28.3 अन्येषु सत्स्वपि नरेन्द्रसुतेषु दैवाद् भ्रष्टः पदादधिकरोति […]

पादुकासहस्रम् रेखापद्धतिः

पादुकासहस्रम् रेखापद्धतिः सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् । अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम्।। 27.1 मणिमौळिनिघर्षणात् सुराणां वहसे काञ्चनपादुके ! विचित्रम् । कमलापतिपादपद्मयोगात् अपरं लक्षणमाधिराज्यसारम्।। 27.2 अभितो मणिपादुके ! स्फुरन्त्याः तव रेखाविततेस्तथाविधायाः । मुरवैरिपदारविन्दरूढैः अनुकल्पायितमाधिराज्यचिह्नैः।। 27.3 रेखया विनमतां दिवौकसां मौळिरत्नमकरीमुखोत्थया । पादुके ! वहसि नूनमद्भुतं शौरिपादपरिभोगलक्षणम्।। 27.4 त्रिदशमकुटरत्नोल्लेखरेखापदेशात् परिणमयसि पुं सां पादुके ! मूर्ध्नि लग्ना । नरकमथनसेवासं पदं साधयित्री नियतिविलिखितानां निष्कृतिं दुर्लिपीनाम्।। […]

पादुकासहस्रम् यन्त्रिकापद्धतिः

पादुकासहस्रम् यन्त्रिकापद्धतिः उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् । उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम्।। 26.1 प्रसभं प्रतिरुध्य कण्टकादीन् भवती शौरिपदाम्बुजादधस्तात् । चरणावनि ! धारयत्यमुष्मिन् उचितच्छायमुपर्यपि प्रतीकम्।। 26.2 मुरभिन्मणिपादुके ! त्वदीयां अनघामङ्गुलियन्त्रिकामवैमि । स्वयमुन्नमितां प्रदेशिनीं ते परमं दैवतमेकमित्यृचन्तीम्।। 26.3 स्वदते मणिपादुके ! त्वदीया पदशाखायुगयन्त्रिका विचित्रा । परमं पुरुषं प्रकाशयन्ती प्रणवस्येव परेयमर्घमात्रा।। 26.4 अनुयातमनोरथा मुरारेः भवती केळिरथश्रियं दधाति । चरणावनि […]

पादुकासहस्रम् सन्निवेशपद्धतिः

पादुकासहस्रम् सन्निवेशपद्धतिः अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् । प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मिताम्।। 25.1 प्रतितिष्ठति पादसं मितायां त्वयि नित्यं मणिपादुके ! मुकुन्दः । इतरे तु परिच्छदास्त एते विभवव्यञ्जनहेतवो भवन्ति।। 25.2 तव रङ्गनरेन्द्रपादरक्षे ! प्रकृतिः सन्नपि भक्तिपारतन्त्र्यात् । भवतीं वहतीव पन्नगेन्द्रः प्रथितस्वस्तिकलक्षणैः शिरोभिः।। 25.3 परस्य पुं सः पदसन्निवेशान् प्रयुञ्जते भावितपञ्चरात्राः । अघप्रतीपानपदिश्य पुण्ड्रान् अङ्गेषु रङ्गेशयपादुके ! त्वाम्।। 25.4 […]

पादुकासहस्रम् द्वन्द्वपद्धतिः

पादुकासहस्रम् द्वन्द्वपद्धतिः प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् । ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम्।। 24.1 मणिपादुकयोर्युगं मुरारेः मम नित्यं विदधातु मङ्गळानि । अधिकृत्य चराचरस्य रक्षां अनुकम्पाक्षमयोरिवावतारः।। 24.2 चरणौ मणिपादुके ! मुरारेः प्रणतान् पालयितुं प्रपद्यमानम् । विपदामिह दैवमानुषीणां प्रतिकारं युवयोर्द्वयं प्रतीमः।। 24.3 मुरभिन्मणिपादुके ! भवत्योः विहितो नूनमसौ मिथो विभागः । भजतामपरस्परप्रियाणां अविरोधाय सुरासुरेश्वराणाम्।। 24.4 अहितोन्मथनाय सं श्रितानाम् अलमालोकवशेन शब्दतो […]

पादुकासहस्रम् शेषपद्धतिः

पादुकासहस्रम् शेषपद्धतिः सृष्ट् आं भूमावनन्तेन नित्यं शेषसमाधिना । अहं सम्भावयामि त्वामात्मानमिव पादुके !।। 23.1 पद्माभोगात् पादुके ! रङ्गभर्तुः पादस्पर्शाद्भोगमन्यं प्रपित्सोः । शेषस्यैकां भूमिकामब्रवीत् त्वां आचार्याणामग्रणीर्यामुनेयः।। 23.2 शेषत्वमम्ब ! यदि सं श्रयति प्रकामं त्वद्भूमिकां समधिगम्य भुजङ्गराजः । त्वामेव भक्तिविनतैर्वहतां शिरोभिः काष्ठां गतं तदिह केशवपादरक्षे !।। 23.3 मा भूदियं मयि निषण्णपदस्य नित्यं विश्वं भरस्य वहनाद्व्यथितेति मत्वा । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.