पादुकासहस्रम् मरकतपद्धतिः

पादुकासहस्रम्

मरकतपद्धतिः

वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् । यया नित्यं तुळस्येव हरितत्त्वं प्रकाश्यते।। 19.1
सविलासगतेषु रङ्गभर्तुः त्वदधीनेषु बहिष्कृतो गरुत्मान् । अधिगच्छति निर्वृतिं कथञ्चित् निजरत्नैस्त्वयि पादुके ! निविष्टैः।। 19.2
समये मणिपादुके ! मुरारेः मुहुरन्तः पुरमुग्धचेटिकास्ते । हरितान् हरिदश्मनां मयूखान् तुळसीपल्लवशङ्कया क्षिपन्ति।। 19.3
हरितः सहसा हरिन्मणीनां प्रभया रङ्गनरेन्द्रपादरक्षे ! । तुळसीदलसम्पदं दधाति त्वयि भक्तैर्निहितः प्रसूनराशिः।। 19.4
प्रसादयन्ती मणिपादुके ! त्वं विक्षेपयोगेन विहारवेलाम् । हरिन्मनोज्ञा हरिकान्तिसिन्धोः सन्दृश्यसे शैवलमञ्जरीव।। 19.5
बध्नासि रङ्गेश्वरपादरक्षे ! हरिन्मणीनां प्रभया स्फुरन्त्या । चूडापदेषु श्रुतिसुन्दरीणां माङ्गळ्यदूर्वाङ्कुरमाल्यपङ्क्तिम्।। 19.6
अच्छेद्यरश्मिनियतैर्घटिता हरिद्भिः सद्वर्त्मना गतिमती मणिपादरक्षे ! । सन्दृश्यसे सवितृमण्डलमध्यभाजो रङ्गेश्वरस्य रथसम्पदिवापरा त्वम्।। 19.7
श्यामायमाननिगमान्तवनोपकण्ठाः स्थाने पदावनि ! हरिन्मणयस्त्वदीयाः । पर्यन्तशाद्वलवतीं प्रथयन्ति नित्यं नारायणस्य रुचिरां नखरश्मिगङ्गाम्।। 19.8
उद्दिश्य कामपि गतिं मणिपादरक्षे ! रङ्गेश्वरस्य चरणे विनिवेशितात्मा । प्रायो हरिन्मणिरुचा दृढभक्तिबन्धा प्रादुष्करोति भवती तुळसीवनानि।। 19.9
सेवार्थमागतवतां त्रिदशेश्वराणां चूडामणिप्रकरशालिषु मौळिषु त्वम् । सं वर्तयस्यसुरमर्दनपादरक्षे ! स्वेनाश्मगर्भमहसा शुकपङ्क्तिशोभाम्।। 19.10
दरपरिणतदूर्वा वल्लरीनिर्विशेषैः मरकतशकलानां मां सलैरं शुजालैः । पशुपतिविधृता त्वं तस्य पाणौ निषण्णं मधुरिपुपदरक्षे ! वञ्चयस्येणशाबम्।। 19.11
हरिचरणसरोजन्यासयोग्यं भवत्याः प्रगुणमभिलषन्त्यो वर्णलाभं तुळस्यः । प्रतिदिनमुपहारैः पादुके ! तावकानां मरकतशकलानामाश्रयन्ते मयूखान्।। 19.12
हरितमणिमयूखैरञ्चिताध्यात्मगन्धैः दिशसि चरणरक्षे ! जातकौतूहला त्वम् । दनुजमथनलीलादारिकाणामुदारां दमनकदळपङ्क्तिं देवि ! मौलौ श्रुतीनाम्।। 19.13
अधिगतबहुशाखैरश्मगर्भप्रसूतैः मधुरिपुपदरक्षे ! मेचकैरं शुजालैः । अनितरशरणानां नूनमारण्यकानां किमपि जनयसि त्वं कीचकारण्यदुर्गम्।। 19.14
प्रचुरनिगमशाखां पादुके ! रङ्गिणस्त्वां चरणनखमयूखैश्चारुपुष्पानुबन्धाम् । मरकतदळरम्यां मन्महे सञ्चरन्तीं कनकसरिदनूपे काञ्चिदुद्यानलक्ष्मीम्।। 19.15
नखकिरणनिकायैर्नित्यमाविर्मृणाले महितरसविशेषे मेचकैरं शुभिस्ते । परिकलयसि रम्यां पादुके ! रङ्गभर्तुः पदकमलसमीपे पद्मिनीपत्रपङ्क्तिम्।। 19.16
अनिमिषयुवतीनामार्तनादोपशान्त्यै त्वयि विनिहितपादे लीलया रङ्गनाथे । दधति चरणरक्षे ! दैत्यसौधानि नूनं मरकतरुचिभिस्ते मङ्क्षु दूर्वाङ्कुराणि।। 19.17
विपुलतममहोभिर्वीतदोषानुषङ्गं विलसदुपरिनैल्यं देवि ! विष्णोः पदं तत् । पृथुमरकतदृश्यां प्राप्य पादावनि ! त्वां प्रकटयति समन्तात् सम्प्रयोगं हरिद्भिः।। 19.18
पद्माभूम्योः प्रणयसरणिर्यत्र पर्यायहीना यत्सं सर्गादनघचरिताः पादुके ! कामचाराः । तारासक्तं तमिह तरुणं प्रीणयन्ते जरत्यो नित्यश्यामास्तव मरकतैर्नूनमाम्नायवाचः।। 19.19
स्थलकमलिनीव काचित् चरणावनि ! भासि कमलवासिन्याः । यन्मरकतदळमध्ये यः कश्चिदसौ समीक्ष्यते शौरिः।। 19.20

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.