पादुकासहस्रम् सन्निवेशपद्धतिः

पादुकासहस्रम्

सन्निवेशपद्धतिः

अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् । प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मिताम्।। 25.1
प्रतितिष्ठति पादसं मितायां त्वयि नित्यं मणिपादुके ! मुकुन्दः । इतरे तु परिच्छदास्त एते विभवव्यञ्जनहेतवो भवन्ति।। 25.2
तव रङ्गनरेन्द्रपादरक्षे ! प्रकृतिः सन्नपि भक्तिपारतन्त्र्यात् । भवतीं वहतीव पन्नगेन्द्रः प्रथितस्वस्तिकलक्षणैः शिरोभिः।। 25.3
परस्य पुं सः पदसन्निवेशान् प्रयुञ्जते भावितपञ्चरात्राः । अघप्रतीपानपदिश्य पुण्ड्रान् अङ्गेषु रङ्गेशयपादुके ! त्वाम्।। 25.4
विमृश्य रङ्गेन्द्रपतिं वरायाः श्रुतेः स्थितां मूर्धनि पादुके ! त्वाम् । बध्नन्ति वृद्धाः समये वधूनां त्वन्मुद्रितान्याभरणानि मौळौ।। 25.5
वहन्ति रङ्गेश्वरपादरक्षे ! दीर्घायुषां दर्शितभक्तिबन्धाः । आशाधिपानामवरोधनार्यः त्वन्मुद्रिकां मङ्गळहेमसूत्रैः।। 25.6
व्यूहक्रमेण प्रथितारमग्रे सन्दर्शयन्तीं मणिपादुके ! त्वाम् । पातुं त्रिलोकीं पदपद्मभाजं सौदर्शनीं शक्तिमवैमि शौरेः।। 25.7
बद्धासिका कनकपङ्कजकर्णिकायां मध्ये कृशा मुररिपोर्मणिपादुके ! त्वम् । सन्दृश्यसे सरसिजासनया गृहीतं रूपान्तरं किमपि रङ्गविहारयोग्यम्।। 25.8
मानोचितस्य मदधीनजनस्य नित्यं मा भूदतः कृपणतेति विचिन्तयन्त्या । बन्दीकृतं ध्रुवमवैमि वलग्नदेशे कार्श्यं त्वया कमललोचनपादरक्षे !।। 25.9
मध्ये कृशामुभयतः प्रतिपन्नवृद्धिं मन्ये समीक्ष्य भवतीं मणिपादरक्षे ! । नित्यं मुकुन्दपदसङ्गमविप्रयोगौ निश्चिन्वते कृतधियः सुखदुः खकाष्ठाम्।। 25.10
रङ्गेशितुश्चरणपङ्कजयोर्भजन्ती रक्षाप्रसाधनविकल्पसहामवस्थाम् । मान्याकृतिर्निविशसे मणिपादरक्षे ! मध्ये परिच्छदविभूषणवर्गयोस्त्वम्।। 25.11
अङ्गान्तरेषु निहितान्यखिलानि कामं पर्यायकल्पनसहानि विभूषणानि । नित्यं मुकुन्दपदपद्मतलानुरूपं नैपथ्यमम्ब ! भवती नयनाभिरामम्।। 25.12
ये नाम भक्तिनियतैस्तव सन्निवेशं निर्विश्य नेत्रयुगळैर्न भजन्ति तृप्तिम् । कालक्रमेण कमलेक्षणपादरक्षे ! प्रायेण ते परिणमन्ति सहस्रनेत्राः।। 25.13
पदमप्रमाणमिति वादिनां मतं मधुजित्पदे महति मास्म भूदिति । व्युदपादि तस्य चरणावनि ! त्वया निगमात्मनस्तव समप्रमाणता।। 25.14
अप्रभूतमभवज्जगत्त्रयं यस्य मातुमुदितस्य पादुके ! । अप्रमेयममितस्य तत्पदं नित्यमेव ननु सम्मितं त्वया।। 25.15
आलवालमिव भाति पादुके ! पादपस्य भवती मधुद्विषः । यत्समीपविनतस्य शूलिनः सारिणी भवति मौळिनिम्नगा।। 25.16
मोदमानमुनिबृन्दषट्पदा भाति मुक्तिमकरन्दवर्षिणी । काऽपि रङ्गनृपतेः पदाम्बुजे कर्णिका कनकपादुकामयी।। 25.17
युगपदनुविधास्यन् यौवतं तुल्यरागं यदुपतिरधिचक्रे यावतो रूपभेदान् । तदिदमतिविकल्पं बिभ्रती सन्निवेशं तव खलु पदरक्षे ! तावती मूर्तिरासीत्।। 25.18
तत्तद्वृत्तेरनुगुणतया वामनीं व्यापिनीं वा प्राप्ते रङ्गप्रथितविभवे भूमिकां सूत्रधारे । मन्ये विश्वस्थितिमयमहानाटिकां नेतुकामा नानासं स्था भवति भवती पादुके ! नर्तकीव।। 25.19
माने परं समाने प्रत्यक्षेणागमेनापि । हरिचरणस्य तवापि तु वैषम्यं रक्ष्यरक्षकत्वाभ्याम्।। 25.20

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.